Durga Stotram

Srikrishna Krit Durga Stotram: श्रीकृष्ण कृतं दुर्गा स्तोत्रम्….

त्वमेवसर्वजननी मूलप्रकृतिरीश्वरी ।
त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥

कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम् ।
परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ॥

तेज:स्वरूपा परमा भक्तानुग्रहविग्रहा ।
सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा ॥

सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया ।
सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला ॥

सर्वबुद्धिस्वरूपा च Durga Stotram सर्वशक्ति स्वरूपिणी ।
सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी ॥

त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम् ।
दक्षिणा सर्वदाने च सर्वशक्ति स्वरूपिणी ॥

निद्रा त्वं च दया त्वं च Durga Stotram तृष्णा त्वं चात्मन: प्रिया ।
क्षुत्क्षान्ति: शान्तिरीशा च कान्ति: सृष्टिश्च शाश्वती ॥

श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा दया तथा ।
सतां सम्पत्स्वरूपा श्रीर्विपत्तिरसतामिह ॥

प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्कुरा ।
शश्वत्कर्ममयी शक्ति : सर्वदा सर्वजीविनाम् ॥

देवेभ्य: स्वपदो दात्री Durga Stotram धातुर्धात्री कृपामयी ।
हिताय सर्वदेवानां सर्वासुरविनाशिनी ॥

योगनिद्रा योगरूपा योगदात्री च योगिनाम् ।
सिद्धिस्वरूपा सिद्धानां सिद्धिदाता सिद्धियोगिनी ॥

माहेश्वरी च ब्रह्माणी विष्णुमाया च वैष्णवी ।
भद्रदा भद्रकाली च सर्वलोकभयंकरी ॥

ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे ।
सतां कीर्ति: प्रतिष्ठा च निन्दा त्वमसतां सदा ॥

महायुद्धे महामारी Durga Stotram दुष्टसंहाररूपिणी ।
रक्षास्वरूपा शिष्टानां मातेव हितकारिणी ॥

वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा ।
ब्राह्मण्यरूपा विप्राणां तपस्या च तपस्विनाम् ॥

विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम् ।
मेधास्मृतिस्वरूपा च प्रतिभा प्रतिभावताम् ॥

राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी ।
सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने ॥

तथान्ते त्वं महामारी विश्वस्य विश्वपूजिते ।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी ॥

दुरत्यया मे माया त्वं यया सम्मोहितं जगत् ।
यया मुग्धो हि विद्वांश्च मोक्षमार्ग न पश्यति ॥

इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम् ।
पूजाकाले पठेद् यो हि सिद्धिर्भवति वाञ्छिता ॥

वन्ध्या च काकवन्ध्या च मृतवत्सा च दुर्भगा ।
श्रुत्वा स्तोत्रं वर्षमेकं सुपुत्रं लभते ध्रुवम् ॥

कारागारे महाघोरे यो बद्धो दृढबन्धने ।
श्रुत्वा स्तोत्रं मासमेकं बन्धनान्मुच्यते ध्रुवम् ॥

यक्ष्मग्रस्तो गलत्कुष्ठी महाशूली महाज्वरी ।
श्रुत्वा स्तोत्रं वर्षमेकं सद्यो रोगात् प्रमुच्यते ॥

पुत्रभेदे प्रजाभेदे पत्‍‌नीभेदे च दुर्गत: ।
श्रुत्वा स्तोत्रं मासमेकं लभते नात्र संशय: ॥

Srikrishna Keshadipadam Varnana Stotram : श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम्… Varnana Stotram

Srikrishna Keshadipadam Varnana Stotram : श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम्…

श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम् हिंदी पाठ : Srikrishna Keshadipadam Varnana Stotram in Hindiअग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं,पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् ।तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै,रावीतं…

Srikrishna Krit Durga Stotram: श्रीकृष्ण कृतं दुर्गा स्तोत्रम्…. Durga Stotram

Srikrishna Krit Durga Stotram: श्रीकृष्ण कृतं दुर्गा स्तोत्रम्….

श्रीकृष्ण कृतं दुर्गा स्तोत्रम् हिंदी पाठ : Srikrishna Krit Durga Stotram in Hindiत्वमेवसर्वजननी मूलप्रकृतिरीश्वरी ।त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥कार्यार्थे सगुणा त्वं…

Swarnakarshan Bhairav Stotra : स्वर्णाकर्षण भैरव स्तोत्र… Bhairav Stotra

Swarnakarshan Bhairav Stotra : स्वर्णाकर्षण भैरव स्तोत्र…

Swarnakarshan Bhairav Stotra in Hindi : स्वर्णाकर्षण भैरव स्तोत्र: शास्त्रों में श्री भैरव के कई रूपों और साधनाओं का वर्णन…

Leave a Comment

Your email address will not be published. Required fields are marked *