KARMASU

bhavAnIstuti

Shri Durgastavanam: श्रीदुर्गास्तवनम्

महाकाली महालक्ष्मी महासरस्वती शिवे ।
जगदम्बे महामाये शक्तिरूपे नमोऽस्तुते ॥ १॥

सुमाङ्गल्ये महेशानि सच्चिदानन्दरूपिणे ।
सर्वदुःख हरे देवि मातर्दुर्गे नमोऽस्तुते ॥ २॥

सिंहस्कन्धसमारूढे सशस्त्रैर्समलङ्कृते ।
अभयं कुरु मे मात तस्यैनित्यै नमो नमः ॥ ३॥

सृष्टि स्थितिलय कर्त्री परिपूर्णाच सर्वदा ।
गौराङ्गीदैत्यदमनीं मातर्तस्यै नमो नमः ॥ ४॥

भक्तानां सुखदां नित्यां योगक्षेमकरीं सदा ।
भयान्मे त्राहित्वन्नित्यं दुर्गेदेवि नमोऽस्तुते ॥ ५॥

शरणागतदीनानामार्तित्राण परायणे ।
संसारभयनाशिन्यै देव्यैतस्यै नमो नमः ॥ ६॥

उमासती दाक्षायणी पार्वती त्वां वरानने ।
सर्वत्रास हरे देवि महेशानि नमोऽस्तुते ॥ ७॥

सच्चिदानन्दरूपायै धात्र्यैशान्त्यै नमो नमः ।
अनन्तभूति पूर्णायै देव्यैतस्यै नमो नमः ॥ ८॥

अनन्त कोटि ब्रह्माण्ड नायिके परमेश्वरि ।
सन्मतिदान शिलायै तस्यैदेव्यै नमो नमः ॥ ९॥

अजरामरकारिण्यै भुक्तिमुक्तिञ्चसम्पदम् ।
अनन्त धनधान्यादि दात्र्यैदेव्यै नमो नमः ॥ १०॥

इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं दुर्गास्तवनं
अथवा श्रीनवदुर्गास्तोत्रं सम्पूर्णम् ।

Shri Durgastavanam

Leave a Reply

Your email address will not be published. Required fields are marked *