श्रीगणेशाय नमः । अथ सूर्यस्य मन्त्रः - विश्वनाथसारोद्धारे ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा ॥ अथ चन्द्रस्य मन्त्रः - कालीपटले ॐ श्रीं क्रीं ह्रां चं चन्द्राय नमः ॥ अथ भौमस्य मन्त्रः - शारदाटीकायाम् ऐं ह्सौः श्रीं द्रां कं ग्रहाधिपतये भौमाय स्वाहा ॥ अथ बुधस्य मन्त्रः - स्वतन्त्रे ॐ ह्रां क्रीं टं ग्रहनाथाय बुधाय स्वाहा ॥ अथ जीवस्य मन्त्रः - त्रिपुरातिलके ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं ग्रहाधिपतये बृहस्पतये ब्रींठः ऐंठः श्रींठः स्वाहा ॥ अथ शुक्रस्य मन्त्रः - आगमशिरोमणौ ॐ ऐं जं गं ग्रहेश्वराय शुक्राय नमः ॥ अथ शनैश्चरस्य मन्त्रः - आगमलहर्याम् ॐ ह्रीं श्रीं ग्रहचक्रवर्तिने शनैश्चराय क्लीं ऐंसः स्वाहा ॥ अथ राहोर्मन्त्रः - आगमलहर्याम् ॐ क्रीं क्रीं हूँ हूँ टं टङ्कधारिणे राहवे रं ह्रीं श्रीं भैं स्वाहा ॥ अथ केतु मन्त्रः - मन्त्रमुक्तावल्याम् ॐ ह्रीं क्रूं क्रूररूपिणे केतवे ऐं सौः स्वाहा॥ ॥ इति नवग्रहमन्त्रः सम्पूर्णम् ॥