Shri Durgamba Stotram:श्रीदुर्गाम्बास्तोत्रम्
Shri Durgamba Stotram:श्रीदुर्गाम्बास्तोत्रम् ज्ञानमात्रावशेषाया निष्पप्रपञ्चा निरङ्कुशा ।चिदानन्दघनात्यच्छा दुर्गाम्बां तां उपास्महे ॥ १॥ मन्त्राणां मातृका देवि ज्ञानानां ज्ञानरूपिणी ।ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥ २॥ यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।दुर्गात्सन्त्रायते यस्मात् देवी दुर्गेति कथ्यते ॥ ३॥ प्रपद्ये शरणं देवि दुराचारविधातिनीम् ।नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ ४॥ इति श्रीसमर्थरामदासानुग्रहित श्रीरामपदपङ्कजभृङ्गायमानश्रीमत्परमहंसपरिव्राजकाचार्यवरभगवताश्रीश्रीधरस्वामिनाविरचितं श्रीदुर्गाम्बास्तोत्रं सम्पूर्णम् ॥


KARMASU