श्री मातंगी स्तोत्रम् हिंदी पाठ: Shri Matangi Stotram in Hindi
॥ ईश्वर उवाच ॥
आराध्य मातश्चरणाम्बुजे तेब्रह्मादयो विस्तृतकीर्तिमापुः ।
अन्ये परं वा विभवं मुनीन्द्राः परां श्रियं भक्तिभरेण चान्ये ॥ १ ॥
नमामि देवीं नवचन्द्रमौले-र्मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्नायप्राप्तिप्रतिपादितार्थं प्रबोधयन्तीं प्रियमादरेण ॥ २ ॥
विनम्रदेवासुरमौलिरत्नै-र्नीराजितं ते चरणारविन्दम् ।
भजन्ति ये देवि महीपतीनां व्रजन्ति ते सम्पदमादरेण ॥ ३ ॥
कृतार्थयन्तीं पदवीं पदाभ्या-मास्फालयन्तीं कृतवल्लकीं ताम् ।
मातङ्गिनीं सद्धृदयां धिनोमि लीलांशुकां शुद्धनितम्बबिम्बाम् ॥ ४ ॥
तालीदलेनार्पितकर्णभूषां माध्वीमदोद्घूर्णितनेत्रपद्माम् ।
घनस्तनीं शम्भुवधूं नमामि तटिल्लताकान्तिमनर्घ्यभूषाम् ॥ ५ ॥
चिरेण लक्ष्यं नवलोमराज्या स्मरामि भक्त्या जगतामधीशे ।
वलित्रयाढ्यं तम मध्यमम्ब नीलोत्पलांशुश्रियमावहन्त्याः ॥ ६ ॥
कान्त्या कटाक्षैः कमलाकराणां कदम्बमालाञ्चितकेशपाशम् ।
मातङ्गकन्यां हृदि भावयामि ध्यायेयमारक्तकपोलबिम्बम् ॥ ७ ॥
बिम्बाधरन्यस्तललामवश्य-मालीललीलालकमायताक्षम् ।
मन्दस्मितं ते वदनं महेशि स्तुत्यानया शङ्करधर्मपत्नीम् ॥ ८ ॥
मातङ्गिनीं वागधिदेवतां तां Matangi Stotram स्तुवन्ति ये भक्तियुता मनुष्याः ।
परां श्रियं नित्यमुपाश्रयन्ति परत्र कैलासतले वसन्ति ॥ ९ ॥
उद्यद्भानुमरीचिवीचिविलसद्वासो वसानां परां
गौरीं सङ्गतिपानकर्परकरामानन्दकन्दोद्भवाम् ।
गुञ्जाहारचलद्विहारहृदयामापीनतुङ्गस्तनीं
मत्तस्मेरमुखीं नमामि सुमुखीं शावासनासेदुषीम् ॥ १० ॥
॥ इति श्री मातंगी स्तोत्रम् सम्पूर्णम् ॥
Shri Mayureshwar Stotra : श्री मयूरेश्वर स्तोत्र…..
Shri Mayureshwar Stotraश्री मयूरेश्वर स्तोत्र: श्री मयूरेश्वर स्तोत्र संस्कृत भाषा में रचित है। इस स्तोत्र की रचना स्वयं भगवान ब्रह्मा…
Shri Matangi Stotram : श्री मातंगी स्तोत्रम्….
श्री मातंगी स्तोत्रम् हिंदी पाठ: Shri Matangi Stotram in Hindi॥ ईश्वर उवाच ॥आराध्य मातश्चरणाम्बुजे तेब्रह्मादयो विस्तृतकीर्तिमापुः ।अन्ये परं वा विभवं मुनीन्द्राः…
Shri Mangla Charan Stotra : श्री मंगलचरण स्तोत्र…..
Mangla Charan Stotra श्री मंगलचरण स्तोत्र: मंगल ग्रह लगभग एक वर्ष और दो सौ बीस दिनों तक राशिचक्र में भ्रमण…




KARMASU