Amba Vandana: अम्बावन्दना आदावेकां लोक-सिसृक्षा-रसजुष्टां,द्वन्द्वाध्युष्टां,भूत-निकायान् कलयन्तीम् ।माया-मुख्यैर्नामभिराद्यैरुपदिष्टां,वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ १॥ मूलाधारादा च विशुद्वेः प्रविभक्तां,शाब्दीं सृष्टिं,पात्रविशेषाद् घटयन्तीम् ।श्रौतैः स्मार्तैः पौरुष-सूक्तैरुपगीतां,वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ २॥ ऐन्द्रीं भूतिं भक्तजनेभ्यो वितरन्तीं,ह्रीङ्कुर्वाणां,तद्विमुखेषु प्रतिवेलम् ।श्रीं निर्दोलां तद्भवनान्ते विदधानां,वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ ३॥ किं बन्धूकैः,किं नु जपाभिः,किमु रक्तै-रब्जैरुद्यदभास्कर-रागैरुत सृष्टैः ।अङ्गैरिङ्गत्कान्तिवितानैरभिरामां,वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ ४॥ याऽपर्णाहो ताप-निरासाय सपर्णा,वर्णातीता वर्ण-विशेषाञ्जुषमाणा ।तां वैचित्र्योद्भासन-सूनावलि-वल्लींवन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ ५॥ नीप-श्रेणी-शालिनि चिन्तामणि-गेहे,पीठासीनामावृतिचक्रैरुपगूढाम् ।ब्रह्मादिभ्यो वाञ्छितमर्थं प्रथयन्तीं,वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ ६॥ स्फूर्जत्सान्द्रामोद-तरङ्गावलि-लीनै-रर्चामाप्तां,षोडश-मुख्यैरुपचारैः ।उद्यन्नानालङ्कृति-रत्न-द्युति-पुञ्जां,वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ ७॥ माद्यद्देवारब्ध-नमस्या-निकुरम्बां,व्यापच्छैलच्छेद-विलक्षीकृत-शम्बाम् ।आज्ञा-दानान्दोलन-हृद्याधर-बिम्बां,वन्देऽमन्द द्योत कदम्बां जगदम्बाम् ॥ ८॥ ब्रह्म-विष्णु-महेशांश्च गमयन्ती महर्षिताम् ।यन्त्रात्मना परिणता पुनातु परमेश्वरी ॥ ॥ इत्यम्बा-वन्दना समाप्ता ॥