Himalayaraja Krita Shailaputri Stutih: हिमालयराजकृत शैलपुत्रीस्तुतिः
Himalayaraja Krita Shailaputri Stutih: हिमालयराजकृत शैलपुत्रीस्तुतिः हिमालय उवाच ।मातस्त्वं कृपयागृहे मम सुता जातासि नित्यापि यद्भाग्यं मे बहुजन्मजन्मजनितं मन्ये महत्पुण्यदम् ।दृष्टं रूपमिदं परात्परतरां मूर्तिं भवान्या अपि माहेशीं प्रति दर्शयाशु कृपया विश्वेशि तुभ्यं नमः ॥ १॥ श्रीदेव्युवाच ।ददामि चक्षुस्ते दिव्यं पश्य मे रूपमैश्वरम् ।छिन्धि हृत्संशयं विद्धि सर्वदेवमयीं पितः ॥ २॥ श्रीमहादेव उवाच ।इत्युक्त्वा तं गिरिश्रेष्ठं दत्त्वा विज्ञानमुत्तमम् ।स्वरूपं दर्शयामास दिव्यं माहेश्वरं तदा ॥ ३॥ शशिकोटिप्रभं चारुचन्द्रार्धकृतशेखरम् ।त्रिशूलवर हस्तं च जटामण्डितमस्तकम् ॥ ४॥ भयानकं घोररूपं कालानलसहस्रभम् ।पञ्चवक्त्रं त्रिनेत्रं च नागयज्ञोपवीतिनम् ॥ ५॥ द्वीपिचर्माम्बरधरं नागेन्द्रकृतभूषणम् ।एवं विलोक्य तद्रूपं विस्मितो हिमवान् पुनः ॥ ६॥ प्रोवाच वचनं माता रूपमन्यत्प्रदर्शय ।ततः संहृत्य तद्रूपं दर्शयामास तत्क्षणात् ॥ ७॥ रूपमन्यन्मुनिश्रेष्ठ विश्वरूपा सनातनी ।शरच्चन्द्रनिभं चारुमुकुटोज्ज्वलमस्तकम् ॥ ८॥ शङ्खचक्रगदापद्महस्तं नेत्रत्रयोज्ज्वलम् ।दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ९॥ योगीन्द्रवृन्दसंवन्द्यं सुचारुचरणाम्बुजम् ।सर्वतः पाणिपादं च सर्वतोऽक्षिशिरोमुखम् ॥ १०॥ दृष्ट्वा तदेतत्परमं रूपं स हिमवान् पुनः ।प्रणम्य तनयां प्राह विस्मयोत्फुल्ललोचनः ॥ ११॥ हिमालय उवाच ।मातस्तवेदं परमं रूपमैश्वरमुत्तमम् ।विस्मितोऽस्मि समालोक्य रूपमन्यत्प्रदर्शय ॥ १२॥ त्वं यस्य सो ह्यशोच्यो हि धन्यश्च परमेश्वरि ।अनुगृह्णीष्व मातर्मां कृपया त्वां नमो नमः ॥ १३॥ श्रीमहादेव उवाच ।इत्युक्ता सा तदा पित्रा शैलराजेन पार्वती ।तद्रूपमपि संहृत्य दिव्यं रूपं समादधे ॥ १४॥ नीलोत्पलदलश्यामं वनमालाविभूषितम् ।शङ्खचक्रगदापद्ममभिव्यक्तं चतुर्भुजम् ॥ १५॥ एवं विलोक्य तद्रूपं शैलानामधिपस्ततः ।कृताञ्जलिपुटः स्थित्वा हर्षेण महता युतः ॥ १६॥ स्तोत्रेणानेन तां देवीं तुष्टाव परमेश्वरीम् ।सर्वदेवमयीमाद्यां ब्रह्मविष्णुशिवात्मिकाम् ॥ १७॥ हिमालय उवाच ।मातः सर्वमयि प्रसीद परमे विश्वेशि विश्वाश्रये त्वं सर्वं नहि किञ्चिदस्ति भुवने तत्त्वं त्वदन्यच्छिवे ।त्वं विष्णुर्गिरिशस्त्वमेव नितरां धातासि शक्तिः परा किं वर्ण्यं चरितं त्वचिन्त्यचरिते ब्रह्माद्यगम्यं मया ॥ १८॥ त्वं स्वाहाखिलदेवतृप्तिजननी विश्वेशि त्वं वै स्वधा पितॄणामपि तृप्तिकारणमसि त्वं देवदेवात्मिका ।हव्यं कव्यमपि त्वमेव नियमो यज्ञस्तपो दक्षिणा त्वं स्वर्गादिफलं समस्तफलदे देवेशि तुभ्यं नमः ॥ १९॥ रूपं सूक्ष्मतमं परात्परतरं यद्योगिनो विद्यया शुद्धं ब्रह्ममयं वदन्ति परमं मातः सुदृप्तं तव ।वाचा दुर्विषयं मनोऽतिगमपि त्रैलोक्यबीजं शिवे भक्त्याहं प्रणमामि देवि वरदे विश्वेश्वरि त्राहिमाम् ॥ २०॥ उद्यत्सूर्यसहस्रभां मम गृहे जातां स्वयं लीलया देवीमष्टभुजां विशालनयनां बालेन्दुमौलिं शिवाम् ।उद्यत्कोटिशशाङ्ककान्तिनयनां बालां त्रिनेत्रां परां भक्त्या त्वां प्रणमामि विश्वजननी देवि प्रसीदाम्बिके ॥ २१॥ रूपं ते रजताद्रिकान्तिविमलं नागेन्द्रभूषोज्ज्वलं घोरं पञ्चमुखाम्बुजत्रिनयनैईमैः समुद्भासितम् ।चन्द्रार्धाङ्कितमस्तकं धृतजटाजूटं शरण्ये शिवे भक्त्याहं प्रणमामि विश्वजननि त्वां त्वं प्रसीदाम्बिके ॥ २२॥ रूपं ते शारदचन्द्रकोटिसदृशं दिव्याम्बरं शोभनं दिव्यैराभरणैर्विराजितमलं कान्त्या जगन्मोहनम् ।दिव्यैर्बाहुचतुष्टयैर्युतमहं वन्दे शिवे भक्तितः पादाब्जं जननि प्रसीद निखिलब्रह्मादिदेवस्तुते ॥ २३॥ रूपं ते नवनीरदद्युतिरुचिफुल्लाब्जनेत्रोज्ज्वलं, कान्त्या विश्वविमोहनं स्मितमुखं रत्नाङ्गदैर्भूषितम् ।विभ्राजद्वनमालयाविलसितोरस्कं जगत्तारिणि, भक्त्याहं प्रणतोऽस्मि देवि कृपया दुर्गे प्रसीदाम्बिके ॥ २४॥ मातः कः परिवर्णितुं तव गुणं रूपं च विश्वात्मकं शक्तो देवि जगत्रये बहुगुणैर्देवोऽथवा मानुषः ।तत् किं स्वल्पमतिब्रवीमि करुणां कृत्वा स्वकीयै- र्गुणैर्नो मां मोहय मायया परमया विश्वेशि तुभ्यं नमः ॥ २५॥ अद्य मे सफलं जन्म तपश्च सफलं मम ।यत्त्वं त्रिजगतां माता मत्पुत्रीत्वमुपागता ॥ २७॥ धन्योऽहं कृतकृत्योऽहं मातस्त्व निजलीलया ।नित्यापि मद्गृहे जाता पुत्रीभावेन वै यतः ॥ २७॥ इति हिमालयराजकृत शैलपुत्रीस्तुतिः ।
Himalayaraja Krita Shailaputri Stutih: हिमालयराजकृत शैलपुत्रीस्तुतिः Read More »




KARMASU