१. श्रीवेदव्यासमन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः । वेदव्यासो देवता । श्रीवेदव्यासमन्त्र जपे विनियोगः । ध्यानश्लोकः - विज्ञानरोचिः परिपूरितान्तर्बाह्याण्डकोशं हरितोपलाभम् । तर्काभयेतं विधिशर्वपूर्वगीर्वाण विज्ञानद मानतोऽस्मि ॥ मन्त्रः - ॐ व्यां वेदव्यासाय नमः ॥ २. श्रीव्यासगायत्री मन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः । वेदव्यासो देवता । श्रीवेदव्यास गायत्रीमन्त्र जपे विनियोगः । ध्यानश्लोकः - ध्यायेच्छशाङ्क शतकोट्यति सौख्यकान्तिं संसिच्यमानममृतोरुघटैः सुरेशैः । वर्णाभिमानिभिरजेशमुखैः सहैव पञ्चाशता प्रतिगिरन्तमशेष विद्याः ॥ गायत्रीमन्त्रः - ॐ पूर्णज्ञानाय विद्महे । पूर्णानन्दाय धीमहि । तन्नो व्यासः प्रचोदयात् ॥ ३. एकाक्षर व्यासमन्त्रः ॐ व्यां ॐ ॥ ध्यानश्लोकः - ध्यायेच्छशाङ्क शतकोट्यति सौख्यकान्तिं संसिच्यमानममृतोरुघटैः सुरेशैः । वर्णाभिमानिभिरजेशमुखैः सहैव पञ्चाशता प्रतिगिरन्तमशेष विद्याः ॥ इति श्रीवेदव्यासमन्त्राः समाप्ताः ।