Mangala Stotram

Sri Venkateswara Mangala Stotram: श्री वेंकटेश मंगल स्तोत्र….

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥

लक्ष्मीसविभ्रमालोकसद्मविभ्रमचक्षुषे ।
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २ ॥

श्रीवेङ्कटाद्रिशृङ्गाय मङ्गलाभराणाङ्घ्रये ।
मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् ॥ ३ ॥

सर्वावयवसौन्दर्यसंपदा सर्वचेतसाम् ।
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४ ॥

नित्याय निरवद्याय Mangala Stotram सत्यानन्द चिदात्मने ।
सर्वान्तरात्मने श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ५ ॥

स्वतः सर्वविदे सर्वशक्तये सर्वशेषिणे ।
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥ ६ ॥

परस्मै ब्रह्मणे Mangala Stotram पूर्णकामाय परमात्मने ।
प्रपन्नपरतत्वाय वेङ्कटेशाय मङ्गलम् ॥ ७ ॥

अकालतत्वविश्रान्तावात्मानमनुपश्यताम् ।
अतृप्तामृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ ८ ॥

प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपया दर्शयते श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ९ ॥

दयामृततरङ्गिण्याः तरङ्गैरतिशीतलैः ।
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १० ॥

स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये ।
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११ ॥

श्रीवैकुण्ठविरक्ताय स्वामिपुष्करणीतटे ।
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२ ॥

श्रीमद् सुन्दरजामातृमुनिमानसवासिने ।
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥ १३ ॥

नमः श्रीवेङ्कटेशाय शुद्धज्ञानस्वरूपिणे ।
वासुदेवाय शान्ताय श्रीनिवासाय मङ्गलम् ॥ १४ ॥

॥ इति श्री वेंकटेश मंगल स्तोत्र संपूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *