अध्यात्मरामायणे बालकाण्डम्
॥ प्रथमः सर्गः॥ ॥ राम हृदयम्॥ यः पृथिवीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयः सञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः । निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥ १॥ विश्वोद्भवस्थितिलयादिषु हेतुमेकं मायाश्रयं विगतमायमचिन्त्यमूर्तिम् । आनन्दसान्द्रममलं निजबोधरूपं सीतापतिं विदिततत्त्वमहं नमामि ॥ २॥ पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति चाध्यात्मिकसञ्ज्ञितं शुभम् । रामायणं सर्वपुराणसंमतं निर्धूतपापा हरिमेव यान्ति ते ॥ ३॥ अध्यात्मरामायणमेव नित्यं पठेद्यदीच्छेद्भवबन्धमुक्तिम् । गवां सहस्रायुतकोटिदानात् फलं लभेद्यः शृणुयात्स नित्यम् ॥ ४॥ पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता । अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् ॥ ५॥ कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसन्घैः । देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दम् ॥ ६॥ पार्वत्युवाच नमोऽस्तु ते देव जगन्निवास सर्वात्मदृक् त्वं परमेश्वरोऽसि । पृच्छामि तत्त्वं पुरुषोत्तमस्य सनातनं त्वं च सनातनोऽसि ॥ ७॥ गोप्यं यदत्यन्तमनन्यवाच्यं वदन्ति भक्तेषु महानुभावाः । तदप्यहोऽहं तव देव भक्ता प्रियोऽसि मे त्वं वद यत्तु पृष्टम् ॥ ८॥ ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं च मितं विभास्वत् । जानाम्यहं योषिदपि त्वदुक्तं यथा तथा ब्रूहि तरन्ति येन ॥ ९॥ पृच्छामि चान्यच्च परं रहस्यं तदेव चाग्रे वद वारिजाक्ष । श्रीरामचन्द्रेऽखिललोकसारे भक्तिर्दृढा नौर्भवति प्रसिद्धा ॥ १०॥ भक्तिः प्रसिद्धा भवमोक्षणाय नान्यत्ततः साधनमस्ति किञ्चित् । तथापि हृत्संशयबन्धनं मे विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् ॥ ११॥ वदन्ति रामं परमेकमाद्यं निरस्तमायागुणसम्प्रवाहम् । भजन्ति चाहर्निशमप्रमत्ताः परं पदं यान्ति तथैव सिद्धाः ॥ १२॥ वदन्ति केचित्परमोऽपि रामः स्वाविद्यया संवृतमात्मसञ्ज्ञम् । जानाति नात्मानमतः परेण सम्बोधितो वेद परात्मतत्त्वम् ॥ १३॥ यदि स्म जानाति कुतो विलापः सीताकृतेऽनेन कृतः परेण । जानाति नैवं यदि केन सेव्यः समो हि सर्वैरपि जीवजातैः ॥ १४॥ अत्रोत्तरं किं विदितं भवद्भिः तद्ब्रूत मे संशयभेदि वाक्यम् ॥ १५॥ श्रीमहादेव उवाच धन्यासि भक्तासि परात्मनस्त्वं यज्ज्ञातुमिच्छा तव रामतत्त्वम् । पुरा न केनाप्यभिचोदितोऽहं वक्तुं रहस्यं परमं निगूढम् ॥ १६॥ त्वयाद्य भक्त्या परिनोदितोऽहं वक्ष्ये नमस्कृत्य रघूत्तमं ते । रामः परात्मा प्रकृतेरनादि- रानन्द एकः पुरुषोत्तमो हि ॥ १७॥ स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः । सर्वान्तरस्थोऽपि निगूढ आत्मा स्वमायया सृष्टमिदं विचष्टे ॥ १८॥ जगन्ति नित्यं परितो भ्रमन्ति यत्सन्निधौ चुम्बकलोहवद्धि । एतन्न जानन्ति विमूढचित्ताः स्वाविद्यया संवृतमानसा ये ॥ १९॥ स्वाज्ञानमप्यात्मनि शुद्धबुद्धे स्वारोपयन्तीह निरस्तमाये । संसारमेवानुसरन्ति ते वै पुत्रादिसक्ताः पुरुकर्मयुक्ताः ॥ २०॥ यथाऽप्रकाशो न तु विद्यते रवौ ज्योतिःस्वभावे परमेश्वरे तथा । विशुद्धविज्ञानघने रघूत्तमेऽविद्या कथं स्यात्परतः परात्मनि ॥ २१॥ यथा हि चाक्ष्णा भ्रमता गृहादिकं विनष्टदृष्टेर्भ्रमतीव दृश्यते । तथैव देहेन्द्रियकर्तुरात्मनः कृते परेऽध्यस्य जनो विमुह्यति ॥ २२॥ नाहो न रात्रिः सवितुर्यथा भवेत् प्रकाशरूपाव्यभिचारतः क्वचित् । ज्ञानं तथाज्ञानमिदं द्वयं हरौ रामे कथं स्थास्यति शुद्धचिद्घने ॥ २३॥ तस्मात्परानन्दमये रघूत्तमे विज्ञानरूपे हि न विद्यते तमः । अज्ञानसाक्षिण्यरविन्दलोचने मायाश्रयत्वान्न हि मोहकारणम् ॥ २४॥ अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् । सीताराममरुत्सूनुसंवादं मोक्षसाधनम् ॥ २५॥ पुरा रामायणे रामे रावणं देवकण्टकम् । हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् ॥ २६॥ सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः । अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः ॥ २७॥ अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभिः । सिंहासने समासीनः कोटिसूर्यसमप्रभः ॥ २८॥ दृष्ट्वा तदा हनूमन्तं प्राञ्जलिं पुरतः स्थितम् । कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम् ॥ २९॥ रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते । निष्कल्मषोऽयं ज्ञानस्य पात्रं नो नित्यभक्तिमान् ॥ ३०॥ तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम् । हनूमते प्रपन्नाय सीता लोकविमोहिनी ॥ ३१॥ सीतोवाच रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् । सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् ॥ ३२॥ आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम् । सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् ॥ ३३॥ मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् । तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता ॥ ३४॥ तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः । अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले ॥ ३५॥ विश्वामित्रसहायत्वं मखसंरक्षणं ततः । अहल्याशापशमनं चापभङ्गो महेशितुः ॥ ३६॥ मत्पाणिग्रहणं पश्चाद्भार्गवस्य मदक्षयः । अयोध्यानगरे वासो मया द्वादशवार्षिकः ॥ ३७॥ दण्डकारण्यगमनं विराधवध एव च । मायामारीचमरणं मायासीताहृतिस्तथा ॥ ३८॥ जटायुषो मोक्षलाभः कबन्धस्य तथैव च । शबर्याः पूजनं पश्चात्सुग्रीवेण समागमः ॥ ३९॥ वालिनश्च वधः पश्चात्सीतान्वेषणमेव च । सेतुबन्धश्च जलधौ लङ्कायाश्च निरोधनम् ॥ ४०॥ रावणस्य वधो युद्धे सपुत्रस्य दुरात्मनः । विभीषणे राज्यदानं पुष्पकेण मया सह ॥ ४१॥ अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम् । एवमादीनि कर्माणि मयैवाचरितान्यपि आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि ॥ ४२॥ रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते त्यजति नो न करोति किञ्चित् । आनन्दमूर्तिरचलः परिणामहीनो मायागुणाननुगतो हि तथा विभाति ॥ ४३॥ ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् । शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ ४४॥ आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् । जलाशये महाकाशस्तदवच्छिन्न एव हि । प्रतिबिम्बाख्यमपरं दृश्यते त्रिविधं नभः ॥ ४५॥ बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् । आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः ॥ ४६॥ साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि । साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथा बुधैः ॥ ४७॥ आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते । अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः ॥ ४८॥ अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते । तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥ ४९॥ ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः । तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः ॥ ५०॥ एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते । मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् । न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि ॥ ५१॥ इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात्कथितं तवानघ । मद्भक्तिहीनाय शठाय न त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ ५२॥ श्रीमहादेव उवाच एतत्तेऽभिहितं देवि श्रीरामहृदयं मया । अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् ॥ ५३॥ साक्षाद्रामेण कथितं सर्ववेदान्तसङ्ग्रहम् । यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः ॥ ५४॥ ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि । नश्यन्त्येव न सन्देहो रामस्य वचनं यथा ॥ ५५॥ योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी यः सम्पूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम् ॥ ५६॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे श्रीरामहृदयं नाम प्रथमः सर्गः ॥ १॥ ॥ द्वितीयः सर्गः॥ पार्वत्युवाच धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो । विच्छिन्नो मेऽतिसन्देहग्रन्थिर्भवदनुग्रहात् ॥ १॥ त्वन्मुखाद्गलितं रामतत्त्वामृतरसायनम् । पिबन्त्या मे मनो देव न तृप्यति भवापहम् ॥ २॥ श्रीरामस्य कथा त्वत्तः श्रुता सङ्क्षेपतो मया । इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् ॥ ३॥ श्रीमहादेव उवाच शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । अध्यात्मरामचरितं रामेणोक्तं पुरा मम ॥ ४ । तदद्य कथयिष्यामि शृणु तापत्रयापहम् । यच्छ्रुत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात् । प्राप्नोति परमामृद्धिम् दीर्घायुः पुत्रसन्ततिम् ॥ ५॥ भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां धृत्वा गोरूपमादौ दिविजमुनिजनैः साकमब्जासनस्य । गत्वा लोकं रुदन्ती व्यसनमुपगतं ब्रह्मणे प्राह सर्वं ब्रह्मा ध्यात्वा मुहूर्तं सकलमपि हृदावेदशेषात्मकत्वात् ॥ ६॥ तस्मात्क्षीरसमुद्रतीरमगमद् ब्रह्माथ देवैर्वृतो देव्या चाखिललोकहृत्स्थमजरं सर्वज्ञमीशं हरिम् । अस्तौषीच्छ्रुतिसिद्धनिर्मलपदैः स्तोत्रैः पुराणोद्भवैः भक्त्या गद्गदया गिरातिविमलैरानन्दबाष्पैर्वृतः ॥ ७॥ ततः स्फुरत्सहस्रांशुसहस्रसदृशप्रभः । आविरासीद्धरिः प्राच्यां दिशां व्यपनयन्स्तमः ॥ ८॥ कथञ्चिद्दृष्टवान् ब्रह्मा दुर्दर्शमकृतात्मनाम् । इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम् ॥ ९॥ किरीटहारकेयूरकुण्डलैः कटकादिभिः । विभ्राजमानं श्रीवत्सकौस्तुभप्रभयान्वितम् ॥ १०॥ स्तुवद्भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम् । शङ्खचक्रगदापद्मवनमालाविराजितम् ॥ ११॥ स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च । श्रिया भूम्या च सहितं गरुडोपरि संस्थितम् ॥ १२॥ हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे ॥ १३॥ ब्रह्मोवाच नतोऽस्मि ते पदं देव प्राणबुद्धीन्द्रियात्मभिः । यच्चिन्त्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः ॥ १४॥ मायया गुणमय्या त्वं सृजस्यवसि लुम्पसि । जगत्तेन न ते लेप आनन्दानुभवात्मनः ॥ १५॥ तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः । शुद्धात्मता ते यशसि सदा भक्तिमतां यथा ॥ १६॥ अतस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये । सद्योऽन्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः ॥ १७॥ ब्रह्माद्यैः स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः । अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदि भावितः ॥ १८॥ तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो । स्पर्धते वक्षसि पदं लब्ध्वापि श्रीः सपत्निवत् ॥ १९॥
KARMASU