Mahatmya Stotram

Shri Radha Naam-Mahatmya Stotram : श्रीराधा नाम महात्म्य स्तोत्र….

रेफो हि कोटी जन्माघं कर्मभोगं शुभाशुभम् ।
आकारो गर्भवासं च मृत्युं च रोगमुत्सृजेत् ।

धकार आयुषो हानिमाकारो भवबन्धनम् ।
श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः ।
रेफ़ो हि निश्चलां भक्तिं दास्यं कृष्णपदाम्बुजे ।।

सर्वेप्सितं सदानन्दं सर्वसिद्धौघमीश्वरम् ।
धकारः सहवासं च तत्तुल्यकालमेव च ।

ददाति सार्ष्टिसारूप्यं तत्त्वज्ञानं हरेः समम् ।
आकरस्तेजसां राशिं दानशक्तिं हरौ यथा । 

योगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् ।
श्रुत्युक्तिस्मरणाद्योगान्मोहजालं च किल्बिषम् ।
रोगशोक मृत्युयमा वेपन्ते नात्र संशयः । 

।। इति श्रीराधा नाम महात्म्य स्तोत्र सम्पूर्णम् ।।

Leave a Comment

Your email address will not be published. Required fields are marked *