श्रीलक्ष्मी नृसिंह द्वादशनाम स्तोत्रम् हिंदी पाठ : Srilakshmi Narsingh Dwadasanama Stotram in Hindi
अस्य श्रीनृसिंह द्वादशनाम स्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः,
अनुष्टुप् छन्दः श्रीलक्ष्मीनृसिंहो देवता श्रीलक्ष्मीनृसिंह प्रीत्यर्थे जपे विनियोगः ।
प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी ।
तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥ १ ॥
पञ्चमं नारसिंहश्च षष्ठः कश्यपमर्दनः ।
सप्तमो यातुहन्ता च अष्टमो देववल्लभः ॥ २ ॥
ततः प्रह्लादवरदो दशमोऽनन्तहस्तकः । [नवं]
एकादशो महारुद्रः द्वादशो दारुणस्तथा ॥ ३ ॥
द्वादशैतानि नामानि नृसिंहस्य महात्मनः ।
मन्त्रराज इति प्रोक्तं सर्वपापविनाशनम् ॥ ४ ॥
क्षयापस्मार कुष्ठादि Dwadasanama Stotram तापज्वर निवारणम् ।
राजद्वारे महाघोरे सङ्ग्रामे च जलान्तरे ॥ ५ ॥
गिरिगह्वारकारण्ये व्याघ्रचोरामयादिषु ।
रणे च मरणे चैव शमदं परमं शुभम् ॥ ६ ॥
शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात् ।
आवर्तयन् सहस्रं तु लभते वाञ्छितं फलम् ॥ ७ ॥
।। इति श्री नृसिंह द्वादशनाम…..
Srilakshmi Narsingh Dwadasanama Stotram : श्रीलक्ष्मी नृसिंह द्वादशनाम स्तोत्रम्…..
श्रीलक्ष्मी नृसिंह द्वादशनाम स्तोत्रम् हिंदी पाठ : Srilakshmi Narsingh Dwadasanama Stotram in Hindiअस्य श्रीनृसिंह द्वादशनाम स्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः,अनुष्टुप्…
Srilakshmi Dwadasa Nama Stotram : श्रीलक्ष्मी द्वादश नाम स्तोत्रम्…..
श्रीलक्ष्मी द्वादश नाम स्तोत्रम् हिंदी पाठ : Srilakshmi Dwadasa Nama Stotram in Hindiश्रीदेवी प्रथमं नाम द्वितीयं अमृत्तोद्भवातृत्तीयं कमला प्रोक्ता चतुर्थं…
Srimad Divya-Parshuram Ashtakam Stotram : श्रीमद् दिव्य-परशुराम अष्टक स्तोत्र….
श्रीमद् दिव्य-परशुराम अष्टक स्तोत्र हिंदी पाठ : Srimad Divya-Parshuram Ashtakam Stotram in Hindiब्रह्मविष्णुमहेशसन्नुतपावनाङ्घृसरोरुहं,नीलनीरजलोचनं हरिमाश्रितमर्भुरुहम् ।केशवं जगदीश्वरं त्रिगुणात्मकं परपुरुषं,परशुराममुपास्महे मम किङ्कृष्यति योऽपि…




KARMASU