nAmAvali

Ekavimshati Ganeshamantrah 21 Ganesha Mantras: एकविंशतिगणेशमन्त्राः

GANESH
Ekavimshati Ganeshamantrah 21 Ganesha Mantras: एकविंशतिगणेशमन्त्राः
KARMASU 25 August 2025 2 मिनट पढ़ें
GANESHGANESH MANTRA📅 25 August 2025⏱ 2 मिनट

Ekavimshati Ganeshamantrah 21 Ganesha Mantras: एकविंशतिगणेशमन्त्राः

अथातः सम्प्रवक्ष्यामि चैकविंशतिसङ्ख्यकान् ।
गणेशान्राजमातङ्ग्या सम्बद्धान् योगिनीयुतान् ॥ १॥

बीजषट्कं गणेशस्य ङेऽन्तं तन्नाम चोच्चरेत् ।
नमोऽन्ता मनवस्तेषां क्रमान्नामानि वच्म्यहम् ॥ २॥

अग्रे पृष्ठे द्विदन्तादिद्वितुण्डाक्षो विनायकः ।
ज्येष्ठो विनायकश्चैव तथा गजविनायकः ॥ ३॥

विनायकः कालसंज्ञो नागेशाख्यो विनायकः ।
अथान्तर्गृहमावृत्य स्थिताञ्छृणु विनायकान् ॥ ४॥

तथा सृष्टिगणेशश्च यक्षविघ्नेश एव च ।
गजकर्णश्चित्रघण्टः स्यान्मङ्गलविनायकः ॥ ५॥

विनायकश्च मित्रादिरथ वानन्दकानने ।
व्यवस्थिता गणेशा ये ते वक्ष्यन्ते मयाधुना ॥ ६॥

मोदः प्रमोदः सुमुखो दुर्मुखो गणनायकः ।
विनायको ज्ञानपूर्वो द्वारविघ्नेश एव च ॥ ७॥

अविमुक्तेशनिकटे त्वविमुक्तविनायकः ।
योगिन्यश्च क्रमादेषां कीर्त्यन्ते प्रेतवाहनाः ॥ ८॥

दन्दशूककरा रौद्री मृगशीर्षा वृषानना ।
व्यालास्या धूर्तविश्वासा व्योमैकचरणार्धदृक् ॥ ९॥

तापिनी तुष्टिपूर्वा च शोषिणी कोटरी तथा ।
विद्युत्प्रभा स्थूलनासा मार्जारी कण्ठपूरणा ॥ १०॥

कामाक्ष्यट्टाट्टहासा च बलाका गतिपुण्यदा ।
मूकास्या चेति योगिन्यो ङेऽन्तं नाम नमोऽन्तकम् ॥ ११॥

स्वबीजाद्यं भवेन्मन्त्रो यथानामार्थकारकः ।

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते
पश्चिमाम्नायगणपतिमन्त्रकथने एकोनविंशे प्रकाशे
प्रोक्ताः एकविंशतिगणेशमन्त्राः सम्पूर्णाः ।

अथ नामावलिः –
ॐ गां गीं गूं गैं गौं गः द्विदन्तविनायकाय नमः । १
ॐ गां गीं गूं गैं गौं गः द्वितुण्डविनायकाय नमः ।
ॐ गां गीं गूं गैं गौं गः द्व्यक्षविनायकाय नमः ।
ॐ गां गीं गूं गैं गौं गः ज्येष्ठविनायकाय नमः ।
ॐ गां गीं गूं गैं गौं गः गजविनायकाय नमः ।
ॐ गां गीं गूं गैं गौं गः कालविनायकाय नमः ।
ॐ गां गीं गूं गैं गौं गः नागेशविनायकाय नमः ।
ॐ गां गीं गूं गैं गौं गः सृष्टिगणेशाय नमः ।
ॐ गां गीं गूं गैं गौं गः यक्षविघ्नेशाय नमः ।
ॐ गां गीं गूं गैं गौं गः गजकर्णाय नमः । १०
ॐ गां गीं गूं गैं गौं गः चित्रघण्टाय नमः ।
ॐ गां गीं गूं गैं गौं गः मङ्गलविनायकाय नमः ।
ॐ गां गीं गूं गैं गौं गः मित्रादिविनायकाय नमः ।
ॐ गां गीं गूं गैं गौं गः मोदगणेशाय नमः ।
ॐ गां गीं गूं गैं गौं गः प्रमोदगणेशाय नमः ।
ॐ गां गीं गूं गैं गौं गः सुमुखाय नमः ।
ॐ गां गीं गूं गैं गौं गः दुर्मुखाय नमः ।
ॐ गां गीं गूं गैं गौं गः गणनायकाय नमः ।
ॐ गां गीं गूं गैं गौं गः ज्ञानविनायकाय नमः ।
ॐ गां गीं गूं गैं गौं गः द्वारविघ्नेशाय नमः । २०
ॐ गां गीं गूं गैं गौं गः अविमुक्तेशविनायकाय नमः । २१

श्लोकानि ४९३-५०३

Ganeshamantrah

🙏 पूजा सेवाएँ — अभी बुक करें

KARMASU वीडियो

छोटे वीडियो — देखें, सुनें और सीखें

YouTube पर देखें ↗
Chhath Puja 2026 | छठ महापर्व का महत्व, पूजा विधि और सूर्य…
Chhath Puja 2026 | छठ महापर्व की संपूर्ण पूजा विधि
धन लक्ष्मी पूजा | DHAN LAKSHMI PUJA #KARMASU #puja
Shani Dev Mantra | शनिवार विशेष शनि मंत्र | Shaniwar Special Mantra…
12 Sacred Names of Surya Bhagwan | सूर्यदेव के 12 पवित्र नामों…
लाभ पंचमी 2026 कब है ? | Labh Panchami Puja Vidhi, शुभ…
108 Names of Goddess Lakshmi | माता लक्ष्मी के 108 पवित्र मंत्र…
हनुमान जी की अष्ट सिद्धियों का अद्भुत रहस्य! 🙏🚩 #shorts #hanumanji
Chhath Puja 2026 Date & Time: छठ पूजा कब है ?
Happy Bhai Dooj 2026 | भाई दूज की हार्दिक शुभकामनाएँ
Happy Govardhan Puja 2026 | गोवर्धन पूजा की हार्दिक शुभकामनाएँ
दीपावली की हार्दिक शुभकामनाएँ 🪔✨ | Happy Diwali 2026 |
App Download