ShrIkRiShNakarNAmRitam:श्रीकृष्णकर्णामृतम्
ShrIkRiShNakarNAmRitam:श्रीकृष्णकर्णामृतम् ॥ प्रथमाश्वासः ॥चिन्तामणिर्जयति सोमगिरिर्गुरुर्मेशिक्षागुरुश्च भगवान् शिखिपिञ्छमौलिः ।यत्पादकल्पतरुपल्लवशेखरेषुलीलास्वयंवररसं लभते जयश्रीः ॥ १.१॥ अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतंवस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतंहस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥ १.२॥ चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरंलावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् ।कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरंबालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ॥ १.३॥ बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननंप्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितंज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम् ॥ १.४॥ मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहंमदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।विषयविषामिषग्रसनगृध्नुषि चेतसि मेविपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥ १.५॥ मुकुलायमाननयनाम्बुजं विभोर्मुरलीनिनादमकरन्दनिर्भरम् ।मुकुरायमाणमृदुगण्डमण्डलं मुखपङ्कजं मनसि मे विजृम्भताम् ॥ १.६॥ कमनीयकिशोरमुग्धमूर्तेः कलवेणुक्वणितादृताननेन्दोः ।मम वाचि विजृम्भतां मुरारेर्मधुरिम्णः कणिकापि कापि कापि ॥ १.७॥ मदशिखण्डिशिखण्डविभूषणं मदनमन्थरमुग्धमुखांबुजम् ।व्रजवधूनयनाञ्जनरञ्जितं विजयतां मम वाङ्मयजीवितम् ॥ १.८॥ पल्लवारुणपाणिपङ्कजसङ्गिवेणुरवाकुलंफुल्लपाटलपाटलीपरिवादिपादसरोरुहम् ।उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननंवल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥ १.९॥ अपाङ्गरेखाभिरभङ्गुराभिरनङ्गलीलारसरञ्जिताभिः ।अनुक्षणं वल्लवसुन्दरीभिरभ्यर्चमानं विभुमाश्रयामः ॥ १.१०॥ हृदये मम हृद्यविभ्रमाणां हृदयं हर्षविशाललोलनेत्रम् ।तरुणं व्रजबालसुन्दरीणां तरलं किञ्चन धाम सन्निधत्ताम् ॥ १.११॥ निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यांकमलविपिनवीथीगर्वसर्वङ्कषाभ्याम् ।प्रणमदभयदानप्रौढगाढोद्धताभ्यांकिमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥ १.१२॥ प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यांप्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यांप्रभवतु हृदये नः प्राणनाथः किशोरः ॥ १.१३॥ माधुर्यवारिधिमदान्धतरङ्गभङ्गीशृङ्गारसंकलितशीतकिशोरवेषम् ।आमन्दहासललिताननचन्द्रबिम्बमानन्दसम्प्लवमनुप्लवतां मनो मे ॥ १.१४॥ अव्याजमञ्जुलमुखाम्बुजमुग्धभावैरास्वाद्यमाननिजवेणुविनोदनादम् ।आक्रीडतामरुणपादसरोरुहाभ्यामार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥ १.१५॥ ShrIkRiShNakarNAmRitam मणिनूपुरवाचालं वन्दे तच्चरणं विभोः ।ललितानि यदीयानि लक्ष्माणि व्रजवीथिषु ॥ १.१६॥ मम चेतसि स्फुरतु वल्लवीविभोर्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् ।कमलावनेचरकलिन्दकन्यकाकलहंसकण्ठकलकूजितादृतम् ॥ १. १७॥ तरुणारुणकरुणामयविपुलायतनयनंकमलाकुचकलशीभरपुलकीकृतहृदयम् ।मुरलीरवतरलीकृतमुनिमानसनलिनंमम खेलति मदचेतसि मधुराधरममृतम् ॥ १.१८॥ आमुग्धमर्धनयनाम्बुजचुम्ब्यमान-हर्षाकुलव्रजवधूमधुराननेन्दोः ।आरब्धवेणुरवमादिकिशोरमूर्ते-राविर्भवन्ति मम चेतसि केऽपि भावाः ॥ १.१९॥ कलक्वणितकङ्कणं करनिरुद्धपीताम्बरंक्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः ।पुनः प्रसृतिचापलं प्रणयिनीभुजायन्त्रितंमम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥ १.२०॥ स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितंप्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथो जल्पितंमिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥ १.२१॥ विचित्रपत्राङ्कुरशालिबालास्तनान्तरं मौनिमनोऽन्तरं वा ।अपास्य वृन्दावनपादपास्यमुपास्यमन्यन्न विलोकयामः ॥ १.२२॥ सार्धं समृद्धैरमृतायमानैराध्यायमानैर्मुरलीनिनादैः ।मूर्धाभिषिक्तं मधुराकृतीनां बालं कदा नाम विलोकयिष्ये ॥ १.२३॥ शिशिरीकुरुते कदा नु नः शिखिपिञ्छाभरणश्शिशुर्दृशोः ।युगलं विगलन्मधुद्रवस्मितमुद्रामृदुना मुखेन्दुना ॥ १.२४॥ कारुण्यकर्बुरकटाक्षनिरीक्षणेन तारुण्यसंवलितशैशववैभवेन ।आपुष्णता भुवनमद्भुतविभ्रमेण श्रीकृष्णचन्द्र शिशिरीकुरु लोचनं मे ॥ १.२५॥ कदा वा कालिन्दीकुवलयदलश्यामलतराःकटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराःकिमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥ १.२६॥ अधीरमालोकितमार्द्रजल्पितं गतं च गंभीरविलासमन्थरम् ।अमन्दमालिङ्गितमाकुलोन्मदस्मितं च ते नाथ वदन्ति गोपिकाः ॥ १.२७॥ अस्तोकस्मितभरमायतायताक्षं निःशेषस्तनमृदितं व्रजाङ्गनाभिः ।निस्सीमस्तबकितनीलकान्तिधारं दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ १.२८॥ मयि प्रसादं मधुरैः कटाक्षैर्वंशीनिनादानुचरैर्विधेहि ।त्वयि प्रसन्ने किमिहापरैर्नस्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ १.२९॥ ShrIkRiShNakarNAmRitam निबद्धमुग्धाञ्जलिरेष याचे नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् ।दयाम्बुधे देव भवत्कटाक्षदाक्षिण्यलेशेन सकृन्निषिञ्च ॥ १.३०॥ पिञ्छावतंसरचनोचितकेशपाशे पीनस्तनीनयनपङ्कजपूजनीये ।चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे चापल्यमेति नयनं तव शैशवे नः ॥ १.३१॥ त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि यच्चापलं च मम वागविवादगम्यम् ।तत् किं करोमि विरणन्मुरलीविलासमुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम् ॥ १.३२॥ पर्याचितामृतरसानि पदार्थभङ्गीफल्गूनि वल्गितविशालविलोचननानि ।बाल्याधिकानि मदवल्लवभावितानि भावे लुठन्ति सुदृशां तव जल्पितानि ॥ १.३३॥ पुनः प्रसन्नेन मुखेन्दुतेजसा पुरोऽवतीर्णस्य कृपामहाम्बुधेः ।तदेव लीलामुरलीरवामृतं समाधिविघ्नाय कदा नु मे भवेत् ॥ १.३४॥ भावेन मुग्धचपलेन विलोकनेन मन्मानसे किमपि चापलमुद्वहन्तम् ।लोलेन लोचनरसायनमीक्षणेन लीलाकिशोरमुपगूहितुमुत्सुकोऽस्मि ॥ १.३५॥ अधीरबिम्बाधरविभ्रमेण हर्षार्द्रवेणुस्वरसम्पदा च ।अनेन केनापि मनोहरेण हा हन्त हा हन्त मनो धुनोति ॥ १.३६॥ यावन्न मे निखिलमर्मदृढाभिघातनिस्सन्धिबन्धनमुदेत्यसवोपतापः ।तावद्विभो भवतु तावकवक्त्रचन्द्रचन्द्रातपद्विगुणिता मम चित्तधारा ॥ १.३७॥ यावन्न मे नरदशा दशमी दृशोऽपि रन्ध्रादुदेति तिमिरीकृतसर्वभावा ।लावण्यकेलिभवनं तव तावदेतु लक्ष्म्याः समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥ १.३८॥ आलोललोचनविलोकितकेलिधारानीराजिताग्रसरणेः करुणाम्बुराशेः ।आर्द्राणि वेणुनिनदैः प्रतिनादपूरैराकर्णयामि मणिनूपुरशिञ्जितानि ॥ १.३९॥ हे देव हे दयित हे जगदेकबन्धो के कृष्ण हे चपल हे करुणैकसिन्धो ।हे नाथ हे रमण हे नयनाभिराम हा हा कदा नु भवितासि पदं दृशोर्मे ॥ १.४०॥ अमून्यधन्यानि दिनान्तराणि हरे त्वदालोकनमन्तरेण ।अनाथबन्धो करुणैकसिन्धो हा हन्त हा हन्त कथं नयामि ॥ १.४१॥ किमिव शृणुमः कस्य ब्रूमः कथं कृतमाशयाकथयत कथां धन्यामन्यामहो हृदयेशयः ।मधुरमधुरस्मेराकारे मनोनयनोत्सवेकृपणकृपणा कृष्णे तृष्णा चिरं बत लम्बते ॥ १.४२॥ आभ्यां विलोचनाभ्यामम्बुजदलललितलोचनं बालम् ।द्वाभ्यामपि परिरब्धुं दूरे मम हन्त दैवसमाग्री ॥ १.४३॥ अश्रान्तस्मितमरुणारुणाधरोष्ठं हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।विभ्राम्यद्विपुलविलोचनार्धमुग्धं वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥ १.४४॥ लीलायताभ्यां रसशीतलाभ्यां नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।आलोकयेदद्भुतविभ्रमाभ्यां बालः कदा कारुणिकः किशोरः ॥ १.४५॥ बहुलचिकुरभारं बद्धपिञ्छावतंसं चपलचपलनेत्रं चारुबिम्बाधरोष्ठम् ।मधुरमृदुलहासं मन्थरोदारलीलं मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ १.४६॥ बहुलजलदच्छायाचोरं विलासभरालसंमदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् ।कमपि कमलापाङ्कोदग्रप्रपन्नजगज्जितंमधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥ १.४७॥ परामृश्यं दूरे परिषदि मुनीनां व्रजवधू-दृशां दृश्यं शश्वत् त्रिभुवनमनोहारिवपुषम् ।अनामृश्यं वाचामनिदमुदयानामपि कदादरीदृश्ये देव दरदलितनीलोत्पलनिभम् ॥ १.४८॥ लीलाननाम्बुजमधीरमुदीक्षमाणंनर्माणि वेणुविवरेषु निवेशयन्तम् ।डोलायमाननयनं नयनाभिरामंदेवं कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९॥ लग्नं मुहुर्मनसि लम्पटसम्प्रदायि-लेखाविलेखनरसज्ञमनोज्ञवेषम् ।लज्जन्मृदुस्मितमधुस्नपिताधरांशु-राकेन्दुलालितमुखेन्दुमुकुन्दबाल्यम् ॥ १.५०॥ ShrIkRiShNakarNAmRitam अहिमकरकरनिकरमृदुमृदितलक्ष्मी-सरसतरसरसिरुहसदृशदृशि देवे ।व्रजयुवतिरतिकलहविजयिनिजलीला-मदमुदितवदनशशिमधुरिमणि लीये ॥ १.५१॥ करकमलदलदलितललिततरवंशीकलनिनदगलदमृतघनसरसि देवे ।सहजरसभरभरितदरहसितवीथी-सततवहदधरमणिमधुरिमणि लीये ॥ १.५२॥ कुसुमशरशरसमरकुपितमदगोपी-कुचकलशघुसृणरसलसदुरसि देवे ।मदलुलितमृदुहसितमुषितशशिशोभा-मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३॥ आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे-ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।आताम्रामधरामृते मदकलामम्लानवंशीरवे-ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ १.५४॥ तत्कैशोरं तच्च वक्त्रारविन्दं तत्कारुण्यं ते च लीलाकटाक्षाः ।तत्सौन्दर्यं सा च मन्दस्मितश्रीः सत्यं सत्यं दुर्लभं दैवतेषु ॥ १.५५॥ विश्वोपप्लवशमनैकबद्धदीक्षं विश्वासस्तवकितचेतसां जनानाम् ।पश्यामः प्रतिनवकान्तिकन्दलार्द्रं पश्यामः पथि पथि शैशवं मुरारेः ॥ १.५६॥ मौलिश्चन्द्रकभूषणा मरकतस्तम्भाभिरामं वपु-र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ ।वाचश्शैशवशीतलामदगजश्लाघ्या विलासस्थिति-र्मन्दं मन्दमये क एष मथुरावीथीमितो गाहते ॥ १.५७॥ पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौपाणी वेणुविनोदनप्रणयिनौ पर्यन्तशिल्पश्रियौ ।बाहू दोहदभाजनं मृगदृशां माधुर्यधारा गिरोवक्त्रं वाग्विभवातिलङ्घितमहो बालं किमेतन्महः ॥ १.५८॥ बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलंवक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम् ।शीलैरल्पधियामगम्यविभवैः शृङ्गारभङ्गीमयंचित्रं चित्रमहो विचित्रमहहो चित्रं विचित्रं महः ॥ ११.५९॥ अग्रे समग्रयति कामपि केलिलक्ष्मी-मन्यासु दिक्ष्वपि विलोचनमेव साक्षी ।हा हन्त हस्तपथदूरमहो किमेत-दासीत् किशोरमयमम्ब जगत्त्रयं मे ॥ १.६०॥ चिकुरं बहुलं विरलं भ्रमरं मृदुलं वचनं विपुलं नयनम् ।अधरं मधुरं वदनं ललितं चपलं चरितन्तु कदाऽनुभवे ॥ १.६१॥ परिपालय नः कृपालयेत्यसकृज्जल्पितमात्मबान्धवः ।मुरलीमृदुलस्वनान्तरे विभुराकर्णयिता कदा नु नः ॥ १.६२॥ कदा नु कस्यां नु विपद्दशायां कैशोरगन्धिः करुणाम्बुधिर्नः ।विलोचनाभ्यां विपुलायताभ्यां व्यालोकयिष्यन् विषयीकरोति ॥ १.६३॥ मधुरमधरबिम्बे मञ्जुलं मन्दहासे शिशिरममृतवाक्ये शीतलं दृष्टिपाते ।विपुलमरुणनेत्रे विश्रुतं वेणुनादे मरकतमणिनीलं बालमालोकये नु ॥ १.६४॥ माधुर्यादपि मधुरं मन्मथतातस्य किमपि कैशोरम् ।चापल्यादपि चपलं चेतो मम हरति हन्त किं कुर्मः ॥ १.६५॥ वक्षःस्थले च विपुलं नयनोत्पले च मन्दस्मिते च मृदुलं मदजल्पिते च ।बिम्बाधरे च मधुरं मुरलीरवे च बालं विलासनिधिमाकलये कदा नु ॥ १.६६॥ ShrIkRiShNakarNAmRitam आर्द्रावलोकितदयापरिणद्धनेत्रमाविष्कृतस्मितसुधामधुराधरोष्ठम् ।आद्यं पुमांसमवतंसितबर्हिबर्हमालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥ १.६७॥ मारः स्वयं नु मधुरद्युतिमण्डलं नु माधुर्यमेव नु मनोनयनामृतं नु ।वाणीमृजा नु मम जीवितवल्लभो नु बालोऽयमभ्युदयते मम लोचनाय ॥ १.६८॥ बालोऽयमालोलविलोचनेन वक्त्रेण चित्रीकृतदिङ्मुखेन ।वेषेण घोषोचितभूषणेन मुग्धेन दुग्धे नयनोत्सुकं नः ॥ १.६९॥ आन्दोलिताग्रभुजमाकुलनेत्रलीलमार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।शिञ्जानभूषणशतं शिखिपिञ्छमौलिं शीतं विलोचनरसायनमभ्युपैति ॥ १.७०॥ पशुपालपालपरिषद्विभूषणं शिशुरेष शीतलविलोललोचनः ।मृदुलस्मितार्द्रवदनेन्दुसम्पदा मदयन्मदीयहृदयं विगाहते ॥ १.७१॥ var De’s version has additional verse. Numbers are not changed wi De’s.किमिदमधरवीथीकॢप्तवंशीनिनादं किरति नयनयोर्नः कामपि प्रेमधाराम् ।तदिदममरवीथीदुर्लभं वल्लभं नः त्रिभुवनकमनीयं दैवतं जीवितंच ॥ १.७२॥ var तदिदमुपनतं तमालनीलं तरलविलोचनतारकाभिरामम् ।मुदितमुदितवक्त्रचन्द्रबिम्बं मुखरितवेणुविलासजीवितं मे ॥ १.७२॥ चापल्यसीम चपलानुभवैकसीम चातुर्यसीम चतुराननशिल्पसीम ।सौरभ्यसीम सकलाद्भुतकेलिसीम सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥ १.७३॥ माधुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्तीवंशीवीथीविगलदमृतस्रोतसा सेचयन्ती ।मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजांमत्पुण्यानां परिणतिरहो नेत्रयोस्सन्निधत्ते ॥ १.७४॥ तेजसेऽस्तु नमो धेनुपालिने लोकपालिने ।राधापयोधरोत्सङ्गशायिने शेषशायिने ॥ १.७५॥ धेनुपालदयितास्तनस्थलीधन्यकुङ्कुमसनाथकान्तये ।वेणुगीतगतिमूलवेधसे तेजसे तदिदमों नमो नमः ॥ १.७६॥ मृदुक्वणन्नूपुरमन्थरेण बालेन पादाम्बुजपल्लवेन ।अनुक्वणन्मञ्जुलवेणुगीतमायाति मे जीवितमात्तकेलि ॥ १.७७॥ सोऽयं विलासमुरलीनिनदामृतेन सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम् ।आयाति मे नयनबन्धुरनन्यबन्धुरानन्दकन्दलितकेलिकटाक्षलक्ष्यः ॥ १.७८॥ दूराद्विलोकयति वारणखेलगामी धाराकटाक्षभरितेन विलोचनेन ।आरादुपैति हृदयङ्गमवेणुनादवेणीदुघेन दशनावरणेन देवः ॥ १.७९॥ त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यांदृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् ।अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-मयमयमनुकूजद्वेणुरायाति देवः ॥ १.८०॥ सोऽयं मुनीन्द्रजनमानसतापहारी सोऽयं मदव्रजवधूवसनापहारी ।सोऽयं तृतीयभुवनेश्वरदर्पहारी सोऽयं मदीयहृदयाम्बुरुहापहारी ॥ १.८१॥ सर्वज्ञत्वे च मौग्ध्ये च सार्वभौममिदं मम ।निर्विशन्नयनं तेजो निर्वाणपदमश्नुते ॥ १.८२॥ पुष्णानमेतत्पुनरुक्तशोभमुष्णेतरांशोरुदयान्मुखेन्दोः ।तृष्णाम्बुराशिं द्विगुणीकरोति कृष्णाह्वयं किञ्चन जीवितं मे ॥ १.८३॥ तदेतदाताम्रविलोचनश्रीसम्भाविताशेषविनम्रवर्गम् ।मुहुर्मुरारेर्मधुराधरोष्ठं मुखाम्बुजं चुम्बति मानसं मे ॥ १.८४॥ करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरूपदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ ।दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौविलोक्य सुविलोचनामृतमहो महच्छैशवम् ॥ १.८५॥ आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमा-नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया ।आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा-मानन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमाज्जृम्भते ॥ १.८६॥ समुच्छ्वसितयौवनं तरलशैशवालङ्कृतंमदच्छुरितलोचनं मदनमुग्धहासामृतम् ।प्रतिक्षणविलोकनं प्रणयपीतवंशीमुखंजगत्त्रयविमोहनं जयति मामकं जीवितम् ॥ १.८७॥ चित्रं तदेतच्चरणारविन्दं चित्रं तदेतन्नयनारविन्दम् ।चित्रं तदेतद्वदनारविन्दं चित्रं तदेतत्पुनरम्ब चित्रम् ॥ १.८८॥ अखिलभुवनैकभूषमधिभूषितजलधिदुहितृकुचकुम्भम् ।व्रजयुवतीहारवल्लीमरकतनायकमहामणिं वन्दे ॥ १.८९॥ कान्ताकचग्रहणविग्रहबद्धलक्ष्मीखण्डाङ्गरागरसरञ्जितमञ्जुलश्रीः ।गण्डस्थलीमुकुरमण्डलखेलमानघर्माङ्कुरं किमपि खेलति कृष्णतेजः ॥ १.९०॥ मधुरं मधुरं वपुरस्य विभोर्मधुरं मधुरं वदनं मधुरम् ।मधुगन्धि मृदुस्मितमेतदहो मधुरं मधुरं







KARMASU