Krishnamangalam

ShrIkRiShNakarNAmRitam:श्रीकृष्णकर्णामृतम्

ShrIkRiShNakarNAmRitam:श्रीकृष्णकर्णामृतम् ॥ प्रथमाश्वासः ॥चिन्तामणिर्जयति सोमगिरिर्गुरुर्मेशिक्षागुरुश्च भगवान् शिखिपिञ्छमौलिः ।यत्पादकल्पतरुपल्लवशेखरेषुलीलास्वयंवररसं लभते जयश्रीः ॥ १.१॥ अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतंवस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतंहस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥ १.२॥ चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरंलावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् ।कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरंबालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ॥ १.३॥ बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननंप्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितंज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम् ॥ १.४॥ मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहंमदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।विषयविषामिषग्रसनगृध्नुषि चेतसि मेविपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥ १.५॥ मुकुलायमाननयनाम्बुजं विभोर्मुरलीनिनादमकरन्दनिर्भरम् ।मुकुरायमाणमृदुगण्डमण्डलं मुखपङ्कजं मनसि मे विजृम्भताम् ॥ १.६॥ कमनीयकिशोरमुग्धमूर्तेः कलवेणुक्वणितादृताननेन्दोः ।मम वाचि विजृम्भतां मुरारेर्मधुरिम्णः कणिकापि कापि कापि ॥ १.७॥ मदशिखण्डिशिखण्डविभूषणं मदनमन्थरमुग्धमुखांबुजम् ।व्रजवधूनयनाञ्जनरञ्जितं विजयतां मम वाङ्मयजीवितम् ॥ १.८॥ पल्लवारुणपाणिपङ्कजसङ्गिवेणुरवाकुलंफुल्लपाटलपाटलीपरिवादिपादसरोरुहम् ।उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननंवल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥ १.९॥ अपाङ्गरेखाभिरभङ्गुराभिरनङ्गलीलारसरञ्जिताभिः ।अनुक्षणं वल्लवसुन्दरीभिरभ्यर्चमानं विभुमाश्रयामः ॥ १.१०॥ हृदये मम हृद्यविभ्रमाणां हृदयं हर्षविशाललोलनेत्रम् ।तरुणं व्रजबालसुन्दरीणां तरलं किञ्चन धाम सन्निधत्ताम् ॥ १.११॥ निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यांकमलविपिनवीथीगर्वसर्वङ्कषाभ्याम् ।प्रणमदभयदानप्रौढगाढोद्धताभ्यांकिमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥ १.१२॥ प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यांप्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यांप्रभवतु हृदये नः प्राणनाथः किशोरः ॥ १.१३॥ माधुर्यवारिधिमदान्धतरङ्गभङ्गीश‍ृङ्गारसंकलितशीतकिशोरवेषम् ।आमन्दहासललिताननचन्द्रबिम्बमानन्दसम्प्लवमनुप्लवतां मनो मे ॥ १.१४॥ अव्याजमञ्जुलमुखाम्बुजमुग्धभावैरास्वाद्यमाननिजवेणुविनोदनादम् ।आक्रीडतामरुणपादसरोरुहाभ्यामार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥ १.१५॥ ShrIkRiShNakarNAmRitam मणिनूपुरवाचालं वन्दे तच्चरणं विभोः ।ललितानि यदीयानि लक्ष्माणि व्रजवीथिषु ॥ १.१६॥ मम चेतसि स्फुरतु वल्लवीविभोर्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् ।कमलावनेचरकलिन्दकन्यकाकलहंसकण्ठकलकूजितादृतम् ॥ १. १७॥ तरुणारुणकरुणामयविपुलायतनयनंकमलाकुचकलशीभरपुलकीकृतहृदयम् ।मुरलीरवतरलीकृतमुनिमानसनलिनंमम खेलति मदचेतसि मधुराधरममृतम् ॥ १.१८॥ आमुग्धमर्धनयनाम्बुजचुम्ब्यमान-हर्षाकुलव्रजवधूमधुराननेन्दोः ।आरब्धवेणुरवमादिकिशोरमूर्ते-राविर्भवन्ति मम चेतसि केऽपि भावाः ॥ १.१९॥ कलक्वणितकङ्कणं करनिरुद्धपीताम्बरंक्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः ।पुनः प्रसृतिचापलं प्रणयिनीभुजायन्त्रितंमम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥ १.२०॥ स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितंप्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथो जल्पितंमिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥ १.२१॥ विचित्रपत्राङ्कुरशालिबालास्तनान्तरं मौनिमनोऽन्तरं वा ।अपास्य वृन्दावनपादपास्यमुपास्यमन्यन्न विलोकयामः ॥ १.२२॥ सार्धं समृद्धैरमृतायमानैराध्यायमानैर्मुरलीनिनादैः ।मूर्धाभिषिक्तं मधुराकृतीनां बालं कदा नाम विलोकयिष्ये ॥ १.२३॥ शिशिरीकुरुते कदा नु नः शिखिपिञ्छाभरणश्शिशुर्दृशोः ।युगलं विगलन्मधुद्रवस्मितमुद्रामृदुना मुखेन्दुना ॥ १.२४॥ कारुण्यकर्बुरकटाक्षनिरीक्षणेन तारुण्यसंवलितशैशववैभवेन ।आपुष्णता भुवनमद्भुतविभ्रमेण श्रीकृष्णचन्द्र शिशिरीकुरु लोचनं मे ॥ १.२५॥ कदा वा कालिन्दीकुवलयदलश्यामलतराःकटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराःकिमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥ १.२६॥ अधीरमालोकितमार्द्रजल्पितं गतं च गंभीरविलासमन्थरम् ।अमन्दमालिङ्गितमाकुलोन्मदस्मितं च ते नाथ वदन्ति गोपिकाः ॥ १.२७॥ अस्तोकस्मितभरमायतायताक्षं निःशेषस्तनमृदितं व्रजाङ्गनाभिः ।निस्सीमस्तबकितनीलकान्तिधारं दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ १.२८॥ मयि प्रसादं मधुरैः कटाक्षैर्वंशीनिनादानुचरैर्विधेहि ।त्वयि प्रसन्ने किमिहापरैर्नस्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ १.२९॥ ShrIkRiShNakarNAmRitam निबद्धमुग्धाञ्जलिरेष याचे नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् ।दयाम्बुधे देव भवत्कटाक्षदाक्षिण्यलेशेन सकृन्निषिञ्च ॥ १.३०॥ पिञ्छावतंसरचनोचितकेशपाशे पीनस्तनीनयनपङ्कजपूजनीये ।चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे चापल्यमेति नयनं तव शैशवे नः ॥ १.३१॥ त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि यच्चापलं च मम वागविवादगम्यम् ।तत् किं करोमि विरणन्मुरलीविलासमुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम् ॥ १.३२॥ पर्याचितामृतरसानि पदार्थभङ्गीफल्गूनि वल्गितविशालविलोचननानि ।बाल्याधिकानि मदवल्लवभावितानि भावे लुठन्ति सुदृशां तव जल्पितानि ॥ १.३३॥ पुनः प्रसन्नेन मुखेन्दुतेजसा पुरोऽवतीर्णस्य कृपामहाम्बुधेः ।तदेव लीलामुरलीरवामृतं समाधिविघ्नाय कदा नु मे भवेत् ॥ १.३४॥ भावेन मुग्धचपलेन विलोकनेन मन्मानसे किमपि चापलमुद्वहन्तम् ।लोलेन लोचनरसायनमीक्षणेन लीलाकिशोरमुपगूहितुमुत्सुकोऽस्मि ॥ १.३५॥ अधीरबिम्बाधरविभ्रमेण हर्षार्द्रवेणुस्वरसम्पदा च ।अनेन केनापि मनोहरेण हा हन्त हा हन्त मनो धुनोति ॥ १.३६॥ यावन्न मे निखिलमर्मदृढाभिघातनिस्सन्धिबन्धनमुदेत्यसवोपतापः ।तावद्विभो भवतु तावकवक्त्रचन्द्रचन्द्रातपद्विगुणिता मम चित्तधारा ॥ १.३७॥ यावन्न मे नरदशा दशमी दृशोऽपि रन्ध्रादुदेति तिमिरीकृतसर्वभावा ।लावण्यकेलिभवनं तव तावदेतु लक्ष्म्याः समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥ १.३८॥ आलोललोचनविलोकितकेलिधारानीराजिताग्रसरणेः करुणाम्बुराशेः ।आर्द्राणि वेणुनिनदैः प्रतिनादपूरैराकर्णयामि मणिनूपुरशिञ्जितानि ॥ १.३९॥ हे देव हे दयित हे जगदेकबन्धो के कृष्ण हे चपल हे करुणैकसिन्धो ।हे नाथ हे रमण हे नयनाभिराम हा हा कदा नु भवितासि पदं दृशोर्मे ॥ १.४०॥ अमून्यधन्यानि दिनान्तराणि हरे त्वदालोकनमन्तरेण ।अनाथबन्धो करुणैकसिन्धो हा हन्त हा हन्त कथं नयामि ॥ १.४१॥ किमिव श‍ृणुमः कस्य ब्रूमः कथं कृतमाशयाकथयत कथां धन्यामन्यामहो हृदयेशयः ।मधुरमधुरस्मेराकारे मनोनयनोत्सवेकृपणकृपणा कृष्णे तृष्णा चिरं बत लम्बते ॥ १.४२॥ आभ्यां विलोचनाभ्यामम्बुजदलललितलोचनं बालम् ।द्वाभ्यामपि परिरब्धुं दूरे मम हन्त दैवसमाग्री ॥ १.४३॥ अश्रान्तस्मितमरुणारुणाधरोष्ठं हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।विभ्राम्यद्विपुलविलोचनार्धमुग्धं वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥ १.४४॥ लीलायताभ्यां रसशीतलाभ्यां नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।आलोकयेदद्भुतविभ्रमाभ्यां बालः कदा कारुणिकः किशोरः ॥ १.४५॥ बहुलचिकुरभारं बद्धपिञ्छावतंसं चपलचपलनेत्रं चारुबिम्बाधरोष्ठम् ।मधुरमृदुलहासं मन्थरोदारलीलं मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ १.४६॥ बहुलजलदच्छायाचोरं विलासभरालसंमदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् ।कमपि कमलापाङ्कोदग्रप्रपन्नजगज्जितंमधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥ १.४७॥ परामृश्यं दूरे परिषदि मुनीनां व्रजवधू-दृशां दृश्यं शश्वत् त्रिभुवनमनोहारिवपुषम् ।अनामृश्यं वाचामनिदमुदयानामपि कदादरीदृश्ये देव दरदलितनीलोत्पलनिभम् ॥ १.४८॥ लीलाननाम्बुजमधीरमुदीक्षमाणंनर्माणि वेणुविवरेषु निवेशयन्तम् ।डोलायमाननयनं नयनाभिरामंदेवं कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९॥ लग्नं मुहुर्मनसि लम्पटसम्प्रदायि-लेखाविलेखनरसज्ञमनोज्ञवेषम् ।लज्जन्मृदुस्मितमधुस्नपिताधरांशु-राकेन्दुलालितमुखेन्दुमुकुन्दबाल्यम् ॥ १.५०॥ ShrIkRiShNakarNAmRitam अहिमकरकरनिकरमृदुमृदितलक्ष्मी-सरसतरसरसिरुहसदृशदृशि देवे ।व्रजयुवतिरतिकलहविजयिनिजलीला-मदमुदितवदनशशिमधुरिमणि लीये ॥ १.५१॥ करकमलदलदलितललिततरवंशीकलनिनदगलदमृतघनसरसि देवे ।सहजरसभरभरितदरहसितवीथी-सततवहदधरमणिमधुरिमणि लीये ॥ १.५२॥ कुसुमशरशरसमरकुपितमदगोपी-कुचकलशघुसृणरसलसदुरसि देवे ।मदलुलितमृदुहसितमुषितशशिशोभा-मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३॥ आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे-ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।आताम्रामधरामृते मदकलामम्लानवंशीरवे-ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ १.५४॥ तत्कैशोरं तच्च वक्त्रारविन्दं तत्कारुण्यं ते च लीलाकटाक्षाः ।तत्सौन्दर्यं सा च मन्दस्मितश्रीः सत्यं सत्यं दुर्लभं दैवतेषु ॥ १.५५॥ विश्वोपप्लवशमनैकबद्धदीक्षं विश्वासस्तवकितचेतसां जनानाम् ।पश्यामः प्रतिनवकान्तिकन्दलार्द्रं पश्यामः पथि पथि शैशवं मुरारेः ॥ १.५६॥ मौलिश्चन्द्रकभूषणा मरकतस्तम्भाभिरामं वपु-र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ ।वाचश्शैशवशीतलामदगजश्लाघ्या विलासस्थिति-र्मन्दं मन्दमये क एष मथुरावीथीमितो गाहते ॥ १.५७॥ पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौपाणी वेणुविनोदनप्रणयिनौ पर्यन्तशिल्पश्रियौ ।बाहू दोहदभाजनं मृगदृशां माधुर्यधारा गिरोवक्त्रं वाग्विभवातिलङ्घितमहो बालं किमेतन्महः ॥ १.५८॥ बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलंवक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम् ।शीलैरल्पधियामगम्यविभवैः श‍ृङ्गारभङ्गीमयंचित्रं चित्रमहो विचित्रमहहो चित्रं विचित्रं महः ॥ ११.५९॥ अग्रे समग्रयति कामपि केलिलक्ष्मी-मन्यासु दिक्ष्वपि विलोचनमेव साक्षी ।हा हन्त हस्तपथदूरमहो किमेत-दासीत् किशोरमयमम्ब जगत्त्रयं मे ॥ १.६०॥ चिकुरं बहुलं विरलं भ्रमरं मृदुलं वचनं विपुलं नयनम् ।अधरं मधुरं वदनं ललितं चपलं चरितन्तु कदाऽनुभवे ॥ १.६१॥ परिपालय नः कृपालयेत्यसकृज्जल्पितमात्मबान्धवः ।मुरलीमृदुलस्वनान्तरे विभुराकर्णयिता कदा नु नः ॥ १.६२॥ कदा नु कस्यां नु विपद्दशायां कैशोरगन्धिः करुणाम्बुधिर्नः ।विलोचनाभ्यां विपुलायताभ्यां व्यालोकयिष्यन् विषयीकरोति ॥ १.६३॥ मधुरमधरबिम्बे मञ्जुलं मन्दहासे शिशिरममृतवाक्ये शीतलं दृष्टिपाते ।विपुलमरुणनेत्रे विश्रुतं वेणुनादे मरकतमणिनीलं बालमालोकये नु ॥ १.६४॥ माधुर्यादपि मधुरं मन्मथतातस्य किमपि कैशोरम् ।चापल्यादपि चपलं चेतो मम हरति हन्त किं कुर्मः ॥ १.६५॥ वक्षःस्थले च विपुलं नयनोत्पले च मन्दस्मिते च मृदुलं मदजल्पिते च ।बिम्बाधरे च मधुरं मुरलीरवे च बालं विलासनिधिमाकलये कदा नु ॥ १.६६॥ ShrIkRiShNakarNAmRitam आर्द्रावलोकितदयापरिणद्धनेत्रमाविष्कृतस्मितसुधामधुराधरोष्ठम् ।आद्यं पुमांसमवतंसितबर्हिबर्हमालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥ १.६७॥ मारः स्वयं नु मधुरद्युतिमण्डलं नु माधुर्यमेव नु मनोनयनामृतं नु ।वाणीमृजा नु मम जीवितवल्लभो नु बालोऽयमभ्युदयते मम लोचनाय ॥ १.६८॥ बालोऽयमालोलविलोचनेन वक्त्रेण चित्रीकृतदिङ्मुखेन ।वेषेण घोषोचितभूषणेन मुग्धेन दुग्धे नयनोत्सुकं नः ॥ १.६९॥ आन्दोलिताग्रभुजमाकुलनेत्रलीलमार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।शिञ्जानभूषणशतं शिखिपिञ्छमौलिं शीतं विलोचनरसायनमभ्युपैति ॥ १.७०॥ पशुपालपालपरिषद्विभूषणं शिशुरेष शीतलविलोललोचनः ।मृदुलस्मितार्द्रवदनेन्दुसम्पदा मदयन्मदीयहृदयं विगाहते ॥ १.७१॥ var De’s version has additional verse. Numbers are not changed wi De’s.किमिदमधरवीथीकॢप्तवंशीनिनादं किरति नयनयोर्नः कामपि प्रेमधाराम् ।तदिदममरवीथीदुर्लभं वल्लभं नः त्रिभुवनकमनीयं दैवतं जीवितंच ॥ १.७२॥ var तदिदमुपनतं तमालनीलं तरलविलोचनतारकाभिरामम् ।मुदितमुदितवक्त्रचन्द्रबिम्बं मुखरितवेणुविलासजीवितं मे ॥ १.७२॥ चापल्यसीम चपलानुभवैकसीम चातुर्यसीम चतुराननशिल्पसीम ।सौरभ्यसीम सकलाद्भुतकेलिसीम सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥ १.७३॥ माधुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्तीवंशीवीथीविगलदमृतस्रोतसा सेचयन्ती ।मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजांमत्पुण्यानां परिणतिरहो नेत्रयोस्सन्निधत्ते ॥ १.७४॥ तेजसेऽस्तु नमो धेनुपालिने लोकपालिने ।राधापयोधरोत्सङ्गशायिने शेषशायिने ॥ १.७५॥ धेनुपालदयितास्तनस्थलीधन्यकुङ्कुमसनाथकान्तये ।वेणुगीतगतिमूलवेधसे तेजसे तदिदमों नमो नमः ॥ १.७६॥ मृदुक्वणन्नूपुरमन्थरेण बालेन पादाम्बुजपल्लवेन ।अनुक्वणन्मञ्जुलवेणुगीतमायाति मे जीवितमात्तकेलि ॥ १.७७॥ सोऽयं विलासमुरलीनिनदामृतेन सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम् ।आयाति मे नयनबन्धुरनन्यबन्धुरानन्दकन्दलितकेलिकटाक्षलक्ष्यः ॥ १.७८॥ दूराद्विलोकयति वारणखेलगामी धाराकटाक्षभरितेन विलोचनेन ।आरादुपैति हृदयङ्गमवेणुनादवेणीदुघेन दशनावरणेन देवः ॥ १.७९॥ त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यांदृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् ।अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-मयमयमनुकूजद्वेणुरायाति देवः ॥ १.८०॥ सोऽयं मुनीन्द्रजनमानसतापहारी सोऽयं मदव्रजवधूवसनापहारी ।सोऽयं तृतीयभुवनेश्वरदर्पहारी सोऽयं मदीयहृदयाम्बुरुहापहारी ॥ १.८१॥ सर्वज्ञत्वे च मौग्ध्ये च सार्वभौममिदं मम ।निर्विशन्नयनं तेजो निर्वाणपदमश्नुते ॥ १.८२॥ पुष्णानमेतत्पुनरुक्तशोभमुष्णेतरांशोरुदयान्मुखेन्दोः ।तृष्णाम्बुराशिं द्विगुणीकरोति कृष्णाह्वयं किञ्चन जीवितं मे ॥ १.८३॥ तदेतदाताम्रविलोचनश्रीसम्भाविताशेषविनम्रवर्गम् ।मुहुर्मुरारेर्मधुराधरोष्ठं मुखाम्बुजं चुम्बति मानसं मे ॥ १.८४॥ करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरूपदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ ।दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौविलोक्य सुविलोचनामृतमहो महच्छैशवम् ॥ १.८५॥ आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमा-नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया ।आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा-मानन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमाज्जृम्भते ॥ १.८६॥ समुच्छ्वसितयौवनं तरलशैशवालङ्कृतंमदच्छुरितलोचनं मदनमुग्धहासामृतम् ।प्रतिक्षणविलोकनं प्रणयपीतवंशीमुखंजगत्त्रयविमोहनं जयति मामकं जीवितम् ॥ १.८७॥ चित्रं तदेतच्चरणारविन्दं चित्रं तदेतन्नयनारविन्दम् ।चित्रं तदेतद्वदनारविन्दं चित्रं तदेतत्पुनरम्ब चित्रम् ॥ १.८८॥ अखिलभुवनैकभूषमधिभूषितजलधिदुहितृकुचकुम्भम् ।व्रजयुवतीहारवल्लीमरकतनायकमहामणिं वन्दे ॥ १.८९॥ कान्ताकचग्रहणविग्रहबद्धलक्ष्मीखण्डाङ्गरागरसरञ्जितमञ्जुलश्रीः ।गण्डस्थलीमुकुरमण्डलखेलमानघर्माङ्कुरं किमपि खेलति कृष्णतेजः ॥ १.९०॥ मधुरं मधुरं वपुरस्य विभोर्मधुरं मधुरं वदनं मधुरम् ।मधुगन्धि मृदुस्मितमेतदहो मधुरं मधुरं

ShrIkRiShNakarNAmRitam:श्रीकृष्णकर्णामृतम् Read More »

Krishnamangalam

ku~njavihAryaShTakam 2: कुञ्जविहार्यष्टकम् २

ku~njavihAryaShTakam 2: कुञ्जविहार्यष्टकम् २ द्वितीयं श्रीकुञ्जविहार्यष्टकंनमः कुञ्जविहारिणे ।अविरतरतिबन्धुस्मेरताबन्धुरश्रीः कबलित इव राधापाङ्गभङ्गीतरङ्गैः ।मुदितवदनचन्द्रश्चन्द्रिकापीतधारी मुदिरमधुरकान्तिर्भाति कुञ्जे विहारी ॥ १॥ ततसुषिरघनानां नादमानद्धभाजां जनयति तरुणीनां मण्डले मण्डितानाम् ।तटभुवि नटराजक्रीडया भानुपुत्र्याः विदधदतुलचारिर्भाति कुञ्जे विहारी ॥ २॥ शिखिनिगलितषड्जेकोकिले पञ्चमाढ्ये स्वयमपि नववंश्योद्दामयन् ग्राममुख्यम् ।धृतमृगमदगन्धः सुष्ठुगान्धारसंज्ञं त्रिभुवनधृतिहारिर्भाति कुञ्जे विहारी ॥ ३॥ अनुपमकरशाखोपात्तराधाङ्गुलीको लघु लघु कुसुमानां पर्यटन् वाटिकायाम् ।सरभसमनुगीतश्चित्रकण्ठीभिरुच्चैः व्रजनवयुवतीभिर्भाति कुञ्जे विहारी ॥ ४॥ अहिरिपुकृतलास्ये कीचकारब्धवाद्ये व्रजगिरितटरङ्गे भृङ्गसङ्गीतभाजि ।विरचितपरिचर्यश्चित्रतौर्यत्रिकोण- स्तिमितकरणवृत्तिर्भाति कुञ्जे विहारी ॥ ५॥ दिशि दिशि शुकशारीमण्डलैर्गूढलीलाः प्रकटमनुपठद्भिर्निर्मिताश्चर्यपूरः ।तदतिरहसि वृत्तं प्रेयसीकर्णमूले स्मितमुखमभिजल्पन् भाति कुञ्जे विहारी ॥ ६॥ तव चिकुरकदम्बं स्तम्भते प्रेक्ष्य केकी नयनकमललक्ष्मीर्वन्दते कृष्णसारः ।अलिरलमलकान्तं नौति पश्येति राधां सुमधुरमभिशंसन् भाति कुञ्जे विहारी ॥ ७॥ मदनतरलबाला चक्रवालेन विष्वग्- विविधवरकलानां शिक्षया सेव्यमानः ।स्खलितचिकुरवेशे स्कन्धदेशे प्रियायाः प्रथितपृथुलबाहुर्भाति कुञ्जे विहारी ॥ ८॥ इदमनुपमलीलाहारि कुञ्जविहारी स्मरणपदमधीते तुष्टधीरष्टकं यः ।निजगुणवृतया श्रीराधयाराधिऽऽराधितस्तं नयति निजपदाब्जं कुञ्जसद्माधिराजः ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकुञ्जविहार्यष्टकं द्वितीयं सम्पूर्णम् ॥

ku~njavihAryaShTakam 2: कुञ्जविहार्यष्टकम् २ Read More »

Pithori Amavasya

Pithori Amavasya: पिठोरी अमावस्या 2025 कब है ?

Pithori Amavasya: पिठोरी अमावस्या 2025 कब है? जानें इस विशेष व्रत की तिथि, पूजा विधि, शुभ मुहूर्त और व्रत कथा, जो माताएं संतान की लंबी उम्र और सुख-समृद्धि के लिए करती हैं। पिठोरी अमावस्या भाद्रपद मास की अमावस्या को मनाई जाती है। इस दिन माताएं अपने बच्चों की लंबी उम्र और सुख-समृद्धि के लिए पिठौरियों (छोटे आटे के पुतलों) की पूजा करती हैं। व्रत, कथा और विशेष भोजन का आयोजन होता है। Pithori Amavasya: हिन्दू पंचांग के अनुसार भाद्रपद माह में पड़ने वाली अमावस्या को पिठोरी अमावस्या कहा जाता है। प्रत्येक माह में अमावस्या तिथि पड़ती है, जिसे अलग-अलग नामों से जाना जाता है और विशेष महत्व भी होता है। पिठोरी अमावस्या पर पितृ तर्पण आदि धार्मिक कार्यों में कुश का प्रयोग किया जाता है, इसलिए इसे कुश अमावस्या भी कहा जाता है। इस अमावस्या पर पितरों का तर्पण करने से पितृ दोष से होने वाली परेशानियों से मुक्ति मिलती है और उनका आशीर्वाद प्राप्त होता है। इसके अलावा इस दिन महिलाएं मां दुर्गा की उपासना करती हैं और अपने पुत्रों की लंबी आयु की प्रार्थना करती हैं। Pithori Amavasya: पिठोरी अमावस्या 2025 कब है ? Pithori Amavasya auspicious time and date: पिठोरी अमावस्या शुभ मुहूर्त व तिथि इस दिन के अन्य शुभ मुहूर्त:Other auspicious times of this day Pithori Amavasya Kya Hai:क्या है पिठोरी अमावस्या? पिठोरी अमावस्या भाद्रपद मास की अमावस्या तिथि को मनाया जाने वाला एक विशेष व्रत है, जो मुख्य रूप से मातृत्व और संतान सुख से जुड़ा हुआ है। इस दिन महिलाएं विशेष रूप से मां दुर्गा और 64 योगिनियों की पूजा करती हैं। व्रती स्त्रियां आटे से देवी-देवताओं की मूर्तियां बनाकर विधिपूर्वक पूजन करती हैं, इसी कारण इस पर्व को ‘पिठोरी अमावस्या‘ कहा जाता है — ‘पिठो’ शब्द का अर्थ होता है आटा। Kyo Manai Jati HAi Pithori Amavasya: क्यों मनाई जाती है पिठोरी अमावस्या? पिठोरी अमावस्या का व्रत स्त्रियां अपने बच्चों की लंबी उम्र, अच्छे स्वास्थ्य और उज्ज्वल भविष्य की कामना से करती हैं। वहीं जो महिलाएं संतान प्राप्ति की इच्छुक होती हैं, वे भी इस दिन व्रत रखकर माता दुर्गा और भगवान शिव की आराधना करती हैं। मान्यता है कि इस व्रत को करने से संतान संबंधी सभी कष्ट दूर होते हैं और मातृत्व सुख प्राप्त होता है। इसके अतिरिक्त इस दिन घर में धार्मिक कार्यों के लिए पवित्र कुशा एकत्र करने की परंपरा भी है, इसलिए यह तिथि कुशोत्पाटिनी अमावस्या या कुशग्रहणी अमावस्या के नाम से भी प्रसिद्ध है। Importance of Pithori Amavasya:पिठोरी अमावस्या का महत्व पौराणिक मान्यता के अनुसार पिठोरी व्रत का माहात्म्य स्वयं माता पार्वती ने बताया था, और सर्वप्रथम इस व्रत को इंद्राणी (देवराज इंद्र की पत्नी) देवी शची ने किया था। इस व्रत के प्रभाव से उन्हें न केवल संतान सुख प्राप्त हुआ, बल्कि सुख-समृद्धि और ऐश्वर्य का भी वरदान मिला। इस व्रत के माध्यम से स्त्रियां न केवल अपनी संतान की रक्षा के लिए देवी शक्ति का आह्वान करती हैं, बल्कि अपने जीवन में आध्यात्मिक और मानसिक संतुलन भी प्राप्त करती हैं। यह दिन मातृत्व के सम्मान और संतान के कल्याण हेतु समर्पित होता है। Where is Pithori Amavasya celebrated:कहां- कहां मनायी जाती है पिठोरी अमावस्या Pithori Amavasya: पिठोरी अमावस्या देश भर में किसी न किसी रुप में मनायी जाती रही है। उत्तरी भारत में ये पर्व भाद्रपद अमावस्या या कुशाग्रहणी अमावस्या के नाम से मनाया जाता है। वहीं आंध्रप्रदेश, उड़ीसा, कर्नाटक एवं तमिलनाडु में पिठोरी अमावस्या को पोलाला अमावस्या कहा जाता है। इस दिन दक्षिण भारत में देवी पोलेरम्मा की उपासना की जाती है। देवी पोलेरम्मा को माता पार्वती का एक ही रूप माना जाता है। इसके अलावा इस दिन सप्तमातृकाओं के पूजन की भी परंपरा है। विशेष रूप से ये पूजा दक्षिण भारत में प्रचलित है। सात देवियों, ब्रह्माणी, वैष्णवी, माहेश्वरी, इन्द्राणी, कौमारी, वाराही, चामुण्डा अथवा नारसिंही को ‘मातृका’ कहा जाता है। Pooja material for Pithori Amavasya Puja:पिठोरी अमावस्या पूजा की पूजन सामग्री Whom to worship on Pithori Amavasya:पिठोरी अमावस्या पर किसकी पूजा करें? Rituals of Pithori Amavasya:पिठोरी अमावस्या की पूजाविधि स्नान व संकल्प: प्रातः काल स्नान कर स्वच्छ वस्त्र धारण करें और व्रत का संकल्प लें – संतान सुख, रक्षा व ऐश्वर्य की कामना के साथ। आटे से मूर्तियां बनाएं: पूजा से पूर्व गेंहू के आटे से मां दुर्गा, भगवान शिव और 64 योगिनियों की छोटी-छोटी मूर्तियाँ बनाएं। इन्हें चौकी पर पीले वस्त्र बिछाकर स्थापित करें। कलश स्थापना: एक पवित्र कलश में जल भरकर आम या अशोक के पत्ते रखें और नारियल स्थापित करें। पूजन आरंभ करें: सबसे पहले गणेशजी का स्मरण करें। फिर 64 योगिनियों के साथ मां दुर्गा और भगवान शिव की पूजा करें। उन्हें जल, अक्षत, फूल, रोली, हल्दी, मिठाई, धूप-दीप आदि समर्पित करें। व्रत कथा श्रवण करें: पिठोरी अमावस्या व्रत कथा अवश्य पढ़ें या सुनें। इस कथा में देवी शची और माता पार्वती द्वारा व्रत का उल्लेख होता है। आरती करें और प्रार्थना करें: अंत में दीप जलाकर आरती करें और परिवार की रक्षा, संतान की लंबी उम्र व सुखद भविष्य की प्रार्थना करें। प्रतिमाओं का विसर्जन: पूजा के बाद आटे से बनी मूर्तियों का विसर्जन किसी पवित्र स्थान या नदी में करें या उन्हें गऊ माता को अर्पित करें। पिठोरी अमावस्या पर होने वाले अनुष्ठान:Rituals performed on Pithori Amavasya पिठोरी अमावस्या पूजा के लाभ:Benefits of Pithori Amavasya Puja संतान सुख की प्राप्ति: इस व्रत से उन दंपत्तियों को विशेष लाभ मिलता है जो संतान प्राप्ति की कामना रखते हैं। संतान की रक्षा और दीर्घायु: माताएं यह व्रत अपने बच्चों की लंबी उम्र, अच्छे स्वास्थ्य और सुखद जीवन के लिए करती हैं। पारिवारिक सुख-शांति: इस दिन देवी-देवताओं की पूजा से घर में समृद्धि, शांति और सकारात्मक ऊर्जा का वास होता है। कर्ज़ और संकटों से मुक्ति: पिठोरी अमावस्या पर की गई पूजा व्यक्ति को पूर्व जन्मों के पापों और वर्तमान जीवन की बाधाओं से राहत दिला सकती है। मनोकामनाओं की पूर्ति: यह व्रत श्रद्धा और नियमपूर्वक किया जाए तो मनचाही इच्छाएं पूर्ण होती हैं। What should be done on the day of Pithori Amavasya: पिठोरी अमावस्या के दिन क्या करना चाहिए? What not to do on the day of Pithori Amavasya: पिठोरी अमावस्या के दिन क्या न करें? तो यह थी Pithori Amavasya पिठोरी अमावस्या व्रत की संपूर्ण जानकारी। हमारी कामना है कि आपका ये व्रत व पूजा-अर्चना सफल हो, और माता दुर्गा की कृपा आप पर

Pithori Amavasya: पिठोरी अमावस्या 2025 कब है ? Read More »

Masik Shivratri

Masik Shivratri 2025: अगस्त में कब है मासिक शिवरात्रि? जानें शुभ मुहूर्त और पूजा का महत्व

Masik Shivratri 2025: भक्तों के लिए मासिक शिवरात्रि भगवान शिव की कृपा पाने का एक पावन अवसर होता है. हर महीने कृष्ण पक्ष की चतुर्दशी तिथि को मासिक शिवरात्रि मनाई जाती है. यह व्रत और पूजा विशेष रूप से भगवान शिव को समर्पित होता है. सावन माह की शिवरात्रि के बाद अब भाद्रपद मास की मासिक शिवरात्रि आने वाली है, जो बेहद शुभ मानी जाती है. Masik Shivratri 2025: प्रत्येक माह की कृष्ण पक्ष चतुर्दशी तिथि को मासिक शिवरात्रि मनाई जाती है. यह दिन भगवान शिव को समर्पित होता है और भक्त इस दिन उनकी पूजा-अर्चना कर उनका आशीर्वाद प्राप्त करते हैं. Masik Shivratri अगर आप भी अगस्त 2025 में आने वाली मासिक शिवरात्रि के बारे में जानना चाहते हैं, तो यह लेख आपके लिए है. यहां हम आपको इसकी तिथि, शुभ मुहूर्त और पूजा के महत्व के बारे में विस्तार से बताएंगे. Masik Shivratri 2025 : प्रत्येक माह कृष्ण पक्ष की चतुर्दशी तिथि को मासिक शिवरात्रि मनाई जाती है। इस शुभ दिन पर देवों के देव महादेव की पूजा-अर्चना की जाती है और सुख-सौभाग्य की प्राप्ति के लिए उपवास भी रखा जाता है। Masik Shivratri मान्यता है कि ऐसा करने से भोलेनाथ अपने भक्तों को सभी मनोकामनाएं पूरी करते हैं। इस समय वैशाख माह चल रहा है। Kab Hai August Masik Shivratri: कब है अगस्त 2025 की मासिक शिवरात्रि पंचांग के अनुसार, भाद्रपद माह के कृष्ण पक्ष की चतुर्दशी तिथि 21 अगस्त 2025 को दोपहर 12 बजकर 44 मिनट पर शुरू होगी. वहीं, यह तिथि अगले दिन यानी 22 अगस्त को सुबह 11 बजकर 55 मिनट पर इसका समापन होगा. मासिक शिवरात्रि की पूजा निशाकाल (रात के समय) में की जाती है, इसलिए इस बार मासिक शिवरात्रि 21 अगस्त 2025, गुरुवार को मनाई जाएगी. मासिक शिवरात्रि की पूजा का शुभ मुहूर्त मासिक शिवरात्रि पर भगवान शिव की पूजा के लिए निशाकाल का समय सबसे शुभ माना जाता है. 21 अगस्त की रात, पूजा का शुभ मुहूर्त रात 12 बजकर 2 मिनट से 12 बजकर 46 मिनट तक रहेगा. इस दौरान भक्त भगवान शिव की विशेष पूजा और अभिषेक कर सकते हैं. मासिक शिवरात्रि की पूजा का महत्व मासिक शिवरात्रि का व्रत बहुत ही फलदायी माना जाता है. इस दिन भगवान शिव और माता पार्वती की सच्चे मन से पूजा करने से व्यक्ति की सभी मनोकामनाएं पूरी होती हैं.विवाह में आ रही बाधाएं दूर होती हैं: जिन लोगों के विवाह में रुकावटें आ रही हैं, Masik Shivratri उन्हें यह व्रत अवश्य करना चाहिए. माना जाता है कि इस व्रत के प्रभाव से योग्य जीवनसाथी की प्राप्ति होती है. मासिक शिवरात्रि का व्रत रखने से जीवन में सुख-शांति आती है और आर्थिक परेशानियां दूर होती हैं. कहा जाता है कि इस दिन व्रत रखने वाले भक्तों को भगवान शिव उनकी इच्छा के अनुसार फल देते हैं. Masik Shivratri मान्यता के अनुसार, इस व्रत को करने से व्यक्ति को अपने सभी पापों से मुक्ति मिलती है और वह मोक्ष की ओर अग्रसर होता है. सावन शिवरात्रि पर भद्रावास योग, जलाभिषेक और पूजा के लिए चार पहर का समय जान लें पूजा-विधि: इस पावन दिन सुबह जल्दी उठकर स्नान आदि से निवृत्त होने के बाद साफ-स्वच्छ वस्त्र धारण कर लें। घर के मंदिर में दीप प्रज्वलित करें। शिवलिंग का गंगा जल, दूध, आदि से अभिषेक करें। भगवान शिव के साथ ही माता पार्वती की पूजा अर्चना भी करें। भगवान गणेश की पूजा अवश्य करें। किसी भी शुभ कार्य से पहलेभगवान गणेश की पूजा-अर्चना की जाती है। भोलेनाथ का अधिक से अधिक ध्यान करें। ऊॅं नम: शिवाय मंत्र का जप करें। भगवान भोलेनाथ को भोग लगाएं। पूजा सामग्री लिस्ट : मासिक शिवरात्रि की पूजा के लिए पंचामृत के लिए दूध, दही, शहद, घी और गंगाजल,फल,फूल, मिठाई कच्चा दूध, चंदन, धूप-दीप, भांग,धतूरा, बिल्वपत्र, शिव परिवार की प्रतिमा या तस्वीर, पंचमेवा, इत्र, कपूर ,रोली,मौली, जनेऊ समेत पूजा की सभी सामग्री एकत्रित कर लें। शिवजी को प्रसन्न करने के लिए शिवलिंग पर अर्पित करें ये चीजें– जल, दूध, दही, शहद, इत्र, घी, चंदन।

Masik Shivratri 2025: अगस्त में कब है मासिक शिवरात्रि? जानें शुभ मुहूर्त और पूजा का महत्व Read More »

Krishnamangalam

Karpanyapanjikastotram:कार्पण्यपञ्जिकास्तोत्रम्

Karpanyapanjikastotram:कार्पण्यपञ्जिकास्तोत्रम् ध्यानः ।कोणेनाक्ष्णोः पृथुरुचिः मिथो हारिणा लिह्यमाना- वेकैकेन प्रचुरपुलकेनोपगुढौ भुजेन । गौरीश्यामौ वसनयुगलं श्यामगौरं वसानौ राधाकृष्णौ स्मरविलसितोद्दामतृष्णौ स्मरामि ॥ १॥ अथ श्रीकार्पण्यपञ्जिकास्तोत्रंश्रीवृन्दावनेशौ जयतः तिष्ठन् वृन्दाटवीकुञ्जे विज्ञप्तिं विदधत्यसौ ।वृन्दाटवीशयोः पादपद्मेषु कृपनो जनः ॥ १॥ नवेन्दीवरसन्दोहसौन्दर्यास्कन्दनप्रभम् ।चारुगोरोचनागर्वगौरवग्रासिगौरभाम् ॥ २॥ शातकुम्भकदम्बश्रीविडम्बिस्फुरदम्बरम् ।हरता किंशुकस्यांशून् अंशुकेन विराजिताम् ॥ ३॥ सर्वकैशोरवद्वृन्दचूडारूढहरिण्मणिम् ।गोष्ठाशेषकिशोरीणां धम्मिल्लोत्तंसमल्लिकाम् ॥ ४॥ श्रीशमुख्यात्मरूपणां रूपातिशयिविग्रहम् ।रमोज्ज्वलव्रजवधूव्रजविस्मापिसौष्ठवाम् ॥ ५॥ Karpanyapanjikastotram सौरभ्यहृतगान्धर्वं गन्धोन्मादितमाधवाम् ।राधारोधनवंशीकं महतीमोहिताच्युताम् ॥ ६॥ राधाधृतिधनस्तेनलोचनाञ्चलचापलम् ।दृगञ्चलकलाभृङ्गीदष्टकृष्णहृदम्बुजाम् ॥ ७॥ राधागूढपरीहासप्रौढिनिर्वचनीकृतम् ।व्रजेन्द्रसुतनर्मोक्तिरोमाञ्चिततनूलताम् ॥ ८॥ दिव्यसद्गुणमाणिक्यश्रेणीरोहणपर्वतम् ।उमादिरमणीव्यूहस्पृहणीयगुणोत्कराम् ॥ ९॥ त्वां च वृन्दावनाधीश त्वां च वृन्दावनेश्वरि ।काकुभिर्वन्दमानोऽयं मन्दं प्राऋथयते जनः ॥ १०॥ ॥ दशभिः कुलकम् ॥योग्यता मे न काचिद् वां कृपालाभाय यद्यपि ।महाकृपालुमौलित्वात् तथापि कुरुतं कृपाम् ॥ ११॥ अयोग्ये सापराधेऽपि दृश्यन्ते कृपयाकुलाः ।महाकृपालवो हन्त लोके लोकेशवन्दितौ ॥ १२॥ भक्तेर्वां करुणाहेतोर्लेशाभासोऽपि नास्ति मे ।महालीलेशरतया तदप्यत्र प्रसीदतम् ॥ १३॥ जने दुष्टेऽप्यभक्तेऽपि प्रसीदन्तो विलोकिताः ।महालीलामहेशाश्च हा नाथौ बहवो भुवि ॥ १४॥ Karpanyapanjikastotram अधमोऽप्युत्तमं मत्वा स्वमज्ञेऽपि मनीषिणम् ।शिष्टं दुष्टोऽप्ययं जन्तुर्मन्तुं व्यधित यद्यपि ॥ १५॥ तथाप्यस्मिन् कदाचिद् वामधीशौ नामजल्पिनि ।अवद्यवृन्दनिस्तारिनामाभासौ प्रसीदतम् ॥ १६॥ यदक्षम्यं नु युवयोः सकृद्भक्तिलवादपि ।तदागः क्वापि नास्त्येव कृताशां प्रार्थये ततः ॥ १७॥ हन्त क्लीबोऽपि जीवोऽयं नीतः कष्टेन धृष्टताम् ।मुहुः प्रार्थयते नाथौ प्रसादः कोऽप्युदञ्चतु ॥ १८॥एष पापी रुदन्न् उच्चैरादाय रदनैस्तृणम् ।हा नाथौ नाथेति प्राणी सीदत्यत्र प्रसीदतम् ॥ १९॥ हाहारावमसौ कुर्वन् दुर्भगो भिक्षते जनः ।एतां मे श‍ृणुतं काकुं काकुं श‍ृणुतमीश्वरौ ॥ २०॥ Karpanyapanjikastotram याचे फुत्कृत्य फुत्कृत्य हा हा काकुभिराकुलः ।प्रसीदतमयोग्येऽपि जनेऽस्मिन् करुणार्णवौ ॥ २१॥ क्रोशत्यार्तस्वरैरास्ये न्यस्याङ्गुष्ठमसौ जनः ।कुरुतं कुरुतं नाथौ करुणाकणिकामपि ॥ २२॥ वाचेह दीनया याचे साक्रन्दमतिमन्दधीः ।किरतं करुणस्वान्तौ करुणोर्मिच्छटामपि ॥ २३॥ मधुराः सन्ति यावन्तो भावाः सर्वत्र चेतसः ।तेभ्योऽपि प्रेममधुरं प्रसादीकुरुतं निजम् ॥ २४॥ सेवामेवाद्य वां देवावीहे किञ्चन नापरम् ।प्रसादाभिमुखौ हन्त भवन्तौ भवतां मयि ॥ २५॥ Karpanyapanjikastotram नाथितं परमेवेदमनाथजनवत्सलौ ।स्वं साक्षाद्दास्यमेवास्मिन् प्रसादीकुरुतं जने ॥ २६॥ अञ्जलिं मूर्ध्नि विन्यस्य दीनोऽयं भिक्षते जनः ।अस्य सिद्धिरभीष्टस्य सकृदप्युपपाद्यताम् ॥ २७॥ अमलो वां पारिमलः कदा परिमलन् वने ।अनर्घेण प्रमोदेन घ्राणं मे घूर्णयिष्यति ॥ २८॥ रञ्जयिस्यति कर्णौ मे हंसगुञ्जितगञ्जनम् ।मञ्जुलं किं नु युवयोर्मञ्जीरकलसिञ्जितम् ॥ २९॥ सौभाग्याङ्करथाङ्गादिलक्षितानि पदानि वाम् ।कदा वृन्दावने पश्यन्न् उन्मदिष्यत्ययं जनः ॥ ३०॥ सर्वसौन्दर्यमर्यादानीराज्यपदनीरजौ ।किमपूर्वाणि पर्वाणि हा ममाक्ष्णोर्विधास्यथ ॥ ३१॥ सुचिराशाफलाभोगपदाम्भोजविलोकनौ ।युवां साक्षाज्जनस्यास्य भवेतामिह किं भवे ॥ ३२॥ कदा वृन्दाटवीकुञ्जकन्दरे सुन्दरोदयौ ।खेलन्तौ वां विलोकिष्ये सुरतौ नातिदूरतः ॥ ३३॥ Karpanyapanjikastotram: गुर्वायत्ततया क्वापि दुर्लभान्योन्यवीक्षणौ ।मिथः सन्देशसीधुभ्यां नन्दयिस्यामि वां कदा ॥ ३४॥ गवेषयन्तावन्योऽन्यं कदा वृन्दावनान्तरे ।सङ्गमय्य युवां लप्स्ये हारिणं पारितोषिकम् ॥ ३५॥ पणीकृतमिथोहारलुञ्चनव्यग्रहस्तयोः ।कलिं द्यूते विलोकिष्ये कदा वां जितकाशिनोः ॥ ३६॥ कुञ्जे कुसुमशय्यायां कदा वामर्पिताङ्गयोः ।पादसंवाहनं हन्त जनोऽयं रचयिष्यति ॥ ३७॥ कन्दर्पकलहोद्घट्टत्रुटितानां लतागृहे ।कदा गुम्फाय हाराणां भवन्तौ मां नियोक्ष्यतः ॥ ३८॥ केलिकल्लोलविस्रस्तान् हन्त वृन्दावनेश्वरौ ।कर्हि बर्हिपतत्रैर्वां मण्डयिष्यामि कुन्तलान् ॥ ३९॥ Karpanyapanjikastotram कन्दर्पकेलिपाण्डित्यखण्डिताकल्पयोरहम् ।कदा वामलिकद्वन्द्वं करिष्ये तिलकोज्ज्वलम् ॥ ४०॥ देवारम्भे वनस्रग्भिर्दृशौ ते देवि कज्जलैः ।अयं जनः कदा कुञ्जमण्डपे मण्डयिष्यति ॥ ४१॥ जाम्बूनदाभताम्बूलीपर्णान्यवदलय्य वाम् ।वदनाम्बुजयोरेष निधास्यति जनः कदा ॥ ४२॥ क्वासौ दुष्कृतकर्माहं क्व वामभ्यर्थनेदृशी ।किं वा कं वा न युवयोरुन्मादयति माधुरी ॥ ४३॥ यया वृन्दावने जन्तुरनर्होऽप्येष वास्यते ।तयैव कृपया नाथौ सिद्धिं कुरुतमीप्सितम् ॥ ४४॥ कार्पण्यपञ्जिकामेतां सदा वृन्दाटवीनटौ ।गिरैव जल्पतोऽप्यस्य जन्तोः सिध्यतु वाञ्छितम् ॥ ४५॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकार्पण्यपञ्जिकास्तोत्रं समाप्तम् ।

Karpanyapanjikastotram:कार्पण्यपञ्जिकास्तोत्रम् Read More »

Krishnamangalam

Shri Kartika Damodara Stotram: कार्तिक दामोदर स्तोत्रम्

Shri Kartika Damodara Stotram: कार्तिक दामोदर स्तोत्रम् Kartika Damodara Stotram:। मत्स्यावतार, कूर्मावतार, वराहावतार ।मत्स्याकृतिधरजय देवेश वेदविबोधककूर्मस्वरूप ।मन्दरगिरिधरसूकररूप भूमिविधारक जय देवेश ॥ १॥ । नृसिंहावतार, वामनावतार, परशुरामावतार ।काञ्चनलोचननरहरिरूप दुष्टहिरण्यकभञ्जन जय भोः । जय जय वामन बलिविध्वंसिन् दुष्टकुलान्तकभार्गवरूप ॥ २॥ । रामावतार, कृष्णावतार ।जयविश्रवसः सुतविध्वंसिन् जय कंसारे यदुकुलतिलक ।जयवृन्दावनचर देवेश देवकीनन्दन नन्दकुमार ॥ ३॥ । कृष्णावतार ।जय गोवर्धनधर वत्सारे धेनुकभञ्जन जय कंसारे ।रुक्मिणिनायक जय गोविन्द सत्यावल्लभ पाण्डवबन्धो ॥ ४॥ खगवरवाहन जय पीठारे जय मुरभञ्जन पार्थसखे त्वम् । Kartika Damodara Stotram भौमविनाशक दुर्जनहारिन् सज्जनपालक जय देवेश ॥ ५॥ शुभगुणपूरित जय विश्वेश जय पुरुषोत्तम नित्यविबोध ।भूमिभरान्तककारणरूप जय खरभञ्जन देववरेण्य ॥ ६॥ विधिभवमुखसुरसततसुवन्दित सच्चरणाम्भुज कञ्जसुनेत्र ।सकलसुरासुरनिग्रहकारिन् पूतनिमारण जय देवेश ॥ ७॥ यद्भ्रूविभ्रममात्रात्तदिदं आकमलासनशम्भुविपाद्यम् । सृष्टिस्थितिलयमृच्चति सर्वं स्थिरचरवल्लभ स त्वं जय भो ॥ ८॥ जय यमलार्जुनभञ्जनमूर्ते गोपीकुचकुङ्कुमाङ्किताङ्ग ।पाञ्चालीपरिपालन जय भो जय गोपीजनरञ्जन जय भो ॥ ९॥ गर्भगतकृष्णस्तुतिः Garbhgatakrishnastutih जय रासोत्सवरत लक्ष्मीश सततसुखार्णव जय कञ्जाक्ष ।जय जननीकरपाशसुबद्ध हरणान्नवनीतस्य सुरेश ॥ १०॥ बालक्रीडानपर जय भो त्वं मुनिवरवन्दितपदपद्मेश ॥ कालियफणिफणमर्दन जय भो द्विजपत्यर्पितमत्सिविभोन्नम् ॥ ११॥ । बुद्धावतार, कल्क्यावतार ।क्षीराम्बुजिकृतनिलयन देव वरद महाबल जय जय कान्त ।दुर्जनमोहक बुद्धस्वरूप सज्जनबोधक कल्किस्वरूप ॥ १२॥ जय युगकृत् दुर्जन विध्वंसिन् ।जय जय जय भोः जय विश्वात्मन् ॥ १३॥ Kartika Damodara Stotram इति मन्त्रं पठन्नेव कुर्यान्नीराजनं बुधः ।घटिकाद्वयशिष्टायां स्नानं कुर्याद्यथाविधि ॥ १४॥ अन्यथा नरकं याति यावदिन्द्राश्चतुर्दश । इति श्री पञ्चरात्रगमे हंसब्रह्म संवादे श्रीकार्तिकदामोदरस्तोत्रम् ॥

Shri Kartika Damodara Stotram: कार्तिक दामोदर स्तोत्रम् Read More »

Krishnamangalam

Karana Shatka Gitam: कारणषट्कगीतम्

Karana Shatka Gitam: कारणषट्कगीतम् Karana Shatka Gitam: मम जीवनस्य जीवनंउद्भाषितं नित्यशोभनंत्वमेव देवं त्वमेव सर्वंहृदि स्थिते सदा धारणंहे कृष्ण हे माधव हे देव त्वंसर्व कारणस्य कारणम् ॥ १॥ मम हृदयस्य हृदयंसद्भाषितं नित्य सदयंत्वमेव पूर्णं त्वमेव स्वर्णंप्रेमं आनन्दं अद्भुदयंहे कृष्ण हे माधव हे देव त्वंसर्व कारणस्य कारणम् ॥ २॥ मम विचारस्य विचारंसद्भाव-हॄद्भाव-सञ्चारंत्वमेव सत्यं त्वमेव नित्यंस्मृति-ज्ञानं सर्वाधारंहे कृष्ण हे माधव हे देव त्वंसर्व कारणस्य कारणम् ॥ ३॥ मम शरीरस्य आधारंत्वमेक नित्य निराधारंत्वमेव धर्मं त्वमेव कर्मंसर्वसूत्रस्य सूत्रधारंहे कृष्ण हे माधव हे देव त्वंसर्व कारणस्य कारणम् ॥ ४॥ खण्डिता (रूपगोस्वामिविरचिता) Khandita (Rupagoswamivirchita) मम सर्व सुखदायकंनित्यसुधा वेणु गायकंत्वमेव कर्ता त्वमेव धर्ता माता पिता आत्मनायकंहे कृष्ण हे माधव हे देव त्वंसर्व कारणस्य कारणम् ॥ ५॥ मम दिव्य नन्दनन्दनंआनन्दकन्द सुचन्दनंत्वमेव स्वामी हे अन्तर्यामी सर्व हॄदयस्य स्पन्दनंहे कृष्ण हे माधव हे देव त्वंसर्व कारणस्य कारणम् ॥ ६॥ रचयिता — श्रीकृष्णदासः

Karana Shatka Gitam: कारणषट्कगीतम् Read More »

Dream Interpretation

Dream Interpretation: सपने में दिखने वाली ये चीजें देती हैं शुभ संकेत, जल्द मिल सकती है अच्छी खबर

Dream Interpretation: कई बार सपनों में हमें ऐसे संकेत मिल जाते हैं जो हमारे भविष्य के बारे में बताते हैं. जानते हैं कि किन चीजों का सपना देखना जीवन में बहुत अच्छा माना जाता है. Swapna Shastra in Hindi: स्वप्न शास्त्र के अनुसार हर सपने का कोई ना कोई अर्थ जरूर होता है. Dream Interpretation स्वप्न शास्त्र में हर सपने की विस्तार से व्याख्या की गई है. सपने हमें भविष्य में घटित होने वाले घटनाओं का संकेत देते हैं.  स्वप्नशास्त्र में कुछ चीजों का दिखना बहुत शुभ माना जाता है. यह सपने हमें अमीर बनने का संकेत देते हैं. आइए जानते हैं कि उन सपनों के बारे में जो बताते हैं कि आप जल्द ही आपको कुछ अच्छी खबर मिल सकती है. Dream Interpretation: सपने में इन चीजों का दिखना माना जाता है शुभ सपने में फल या फूल देखना शुभ संकेत होता है. यह सपना बतात है कि आपके जीवन में खुशियां और समृद्धि आने वाली है. सपने में पानी देखना भी शुभ माना जाता है. यह सपना संकेत देता है कि जल्द ही आपकी सारी ईच्छाएं पूरी होने वाली हैं. सपने में मंदिर देखना बहुत ही शुभ होता है. यह सपना बताता है कि आप जिस काम के लिए जा रहे हैं उसमें आपको भगवान का आशीर्वाद मिलेगा. सपने में सोना देखना धन प्राप्ति का संकेत है. यह सपना बताता है कि मां लक्ष्मी आप पर मेहरबान हैं. उनकी कृपा से आपको धन कमाने के नए अवसर मिलेंगे. इतना ही नहीं आपको पुराना फंसा धन भी मिलने की संभावना है. सपने में सांप देखना बहुत शुभ माना जाता है. अगर आप सपने में सांप को अपने बिल के पास जाते देखते हैं Dream Interpretation तो इसका मतलब है कि आपको जल्द कहीं से धन मिलने वाला है. सपने में जलता हुआ दीपक दिखना भी बहुत शुभ होता है. यह संकेत देता है कि आपके अच्छे दिन शुरू होने वाले हैं और आपको आर्थिक लाभ होगा. स्वप्न शास्त्र के अनुसार सपने में कानों की बाली दिखने का सपना बहुत अच्छा होता है. ये सपना संकेत देता है कि आपको अचानक कहीं से धन लाभ हो सकता है जिसके बारे में आपने सोचा भी नहीं था. स्वप्न शास्त्र के अनुसार सपने में खुद को अंगूठी पहने हुए देखना भी बहुत शुभ होता है. यह सपना बताता है कि मां लक्ष्मी की कृपा आपके ऊपर बनी हुई है और आपको कोई आर्थिक समस्या नहीं होगी. सपने में खुद को दूध पीते हुए देखने का मतलब है कि आप जल्द ही मालामाल होने वाले हैं. Dream Interpretation दूध पीने का सपना घर में आने वाली समृद्धि का संकेत देता है. गुलाब और कमल का फूल Dream Interpretation मां लक्ष्मी का प्रिय है. अगर आप सपने में इन फूलों को देखते हैं तो समझ लें कि मां लक्ष्मी की कृपा से आपके धन भंडार भरने वाले हैं. Disclaimer: यहां मुहैया सूचना सिर्फ मान्यताओं और जानकारियों पर आधारित है. यहां यह बताना जरूरी है कि KARMASU.IN किसी भी तरह की मान्यता, जानकारी की पुष्टि नहीं करता है. किसी भी जानकारी या मान्यता को अमल में लाने से पहले संबंधित विशेषज्ञ से सलाह लें.

Dream Interpretation: सपने में दिखने वाली ये चीजें देती हैं शुभ संकेत, जल्द मिल सकती है अच्छी खबर Read More »

Dream Interpretation

Krishna Janmashtami Puja Niyam: श्रीकृष्ण जन्माष्टमी की संपूर्ण पूजा विधि, सभी 16 चरणों के सरल वैदिक मंत्रों के साथ

Krishna Janmashtami Puja Vidhi Mantra In Hindi: कृष्ण जन्माष्टमी के दिन कई भक्त भगवान कृष्ण का षोडशोपचार पूजन करते हैं। ये पूजा सामान्य पूजा से थोड़ी बड़ी होती है। विशेषतौर पर वैष्णव संप्रदाय के लोग इस पूजा को करते हैं। यहां देखें जन्माष्टमी पूजा विधि एवं मंत्र। Krishna Janmashtami Puja Vidhi Mantra In Hindi: कृष्ण जन्माष्टमी का पावन त्योहार हिंदू धर्म के लोगों के लिए बेहद खास होता है। इस शुभ दिन पर लोग रात 12 बजे कृष्ण जी की विधि विधान पूजा करते हैं। इसके बाद उनकी आरती करके भोग लगाते हैं। यहां हम आपको जन्माष्टमी की षोडशोपचार पूजा के बारे में बताने जा रह हैं। जिसमें 16 चरण होते हैं और सभी चरणों में वैदिक मंत्रों होते हैं। यहां देखें कृष्ण जन्माष्टमी पूजा विधि एवं मत्र। Krishna Janmashtami: ध्यानम् भगवान श्री कृष्ण का ध्यान पहले से अपने सम्मुख प्रतिष्ठित श्रीकृष्ण की नवीन प्रतिमा में करें। ॐ तमद्भुतं बालकम् अम्बुजेक्षणम्, चतुर्भुज शंख गदायुधायुदम् ।श्री वत्स लक्ष्मम् गल शोभि कौस्तुभं, पीतम्बरम् सान्द्र पयोद सौभगं ।।महार्ह वैदूर्य किरीटकुन्डल त्विशा परिष्वक्त सहस्रकुन्डलम् ।उद्धम कांचनगदा कङ्गणादिभिर् विरोचमानं वसुदेव ऐक्षत ।।ध्यायेत् चतुर्भुजं कृष्णं, शंख चक्र गदाधरम्।पीतम्बरधरं देवं माला कौस्तुभभूषितम् ।।ॐ श्री कृष्णाय नमः। ध्यानात् ध्यानम् समर्पयामि ।। आवाहनं भगवान श्री कृष्ण का ध्यान करने के बाद नीचे लिखे मंत्र को पढ़ें और Krishna Janmashtami श्रीकृष्ण की प्रतिमा के सामने आवाहन मुद्रा दिखाकर, उनका आवाहन करें। ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।स भूमिं विश्वतो वृत्वा सुत्यतिष्ठद्दशाङ्गुलम् ।।आगच्छ देवदेवेश तेजोराशे जगत्पते ।क्रियमाणां मया पूजां गृहाण सुरसत्तमे ।।आवाहयामि देव त्वां वसुदेव कुलोद्भवम् ।प्रतिमायां सुवर्णादिनिर्मितायां यथाविधि ।।कृष्णम् च बलबनं च वसुदेवं च देवकीम् ।नन्दगोप यशोदाम् च सुभद्राम् तत्र पूजयेत् ।।आत्मा देवानां भुवनस्य गभों यथावशं चरति देवेषः ।घोषा इदस्य शण्विर न रूपं तस्मै वातायहविषा विधेम ।।श्री क्लीं कृष्णाय नमः, सपरिवार सहित, श्री बालकृष्णं आवाहयामि ।। आसनं भगवान श्री कृष्ण का आवाहन करने के बाद नीचे लिखे मंत्र को पढ़ कर उन्हें आसन के लिए पांच पुष्प अञ्जलि में लेकर अपने सामने छोड़ें। पुरुष एवेदगं सर्वम् यद्भुतं यच्छ भव्यम्।उतामृतत्वस्येशानः यदन्नेनातिरोहति ।।राजाधिराज राजेन्द्र बालकृष्ण महीपते।रत्न सिंहासनं तुभ्यं दास्यामि स्वीकुरु प्रभो।।ॐ श्री बालकृष्णाय नमः। आसनं समर्पयामि।। पाद्य (चरण धोने के लिए जल) भगवान श्री कृष्ण को आसन प्रदान करने के बाद नीचे लिखे मंत्र को पढ़ते हुए पाद्य (चरण धोने के लिए जल) समर्पित करें। एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः ।पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि।।अच्युतानन्द गोविन्द प्रणतार्ति विनाशन।पाहि मां पुन्डरीकाक्ष प्रसीद पुरुषोत्तम ।।ॐ श्री बालकृष्णाय नमः । पादोयो पाचम् समर्पयामि।। अर्घ्य पाद्य समर्पण के बाद भगवान श्री कृष्ण को अर्घ्य (सिर के अभिषेक के लिए जल) समर्पित करें। त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः ।ततो विश्वङ्ग्यक्रामत् साशनानशने अभि ।।परिपूर्ण परानन्द नमो नमो कृष्णाय वेधसे।गृहाणार्ध्वम् मया दत्तम् कृष्णा विष्णोर्जनार्दन ।।ॐ श्री बालकृष्णाय नमः। अर्घ्यम् समर्पयामि ।। आचमनीयं (भगवान को जल अर्पित करें) निम्न लिखित मंत्र पढ़ते हुए आचमन के लिए Krishna Janmashtami श्रीकृष्ण को जल समर्पित करें। तस्माद्विराडजायत विराजो अधि पूरुषः।स जातो अत्यरिच्यत पश्चाद्ध‌मिमथो पुरः ।।नमः सत्याय शुद्धाय नित्याय ज्ञान रूपिणे ।गृहाणाचमनं कृष्ण सर्व लोकैक नायक ।।ॐ श्री बालकृष्णाय नमः। आचमनीयं समर्पयामि ।। पूजा के बाद भूल से भी न करें ये काम, वरना मिल सकते हैं विपरीत परिणाम स्नानं आचमन समर्पण के बाद ये मंत्र पढ़ते हुए Krishna Janmashtami श्रीकृष्ण को जल से स्नान कराएं। यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।वसन्तो अस्यासीदाज्यम् ग्रीष्म इध्मश्शरद्धविः ।।ब्रह्माण्डोदर मध्यस्थैस्तिथैश्च रघुनन्दन ।स्नापयिश्याम्यहं भक्त्या त्वं गृहाण जनार्दना ।।ॐ श्री बालकृष्णाय नमः। मलापकर्श स्नानं समर्पयामि ।। वस्त्र स्नान कराने के बाद ये मंत्र पढ़ते हुए Krishna Janmashtami श्रीकृष्ण को मौली के रूप में वस्त्र समर्पित करें। ॐ तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।तेन देवा अयजन्त साध्या ऋषयश्च ये।।ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह।प्रादुर्भुनोऽस्मि राष्ट्रस्मिन्कीर्तिमृद्धिं ददातु मे ।।तप्त कान्चन संकाशं पीताम्बरम् इदं हरे।सगृहाण जगन्नाथ बालकृष्ण नमोस्तुते।।ॐ श्री बालकृष्णाय नमः। वस्त्रयुग्मं समर्पयामि ।। यज्ञोपवीत (जनेऊ) वस्त्र समर्पण के बाद ये मंत्र पढ़ें और श्रीकृष्ण को यज्ञोपवीत समर्पित करें। तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् ।पशुगॅस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये ।।क्षुत्पिपासामलां ज्येष्ठामलक्ष्मी नाशयाम्यहम्।अभूतिमसमृद्धिं च सर्वां निर्णदमे गृहात् ।।श्री बालकृष्ण देवेश श्रीधरानन्त राघव ।ब्रह्मसुत्रम्चोत्तरीयं गृहाण यदुनन्दन ।।ॐ श्री बालकृष्णाय नमः । यज्ञोपवीतम् समर्पयामि ।। गंध (सुगंधित द्रव्य, इत्र चंदन आदि) Krishna Janmashtami ये मंत्र पढ़ते हुए श्रीकृष्ण को सुगन्धित द्रव्य समर्पित करें। तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे।छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत ।।गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।।कुम्कुमागरु कस्तूरि कर्पूरं चन्दनं तता।तुभ्यं दास्यामि राजेन्द्र श्री कृष्णा स्वीकुरु प्रभो।।ॐ श्री बालकृष्णाय नमः । गन्धम् समर्पयामि ।। आभरणं हस्तभूषण निम्नलिखित मंत्र पढ़ते हुए Krishna Janmashtami श्रीकृष्ण के श्रृंगार के लिए आभूषण समर्पित करें। गृहाण नानाभरणानि कृष्णाय निर्मितानि ।ललाट केठोत्तम कर्ण हस्त नितम्ब हस्तांगुलि भूषणानि ।।ॐ श्री बालकृष्णाय नमः। आभरणानि समर्पयामि ।।ॐ श्री बालकृष्णाय नमः। हस्तभूषणं समर्पयामि । नाना परिमल द्रव्य निम्न लिखित मंत्र पढ़ते हुए श्रीकृष्ण को विविध प्रकार के सुगन्धित द्रव्य समर्पित करें। ॐ अहिरिव भोगैः पर्येति बाहुं जयाया हेतिं परिबाधमानः ।हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः ।।ॐ श्री बालकृष्णाय नमः। Krishna Janmashtami नाना परिमल द्रव्यं समर्पयामि ।। पुष्प निम्न लिखित मंत्र पढ़ते हुए श्रीकृष्ण को पुष्प, तुलसी माला समर्पित करें। माल्यादीनि सुगन्धीनि, माल्यतादीनि वैप्रभो।मया हितानि पूजार्थम्, पुष्पाणि प्रतिगृह्यताम् ।।ॐ श्री बालकृष्णाय नमः । पुष्पाणि समर्पयामि ।। अंग पूजा निम्न लिखित मंत्र पढ़ते हुए भगवन कृष्ण के अंग-देवताओं का पूजन करना चाहिए। इसके लिए बाएं हाथ में चावल, पुष्प और चंदन लेकर प्रत्येक मन्त्र का उच्चारण करते हुए दाहिने हाथ से श्री कृष्ण की मूर्ति के पास छोड़ें। ॐ श्री कृष्णाय नमः। पादी पूजयामि ।।ॐ राजीवलोचनाय नमः । गुल्फौ पूजयामि ।।ॐ नरकान्तकाय नमः। जानुनी पूजयामि ।।ॐ वाचस्पतये नमः। जंघै पूजयामि।।ॐ विश्वरूपाय नमः । ऊरून् पूजयामि ।।ॐ बलभद्रानुजाय नमः। गुहां पूजयामि।। ॐ विश्वमूर्तये नमः। जघनं पूजयामि।।ॐ गोपीजन प्रियाय नमः। कटिं पूजयामि ।।ॐ परमात्मने नमः। उदरं पूजयामि।।ॐ श्रीकण्टाय नमः। हृदयं पूजयामि।।ॐ यज्ञिने नमः। पार्थी पूजयामि।।ॐ त्रिविक्रमाय नमः । पृष्ठदेहं पूजयामि।।ॐ पद्मनाभाय नमः । स्कन्धौ पूजयामि।।ॐ सर्वास्त्रधारिणे नमः। बाहुन् पूजयामि।।ॐ कमलानाथाय नमः । हस्तान् पूजयामि।। ॐ वासुदेवाय नमः । कण्ठं पूजयामि ।।ॐ सनातनाय नमः । वदनं पूजयामि ।।ॐ वसुदेवात्मजाय नमः । नासिकां पूजयामि ।।ॐ पुण्याय नमः । श्रोत्रे पूजयामि ।।ॐ श्रीशाय नमः । नेत्राणि पूजयामि ।।ॐ नन्दगोपप्रियाय नमः। भ्रवौ पूजयामि ।।ॐ देवकीनन्दनाय नमः। भ्रूमध्यं पूजयामि ।।ॐ शकटासुरमर्धनाय नमः । ललाटं पूजयामि ।।ॐ श्री कृष्णाय नमः । शिरः पूजयामि ।।ॐ श्री बालकृष्णाय नमः सर्वांगाणि पूजयामि ।। धूपं निम्न लिखित मन्त्र पढ़ते हुए श्रीकृष्ण को धूप समर्पित करें। वनस्पत्युद्भवो दिव्यो गन्धाढ्यो गन्धवुत्तमः ।बालकृष्ण महिपालो धूपोयं प्रतिगृह्यताम् ।।यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।मुखं किमस्य कौ बाहू कावूरू

Krishna Janmashtami Puja Niyam: श्रीकृष्ण जन्माष्टमी की संपूर्ण पूजा विधि, सभी 16 चरणों के सरल वैदिक मंत्रों के साथ Read More »

Vedsar Shiv Stava

Vedsar Shiv Stava: श्री वेदसार शिव स्तव:

Vedsar Shiv Stava: वेदसार शिव स्तव (श्री वेदसार शिव स्तव): वेदसार शिव स्तव एक स्तोत्र (हिंदू भजन) है जो हिंदू भगवान शिव की शक्ति और सौंदर्य का वर्णन करता है। इसे पारंपरिक रूप से लंका के असुर राजा और शिव के भक्त रावण से जोड़ा जाता है। इस स्तोत्र की नौवीं और दसवीं दोनों चौपाइयों का समापन शिव की विशेषणों की सूची के साथ होता है, जैसे संहारक, यहाँ तक कि स्वयं मृत्यु का भी संहारक। वेदसार शिव स्तव भगवान शिव की स्तुति है। Vedsar Shiv Stava जिसे आदि गुरु शंकराचार्य ने भगवान शिव की प्रसन्नता के लिए लिखा था। इस स्तुति में भगवान शिव को जगत की उत्पत्ति और फिर इस जगत के शिव में लीन होने के रूप में वर्णित किया गया है। शिव देवों के भी देव हैं, इसलिए महादेव हैं। जो देवताओं के भी दुःख दूर करते हैं, वे महादेव के समान हैं। महादेव होकर भी, जो बाघ की खाल और भस्म को अपने चारों ओर लपेटते हैं। फिर भी, देवी पार्वती का मन शिव के समान मोहित करने वाला है। तीनों लोकों के हित को ध्यान में रखते हुए, जो विष दिखाई नहीं देता, उसे कंठ में धारण करते हैं, Vedsar Shiv Stava ऐसे हैं हमारे नीलकंठ। ये शिव स्तव में प्रस्तुत हैं, जिसमें योगी के अद्वितीय रूपों का वर्णन है। वेदसार शिव स्तव के जाप के लाभ अपार शक्ति, सामर्थ्य और सकारात्मकता हैं। एक बार जब आप स्तोत्र का जाप शुरू करते हैं, तो आप सकारात्मक ऊर्जा का अनुभव कर सकते हैं। आप इसे प्रतिदिन किसी भी सुविधाजनक समय पर अत्यंत प्रेम, भक्ति और विश्वास के साथ जाप कर सकते हैं। आज के समय में हर मनुष्य तमाम समस्याओं से घिरा हुआ है। Vedsar Shiv Stava ऐसे समय में वह विचलित हो जाता है और सोचता है कि काश! कोई ऐसा मंत्र या पाठ मिल जाए, जिससे उसके जीवन की सभी समस्याएं दूर हो जाएं और वह शांतिपूर्वक अपना जीवन व्यतीत कर सके। Vedsar Shiv Stava यहाँ पाठकों के लिए एक पाठ प्रस्तुत है, जिसकी रचना भगवान शंकराचार्य ने की है, जिन्हें भगवान शिव का अवतार माना जाता है। इसे शंकर द्वारा दिया गया सुख का मंत्र भी माना जाता है, जिसे ‘वेदसारव्य’ के नाम से जाना जाता है। वेदसार शिव स्तव के लाभ: वेदसार शिव स्तव के जाप के लाभ अपार शक्ति, सामर्थ्य और सकारात्मकता हैं। Vedsar Shiv Stava एक बार जब आप वेदसार शिव स्तव का जाप शुरू करते हैं, तो आप सकारात्मक ऊर्जा का अनुभव कर सकते हैं। आप इसे प्रतिदिन किसी भी सुविधाजनक समय पर अत्यंत प्रेम, भक्ति और विश्वास के साथ जप सकते हैं। इस स्तम्भ का जप किसे करना चाहिए: जो व्यक्ति अपने जीवन में शक्ति, सामर्थ्य और सकारात्मक दृष्टिकोण चाहता है, उसे वेदसार शिव स्तम्भ का नियमित रूप से जप करना चाहिए। श्री वेदसार शिव स्तव: हिंदी पाठ:Vedsar Shiv Stava in Hindi पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य क्रत्तिं वसानं वरेण्यम् ।जटाजूटमध्ये स्फुरद्गांगवारिं महादेवमेकं स्मरामि स्मरारिम् ।। 1 ।। महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभूत्यंगभूषम् ।विरूपाक्षमिन्द्वर्कवहिनत्रिनेत्रं सदानन्दमीडे प्रभुं पंचवक्त्रम् ।। 2 ।। गिरीशं गणेशं गले नीलवर्णं गवेंद्राधिरूढं गणातीतरूपम् ।भवं भास्वरं भस्मना भूषितांग भवानीकलत्रं भजे पञ्चवक्त्रम् ।। 3 ।। शिवाकान्त शम्भो शशांकर्धमौले महेशान शूलिन् जटाजूटधारिन् ।त्वमेको जगद्व्यापको विश्वरूप प्रसीद प्रसीद प्रभो पूर्णरूप ।। 4 ।। परात्मानमेकं जगद्विजमाधं निरीहं निराकारमोंकारवेधम् ।यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम् ।। 5 ।। न भूमिर्न चापो न वहिनर्न वायुर्न चाकाशमास्ते न तन्द्रा न निद्रा ।न ग्रीष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ।। 6 ।। अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् ।तुरीयं तम: पारमाधन्तहीनं प्रपधे परं पावनं द्वैतहीनम् ।। 7 ।। नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते ।नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ।। 8 ।। प्रभो शूलपाणे विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र ।शिवाकान्त शांत स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य: ।। 9 ।। शम्भो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् ।काशीपते करुणया जगदेतदेकस्त्वं हंसि पासि विदधासि महेश्वरोऽसि ।। 10 ।। त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्म्रड विश्वनाथ ।त्वय्येव गच्छति लयं जगदेतदीश लिंगात्मकं हर चराचरविश्वरूपिन् ।। 11 ।। ।। इति श्री वेदसार शिव स्तव सम्पूर्णम् ।।

Vedsar Shiv Stava: श्री वेदसार शिव स्तव: Read More »

Venkateswara

Venkateswara Ashtottara Shatanama Stotram:श्री वेङ्कटेश्वर शतनामावली स्तोत्रम्

श्री वेङ्कटेश्वर शतनामावली स्तोत्रम् हिंदी पाठ:Venkateswara Ashtottara Shatanama Stotram in Hindi श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयःअमृतांशो जगद्वन्द्योगोविन्दश्शाश्वतः प्रभुं शेषाद्रि निलयो देवः केशवो मधुसूदनः ।अमृतोमाधवः कृष्णं श्रीहरिर्ज्ञानपञ्जर ॥ १ ॥ श्री वत्सवक्षसर्वेशो गोपालः पुरुषोत्तमः ।गोपीश्वरः परञ्ज्योतिर्वैकुण्ठ पतिरव्ययः ॥ २ ॥ सुधातनर्यादवेन्द्रो नित्ययौवनरूपवान् ।चतुर्वेदात्मको विष्णु रच्युतः पद्मिनीप्रियः ॥ ३ ॥ धरापतिस्सुरपतिर्निर्मलो देवपूजितः ।चतुर्भुज श्चक्रधर स्त्रिधामा त्रिगुणाश्रयः ॥ ४ ॥ निर्विकल्पो निष्कळङ्को निरान्तको निरञ्जनः ।निराभासो नित्यतृप्तो निर्गुणोनिरुपद्रवः ॥ ५ ॥ गदाधर शार्ङ्गपाणिर्नन्दकी शङ्खधारकः ।अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः ॥ ६ ॥ अनेकात्मा दीनबन्धुरार्तलोकाभयप्रदः ।आकाशराजवरदो योगिहृत्पद्म मन्दिरः ॥ ७ ॥ दामोदरो जगत्पालः पापघ्नोभक्तवत्सलः ।त्रिविक्रमशिंशुमारो जटामकुटशोभितः ॥ ८ ॥ शङ्खमध्योल्लसन्मञ्जूकिङ्किण्याध्यकरन्दकः ।नीलमेघश्यामतनुर्बिल्वपत्रार्चन प्रियः ॥ ९ ॥ जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः ।चिन्तितार्थप्रदो जिष्णुर्दाशरथे दशरूपवान् ॥ १० ॥ देवकीनन्दन शौरि हयग्रीवो जनार्धनः ।कन्याश्रवणतारेज्य पीताम्बरोनघः ॥ ११ ॥ वनमालीपद्मनाभ मृगयासक्त मानसः ।अश्वारूढं खड्गधारीधनार्जन समुत्सुकः ॥ १२ ॥ घनसारसन्मध्यकस्तूरीतिलकोज्ज्वलः ।सच्चिदानन्दरूपश्च जगन्मङ्गळदायकः ॥ १३ ॥ यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः ।परमार्थप्रद श्शान्तश्श्रीमान् दोर्धण्ड विक्रमः ॥ १४ ॥ परात्परः परब्रह्मा Venkateswara श्रीविभुर्जगदीश्वरः ।एवं श्री वेङ्कटेशस्यनाम्नां अष्टोत्तरं शतम् ॥ १५ ॥ पठ्यतां शृण्वतां भक्त्या सर्वाभीष्ट प्रदं शुभम् । ॥ इति श्री वेङ्कटेश्वर शतनामावली स्तोत्रम् सम्पूर्णम् ॥

Venkateswara Ashtottara Shatanama Stotram:श्री वेङ्कटेश्वर शतनामावली स्तोत्रम् Read More »

Veera Vimsati

Veera Vimsati-Kavyam Hanuman Stotram: श्री वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्

श्री वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम् हिंदी पाठ: Veera Vimsati-Kavyam Hanuman Stotram in Hindi Veera Vimsati: लांगूलमृष्टवियदम्बुधिमध्यमार्ग- मुत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् ।आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे ॥ १ ॥ मध्येनिशाचरमहाभयदुर्विषह्यं घोराद्भुतव्रतमिदं यददश्चचार ।पत्ये तदस्य बहुधापरिणामदूतं सीतापुरस्कृततनुं हनुमन्तमीडे ॥ २ ॥ यः पादपङ्कजयुगं रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागैः ।प्रागेव रागि विदधे बहु वन्दमानो वन्देऽञ्जनाजनुषमेव विशेषतुष्ट्यै ॥ ३ ॥ ताञ्जानकीविरहवेदनहेतुभूतान् द्रागाकलय्य सदशोकवनीयवृक्षान् ।लङ्कालकानिव घनानुदपाटयद्य-स्तं हेमसुन्दरकपिं प्रणमामि पुष्ट्यै ॥ ४ ॥ घोषप्रतिध्वनितशैलगुहासहस्र-संभ्रान्तनादितवलन्मृगनाथयूथम् ।अक्षक्षयक्षणविलक्षितराक्षसेन्द्र-मिन्द्रं कपीन्द्रपृतनावलयस्य वन्दे ॥ ५ ॥ हेलाविलङ्घितमहार्णवमप्यमन्दं घूर्णद्गदाविहतिविक्षतराक्षसेषु ।स्वम्मोदवारिधिमपारमिवेक्षमाणं वन्देऽहमक्षयकुमारकमारकेशम् ॥ ६ ॥ जम्भारिजित्प्रसभलम्बितपाशबन्धं ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम् ।रौद्रावतारमपि रावणदीर्घदृष्टि-सङ्कोचकारणमुदारहरिं भजामि ॥ ७ ॥ दर्पोन्नमन्निशिचरेश्वरमूर्धचञ्च-त्कोटीरचुम्बि निजबिम्बमुदीक्ष्य हृष्टम् ।पश्यन्तमात्मभुजयन्त्रणपिष्यमाण-तत्कायशोणितनिपातमपेक्षि वक्षः ॥ ८ ॥ अक्षप्रभृत्यमरविक्रमवीरनाश-क्रोधादिव द्रुतमुदञ्चितचन्द्रहासाम् ।निद्रापिताभ्रघनगर्जनघोरघोषैः संस्थम्भयन्तमभिनौमि दशास्यमूर्तिम् ॥ ९ ॥ आशंस्यमानविजयं रघुनाथधाम शंसन्तमात्मकृतभूरिपराक्रमेण ।दौत्ये समागमसमन्वयमादिशन्तं वन्दे हरेः क्षितिभृतः पृतनाप्रधानम् ॥ १० ॥ यस्यौचितीं समुपदिष्टवतोऽधिपुच्छं दम्भान्धितां धियमपेक्ष्य विवर्धमानः ।नक्तञ्चराधिपतिरोषहिरण्यरेता लङ्कां दिधक्षुरपतत्तमहं वृणोमि ॥ ११ ॥ क्रन्दन्निशाचरकुलां ज्वलनावलीढैः साक्षाद्गृहैरिव बहिः परिदेवमानाम् ।स्तब्धस्वपुच्छतटलग्नकृपीटयोनि-दन्दह्यमाननगरीं परिगाहमानाम् ॥ १२ ॥ मूर्तैर्गृहासुभिरिव द्युपुरं व्रजद्भि-र्व्योम्नि क्षणं परिगतं पतगैर्ज्वलद्भिः ।पीताम्बरं दधतुमुच्छ्रितदीप्ति पुच्छं सेनां Veera Vimsati वहद्विहगराजमिवाहमीडे ॥ १३ ॥ स्थम्भीभवत्स्वगुरुवालधिलग्नवह्नि-ज्वालोल्ललद्ध्वजपटामिव देवतुष्ट्यै ।वन्दे यथोपरि पुरो दिवि दर्शयन्त-मद्यैव रामविजयाजिकवैजयन्तीम् ॥ १४ ॥ रक्षक्षयैकचितकक्षकपूश्चितौ यः सीताशुचो निजविलोकनतो मृतायाः ।दाहं व्यधादिव तदन्त्यविधेयभूतं लाङ्गूलदत्तदहनेन मुदे स नोऽस्तु ॥ १५ ॥ आशुद्धये रघुपतिप्रणयैकसाक्ष्ये वैदेहराजदुहितुः सरिदीश्वराय ।न्यासं ददानमिव पावकमापतन्त-मब्धौ प्रभञ्जनतनूजनुषं भजामि ॥ १६ ॥ रक्षस्स्वतृप्तिरुडशान्तिविशेषशोण-मक्षक्षयक्षणविधानुमितात्मदाक्ष्यम् ।भास्वत्प्रभातरविभानुभरावभासं लङ्काभयङ्करममुं भगवन्तमीडे ॥ १७ ॥ तीर्त्वोदधिं जनकजार्पितमाप्य चूडा-रत्नं रिपोरपि पुरं परमस्य दग्ध्वा ।श्रीरामहर्षगलदश्र्वभिषिच्यमानं तं ब्रह्मचारिवरवानरमाश्रयेऽहम् ॥ १८ ॥ यः प्राणवायुजनितो गिरिशस्य शान्तः शिष्योऽपि गौतमगुरुर्मुनिशंकरात्मा ।हृद्यो हरस्य हरिवद्धरितां गतोऽपि धीधैर्यशास्त्रविभवेऽतुलमाश्रये तं ॥ १९ ॥ स्कन्धेऽधिवाह्य जगदुत्तरगीतिरीत्या यः पार्वतीश्वरमतोषयदाशुतोषम् ।तस्मादवाप च वरानपरानवाप्यान् तं वानरं परमवैष्णवमीशमीडे ॥ २० ॥ उमापतेः कविपतेः स्तुतिर्बाल्यविजृम्भिता ।हनूमतस्तुष्टयेऽस्तु वीरविंशतिकाभिधा ॥ २१ ॥ ॥ इति श्री वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम् सम्पूर्णम् ॥

Veera Vimsati-Kavyam Hanuman Stotram: श्री वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम् Read More »