अथ तत्त्वाचमनम्- ह्रीं आत्मतत्त्वं शोधयामि नमः स्वाहा । क्लीं विद्यातत्त्वं शोधयामि नमः स्वाहा । ह्सौं शिवतत्त्वं शोधयामि नमः स्वाहा । ह्रीं क्लीं ह्सौं सर्वतत्त्वं शोधयामि नमः स्वाहा ॥ (प्रत्यूहशान्तिः । प्राणायामः । सङ्कल्पः ।) ह्रीं अस्य श्रीसुब्रह्मण्यद्वादशाक्षरमहामन्त्रस्य अमृताकर्षणदक्षिणामूर्तिः ऋषिः । जगतीच्छान्दः । श्रीप्रसन्नज्ञानसुब्रह्मण्यो देवता । ह्रीं बीजम् । ह्सौं शक्तिः । क्लीं कीलकम् । श्रीप्रसन्नज्ञानसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । ऋष्यादिन्यासः - ह्रीं अमृताकर्षणदक्षिणामूर्तये नमः शिरसि । जगतीच्छान्दसे नमो मुखे । श्रीप्रसन्नज्ञानसुब्रह्मण्याय देवतायै नमो हृदये । ह्रीं बीजाय नमो गुह्ये । ह्सौं शक्तये नमः स्तनयोः । क्लीं कीलकाय नमो नाभौ । विनियोगाय नमः सर्वाङ्गे ॥ (मूलेन करौ संशोध्य) करन्यासः - ॐ अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ऐं मध्यमाभ्यां नमः । क्लीं अनामिकाभ्यां नमः । ॐ कनिष्ठिकाभ्यां नमः । ह्सौं करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः - ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् । क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः । ध्यानम्- ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् । कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलैश्शोभितं काञ्चीकङ्कणकिङ्किणीरवयुतं शृङ्गारसारोदयम् ॥ पञ्चोपचारपूजा - लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि । मूलमन्त्रः- ॐ ह्रीं ऐं क्लीं ॐ ह्सौं शरवणभव ॥ जपान्ते पुनर्हृदयाद्यङ्गन्यासाः । (At the end of Japa, once again Hrdayaadyanganyas as above) ह्रीं भूर्भुवस्सुवरों इति दिग्विमोकः । (ध्यानम् । लमित्यादि पूजा । जपसमर्पणम् ।) इति श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः सम्पूर्णः ।