श्री गणेश पञ्चरत्नं स्तोत्र हिंदी पाठ: Sri Ganesha Pancharatnam Stotram in Hindi
मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥
नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥
समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं Pancharatnam Stotram दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥
अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम् कपोलदानवारणं भजे पुराणवारणम् ॥ ४ ॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५ ॥
महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६ ॥
॥ इति श्री गणेश पञ्चरत्नं स्तोत्र सम्पूर्णम् ॥
Tripura Bhairavi Stotra : त्रिपुर भैरवी स्तोत्र…..
त्रिपुर भैरवी स्तोत्र हिंदी पाठ : Tripura Bhairavi Stotra in Hindiब्रह्मादयस्स्तुति शतैरपि सूक्ष्मरूपंजानन्तिनैव जगदादिमनादिमूर्तिम् तस्मादमूं कुचनतां Bhairavi Stotra नवकुङ्कुमास्यां स्थूलांस्तुवे सकलवाङ्मयमातृभूताम्…
Tripura Sundari Veda-Pada Stotram : त्रिपुर सुन्दरी वेद-पाद स्तोत्रम्….
त्रिपुर सुन्दरी वेद-पाद स्तोत्रम् हिंदी पाठ : Tripura Sundari Veda-Pada Stotram in Hindiवेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात्…
Tripura Bhairavi Sahasranama Stotram : त्रिपुर भैरवी सहस्रनाम स्तोत्रम्….
त्रिपुर भैरवी सहस्रनाम स्तोत्रम् हिंदी पाठ : Tripura Bhairavi Sahasranama Stotram in Hindiब्रह्महत्या सुरापानं स्तेयङ्गुर्वङ्गनागमः ॥महापातककोट्यस्तु तथा चैवोपपातकाः ।स्तोत्रेण भैरवोक्तेन…




KARMASU