अच्युताष्टकं २

अथ अच्युताष्टकम् ॥ अभिलपननिसर्गादच्युताख्ये भजे त्वां हरसि मदघबृन्दं त्वद्भुबुक्षावशात् त्वम् । अघहृदिति तवांब प्रत्युत ख्यातिदोऽहं त्वयि मम वद का वा संगतिर्दैन्यवाचाम् ॥ १॥ चिरातीता सान्दीपनितनुभुवः कालभवन- प्रपत्तिस्तं पित्रोः पुनरगमयत् सन्निधिमिति । यशः कृष्णस्येदं कथमहह न त्वां रसनया यदि श्रीकृष्णाख्ये भजति स तादनीं मुनिसुतः ॥ २॥ हरेर्यच्चोरत्वं यदपि च तथा जारचरितं तदेतत् सर्वांहस्ततिकृते संकथनतः । इतीदं माहात्म्यं मधुमथन ते दीपितमिदं वदन्त्याः कृष्णाख्ये तवहि विचरन्त्या विलसितम् ॥ ३॥ सभायां द्रौपत्याऽंशुकसृतिभिया तद्रसनया धृता तस्याश्चेलं प्रतनु तदवस्थं विदधती । व्यतानीश्शैलाभं वसनविसरं चांब हरता- मियान् गोविन्दाख्ये वद वसनराशिस्तव कुतः ॥ ४॥ अधिरसनमयि त्वामच्युताख्ये दधानं वनजभवमुखानां वन्द्यमाहुर्महान्तः । सतु विनमति मातश्चाश्वगोश्वादनादीन् भवति ननु विचित्रा पद्धतिस्तावकानाम् ॥ ५॥ जननि मुरभिदाख्ये जाह्नवीनिम्नगैका समजनि पदपद्माच्चक्रिणस्त्वाश्रितानाम् । परिणमति समस्ताः पादवार्घिन्दुरेको जगति ननु तटिन्यो जाह्नवीसह्यजाद्याः ॥ ६॥ समवहितमपश्यन् सन्निधौ वैनतेयं प्रसभविधुतपद्मापाणिरीशोऽच्युताख्ये । समवितुमुपनीतः सागजेन्द्रं त्वया द्राक् वद जननि विना त्वां केन वा किं तदाभूत् ॥ ७॥ यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि ततो महिम्नः का हानिस्तवतु मम संपन्निरवधिः । शुना लीलाकामं भवति सुरसिन्धुर्भगवती तदेषा किंभूता सतु सपदि सन्तापभरितः ॥ ८॥ इति श्रीश्रीधरवेंकटेशार्यकृतौ अच्युताष्टकं संपूर्णम् ॥

अच्युताष्टकं २ Read More »

अच्युताष्टकम् १

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ १॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दनं सन्दधे ॥ २॥ विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणिऱागिणे जानकीजानये । वल्लवीवल्लभायाऽर्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ॥ ३॥ कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ ४॥ राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः । लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्यसम्पूजितो राघवः पातु माम् ॥ ५॥ धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां केशिहा कंसहृद्वंशिकावादकः । var द्वेषिहा पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु माम् सर्वदा ॥ ६॥ विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् । var विद्युदुद्योतवान् वन्यया मालया शोभितोरःस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥ ७॥ कुञ्चितैः कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः । हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणीमञ्जुलं श्यामलं तं भजे ॥ ८॥ अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । वृत्ततः सुन्दरं कर्तृ विश्वम्भरस्तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९॥ ॥ इति श्रीशङ्कराचार्यविरचितमच्युताष्टकं सम्पूर्णम् ॥

अच्युताष्टकम् १ Read More »

अध्यात्मरामायणे बालकाण्डम्

॥ प्रथमः सर्गः॥ ॥ राम हृदयम्॥ यः पृथिवीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयः सञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः । निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥ १॥ विश्वोद्भवस्थितिलयादिषु हेतुमेकं मायाश्रयं विगतमायमचिन्त्यमूर्तिम् । आनन्दसान्द्रममलं निजबोधरूपं सीतापतिं विदिततत्त्वमहं नमामि ॥ २॥ पठन्ति ये नित्यमनन्यचेतसः श‍ृण्वन्ति चाध्यात्मिकसञ्ज्ञितं शुभम् । रामायणं सर्वपुराणसंमतं निर्धूतपापा हरिमेव यान्ति ते ॥ ३॥ अध्यात्मरामायणमेव नित्यं पठेद्यदीच्छेद्भवबन्धमुक्तिम् । गवां सहस्रायुतकोटिदानात् फलं लभेद्यः श‍ृणुयात्स नित्यम् ॥ ४॥ पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता । अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् ॥ ५॥ कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसन्घैः । देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दम् ॥ ६॥ पार्वत्युवाच नमोऽस्तु ते देव जगन्निवास सर्वात्मदृक् त्वं परमेश्वरोऽसि । पृच्छामि तत्त्वं पुरुषोत्तमस्य सनातनं त्वं च सनातनोऽसि ॥ ७॥ गोप्यं यदत्यन्तमनन्यवाच्यं वदन्ति भक्तेषु महानुभावाः । तदप्यहोऽहं तव देव भक्ता प्रियोऽसि मे त्वं वद यत्तु पृष्टम् ॥ ८॥ ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं च मितं विभास्वत् । जानाम्यहं योषिदपि त्वदुक्तं यथा तथा ब्रूहि तरन्ति येन ॥ ९॥ पृच्छामि चान्यच्च परं रहस्यं तदेव चाग्रे वद वारिजाक्ष । श्रीरामचन्द्रेऽखिललोकसारे भक्तिर्दृढा नौर्भवति प्रसिद्धा ॥ १०॥ भक्तिः प्रसिद्धा भवमोक्षणाय नान्यत्ततः साधनमस्ति किञ्चित् । तथापि हृत्संशयबन्धनं मे विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् ॥ ११॥ वदन्ति रामं परमेकमाद्यं निरस्तमायागुणसम्प्रवाहम् । भजन्ति चाहर्निशमप्रमत्ताः परं पदं यान्ति तथैव सिद्धाः ॥ १२॥ वदन्ति केचित्परमोऽपि रामः स्वाविद्यया संवृतमात्मसञ्ज्ञम् । जानाति नात्मानमतः परेण सम्बोधितो वेद परात्मतत्त्वम् ॥ १३॥ यदि स्म जानाति कुतो विलापः सीताकृतेऽनेन कृतः परेण । जानाति नैवं यदि केन सेव्यः समो हि सर्वैरपि जीवजातैः ॥ १४॥ अत्रोत्तरं किं विदितं भवद्भिः तद्ब्रूत मे संशयभेदि वाक्यम् ॥ १५॥ श्रीमहादेव उवाच धन्यासि भक्तासि परात्मनस्त्वं यज्ज्ञातुमिच्छा तव रामतत्त्वम् । पुरा न केनाप्यभिचोदितोऽहं वक्तुं रहस्यं परमं निगूढम् ॥ १६॥ त्वयाद्य भक्त्या परिनोदितोऽहं वक्ष्ये नमस्कृत्य रघूत्तमं ते । रामः परात्मा प्रकृतेरनादि- रानन्द एकः पुरुषोत्तमो हि ॥ १७॥ स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः । सर्वान्तरस्थोऽपि निगूढ आत्मा स्वमायया सृष्टमिदं विचष्टे ॥ १८॥ जगन्ति नित्यं परितो भ्रमन्ति यत्सन्निधौ चुम्बकलोहवद्धि । एतन्न जानन्ति विमूढचित्ताः स्वाविद्यया संवृतमानसा ये ॥ १९॥ स्वाज्ञानमप्यात्मनि शुद्धबुद्धे स्वारोपयन्तीह निरस्तमाये । संसारमेवानुसरन्ति ते वै पुत्रादिसक्ताः पुरुकर्मयुक्ताः ॥ २०॥ यथाऽप्रकाशो न तु विद्यते रवौ ज्योतिःस्वभावे परमेश्वरे तथा । विशुद्धविज्ञानघने रघूत्तमेऽविद्या कथं स्यात्परतः परात्मनि ॥ २१॥ यथा हि चाक्ष्णा भ्रमता गृहादिकं विनष्टदृष्टेर्भ्रमतीव दृश्यते । तथैव देहेन्द्रियकर्तुरात्मनः कृते परेऽध्यस्य जनो विमुह्यति ॥ २२॥ नाहो न रात्रिः सवितुर्यथा भवेत् प्रकाशरूपाव्यभिचारतः क्वचित् । ज्ञानं तथाज्ञानमिदं द्वयं हरौ रामे कथं स्थास्यति शुद्धचिद्घने ॥ २३॥ तस्मात्परानन्दमये रघूत्तमे विज्ञानरूपे हि न विद्यते तमः । अज्ञानसाक्षिण्यरविन्दलोचने मायाश्रयत्वान्न हि मोहकारणम् ॥ २४॥ अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् । सीताराममरुत्सूनुसंवादं मोक्षसाधनम् ॥ २५॥ पुरा रामायणे रामे रावणं देवकण्टकम् । हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् ॥ २६॥ सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः । अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः ॥ २७॥ अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभिः । सिंहासने समासीनः कोटिसूर्यसमप्रभः ॥ २८॥ दृष्ट्वा तदा हनूमन्तं प्राञ्जलिं पुरतः स्थितम् । कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम् ॥ २९॥ रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते । निष्कल्मषोऽयं ज्ञानस्य पात्रं नो नित्यभक्तिमान् ॥ ३०॥ तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम् । हनूमते प्रपन्नाय सीता लोकविमोहिनी ॥ ३१॥ सीतोवाच रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् । सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् ॥ ३२॥ आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम् । सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् ॥ ३३॥ मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् । तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता ॥ ३४॥ तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः । अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले ॥ ३५॥ विश्वामित्रसहायत्वं मखसंरक्षणं ततः । अहल्याशापशमनं चापभङ्गो महेशितुः ॥ ३६॥ मत्पाणिग्रहणं पश्चाद्भार्गवस्य मदक्षयः । अयोध्यानगरे वासो मया द्वादशवार्षिकः ॥ ३७॥ दण्डकारण्यगमनं विराधवध एव च । मायामारीचमरणं मायासीताहृतिस्तथा ॥ ३८॥ जटायुषो मोक्षलाभः कबन्धस्य तथैव च । शबर्याः पूजनं पश्चात्सुग्रीवेण समागमः ॥ ३९॥ वालिनश्च वधः पश्चात्सीतान्वेषणमेव च । सेतुबन्धश्च जलधौ लङ्कायाश्च निरोधनम् ॥ ४०॥ रावणस्य वधो युद्धे सपुत्रस्य दुरात्मनः । विभीषणे राज्यदानं पुष्पकेण मया सह ॥ ४१॥ अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम् । एवमादीनि कर्माणि मयैवाचरितान्यपि आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि ॥ ४२॥ रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते त्यजति नो न करोति किञ्चित् । आनन्दमूर्तिरचलः परिणामहीनो मायागुणाननुगतो हि तथा विभाति ॥ ४३॥ ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् । श‍ृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ ४४॥ आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् । जलाशये महाकाशस्तदवच्छिन्न एव हि । प्रतिबिम्बाख्यमपरं दृश्यते त्रिविधं नभः ॥ ४५॥ बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् । आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः ॥ ४६॥ साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि । साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथा बुधैः ॥ ४७॥ आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते । अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः ॥ ४८॥ अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते । तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥ ४९॥ ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः । तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः ॥ ५०॥ एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते । मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् । न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि ॥ ५१॥ इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात्कथितं तवानघ । मद्भक्तिहीनाय शठाय न त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ ५२॥ श्रीमहादेव उवाच एतत्तेऽभिहितं देवि श्रीरामहृदयं मया । अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् ॥ ५३॥ साक्षाद्रामेण कथितं सर्ववेदान्तसङ्ग्रहम् । यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः ॥ ५४॥ ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि । नश्यन्त्येव न सन्देहो रामस्य वचनं यथा ॥ ५५॥ योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी यः सम्पूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम् ॥ ५६॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे श्रीरामहृदयं नाम प्रथमः सर्गः ॥ १॥ ॥ द्वितीयः सर्गः॥ पार्वत्युवाच धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो । विच्छिन्नो मेऽतिसन्देहग्रन्थिर्भवदनुग्रहात् ॥ १॥ त्वन्मुखाद्गलितं रामतत्त्वामृतरसायनम् । पिबन्त्या मे मनो देव न तृप्यति भवापहम् ॥ २॥ श्रीरामस्य कथा त्वत्तः श्रुता सङ्क्षेपतो मया । इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् ॥ ३॥ श्रीमहादेव उवाच श‍ृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । अध्यात्मरामचरितं रामेणोक्तं पुरा मम ॥ ४ । तदद्य कथयिष्यामि श‍ृणु तापत्रयापहम् । यच्छ्रुत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात् । प्राप्नोति परमामृद्धिम् दीर्घायुः पुत्रसन्ततिम् ॥ ५॥ भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां धृत्वा गोरूपमादौ दिविजमुनिजनैः साकमब्जासनस्य । गत्वा लोकं रुदन्ती व्यसनमुपगतं ब्रह्मणे प्राह सर्वं ब्रह्मा ध्यात्वा मुहूर्तं सकलमपि हृदावेदशेषात्मकत्वात् ॥ ६॥ तस्मात्क्षीरसमुद्रतीरमगमद् ब्रह्माथ देवैर्वृतो देव्या चाखिललोकहृत्स्थमजरं सर्वज्ञमीशं हरिम् । अस्तौषीच्छ्रुतिसिद्धनिर्मलपदैः स्तोत्रैः पुराणोद्भवैः भक्त्या गद्गदया गिरातिविमलैरानन्दबाष्पैर्वृतः ॥ ७॥ ततः स्फुरत्सहस्रांशुसहस्रसदृशप्रभः । आविरासीद्धरिः प्राच्यां दिशां व्यपनयन्स्तमः ॥ ८॥ कथञ्चिद्दृष्टवान् ब्रह्मा दुर्दर्शमकृतात्मनाम् । इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम् ॥ ९॥ किरीटहारकेयूरकुण्डलैः कटकादिभिः । विभ्राजमानं श्रीवत्सकौस्तुभप्रभयान्वितम् ॥ १०॥ स्तुवद्भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम् । शङ्खचक्रगदापद्मवनमालाविराजितम् ॥ ११॥ स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च । श्रिया भूम्या च सहितं गरुडोपरि संस्थितम् ॥ १२॥ हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे ॥ १३॥ ब्रह्मोवाच नतोऽस्मि ते पदं देव प्राणबुद्धीन्द्रियात्मभिः । यच्चिन्त्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः ॥ १४॥ मायया गुणमय्या त्वं सृजस्यवसि लुम्पसि । जगत्तेन न ते लेप आनन्दानुभवात्मनः ॥ १५॥ तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः । शुद्धात्मता ते यशसि सदा भक्तिमतां यथा ॥ १६॥ अतस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये । सद्योऽन्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः ॥ १७॥ ब्रह्माद्यैः स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः । अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदि भावितः ॥ १८॥ तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो । स्पर्धते वक्षसि पदं लब्ध्वापि श्रीः सपत्निवत् ॥ १९॥

अध्यात्मरामायणे बालकाण्डम् Read More »

अध्यात्मरामायणमाहात्म्यम् ब्रह्माण्डपुराणे

रामं विश्वमयं वन्दे रामं वन्दे रघूद्वहम् । रामं विप्रवरं वन्दे रामं श्यामाग्रजं भजे ॥ यस्य वागंशुतश्च्युतं रम्यं रामायणामृतम् । शैलजासेवितं वन्दे तं शिवं सोमरूपिणम् ॥ सच्चिदानन्दसन्दोहं भक्तिभूतिविभूषणम् । पूर्णानन्दमहं वन्दे सद्गुरुं शङ्करं स्वयम् ॥ अज्ञानध्वान्तसंहर्त्री ज्ञानलोकविलासिनी । चन्द्रचूडवचश्चन्द्रचन्द्रिकेयं विराजते ॥ अप्रमेयत्रयातीतनिर्मलज्ञानमूर्तये । मनोगिरां विदूराय दक्षिणामूर्तये नमः ॥ १॥ सूत उवाच । कदाचिन्नारदो योगी परानुग्रहवाञ्छया । पर्यटन् सकलान् लोकान् सत्यलोकमुपागमत् ॥ २॥ तत्र दृष्ट्वा मूर्तिमद्भिश्छन्दोभिः परिवेष्टितम्। बालार्कप्रभया सम्यग्भासयन्तं सभागृहम् ॥ ३॥ मार्कण्डेयादिमुनिभिः स्तूयमानं मुहुर्मुहुः । सर्वार्थगोचरज्ञानं सरस्वत्या समन्वितम् ॥ ४॥ चतुर्मुखं जगन्नाथं भक्ताभीष्टफलप्रदम् । प्रणम्य दण्डवद्भक्त्या तुष्टाव मुनिपुङ्गवः ॥ ५॥ सन्तुष्टस्तं मुनिं प्राह स्वयम्भूर्वैष्णवोत्तमम् । किं प्रष्टुकामस्त्वमसि तद्वदिष्यामि ते मुने ॥ ६॥ इत्याकर्ण्य वचस्तस्य मुनिर्ब्रह्माणमब्रवीत् । त्वत्तः श्रुतं मया सर्वं पूर्वमेव शुभाशुभम् ॥ ७॥ इदानीमेकमेवास्ति श्रोतव्यं सुरसत्तम । तद्रहस्यमपि ब्रूहि यदि तेऽनुग्रहो मयि ॥ ८॥ प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः । दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ ९॥ परापवादनिरताः परद्रव्याभिलाषिणः । परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ १०॥ देहात्मदृष्टयो मूढा नास्तिका पशुबुद्धयः । मातापितृकृतद्वेषाः स्त्रीदेवाः कामकिङ्कराः ॥ ११॥ विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः । धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ १२॥ त्यक्तस्वजातिकर्माणः प्रायशः परवञ्चकाः। क्षत्रियाश्च तथा वैश्याः स्वधर्मत्यागशीलिनः ॥ १३॥ तद्वच्छूद्राश्च ये केचिद्ब्राह्मणाचारतत्पराः। स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञाननिर्भयाः ॥ १४॥ श्वशुरद्रोहकारिण्यो भविष्यन्ति न संशयः। एतेषां नष्टबुद्धीनां परलोकः कथं भवेत् ॥ १५॥ इति चिन्ताकुलं चित्तं जायते मम सन्ततम् । लघूपायेन येनैषां परलोकगतिर्भवेत्। तमुपायमुपाख्याहि सर्वं वेत्ति यतो भवान् ॥ १६॥ इत्यृषेर्वाक्यमाकर्ण्य प्रत्युवाचाम्बुजासनः । साधु पृष्टं त्वया साधो वक्ष्ये तच्छृणु सादरम् ॥ १७॥ पुरा त्रिपुरहन्तारं पार्वती भक्तवत्सला। श्रीरामतत्त्वं जिज्ञासुः पप्रच्छ विनयान्विता ॥ १८॥ प्रियायै गिरिशस्तस्यै गूढं व्याख्यातवान् स्वयम्। पुराणोत्तममध्यात्मरामायणमिति स्मृतम् ॥ १९॥ तत्पार्वती जगद्धात्री पूजयित्वा दिवानिशम्। आलोचयन्ती स्वानन्दमग्ना तिष्ठति साम्प्रतम् ॥ २०॥ प्रचरिष्यति तल्लोके प्राण्यदृष्टवशाद्यदा । तस्याध्ययनमात्रेण जना यास्यन्ति सद्गतिम् ॥ २१॥ तावद्विजृम्भते पापं ब्रह्महत्यापुरःसरम्। यावज्जगति नाध्यात्मरामायणमुदेष्यति ॥ २२॥ तावत्कलिमहोत्साहो निःशङ्कं सम्प्रवर्तते। यावज्जगति नाध्यात्मरामायणमुदेष्यति ॥ २३॥ तावद्यमभटाः शूराः सञ्चरिष्यन्ति निर्भयाः। यावज्जगति नाध्यात्मरामायणमुदेष्यति ॥ २४॥ तावत्सर्वाणि शास्त्राणि विवदन्ते परस्परम् ॥ २५॥ तावत्स्वरूपं रामस्य दुर्बोधं महतामपि । यावज्जगति नाध्यात्मरामायणमुदेष्यति ॥ २६॥ अध्यात्मरामायणसङ्कीर्तनश्रवणादिजम् । फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तम ॥ २७॥ तथापि तस्य माहात्म्यं वक्ष्ये किञ्चित्तवानघ। श‍ृणु चित्तं समाधाय शिवेनोक्तं पुरा मम ॥ २८॥ अध्यात्मरामायणतः श्लोकं श्लोकार्धमेव वा। यः पठेत् भक्तिसंयुक्तः स पापान्मुच्यते क्षणात् ॥ २९॥ यस्तु प्रत्यहमध्यात्मरामायणमनन्यधीः। यथाशक्ति वदेद्भक्त्या स जीवन्मुक्त उच्यते ॥ ३०॥ यो भक्त्यार्चयतेऽध्यात्मरामायणमतन्द्रितः। दिने दिनेऽश्वमेधस्य फलं तस्य भवेन्मुने ॥ ३१॥ यदृच्छयापि योऽध्यात्मरामायणमनादरात्। अन्यतः श‍ृणुयान्मर्त्यः सोऽपि मुच्येत पातकात् ॥ ३२॥ नमस्करोति योऽध्यात्मरामायणमदूरतः। सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ ३३॥ लिखित्वा पुस्तकेऽध्यात्मरामायणमशेषतः। यो दद्याद्रामभक्तेभ्यस्तस्य पुण्यफलं श‍ृणु ॥ ३४॥ अधीतेषु च वेदेषु शास्त्रेषु व्याकृतेषु च । यत्फलं दुर्लभं लोके तत्फलं तस्य सम्भवेत् ॥ ३५॥ एकादशीदिनेऽध्यात्मरामायणमुपोषितः । यो रामभक्तः सदसि व्याकरोति नरोत्तमः ॥ ३६॥ तस्य पुण्यफलं वक्ष्ये श‍ृणु वैष्णवसत्तम । प्रत्यक्षरं तु गायत्रीपुरश्चर्याफलं भवेत् ॥ ३७॥ उपवासव्रतं कृत्वा श्रीरामनवमीदिने । रात्रौ जागरितोऽध्यात्मरामायणमनन्यधीः। यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ ३८॥ कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः। आत्मतुल्यं धनं सूर्यग्रहणे सर्वतोमुखे ॥ ३९॥ विप्रेभ्यो व्यासतुल्येभ्यो दत्वा यत्फलमश्नुते। तत्फलं सम्भवेत्तस्य सत्यं सत्यं न संशयः ॥ ४०॥ यो गायते मुदाऽध्यात्मरामायणमहर्निशम्। आज्ञां तस्य प्रतीक्षन्ते देवा इन्द्रपुरोगमाः ॥ ४१॥ पठन् प्रत्यहमध्यात्मरामायणमनुव्रतः। यद्यत्करोति तत्कर्म ततः कोटिगुणं भवेत् ॥ ४२॥ तत्र श्रीरामहृदयं यः पठेत् सुसमाहितः । स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेव दिनैर्भवेत् ॥ ४३॥ श्रीरामहृदयं यस्तु हनूमत्प्रतिमान्तिके। त्रिः पठेत् प्रत्यहं मौनी स सर्वेप्सितभाग्भवेत् ॥ ४४॥ पठन् श्रीरामहृदयं तुलस्यश्वत्थयोर्यदि। प्रत्यक्षरं प्रकुर्वीत ब्रह्महत्यानिवर्तनम् ॥ ४५॥ श्रीरामगीतामाहात्म्यं कृत्स्नं जानाति शङ्करः। तदर्धं गिरिजा वेत्ति तदर्धं वेद्म्यहं मुने ॥ ४६॥ तत्ते किञ्चित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते । यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ४७॥ श्रीरामगीता यत्पापं न नाशयति नारद। तन्न नश्यति तीर्थादौ लोके क्वापि कदाचन। तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा ॥ ४८॥ रामेणोपनिषत्सिन्धुमुन्मत्थ्योत्पादितं मुदा। लक्ष्मणायार्पितां गीतासुधां पीत्वाऽमरो भवेत् ॥ ४९॥ जमदग्निसुतः पुर्वं कार्तवीर्यवधेच्छया। धनुर्विद्यामभ्यसितुं महेशस्यान्तिके वसन् ॥ ५०॥ अधीयमानां पार्वत्या रामगीतां प्रयत्नतः । श्रूत्वा गृहीत्वाऽऽशु पठन्नारायणकलामगात् ॥ ५१॥ ब्रह्महत्यादिपापानां निष्कृतिं यदि वाञ्छति। रामगीतां मासमात्रं पठित्वा मुच्यते नरः ॥ ५२॥ दुष्प्;रतिग्रहदुर्भोज्यदुरालापादिसम्भवम्। पापं यत्तत्कीर्तनेन रामगीता विनाशयेत् ॥ ५३॥ शालग्रामशिलाग्रे च तुलस्यश्वत्थसन्निधौ। यतीनां पुरतस्तद्वत् रामगीतां पठेत्तु यः ॥ ५४॥ स तत्फलमवाप्नोति यद्वाचोऽपि न गोचरम् ॥ ५५॥ रामगीतां पठन् भक्त्या यः श्राद्धे भोजयेद्द्विजान्। तस्य ते पितरः सर्वे यान्ति विष्णोः परं पदम् ॥ ५६॥ एकादश्यां निराहारो नियतो द्वादशीदिने। स्थित्वागस्त्यतरोर्मूले रामगीतां पठेत्तु यः। स एव राघवः साक्षात् सर्वदेवैश्च पूज्यते ॥ ५७॥ विना दानां विना ध्यानं विना तीर्थावगाहनम् । बहुना किमिहोक्तेन श‍ृणु नारद तत्त्वतः। रामगीतां नरोऽधीत्य तदनन्तफलं लभेत् ॥ ५८॥ श्रुतिस्मृतिपुराणेतिहासागमशतानि च। अर्हन्ति नाल्पमध्यात्मरामायणकलामपि ॥ ५९॥ अध्यात्मरामचरितस्य मुनीश्वराय माहात्म्यमेतदुदितं कमलासनेन । यः श्रद्धया पठति वा श‍ृणुयात् स मर्त्यः प्राप्नोति विष्णुपदवीं सुरपूज्यमानः ॥ ६०॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे अध्यात्मरामायणमाहात्म्यं सम्पूर्णम् ॥

अध्यात्मरामायणमाहात्म्यम् ब्रह्माण्डपुराणे Read More »

श्रीउच्छिष्टगणपतिसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीभैरव उवाच । श‍ृणु देवि रहस्यं मे यत्पुरा सूचितं मया । तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १॥ श्रीदेव्युवाच । ॐ भगवन्गणनाथस्य उच्छिष्टस्य महात्मनः । श्रोतुं नाम सहस्रं मे हृदयं प्रोत्सुकायते ॥ २॥ श्रीभैरव उवाच । प्राङ्मुखे त्रिपुरानाथे जाता विघ्नकुलाः शिवे । मोहने मुच्यते चेतस्तैः सर्वैर्बलदर्पितैः ॥ ३॥ तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकैः । विघ्ना दूरात्पलायन्ते कालरुद्रादिव प्रजाः ॥ ४॥ तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः । तमद्यापि गणेशानं स्तौमि नामसहस्रकैः ॥ ५॥ तदद्य तव भक्त्याहं साधकानां हिताय च । महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥ ६॥ ॐ अस्य श्रीउच्छिष्टगणेशसहस्रनामस्तोत्रमन्त्रस्य श्रीभैरव ऋषिः । गायत्री छन्दः । श्रीमहागणपतिर्देवता । गं बीजम् । ह्रीं शक्तिः । कुरुकुरु कीलकम् । मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥ ॐ ह्रीं श्रीं क्लीं गणाध्यक्षो ग्लौं गँ गणपतिर्गुणी । गुणाढ्यो निर्गुणो गोप्ता गजवक्त्रो विभावसुः ॥ ७॥ विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी । सदा शान्तो जगत्त्राता विश्वावर्तो विभाकरः ॥ ८॥ विश्रम्भी विजयो वैद्यो वारान्निधिरनुत्तमः । अणिमाविभवः श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥ ९॥ सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः । पतिः पीतविभूषाङ्को रक्ताक्षो लोहिताम्बरः ॥ १०॥ विरूपाक्षो विमानस्थो विनीतः सदस्यः सुखी । सात्वतः सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः ॥ ११॥ नन्दीश्वरो जयानन्दी वन्द्यः स्तुत्यो विचक्षणः । दैत्यमर्द्दी सदाक्षीबो मदिरारुणलोचनः ॥ १२॥ सारात्मा विश्वसारश्च विश्वसारो(२) विलेपनः । परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः ॥ १३॥ विश्वेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्द्धनः । भृङ्गिरिटी भृङ्गमाली भृङ्गकूजितनादितः ॥ १४॥ विनर्तको विनीतोऽपि विनतानन्दनार्चितः । वैनतेयो विनम्राङ्गो विश्वनायकनायकः ॥ १५॥ विराटको विराटश्च विदग्धो विधुरात्मभूः । पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः ॥ १६॥ पुष्पेषुमथनः पुष्टो विवर्तः कर्तरीकरः । अन्त्योऽन्तकश्चित्तगणाश्चित्तचिन्तापहारकः ॥ १७॥ अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः । लोहितो लिपितो लुप्तो लोहिताक्षो विलोभकः ॥ १८॥ लब्धाशयो लोभरतो लोभदोऽलङ्घ्यगर्धकः । सुन्दरः सुन्दरीपुत्रः समस्तासुरघातकः ॥ १९॥ नूपुराढ्यो विभवेन्द्रो नरनारायणो रविः । विचारो वान्तदो वाग्मी वितर्की विजयीश्वरः ॥ २०॥ सुजो बुद्धः सदारूपः सुखदः सुखसेवितः । विकर्तनो विपच्चारी विनटो नटनर्तकः ॥ २१॥ नटो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः । गङ्गाजलपानप्रियो गङ्गातीरविहारकृत् ॥ २२। गङ्गाप्रियो गङ्गजश्च वाहनादिपुरःसरः । गन्धमादनसंवासो गन्धमादनकेलिकृत् ॥ २३॥ गन्धानुलिप्तपूर्वाङ्गः सर्वदेवस्मरः सदा । गणगन्धर्वराजेशो गणगन्धर्वसेवितः ॥ २४॥ गन्धर्वपूजितो नित्यं सर्वरोगविनाशकः । गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥ २५॥ गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतः । गन्धर्वगर्वसंवेगो गन्धर्ववरदायकः ॥ २६॥ गन्धर्वप्रबलार्तिघ्नो गन्धर्वगणसंयुतः । गन्धर्वादिगुणानन्दो नन्दोऽनन्तगुणात्मकः ॥ २७॥ विश्वमूर्तिर्विश्वधाता विनतास्यो विनर्तकः । करालः कामदः कान्तः कमनीयः कलानिधिः ॥ २८॥ कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः । विकरालो रणश्रेष्ठः संहारो हारभूषणः ॥ २९॥ उरुरभ्यमुखो रक्तो देवतादयितौरसः । महाकालो महादंष्ट्रो महोरगभयानकः ॥ ३०॥ उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः । सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् ॥ ३१॥ असितात्मा भैरवेशो भाग्यवान्भगवान्भवः । गर्भात्मजो भगावासो भगदो भगवर्द्धनः ॥ ३२॥ शुभङ्करः शुचिः शान्तः श्रेष्ठः श्रव्यः शचीपतिः । वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः ॥ ३३॥ विद्याप्रदो वेदरसो वैदिको वेदपारगः । वेदध्वनिरतो वीरो वेदविद्यागमोऽर्थवित् ॥ ३४॥ तत्त्वज्ञः सर्वगः साधुः सदयः सदसन्मयः । शिवशङ्करः शिवसुतः शिवानन्दविवर्द्धनः ॥ ३५॥ शैत्यः श्वेतः शतमुखो मुग्धो मोदकभूषणः । देवो दिनकरो धीरो धृतिमान्द्युतिमान्धवः ॥ ३६॥ शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः । शरण्यः शौनकः शूरः शरदम्भोजधारकः ॥ ३७॥ न् दारकः शिखिवाहेष्टः सितः शङ्करवल्लभः । शङ्करो निर्भयो नित्यो लयकृल्लास्यतत्परः ॥ ३८॥ लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः । भ्रमणः शशिभृत्सुर्यः शनिर्धरणिनन्दनः ॥ ३९॥ बुधो विबुधसेव्यश्च बुधराजो बलंधरः । जीवो जीवप्रदो जेता स्तुत्यो नित्यो रतिप्रियः ॥ ४०॥ जनको जनमार्गज्ञो जनरक्षणतत्परः । जनानन्दप्रदाता च जनकाह्लादकारकः ॥ ४१। विबुधो बुधमान्यश्च जैनमार्गनिवर्तकः । गच्छो गणपतिर्गच्छनायको गच्छगर्वहा ॥ ४२॥ गच्छराजोथ गच्छेथो गच्छराजनमस्कृतः । गच्छप्रियो गच्छगुरुर्गच्छत्राकृद्यमातुरः ॥ ४३॥ गच्छप्रभुर्गच्छचरो गच्छप्रियकृताद्यमः । गच्छगीतगुणोगर्तो मर्यादाप्रतिपालकः ॥ ४४॥ गीर्वाणागमसारस्य गर्भो गीर्वाणदेवता । गौरीसुतो गुरुवरो गौराङ्गो गणपूजितः ॥ ४५॥ परम्पदं परन्धाम परमात्मा कविः कुजः । राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः ॥ ४६॥ ग्रहेन्द्रो ग्रहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः । पर्जन्यः पीवरः पत्री पीनवक्षाः पराक्रमी ॥ ४७॥ वनेचरो वनस्पतिर्वनवासी स्मरोपमः । पुण्यः पूतः पवित्रश्च परात्मा पूर्णाविग्रहः ॥ ४८॥ पूर्णेन्दुसुकलाकारो मन्त्रपूर्णमनोरथः । युगात्मा युगकृद्यज्वा याज्ञिको यज्ञवत्सलः ॥ ४९॥ यशस्यो यजमानेष्टो वज्रभृद्वज्रपञ्जरः । मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः ॥ ५०॥ मीनध्वजो मनोहारी योगिनां योगवर्धनः । द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः ॥ ५१॥ तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः । सम्पत्तिसदनाकारः सम्पत्तिसुखदायकः ॥ ५२॥ सम्पत्तिसुखकर्ता च सम्पत्तिसुभगाननः । सम्पत्तिशुभदो नित्यसम्पत्तिश्च यशोधनः ॥ ५३॥ रुचको मेचकस्तुष्टः प्रभुस्तोमरघातकः । दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः ॥ ५४॥ कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः । भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥ ५५॥ जालन्धरो जगद्वासी हास्यकृद्गहनो गुहः । हविष्मान्हव्यवाहाक्षो हाटको हाटकाङ्गदः ॥ ५६॥ सुमेरुर्हिमवान्होता हरपुत्रो हलङ्कषः । हालाप्रियो हृदा शान्तः कान्ताहृदयपोषणः ॥ ५७॥ शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः । कुबेरो धीमयो ध्याता ध्येयो धीमान्दयानिधिः ॥ ५८॥ दविष्ठो दमनो हृष्टो दाता त्राता पितासमः । निर्गतो नैगमोऽगम्यो निर्जयो जटिलोऽजरः ॥ ५९॥ जनजीवो जितारातिर्जगद्व्यापी जगन्मयः । चामीकरनिभो नाभ्यो नलिनायतलोचनः ॥ ६०॥ रोचनो मोचको मन्त्री मन्त्रकोटिसमाश्रितः । पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः ॥ ६१॥ पञ्चमः पश्चिमः पूर्वः पूर्णः कीर्णालकः कुणिः । कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः ॥ ६२॥ लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् । ध्रुवो द्रुतगतिर्बन्धो धर्मी नाकिप्रियोऽनलः ॥ ६३॥ अङ्गुल्यग्रस्थभुवनो भुवनैकमलापहः । सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः ॥ ६४॥ सतीपतिः समरसः सनकः सरलः सरः । सुरप्रियो वसुमतिर्वासवो वसुपूजितः ॥ ६५॥ वित्तदो वित्तनाथश्च धनिनां धनदायकः । राजीवनयनः स्मार्तः स्मृतिदः कृत्तिकाम्बरः ॥ ६६॥ अश्विनोऽश्वमुखः शुभ्रो भरणो भरणीप्रियः । कृत्तिकासनकः कोलो रोहिणीरमणोपमः ॥ ६७॥ रौहिणेयप्रेमकरो रोहिणीमोहनो मृगः । मृगराजो मृगशिरा माधवो मधुरध्वनिः ॥ ६८॥ आर्द्राननो महाबुद्धिर्महोरगविभूषणः । भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः ॥ ६९॥ पुनर्देव: पुनर्जेता पुनर्जीवः पुनर्वसुः । तिमिरास्तिमिकेतुश्च तिमिषासुरघातनः ॥ ७०॥ तिष्यस्तुलाधरो जृम्भो विश्लेषाश्लेषदानराट् । मानदो माधवो माधो वाचालो मघवोपमः ॥ ७१॥ मध्यो मघाप्रियो मेघो महाशुण्डो महाभुजः । पूर्वफाल्गुनिकः स्फीत फल्गुरुत्तरफाल्गुनः ॥ ७२॥ फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः । घोणाहस्तश्चतुर्हस्तो हस्तिवन्ध्यो हलायुधः ॥ ७३॥ चित्राम्बरार्चितपदः स्वस्तिदः स्वस्तिनिग्रहः । विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः ॥ ७४॥ अणुरेणूत्करः स्फारो रुरुरेणुसुतो नरः । अनुराधाप्रियो राधः श्रीमाञ्छुक्लः शुचिस्मितः ॥ ७५॥ ज्येष्ठः श्रेष्ठार्चितपदो मूलं च त्रिजगद्गुरुः । शुचिश्चैव पूर्वाषाढश्चोत्तराषाढ ईश्वरः ॥ ७६॥ श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः । श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः ॥ ७७॥ शातातपः शातकुम्भः शरज्ज्योतिः शताभिषक् । पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः ॥ ७८॥ रेणुकातनयो रामो रेवतीरमणो रमी । आश्वयुक्कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः ॥ । ७९॥ पोषेश्वरः फाल्गुनात्मा वसन्तश्चैत्रको मधुः । राज्यदोऽभिजिदात्मेयस्तारेशस्तारकद्युतिः ॥ ८०॥ प्रतीतः प्रोर्जितः प्रीतः परमः परमो हितः । परहा पञ्चभूः पञ्चवायुपूज्यपरिग्रहः ॥ ८१॥ पुराणागमविद्योगी महिषो रासभोऽग्रजः । ग्रहो मेषो मृषो मन्दो मन्मथो मिथुनाकृतिः ॥ ८२॥ कल्पभृत्कटको दीपो मर्कटः कर्कटो धृणिः । कुक्कुटो वनजो हंसः परमहंसः सृगालकः ॥ ८३॥ सिंहा सिंहासनाभूष्यो मद्गुर्मूषकवाहनः । पुत्रदो नरकत्राता कन्याप्रीतः कुलोद्वहः ॥ ८४॥ अतुल्यरूपो बलदस्तुल्यभृत्तुल्यसाक्षिकः । अलिश्चापधरो धन्वी कच्छपो मकरो मणिः ॥ ८५॥ कुम्भभृत्कलशः कुब्जो मीनमांससुतर्पितः । राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥ ८६॥ प्रतापी प्रतिपत्प्रेयोऽद्वितीयोऽद्वैतनिश्चितः । त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥ ८७॥ चतुर्थीवल्लभो देवो परागः पञ्चमीश्वरः । षड्रसास्वादविज्ञानः षष्ठीषष्टिकवत्सलः ॥ ८८॥ सप्तार्णवगतिः सारः सप्तमीश्वररोहितः । अष्टमीनन्दनोत्तंसो नवमीभक्तिभावितः ॥ ८९॥ दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः । एकादशात्मगणयो द्वादशीयुगचर्चितः ॥ ९०॥ त्रयोदशमणिस्तुत्यश्चतुर्दशस्वरप्रियः । चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥ ९१॥ दर्शदर्शो दर्शनश्च वानप्रस्थो महेश्वरः । मौर्वी मधुरवाङ्मूलमूर्तिमान्मेघवाहनः ॥ ९२॥ महागजो जितक्रोधो जितशत्रुर्जयाश्रयः । रौद्रो रुद्रप्रियो रुद्रो रुद्रपुत्रोऽघनाशनः ॥ ९३॥

श्रीउच्छिष्टगणपतिसहस्रनामस्तोत्रम् Read More »

श्रीउच्छिष्टगणनाथस्य अष्टोत्तरशतनामावलिः

ॐ वन्दारुजनमन्दारपादपाय नमो नमः ॐ । १ ॐ चन्द्रार्धशेखरप्राणतनयाय नमो नमः ॐ । ॐ शैलराजसुतोत्सङ्गमण्डनाय नमो नमः ॐ । वन्दनाय ॐ वल्लीशवलयक्रीडाकुतुकाय नमो नमः ॐ । ॐ श्रीनीलवाणीललितारसिकाय नमो नमः ॐ । ॐ स्वानन्दभवनानन्दनिलयाय नमो नमः ॐ । ॐ चन्द्रमण्डलसन्दृष्यस्वरूपाय नमो नमः ॐ । ॐ क्षीराब्धिमध्यकल्पद्रुमूलस्थाय नमो नमः ॐ । ॐ सुरापगासिताम्भोजसंस्थिताय नमो नमः ॐ । ॐ सदनीकृतमार्ताण्डमण्डलाय नमो नमः ॐ । १० ॐ इक्षुसागरमध्यस्थमन्दिराय नमो नमः ॐ । ॐ चिन्तामणिपुराधीशसत्तमाय नमो नमः ॐ । ॐ जगत्सृष्टितिरोधानकारणाय नमो नमः ॐ । ॐ क्रीडार्थसृष्टभुवनत्रितयाय नमो नमः ॐ । ॐ शुण्डोद्धूतजलोद्भूतभुवनाय नमो नमः ॐ । ॐ चेतनाचेतनीभूतशरीराय नमो नमः ॐ । ॐ अणुमात्रशरीरान्तर्लसिताय नमो नमः ॐ । ॐ सर्ववश्यकरानन्तमन्त्रार्णाय नमो नमः ॐ । ॐ कुष्ठाद्यामयसन्दोहशमनाय नमो नमः ॐ । ॐ प्रतिवादिमुखस्तम्भकारकाय नमो नमः ॐ । २० ॐ पराभिचारदुष्कर्मनाशकाय नमो नमः ॐ । ॐ सकृन्मन्त्रजपध्यानमुक्तिदाय नमो नमः ॐ । ॐ निजभक्तविपद्रक्षादीक्षिताय नमो नमः ॐ । ॐ ध्यानामृतरसास्वाददायकाय नमो नमः ॐ । ॐ गुह्यपूजारताभीष्टफलदाय नमो नमः ॐ । कुलीयपूजा ॐ रूपौदार्यगुणाकृष्टत्रिलोकाय नमो नमः ॐ । ॐ अष्टद्रव्यहविःप्रीतमानसाय नमो नमः ॐ । ॐ अवताराष्टकद्वन्द्वप्रदानाय नमो नमः ॐ । भवताराष्टक ॐ भारतालेखनोद्भिन्नरदनाय नमो नमः ॐ । ॐ नारदोद्गीतरुचिरचरिताय नमो नमः ॐ /३० ॐ निखिलाम्नायसङ्गुष्ठवैभवाय नमो नमः ॐ । ॐ बाणरावणचण्डीशपूजिताय नमो नमः ॐ । ॐ इन्द्रादिदेवतावृन्दरक्षकाय नमो नमः ॐ । ॐ सप्तर्षिमानसालाननिश्चेष्टाय नमो नमः ॐ । ॐ आदित्यादिग्रहस्तोमदीपकाय नमो नमः ॐ । ॐ मदनागमसत्तन्त्रपारगाय नमो नमः ॐ । ॐ उज्जीवितेशसन्दग्धमदनाय नमो नमः ॐ । कुञ्जीविते ॐ शमीमहीरुहप्रीतमानसाय नमो नमः ॐ । ॐ जलतर्पणसम्प्रीतहृदयाय नमो नमः ॐ । ॐ कन्दुकीकृतकैलासशिखराय नमो नमः ॐ । ४० ॐ अथर्वशीर्षकारण्यमयूराय नमो नमः ॐ । ॐ कल्याणाचलश‍ृङ्गाग्रविहाराय नमो नमः ॐ । ॐ आतुनैन्द्रादिसामसंस्तुताय नमो नमः ॐ । ॐ ब्राह्म्यादिमातृनिवःपरीताय नमो नमः ॐ । ॐ चतुर्थावरणारक्षिदिगीशाय नमो नमः ॐ । रक्षिधीशाय ॐ द्वाराविष्टनिधिद्वन्द्वशोभिताय नमो नमः ॐ । ॐ अनन्तपृथिवीकूर्मपीठाङ्गाय नमो नमः ॐ । ॐ तीव्रादियोगिनीवृन्दपीठस्थाय नमो नमः ॐ । ॐ जयादिनवपीठश्रीमण्डिताय नमो नमः ॐ । ॐ पञ्चावरणमध्यस्थसदनाय नमो नमः ॐ । ५० ॐ क्षेत्रपालगणेशादिद्वारपाय नमो नमः ॐ । ॐ महीरतीरमागौरीपार्श्वकाय नमो नमः ॐ । ॐ मद्यप्रियादिविनयिविधेयाय नमो नमः ॐ । ॐ वाणीदुर्गांशभूतार्हकलत्राय नमो नमः ॐ । भूतार्ध ॐ वरहस्तिपिशाचीहृन्नन्दनाय नमो नमः ॐ । ॐ योगिनीशचतुष्षष्टिसंयुताय नमो नमः ॐ । ॐ नवदुर्गाष्टवसुभिस्सेविताय नमो नमः ॐ । ॐ द्वात्रिंशद्भैरवव्यूहनायकाय नमो नमः ॐ । ॐ ऐरावतादिदिग्दन्तिसंवृताय नमो नमः ॐ । ॐ कण्ठीरवमयूराखुवाहनाय नमो नमः ॐ । ६० ॐ मूषकाङ्कमहारक्तकेतनाय नमो नमः ॐ । ॐ कुम्भोदरकरन्यस्तपादाब्जाय नमो नमः ॐ । ॐ कान्ताकान्ततराङ्गस्थकराग्राय नमो नमः ॐ । ॐ अन्तस्थभुवनस्फीतजठराय नमो नमः ॐ । ॐ कर्पूरवीटिकासाररक्तोष्ठाय नमो नमः ॐ । ॐ श्वेतार्कमालासन्दीप्तकन्धराय नमो नमः ॐ । ॐ सोमसूर्यबृहद्भानुलोचनाय नमो नमः ॐ । ॐ सर्वसम्पत्प्रदामन्दकटाक्षाय नमो नमः ॐ । ॐ अतिवेलमदारक्तनयनाय नमो नमः ॐ । ॐ शशाङ्कार्धसमादीप्तमस्तकाय नमो नमः ॐ । ७० ॐ सर्पोपवीतहारादिभूषिताय नमो नमः ॐ । ॐ सिन्दूरितमहाकुम्भसुवेषाय नमो नमः ॐ । ॐ आशावसनतादृष्यसौन्दर्याय नमो नमः ॐ । ॐ कान्तालिङ्गनसञ्जातपुलकाय नमो नमः ॐ । ॐ पाशाङ्कुशधनुर्बाणमण्डिताय नमो नमः ॐ । ॐ दिगन्तव्याप्तदानाम्बुसौरभाय नमो नमः ॐ । ॐ सायन्तनसहस्रांशुरक्ताङ्गाय नमो नमः ॐ । ॐ सम्पूर्णप्रणवाकारसुन्दराय नमो नमः ॐ । ॐ ब्रह्मादिकृतयज्ञाग्निसम्भूताय नमो नमः ॐ । ॐ सर्वामरप्रार्थनात्तविग्रहाय नमो नमः ॐ । ८० ॐ जनिमात्रसुरत्रासनाशकाय नमो नमः ॐ । ॐ कलत्रीकृतमातङ्गकन्यकाय नमो नमः ॐ । ॐ विद्यावदसुरप्राणनाशकाय नमो नमः ॐ । ॐ सर्वमन्त्रसमाराध्यस्वरूपाय नमो नमः ॐ । ॐ षट्कोणयन्त्रपीठान्तर्लसिताय नमो नमः ॐ । ॐ चतुर्नवतिमन्त्रात्मविग्रहाय नमो नमः ॐ । ॐ हुङ्गङ्क्लाङ्ग्लाम्मुखानेकबीजार्णाय नमो नमः ॐ । ॐ बीजाक्षरत्रयान्तस्थशरीराय नमो नमः ॐ । ॐ हृल्लेखागुह्यमन्त्रान्तर्भाविताय नमो नमः ॐ । बीजमन्त्रान्तर्भाविताय ॐ स्वाहान्तमातृकामालारूपाध्याय नमो नमः ॐ । ९० ॐ द्वात्रिंशदक्षरमयप्रतीकाय नमो नमः ॐ । ॐ शोधनानर्थसन्मन्त्रविशेषाय नमो नमः ॐ । ॐ अष्टाङ्गयोगिनिर्वाणदायकाय नमो नमः ॐ । ॐ प्राणेन्द्रियमनोबुद्धिप्रेरकाय नमो नमः ॐ । ॐ मूलाधारवरक्षेत्रनायकाय नमो नमः ॐ । ॐ चतुर्दलमहापद्मसंविष्टाय नमो नमः ॐ । ॐ मूलत्रिकोणसंशोभिपावकाय नमो नमः ॐ । ॐ सुषुम्नारन्ध्रसञ्चारदेशिकाय नमो नमः ॐ । ॐ षट्ग्रन्थिनिम्नतटिनीतारकाय नमो नमः ॐ । ॐ दहराकाशसंशोभिशशाङ्काय नमो नमः ॐ । १०० ॐ हिरण्मयपुराम्भोजनिलयाय नमो नमः ॐ । ॐ भ्रूमध्यकोमलारामकोकिलाय नमो नमः ॐ । ॐ षण्णवद्वादशान्तस्थमार्ताण्डाय नमो नमः ॐ । ॐ मनोन्मणीसुखावासनिर्वृताय नमो नमः ॐ । ॐ षोडशान्तमहापद्ममधुपाय नमो नमः ॐ । ॐ सहस्रारसुधासारसेचिताय नमो नमः ॐ । ॐ नादबिन्दुद्वयातीतस्वरूपाय नमो नमः ॐ । ॐ उच्छिष्टगणनाथाय महेशाय नमो नमः ॐ । १०८ यति श्रीरामानन्देन्द्रसरस्वतीस्वामिगल् (शान्ताश्रम, तञ्जावुर १९५९)

श्रीउच्छिष्टगणनाथस्य अष्टोत्तरशतनामावलिः Read More »