Shatanama Stotram

Shri Parashuram Ashtottara-Shatanama Stotram : श्री परशुराम अष्टोत्तर-शतनाम स्तोत्रम्….

रामो राजाटवीवह्नि रामचन्द्रप्रसादकः ।
राजरक्तारुणस्नातो राजीवायतलोचनः ॥ १ ॥

रैणुकेयो रुद्रशिष्यो रेणुकाच्छेदनो रयी ।
रणधूतमहासेनो रुद्राणीधर्मपुत्रकः ॥ २ ॥

राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमः ।
राताखिलरसो रक्तकृतपैतृकतर्पणः ॥ ३ ॥

रत्नाकरकृतावासो Shatanama Stotram रतीशकृतविस्मयः ।
रागहीनो रागदूरो रक्षितब्रह्मचर्यकः ॥ ४ ॥

राज्यमत्तक्षत्त्रबीज भर्जनाग्निप्रतापवान् ।
राजद्भृगुकुलाम्बोधिचन्द्रमा रञ्जितद्विजः ॥ ५ ॥

रक्तोपवीतो रक्ताक्षो रक्तलिप्तो रणोद्धतः ।
रणत्कुठारो रविभूदण्डायित महाभुजः ॥ ६ ॥

रमानाधधनुर्धारी रमापतिकलामयः ।
रमालयमहावक्षा रमानुजलसन्मुखः ॥ ७ ॥

रसैकमल्लो रसनाऽविषयोद्दण्ड पौरुषः ।
रामनामश्रुतिस्रस्तक्षत्रियागर्भसञ्चयः ॥ ८ ॥

रोषानलमयाकारो रेणुकापुनराननः ।
राधेयचातकाम्भोदो रुद्धचापकलापगः ॥ ९॥

राजीवचरणद्वन्द्वचिह्नपूतमहेन्द्रकः ।
रामचन्द्रन्यस्ततेजा राजशब्दार्धनाशनः ॥ १० ॥

राद्धदेवद्विजव्रातो रोहिताश्वाननार्चितः ।
रोहिताश्वदुराधर्षो रोहिताश्वप्रपावनः ॥ ११ ॥

रामनामप्रधानार्धो रत्नाकरगभीरधीः ।
राजन्मौञ्जीसमाबद्ध सिंहमध्यो रविद्युतिः ॥ १२ ॥

रजताद्रिगुरुस्थानो रुद्राणीप्रेमभाजनम् ।
रुद्रभक्तो रौद्रमूर्ती रुद्राधिकपराक्रमः ॥ १३ ॥

रविताराचिरस्थायी रक्तदेवर्षिभावनः ।
रम्यो रम्यगुणो रक्तो रातभक्ताखिलेप्सितः ॥ १४ ॥

रचितस्वर्णसोपानो रन्धिताशयवासनः ।
रुद्धप्राणादिसञ्चारो राजद्ब्रह्मपदस्थितः ॥ १५ ॥

रत्नसूनुमहाधीरो रसासुरशिखामणिः ।
रक्तसिद्धी रम्यतपा राततीर्थाटनो रसी ॥ १६ ॥

रचितभ्रातृहननो रक्षितभातृको रणी ।
राजापहृततातेष्टिधेन्वाहर्ता रसाप्रभुः ॥ १७ ॥

रक्षितब्राह्म्यसाम्राज्यो रौद्राणेयजयध्वजः ।
राजकीर्तिमयच्छत्रो रोमहर्षणविक्रमः ॥ १८ ॥

राजशौर्यरसाम्भोधिकुम्भसम्भूतिसायकः ।
रात्रिन्दिवसमाजाग्र त्प्रतापग्रीष्मभास्करः ॥ १९ ॥

राजबीजोदरक्षोणीपरित्यागी रसात्पतिः ।
रसाभारहरो रस्यो राजीवजकृतक्षमः ॥ २० ॥

रुद्रमेरुधनुर्भङ्ग कृद्धात्मा रौद्रभूषणः ।
रामचन्द्रमुखज्योत्स्नामृतक्षालितहृन्मलः ॥ २१ ॥

रामाभिन्नो रुद्रमयो Shatanama Stotram रामरुद्रो भयात्मकः ।
रामपूजितपादाब्जो रामविद्वेषिकैतवः ॥ २२ ॥

रामानन्दो रामनामो रामो रामात्मनिर्भिदः ।
रामप्रियो रामतृप्तो रामगो रामविश्रमः ॥ २३ ॥

रामज्ञानकुठारात्त राजलोकमहातमाः ।
रामात्ममुक्तिदो रामो रामदो राममङ्गलः ॥ २४ ॥

मङ्गलं जामदग्न्याय Shatanama Stotram कार्तवीर्यार्जुनच्छिदे ।
मङ्गलं परमोदार सदा परशुराम ते ॥ २५ ॥

मङ्गलं राजकालाय दुराधर्षाय मङ्गलं ।
मङ्गलं महनीयाय जामदग्न्याय मङ्गलम् ॥ २६ ॥

जमदग्नि तनूजाय जिताखिलमहीभृते ।
जाज्वल्यमानायुधाय जामदग्न्याय मङ्गलम् ॥ २७ ॥

॥ इति श्री परशुराम अष्टोत्तर-शतनाम स्तोत्रम् सम्पूर्णम् ॥

Sri Subramanya Bhujanga Stotram: श्री सुब्रह्मण्य भुजङ्ग स्त्रोत…. Bhujanga Stotram

Sri Subramanya Bhujanga Stotram: श्री सुब्रह्मण्य भुजङ्ग स्त्रोत….

श्री सुब्रह्मण्य भुजङ्ग स्त्रोत हिंदी पाठ : Sri Subramanya Bhujanga Stotram in Hindiसदा बालरूपाऽपि विघ्नाद्रिहंत्रीमहादंतिवक्त्राऽपि पंचास्यमान्या ।विधींद्रादिमृग्या गणेशाभिधा मेविधत्तां श्रियं काऽपि…

Sri Subramanya Karavalamba : श्री सुब्रह्मण्य करावलम्ब स्तोत्रम्…. Karavalamba

Sri Subramanya Karavalamba : श्री सुब्रह्मण्य करावलम्ब स्तोत्रम्….

श्री सुब्रह्मण्य करावलम्ब स्तोत्रम् हिंदी पाठ : Sri Subramanya Karavalamba in Hindiहे स्वामिनाथ करुणाकर दीनबंधो,श्रीपार्वतीशमुखपंकज पद्मबंधो ।श्रीशादिदेवगणपूजितपादपद्म,वल्लीसनाथ मम देहि करावलंबम् ॥…

Leave a Comment

Your email address will not be published. Required fields are marked *