श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम् हिंदी पाठ : Srikrishna Keshadipadam Varnana Stotram in Hindi
अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं,
पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् ।
तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै,
रावीतं नारदाद्यैर्विलसदुपनिषद्सुन्दरीमण्डलैश्च ॥` १ ॥
नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या,
रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः ।
मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं,
स्निग्द्धश्वेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥ २ ॥
हृद्यं पूर्णानुकंपार्णवमृदुलहरी चञ्चलभ्रूविलासैः,
आनीलस्निग्द्धपक्ष्मावलि परिलसितं नेत्रयुग्मं विभो ते ।
सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं,
कारुण्यालोकलीला शिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥ ३ ॥
उत्तुङ्गोल्लासिनासं Varnana Stotram हरिमणिमुकुरप्रोल्लसद्गण्डपाली,
व्यालोलत् कर्णपाशाञ्चितमकरमणी कुण्डलद्वन्द्वदीप्रम् ।
उन्मीलद्दन्तपङ्क्तिः स्फुरदरुणतरच्छाय बिम्बाधरान्तः,
प्रीतिप्रस्यन्दिमन्दस्मितमधुरतरं वक्त्रमुद्भासतां मे ॥ ४ ॥
बाहुद्वन्द्वेन रत्नाङ्गुलिवलयभृता शोणपाणिप्रवाले,
नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् ।
कृत्वा वक्त्रारविन्दे Varnana Stotram सुमधुरविकसद्रागमुद्भाव्यमानैः,
शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ॥ ५ ॥
उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कण्ठदेशं,
वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्तहारप्रतानम् ।
नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल,
ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ ६ ॥
अंगे पंचांगरागैरतिशयविकसत्सौरभाकृष्टलोकं,
लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् ।
शक्राश्मन्यस्त तप्तोज्ज्वलकनकनिभं पीतचेलं दधानं,
ध्यायामो दीप्तरश्मि स्फुटमणिरशनाकिङ्किणी मण्डितं त्वाम् ॥ ७ ॥
ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमायाः,
विश्वक्षोभं विशङ्क्य Varnana Stotram ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ ।
आनम्राणां पुरस्तान्न्यसनधृतस्मस्तार्थपालीसमुद्ग,
च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥ ८ ॥
मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं,
पादाग्रं भ्रान्तिमज्जत् प्रणतजनमनोमन्दरोद्धारकूर्मम् ।
उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाश्रितानाम्,
संताप ध्वान्तहन्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ ९ ॥
योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो,
भाक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् ।
नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धो,
हृत्वा निश्शेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम्………..
Srikrishna Keshadipadam Varnana Stotram : श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम्…
श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम् हिंदी पाठ : Srikrishna Keshadipadam Varnana Stotram in Hindiअग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं,पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् ।तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै,रावीतं…
Srikrishna Krit Durga Stotram: श्रीकृष्ण कृतं दुर्गा स्तोत्रम्….
श्रीकृष्ण कृतं दुर्गा स्तोत्रम् हिंदी पाठ : Srikrishna Krit Durga Stotram in Hindiत्वमेवसर्वजननी मूलप्रकृतिरीश्वरी ।त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥कार्यार्थे सगुणा त्वं…
Swarnakarshan Bhairav Stotra : स्वर्णाकर्षण भैरव स्तोत्र…
Swarnakarshan Bhairav Stotra in Hindi : स्वर्णाकर्षण भैरव स्तोत्र: शास्त्रों में श्री भैरव के कई रूपों और साधनाओं का वर्णन…




KARMASU