KARMASU

bhavAnIstuti

Shri Durgamba Stotram:श्रीदुर्गाम्बास्तोत्रम्

ज्ञानमात्रावशेषाया निष्पप्रपञ्चा निरङ्कुशा ।
चिदानन्दघनात्यच्छा दुर्गाम्बां तां उपास्महे ॥ १॥

मन्त्राणां मातृका देवि ज्ञानानां ज्ञानरूपिणी ।
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥ २॥

यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।
दुर्गात्सन्त्रायते यस्मात् देवी दुर्गेति कथ्यते ॥ ३॥

प्रपद्ये शरणं देवि दुराचारविधातिनीम्
नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ ४॥

इति श्रीसमर्थरामदासानुग्रहित श्रीरामपदपङ्कजभृङ्गायमान
श्रीमत्परमहंसपरिव्राजकाचार्यवरभगवताश्रीश्रीधरस्वामिना
विरचितं श्रीदुर्गाम्बास्तोत्रं सम्पूर्णम् ॥

Durgamba

Leave a Reply

Your email address will not be published. Required fields are marked *