श्री राधा कृष्ण स्तोत्र हिंदी पाठ: Shri Radhakrishna Stotram in Hindi
वन्दे नवघनश्यामं पीतकौशेयवाससम् ।
सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥
राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् ।
राधासेवितपादाब्जं राधावक्षस्थलस्थितम् ॥ २ ॥
राधानुगं राधिकेष्टं राधापहृतमानसम् ।
राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३ ॥
राधाहृत्पद्ममध्ये च Radhakrishna Stotram वसन्तं सन्ततं शुभम् ।
राधासहचरं शश्वत् राधाज्ञापरिपालकम् ॥ ४ ॥
ध्यायन्ते योगिनो योगान् सिद्धाः सिद्धेश्वराश्च यम् ।
तं ध्यायेत् सततं शुद्धं भगवन्तं सनातनम् ॥ ५ ॥
निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् ।
नित्यं सत्यं च परमं भगवन्तं सनातनम् ॥ ६ ॥
यः सृष्टेरादिभूतं च सर्वबीजं परात्परम् ।
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ ७ ॥
बीजं नानावताराणां सर्वकारणकारणम् ।
वेदवेद्यं वेदबीजं वेदकारणकारणम् ॥ ८ ॥
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ।
गन्धर्वेण कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः ।
इहैव जीवन्मुक्तश्च परं याति परां गतिम् ॥ ९ ॥
हरिभक्तिं हरेर्दास्यं गोलोकं च निरामयम् ।
पार्षदप्रवरत्वं च लभते नात्र संशयः ॥ १० ॥
॥ इति श्री राधा कृष्ण स्तोत्र सम्पूर्णम् ॥
Shri Radhakrishna Stotram : श्री राधा कृष्ण स्तोत्र….
श्री राधा कृष्ण स्तोत्र हिंदी पाठ: Shri Radhakrishna Stotram in Hindiवन्दे नवघनश्यामं पीतकौशेयवाससम् ।सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥…
Shri Radha Naam-Mahatmya Stotram : श्रीराधा नाम महात्म्य स्तोत्र….
Shri Radha Naam-Mahatmya Stotram in Hindi: श्रीराधा नाम महात्म्य स्तोत्र हिंदी पाठरेफो हि कोटी जन्माघं कर्मभोगं शुभाशुभम् ।आकारो गर्भवासं च…
Shri Mrityunjay Stotra : श्री मृत्युंजय स्तोत्र….
Shri Mrityunjay Stotra : श्री मृत्युंजय स्तोत्र: श्री मृत्युंजय स्तोत्र के बारे में माना जाता है कि महा मृत्युंजय मंत्र…




KARMASU