aparAdhakShamApaNastotram:अपराधक्षमापणस्तोत्रम्
aparAdhakShamApaNastotram: अपराधक्षमापणस्तोत्रम् ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ २॥ अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ३॥ कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ४॥ सर्वरूपमयी देवी सर्वं देवीमयं जगत् ।अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम्







KARMASU