श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ स्वतःसिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासध्रीचीभिः द्युतिभिरपतापतिभुवनम् । अनन्तैः त्रय्यन्तैरनुविदितहेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि वहः ॥ व्याख्यानं इन्दिरामन्दिरोरस्कमिन्दादिसुरवन्दितम्- वन्दारुबृन्दमन्दारं वन्दे गोविन्दबालकम् ॥ १॥ कन्दर्पसंवराकारं बृन्दावनविभूषणम् । आनन्दकन्दजं नन्दनन्दनं वन्दिषीमहि ॥ प्रणिपत्य गुरूत्तंसं श्रीमद्वेदान्तदेशिकम् । हयग्रीवस्तवव्याख्यां कुर्वेऽहं तत्प्रसादतः ॥ इह खलु श्रीमान् वेदान्तदेशिकः, सम्यगुपासनविशेषवशीकृत हृदय पुण्डरीकमध्यमण्डनायित ताण्डवप्रचण्डतुरङ्गमुख मार्ताण्डमण्डलः, सकल पण्डितनिकुरुम्बमुक्तातपत्रितकीर्तिमण्डलः, सर्वतन्त्रस्वतन्त्रः, कवितार्किककेसरी, परमकारुणिकः,भगवत्मल्याणगुणगणानुसन्धानेन अनादिसंसार सञ्चितदौष्कर्श्य पाशबन्दीकृत प्राणिबृन्दं सन्तितारयिषुः, श्रीहयग्रीवमभिष्टोतुं प्रतिजानीते (स्वत) इति । स्वतस्सिद्धं – स्वप्रकाशम्, ननु सिद्धशब्दस्य भावार्थविहित कृत्प्रत्ययान्तत्वे स्वत इति पञ्चम्यर्थभूतहेत्वर्थविहित तसिल्प्रत्ययस्यानन्वयः स्यात् – सिद्धशब्दस्य प्रकाशमात्रार्थकत्वेन, स्वशब्दस्यापि “प्रकाशार्थकत्वेन तसिः पञ्चम्यर्थहेत्वर्थकत्वेन च प्रकाशाधीनप्रकाशार्थलाभात्, प्रकृते प्रकाशस्य नित्यत्वेन स्वात्मानं प्रति स्वस्य हेतुत्वासम्भवेन च तदसम्भवात्, कर्त्रर्थविहित कृतकृत्प्रत्ययान्तत्वे पूर्वोक्तरीत्या । स्वाधीन प्रकाशवत्त्वमर्थस्स्यात्। तथा च स्वस्येव स्वप्रकाशस्यापि नित्यत्वेन पूर्वोक्त दूषणग्रासादिति चेत्, मैवम्। उभयधाऽपि दोषाभावात्। तथाहि। आद्यपक्षे-प्रकाशस्य स्वाधीनत्वे तात्पर्याभावात्। अन्यानधीनत्वे तात्पर्यात्, द्वितीयपक्षे- स्वाधीनप्रकाशवत्त्वे तात्पर्याभावात्, अन्यानधीनप्रकाशवत्त्वे तात्पर्यात्, उभयथापि मणि प्रकाशमण्यादि व्यावृत्तिसिद्धेः। स्वतः – स्वस्मात्, सिद्धं – सिद्धिः – ज्ञानं, प्रकाश स्वरूपं; सिद्धं ज्ञातं प्रकाशितं वा; स्वाधीन प्रकाशाभिन्नं अन्याधीन प्रकाशरहितं वेत्यर्थः। सार्वविभक्तिकतसिल् प्रत्ययान्तत्वे तु प्रथमार्ध वर्णनसम्भवेन स्वयं प्रकाशार्थलाभान्न कोऽपि दोषगन्धः। यद्वा – स्वतः – स्वस्मात्, सिद्धं – उत्पन्नं, कारणान्तरापादितोत्पत्ति शून्यमित्यर्थः। नित्यमिति यावत्। अथवा, नित्यत्वं नान्याधीनमित्यावा – (स्वत) इति। अनेन नित्यमुक्त दिव्यावृत्तिः, तेषां स्वरूप स्वभावस्थितिप्रवृत्तीनां भगवदायत्तत्वात्। ननु नित्यमुक्तस्वरूव स्वभावादीनामपि नित्यत्वात्कथं भगदायत्तत्वमिति चेन्न, नित्यानामपि तद्वतिरेक प्रसञ्जितव्यतिरेक प्रतियोगित्वरूप भगवदायत्तत्वसम्भवात्। तथा च श्रुतिः- “को ह्येवान्यात्म प्राण्यात्, यदेष आकाश आनन्दो न स्यात्” इति – परमाणुगतपारिमाण्डल्यस्य नित्यत्वेऽप्याश्रयाधीनावस्थाया न्यायविद्भिरङ्गीकाराच्च। ननु सिद्धशब्दस्य नित्यपर्यायत्वं कथमिति चेदुच्यते – “सिद्दे शब्दार्थसम्बन्धे” इत्यत्र महाभाष्ये सिद्धशब्दस्य नित्यपर्यायत्वेन व्याख्यानात्। तथा हि। सिद्धशब्दस्य कः पदार्थः? नित्यपर्यायवाची सिद्धशब्दः कथं पुनः ज्ञायते? मत्कूट स्थेष्वविचालिषु भावेषु वर्तते तद्वच्च सिद्धं। सिद्धा पृथिवी, सिद्ध माकाश मित्यलं बहुना। (शुद्धस्फटिकमणिभूभृत्प्रतिभट) मिति। शुद्धस्य – निर्मलस्य, स्फटिकमणिभूभृतः – स्फटिकमयपर्वतस्य, प्रतिभटं – ततोऽप्यतिशयित कान्तिमत्त्वेन तं तिरस्कुर्वन्तमित्यर्थः । सुधासध्रीचीभिः – अमृतसहचरीखिः, द्युतिभिः – कान्तिभिः, (अपतापत्रिभुवनम्) अपगतः तापः – आध्यात्मिकाधिदैविकाधिभौतिकादि समस्तदुःखात्मकस्तापो यस्मिन् तत्; त्रयाणां भुवनानां समाहार स्त्रिभुवनं, पात्रादित्वान्न जीप्। अपतापं त्रिभुवनं यस्य तथोक्तः; हयग्रीवकान्तयश्चन्द्रमण्डलमध्यवृत्तिसुधास हितास्सत्य स्त्रिलोकीसन्तापहारिण्यो भवन्ति। मण्डलस्थस्सुधांशोः “पुंसां कर्मानलार्तानां पापिनां क्लेशशान्तये, स्वदेतेन्दुस्समुद्रेण ह्लादयन्गोगणेनवे” त्यादिवचनात्। अनन्तैः- निरवधिकैः,त्रय्यन्तैः – वेदान्तैः, (अनुविहितहेषाहलहलम्), अनुविहितः – अनुसृतः, हेषा – हेषाभ्यो हलहलः, अश्वध्वनिविशेषो यस्य तथोक्तम्। यथोक्तं भागवते द्वितीय स्कन्धे ब्रह्मनारदसंवादे – “वाचो बभूवु रुशती श्वसतोऽस्य न स्त” इति। “तस्य ह वा तस्य महतो भूतस्य निश्वसित मेतदृग्वेद” इति श्रुतिः। (हताशेषावद्यं) हतानि – परिहृतानि, अशेषावद्यानि – नमस्तदोषाः, येन तत्तथोक्तम्। आश्रितानामिति शेषः। यद्वा – आश्रितापराधोपेक्षकत्वमत्र विवक्षिम्। “न स्मरत्यपकाराणां शतमप्यात्मवत्तये” त्युक्तेः। हतानि- अत्यन्तासंश्लिष्टानि, अशेषावद्यानि – समस्तहेयानि, यस्मिन् तथोक्तम्। निखिलहेयप्रत्यनीकत्वात्तत्र दोषा न सम्भवन्तीति भावः। तथा च श्रुतिः – “अपहतपाप्मा विरजो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्प” इति। हयवदनं – हयस्य वदनमिव वदनं यस्य तथोक्तम्, शाक पार्थिवादित्वान्मध्यमपदलोपी समासः। (मह) इति। परं ब्रह्म ज्योतिषा मपि ज्योतिरयं पुरुषस्स्वयञ्ज्योतिः। “तेजस्तेजस्विनामह” मित्याद्युक्तेः। ईडीमहि – स्तुवीमहि। (ईड- स्तुतौ लडात्मनेपदम्) नित्यत्व- तेजिष्ठत्व -सकलदोषापहारित्व- वेदप्रवक्तृत्व- निर्दोषत्वादिगुणकं श्रीहयग्रीवं स्तुम इत्यर्थः। स्वभावोक्तिरलङ्कारः। “स्वभावोक्तिरलङ्कारो यथावद्वस्तुवर्णन” मितिलक्षणात्। अत्र स्वातन्त्र्याभिमान निवृत्तये कर्तुरनुपादानम् । प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टे रञ्जनश्री रपूर्वा । वक्त्री वेदान् भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ २॥ भगवन्तं स्तोतुं तदाविर्भावप्रार्थनया तमभिमुखीकरोति। प्राचीति। वासुदेवस्य – “सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः, तत स्स वासुदेवेति विद्वद्भिः परिपठ्यत” इत्याद्युक्तस्य परमात्मनः, वाजिवक्त्रा -हयवदना, वागीशाख्या – वागीशेति आख्या यस्या तथोक्ता; वेदान् -ऋग्यजुस्सामाधर्वणरूपान्, वक्त्री – व्यञ्जयन्ती, “ऋचस्सामानि जज्ञिरे छन्दाङ्ग्सि जज्ञिरे तस्मात्” इति, “प्रवक्ता छण्डसां वक्ता पञ्चरात्रस्य य स्स्वय”मित्यादिवचनात्। अत्र “न लोकाय निष्ठाखलर्थतृणा”मिति षष्ठीनिषेधः। अन्तर्निशायाः – अज्ञाननिशीथिन्याः, काचित्-विलक्षणा सन्ध्या, प्राची सन्ध्या – विभातसन्ध्या, अज्ञानान्धकार निवर्तिनीति यावत्। (प्रज्ञादृष्टेः) प्रज्ञा – तत्त्वहितपुरुषार्थविषयिणी धीः, सैव, दृष्टिः – ईक्षणं, तस्याः, अपूर्वा – प्रसिद्धा विलक्षणा, अञ्जनश्रीः – अञ्जनसम्पन्मूर्तिः, तनुः मे, भातु – स्फुरतु, भा -दीप्तौ लोट्। तादृशमूर्तिसाक्षात्कारे स्वस्याप्यज्ञाननिवृत्तिपूर्वक ज्ञानवृद्धिर्भूयादित्याशयः। रूपकालङ्कारः। “आरोप्यविषयस्य स्यादतिरोहितरूपिणः, उपरञ्जितमारोप्यमाणं तदूप्रकं मत” मिति लक्षणात् । ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ ३॥ पूर्वस्मिन् श्लोके हयमुखसन्निधानं प्रार्थितम्। इदानीं सन्निहितं भगवन्तमुपास्मह इत्याह (ज्ञानानन्देति)। ज्ञानानन्दमयं – ज्ञानानन्दप्रचुरम्। “तत् प्रकृतवचने मयडिति प्राचुर्यार्थे मयट्। यद्वा – ज्ञानानन्दमयं – ज्ञानानन्दस्वरूपं, “स्वार्थे मयट्, प्राणमय इत्यादिवत्। “सत्यं ज्ञानमनन्तं ब्रह्म, को ह्येवान्यात्कः प्राण्यात् यदेष अकाश आनन्दो न स्या” दित्युक्तेः। (निर्मलस्फटिकाकृतिम्) निर्मलः- जाज्वल्यमानः, स्फटिकः – स्फटिकमणिः, तस्याकृतिरिवाकृतिर्यस्य तं; सर्वविद्यानां – सकलकलानाम्, आधारं – निलयं, “छन्दोमयो मखमयोऽखिलदेवतात्मे” त्युक्तेः। हयग्रीवं देवमुपास्महे – ध्यायामः, “आस- उपवेशने” । विशुद्धविज्ञान घनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ ४॥ गुरुलघूपायभूतयोर्भक्ति प्रपत्त्योर्मध्ये प्रचरामीत्याह (विशुद्ध) मिति। अहं – दासभूतः, दयायाः निधिं – अक्षयस्थानं, तम्, अत एव देहभृतां – प्राणिनां, शरण्यं – रक्षकं, (विशुद्धविज्ञानघनस्वरूपं) विशुद्धेन – निर्मलेन, विज्ञानेन, घनं – निबिडं, अन्तर्बहिर्ज्ञानमयमित्यर्थः। यद्वा, विज्ञानरूपो घनः -पिण्डः, तद्रूपमित्यर्थः। “विज्ञानघन एवे”ति श्रुतेः, स्वरूपं यस्य, तम्। (विज्ञानविश्राणनबद्धदीक्षम्) विज्ञानस्य – ज्ञानयोगस्य, विश्राणने – वितरणे, बद्धा -धृता, दीक्षा – सङ्कल्पः, यस्य तम्। “तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्, ददामि बुद्धियोगं तं येन मामुपयान्ति त” इत्यादिवचनात्। हयग्रीवं, प्रपद्ये – शरणं यामि, “पद्ल् -गतौ” लडात्मनेपदम्। ज्ञानस्वरूपस्य ज्ञानप्रदस्य दयाळोः सर्वभूतशरण्यस्य शरणागता अस्मत्संरक्षणं कियदिति भावः । समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादृप्यत्कौतस्कुतकलह कोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥ ५॥ भगवति हयास्ये भक्तिप्रपत्तिरूपोपायद्वयं विधाय,सम्प्रति चिकीर्षितस्तोत्रपरिसमाप्ति प्रतिबन्धकाज्ञानान्धकारनिवृत्तिं सर्वविघ्नोपशमाद्धयमुख हेषारवसकाशात् स्वस्य प्रार्थयते (समाहर) इति। साम्नां – सामशाखानां, समाहारः – सङ्घातः, तत्स्वरूपमिति यावत्। “प्रणवोद्गीथवचस” इत्युक्तेः। ऋक्साखानां, प्रतिपदं- तदर्थबोधकपर्यायपदं, यजुषां – तैत्तिरीयशाखानां, धाम – वासप्थानं, प्रत्यूहानां – विद्याप्रतिबन्धकविघ्नानां, लयः – ध्वंसः, बोधजलधेः – ज्ञानसागरस्य, लहरिविततिः – तरङ्गपरंवरा,(हयवदन हेषाहलहलः) हयवदनस्य – हयग्रीवस्य, हेषाख्यो हलहलः – अश्वध्वनिः, (कथादृप्यत्कौतस्कुतकलह कोलाहलभवम्) कथासु – वादकथासु, दृप्यन्तः कौतस्कुताः – कुतः कुत इति वादिनः, स “कस्कादित्वात्सः”, तेषां, कलहकोलाहलेन – अयथार्थवादकलहेन, भवः – जन्यः, अन्तर्द्वान्तम्, हरतु – निवर्तयतु, “हृञ्- हरणे”। हेषाहलहलस्य समाहाराद्यभेदोक्त्या भेदरूपकालङ्कारः । अपौरुषेयै रपि वाक्प्रपञ्चै रद्यापि ते भूतिमदृष्टपाराम् । स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ ! कटाक्षणीयः ॥ ६॥ साक्षात्कृते भगवति विविध विचित्रानन्ताश्चर्य सनकसनन्दनादि ध्यानागोचर दिव्यस्वभावं दृष्ट्वाऽस्य भगवद्गुणानुवर्णने प्रयत्नः परिहसास्पद इत्यभिप्रेत्याह (अपौरुषेयै रिति)। हे नाथ – हे हयग्रीव, अद्यापि – इदानी मपि, अपौरुषेयैः – नित्यैः, “अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवे” त्याद्युक्तेः। वाक्प्रपञ्चैरपि – वेदजालैरपि, (अदृष्टपाराम्) अदृष्टं – प्रतिपादनाविषयीभूतं, पारम्-अवधिः, यस्या स्सा तथोक्ता “यतो वाचो निवर्तन्ते, अप्राप्य मनसा सहे” ति श्रुतेः । “नान्तोऽस्ति म दिव्यानां विभूतीनां परन्तपे” त्यादि स्मृतेश्च । भूतिं – गुणाद्यैश्वर्यं, स्तुवन् – वर्णयन्, अहं, मुग्धः – बालः, कृत्यसाध्ये यतमान इति यावत्; इति – हेतोः, त्वया, कारुण्यत एव – कृपावशादेव, न ह्यस्मदादिषु कटाक्षनिमित्तं किञ्चिदस्तीति भावः। कटाक्षणीयः – बालेष्वकिञ्चित्कुर्वत्स्वपि परमकारुणिकस्य पितुः करुणाकटाक्षः स्वाभाविक इति भावः । दाक्षिण्यरम्या गिरिशस्य मूर्तिर्देवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाच स्स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ ७॥ लोके ये विद्यादिकाः ते सर्वेऽपि भवदीयशक्त्यंशैः स्पृशन्तीत्याह (दाक्षिण्ये) ति । हे नाथ – हे हयग्रीव, गिरिशस्य – रुद्रस्य, (दाक्षिण्यरम्या) दाक्षिण्यीन – सुखप्रियवचनादिना, रम्या -मनोहरा, यद्वा, दाक्षिण्येन – विद्याप्रदान सामर्थ्वेन, रम्या – मनोज्ञा, मूर्तिः, सरोजासनस्य – चतुर्मुखस्य, धर्मपत्नी – सहधर्मचरी, देवी – सरस्वती, व्यपदेश्यवाचः – प्रसिद्ध ग्रन्थकर्तारो व्यासादयः, व्यासवाल्मीकिशुक पराशरादयोऽपि, सर्वे – पूर्वसमुदितव्यतिरिक्ताः, तव शक्तिलेशैः – विद्याशक्त्यंशैः, स्फुरन्ति – भान्ति। “न तत्र सूर्यो भाति न चन्द्रतारकं, नेमा विद्युतो भान्ति कुतोऽयमग्निः, तमेव भान्त मनुभाति सर्वं तस्य भासा सर्वमिदं विभाती” ति श्रुतेः।