KARMASU

Lakshmi

Shri Sita Lakshmi Stotram: श्रीसीतालक्ष्मीस्तोत्रम्


श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

ॐ भूमिपुत्र्यै च विद्महे । रामपत्न्यै च धीमहि ।
तन्नः सीता प्रचोदयात् ॥

सीता श्रीरामसज्जाया सानन्दवाक्स्वरूपिणी ।
सा सम्पूर्णसुमाङ्गल्या ज्वलदग्निशुचिस्फुरा ॥ १॥ (१)

मदम्बा श्रीमहालक्ष्मीर्मच्चित्तविलसत्प्रभा ।
क्षमागुण्यातिसान्त्वा मा सहजस्थितसद्गुणा ॥ २॥

क्षपानाथप्रभारूपा चन्द्रार्कमुखमण्डला ।
सानसीविग्रहाभासा चारुसारप्रभासिनी ॥ ३॥

पदकोकनदात्नाभा पदाम्बुजसुलक्षणा । (२)
पदपावित्र्यलक्षण्या पदाश्रितसुरक्षणा ॥ ४॥

कराम्भोजाभयादात्री स्मिताम्भोरुहलोचनी ।
करुणामयवीक्षण्या नयनाब्जविमोचनी ॥ ५॥

सौन्दर्यदेवता सीता क्ष्मापुत्री जनकात्मजा ।
शिवचापलघूद्धारा कोमला शक्तिशालिनी ॥ ६॥

श्रीरामतन्मया सीता रामपत्नी लसच्छविः ।
कल्याणरामसाराध्या सीता भव्यसुरूपिणी ॥ ७॥

वैदेही मृदुसद्वाणी ऐहिकापरपूरणी ।
रामप्रेष्ठा महाराज्ञी पूर्णसद्भक्तिकारिणी ॥ ८॥

रामनामसुधापाना नामसारप्रमोदिता ।
नामसद्ध्यानसँल्लीना दहराकाशदर्शना ॥ ९॥

श्रीरामपूर्णसच्चित्ता श्रीरामानन्यचिन्तना ।
श्रीरामकीर्तिसम्मूला रामेण सह चारिणी ॥ १०॥

रामावतारसम्पूर्णा रामायणसुबीजता । (३)
श्रीरामाभिन्नदिव्याभा साक्षात् ब्रह्मस्वरूपिणी ॥ ११॥

सुस्वराजितमाधुर्या सङ्गीतमृदुलस्वरा ।
श्रीत्यागब्रह्मसङ्गीता गुरुस्वामिसुकीर्तिता ॥ १२॥

त्यागराजगुरुस्वामिशिष्यापुष्पासुसंस्तुता ।
बालालापस्तुतिप्रीता पुत्रीपुष्पाबहुप्रिया ॥ १३॥

मयेति कीर्तिते मातर्मच्चित्तं परिपूरय ।
चित्तप्रसादनं मातः कुरु मे भक्तिवर्धनम् ॥ १४॥

मङ्गलं रामसत्यै च सीतालक्ष्म्यै सुमङ्गलम् ।
मङ्गलं मम मात्रे च महालक्ष्म्यै सुमङ्गलम् ॥ १५॥

सीतास्तोत्रं सुसम्पूर्णं सीतानुग्रहकारकम् ।
सीतानुग्रहसम्भावं सर्वमङ्गलदायकम् ॥ १६॥

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीसीतालक्ष्मीस्तोत्रं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।

Leave a Reply

Your email address will not be published. Required fields are marked *