May 18, 2021

श्रीविष्णुसहस्रनामस्तोत्रम्

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ॐ अथ सकलसौभाग्यदायक श्रीविष्णुसहस्रनामस्तोत्रम् । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥ यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥ व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥ अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥ यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥ ॐ नमो विष्णवे प्रभविष्णवे । श्रीवैशम्पायन उवाच — श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥ युधिष्ठिर उवाच — किमेकं दैवतं लोके किं वाप्येकं परायणम् । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥ को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९॥ भीष्म उवाच — जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १०॥ तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ १२॥ ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् । लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३॥ एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४॥ परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १५॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥ १६॥ यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७॥ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे श‍ृणु पापभयापहम् ॥ १८॥ यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९॥ ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥ छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २०॥ अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः । त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१॥ विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥ अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं ॥ २२ ॥ पूर्वन्यासः । श्रीवेदव्यास उवाच — ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य । श्री वेदव्यासो भगवान् ऋषिः । अनुष्टुप् छन्दः । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनः स्रष्टेति शक्तिः । उद्भवः क्षोभणो देव इति परमो मन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणिरक्षोभ्य इति नेत्रम् । त्रिसामा सामगः सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥ श्रीविश्वरूप इति ध्यानम् । श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥ अथ न्यासः । ॐ शिरसि वेदव्यासऋषये नमः । मुखे अनुष्टुप्छन्दसे नमः । हृदि श्रीकृष्णपरमात्मदेवतायै नमः । गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः । पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः । सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः । करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥ इति ऋषयादिन्यासः ॥ अथ करन्यासः । ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः । अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः । सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः । निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः । रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । अथ षडङ्गन्यासः । ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः । अमृतांशूद्भवो भानुरिति शिरसे स्वाहा । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् । सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् । निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् । रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् । इति षडङ्गन्यासः ॥ श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं करिष्ये इति सङ्कल्पः । अथ ध्यानम् । क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः । शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १॥ भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २॥ ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं योगिहृद्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥ मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४॥ नमः समस्तभूतानामादिभूताय भूभृते । अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५॥ सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् । सहारवक्षःस्थलकौस्तुभश्रियं स्थलशोभिकौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६॥ छायायां पारिजातस्य हेमसिंहासनोपरि आसीनमम्बुदश्याममायताक्षमलंकृतम् । चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७॥ स्तोत्रम् । हरिः ॐ । विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥ योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥ सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥ स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥ अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥ अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७॥ ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥ ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९॥ सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥ अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥ वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥ रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥ सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥ लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥ भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥ उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥ वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥ महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥ महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥ मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥ अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥ गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥ अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥ आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥ सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥ असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥ वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥ सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥ ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥ अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥ भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥ युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३॥ इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥ अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५॥ स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः

श्रीविष्णुसहस्रनामस्तोत्रम् Read More »

मङ्गलाचरणम्

श्री गणेशाय नमः ॥ श्रीगुरुभ्यो नमः ॥ स जयति सिन्धुरवदनो देवो यत्पादपङ्कजस्मरणम् । वासरमणिरिव तमसां राशिं नाशयति विऽघ्नानाम् ॥ १॥ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ २॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजानानः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ ३॥ विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ४॥ शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वाविघ्नोपशान्तये ॥ ५॥ व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ६॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ७॥ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शंभुर्भगवान् बादरायणः ॥ ८॥ इति मङ्गलाचरणं सम्पूर्णम् ॥

मङ्गलाचरणम् Read More »

नारायणस्तोत्रम्

श्री गणेशाय नमः । नारायण नारायण जय गोविन्द हरे ॥ नारायण नारायण जय गोपाल हरे ॥ ध्रु ॥ करुणापारावार वरुणालयगम्भीर ॥ नारायण ॥ १॥ घननीरदसङ्काश कृतकलिकल्मषनाश ॥ नारायण ॥ २॥ यमुनातीरविहार धृतकौस्तुभमणिहार ॥ नारायण ॥ ३॥ पीताम्बरपरिधान सुरकल्याणनिधान ॥ नारायण ॥ ४॥ मञ्जुलगुञ्जाभूष मायामानुषवेष ॥ नारायण ॥ ५॥ राधाधरमधुरसिक रजनीकरकुलतिलक ॥ नारायण ॥ ६॥ मुरलीगानविनोद वेदस्तुतभूपाद ॥ नारायण ॥ ७॥ बर्हिनिबर्हापीड नटनाटकफणिक्रीड ॥ नारायण ॥ ८॥ वारिजभूषाभरण राजिवरुक्मिणीरमण ॥ नारायण ॥ ९॥ जलरुहदलनिभनेत्र जगदारम्भकसूत्र ॥ नारायण ॥ १०॥ पातकरजनीसंहार करुणालय मामुद्धर ॥ नारायण ॥ ११॥ अघबकक्षयकंसारे केशव कृष्ण मुरारे ॥ नारायण ॥ १२॥ हाटकनिभपीताम्बर अभयं कुरु मे मावर ॥ नारायण ॥ १३॥ दशरथराजकुमार दानवमदसंहार ॥ नारायण ॥ १४॥ गोवर्धनगिरिरमण गोपीमानसहरण ॥ नारायण ॥ १५॥ शरयूतीरविहार सज्जनऋषिमन्दार ॥ नारायण ॥ १६॥ विश्वामित्रमखत्र विविधपरासुचरित्र ॥ नारायण ॥ १७॥ ध्वजवज्राङ्कुशपाद धरणीसुतसहमोद ॥ नारायण ॥ १८॥ जनकसुताप्रतिपाल जय जय संस्मृतिलील ॥ नारायण ॥ १९॥ दशरथवाग्धृतिभार दण्डकवनसञ्चार ॥ नारायण ॥ २०॥ मुष्टिकचाणूरसंहार मुनिमानसविहार ॥ नारायण ॥ २१॥ वालिविनिग्रहशौर्य वरसुग्रीवहितार्य ॥ नारायण ॥ २२॥ वालीनिग्रह मां मुरलीकर धीवर पालय पालय श्रीधर ॥ नारायण ॥ २३॥ जलनिधिबन्धनधीर रावणकण्ठविदार ॥ नारायण ॥ २४॥ ताटीमददलनाढ्य नटगुणविविधधनाढ्य ॥ नारायण ॥ २५॥ गौतमपत्नीपूजन करुणाघनावलोकन ॥ नारायण ॥ २६॥ सम्भ्रमसीताहार साकेतपुरविहार ॥ नारायण ॥ २७॥ अचलोद्धृतिचञ्चत्कर भक्तानुग्रहतत्पर ॥ नारायण ॥ २८॥ नैगमगानविनोद रक्षःसुतप्रह्लाद ॥ नारायण ॥ २९॥ रक्षित सुप्रह्लाद भारतीयतिवरशङ्कर नामामृतमखिलान्तर ॥ नारायण ॥ ३०॥ । इति श्रीमच्छङ्कराचार्यविरचितं नारायणस्तोत्रं सम्पूर्णम् ।

नारायणस्तोत्रम् Read More »

नवग्रहमन्त्रः

श्रीगणेशाय नमः । अथ सूर्यस्य मन्त्रः – विश्वनाथसारोद्धारे ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा ॥ अथ चन्द्रस्य मन्त्रः – कालीपटले ॐ श्रीं क्रीं ह्रां चं चन्द्राय नमः ॥ अथ भौमस्य मन्त्रः – शारदाटीकायाम् ऐं ह्सौः श्रीं द्रां कं ग्रहाधिपतये भौमाय स्वाहा ॥ अथ बुधस्य मन्त्रः – स्वतन्त्रे ॐ ह्रां क्रीं टं ग्रहनाथाय बुधाय स्वाहा ॥ अथ जीवस्य मन्त्रः – त्रिपुरातिलके ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं ग्रहाधिपतये बृहस्पतये ब्रींठः ऐंठः श्रींठः स्वाहा ॥ अथ शुक्रस्य मन्त्रः – आगमशिरोमणौ ॐ ऐं जं गं ग्रहेश्वराय शुक्राय नमः ॥ अथ शनैश्चरस्य मन्त्रः – आगमलहर्याम् ॐ ह्रीं श्रीं ग्रहचक्रवर्तिने शनैश्चराय क्लीं ऐंसः स्वाहा ॥ अथ राहोर्मन्त्रः – आगमलहर्याम् ॐ क्रीं क्रीं हूँ हूँ टं टङ्कधारिणे राहवे रं ह्रीं श्रीं भैं स्वाहा ॥ अथ केतु मन्त्रः – मन्त्रमुक्तावल्याम् ॐ ह्रीं क्रूं क्रूररूपिणे केतवे ऐं सौः स्वाहा॥ ॥ इति नवग्रहमन्त्रः सम्पूर्णम् ॥

नवग्रहमन्त्रः Read More »

नवग्रह ध्यान मन्त्राः साधुसङ्कुलि तन्त्रान्तर्गतम्

ग्रहपुरश्चरण प्रयोगः ॐ रक्तपद्मासनं देवं चतुर्बाहुसमन्वितम् । क्षत्रियं रक्तवर्णञ्च गोत्रं काश्यपसम्भवम् ॥ सप्ताश्वरथमारूढं प्रचण्डं सर्वसिद्धिदम् । द्विभुजं रक्तपद्मैश्च संयुक्तं परमाद्भुतम् ॥ कलिङ्गदेशजं देवं मौलिमाणिक्यभूषणम् । त्रिनेत्रं तेजसा पूर्णमुदयाचलसंस्थितम् ॥ द्वादशाङ्गुल-विस्तीर्णं प्रवरं घृतकौशिकम् । शिवाधिदैवं पुर्वास्यं ब्रह्मप्रत्यधिदैवतम् ॥ क्लीं ऐं श्रीं ह्रीं सूर्याय नमः । ॐ शुक्लं शुक्लाम्बरधरं श्वेताब्जस्थं चतुर्भुजम् । हारकेयूरनूपुरैर्मण्डितं तमसापहम् ॥ सुखदृश्यं सुधायुक्त-मात्रेयं वैश्यजातिजम् । कलङ्काङ्कितसर्वाङ्गं केशपाशातिसुन्दरम् ॥ मुकुटेर्मणिमाणिक्यैः शोभनीयं तु लोचनम् । योषित्प्रियं महानन्दं यमुनाजलसम्भवम् ॥ उमाधिदैवतं देवमापप्रत्यधिदैवतम् ॥ ह्रीं ह्रीं हुं सोमाय स्वाहा । ॐ मेशाधिरूढं द्विभुजं शक्तिचापधरं मुदा । रक्तवर्णं महातेजं तेजस्वीनां समाकुलम् ॥ रक्तवस्त्रपरिधानम् नानालङ्कारसंयुतम् । रक्ताङ्गं धरणीपुत्रं रक्तमाल्यानुलेपनम् ॥ हस्ते वाराहदशनं पृष्ठे तूणसमन्वितम् । कटाक्षाद् भीतिजनकं महामोहप्रदं महत् ॥ महाचापधरं देवं महोग्रमुग्रविग्रहम् । स्कन्दादिदैवं सूर्यास्यं क्षितिप्रत्यधिदैवतम् ॥ ह्रीं ॐ ऐं कुजाय स्वाहा । ॐ सुतप्तस्वर्णाभतनुं रोमराजिविराजितम् । द्विभुजं स्वर्णदण्डेव शरच्चन्द्रनिभाननम् ॥ चरणे रत्नमञ्जीरं कुमारं शुभलक्षणम् । स्वर्णयज्ञोपवीतञ्च पीतवस्त्रयुगावृतम् ॥ अत्रिगोत्रसमुत्पन्नं वैश्यजातिं महाबलम् । मागधं महिमापूर्णं द्विनेत्रं द्विभुजं शुभम् ॥ नारायणाधिदैवञ्च विष्णुप्रत्यधिदैवतम् । चिन्तयेत् सोमतनयं सर्वाभिष्टफलप्रदं ॥ ॐ क्लीं ॐ बुधाय स्वाहा । ॐ कनकरुचिरगौरं चारुमूर्तिं प्रसन्नं द्विभुजमपि सरजौ संदधानं सुरेज्यं । वसनयुगदधानं पीतवस्त्रं सुभद्रं सुरवरनरपुज्यमङ्गिरोगोत्रयुक्तम् ॥ द्विजवरकुलजातं सिन्धुदेशप्रसिद्धं त्रिजगति गणश्रेष्ठश्चाधिदैवं तदीयम् । सकलगिरिनिहन्ता इन्द्रः प्रत्याधिदैवं ग्रहगणगुरुनाथं तं भजेऽभीष्टसिद्धौ ॥ रं यं ह्रीं ऐं गुरवे नमः । ॐ शुक्लाम्बरं शुक्लरुचिं सुदीप्तं तुषारकुन्देन्दुद्युतिं चतुर्भुजम् । इन्द्राधिदैवं शचीप्रत्याधिदैवं वेदार्थविज्ञं च कविं कवीनाम् ॥ भृगुगोत्रयुक्तं द्विजजातिमात्रं दितीन्द्रपूज्यं खलु शुद्धिशान्तं । सर्वार्थसिद्धिप्रदमेव काव्यं भजेऽप्यहं भोजकतोद्भवं भृगुम् ॥ हुं हुं श्रीं श्रीं नं रं शुक्राय स्वाहा । ॐ सौरिं गृध्रगतातिकृष्णवपुषं कालाग्निवत् सङ्कुलं संयुक्तं भुजपल्लवैरुपलसत्स्तम्भैश्चतुर्भिः समैः । भीमं चोग्रमहाबलातिवपुषं बाधागणैः संयुतं गोत्रं काश्यपजं सुराष्ट्रविभवं कालाग्निदैवं शनिम् ॥ वस्त्रैः कृष्णमयैर्युतं तनुवरं तं सूर्यसूनुं भजे ॥ ह्रीं क्लीम् शनैश्चराय नमः । ॐ महिषस्थं कृष्णं वदनमयविभुं कर्णनासाक्षिमात्रम् कारालास्यं भीमं गदविभवयुतं श्यामवर्णं महोग्रं । पैठीनं गोत्रयुक्तं रविशशीदमनं चाधिदैवं यमोऽपि सर्पप्रत्यधिदैवतं मलयगीर्भावं तं तमसं नमामि ॥ वं ऐं वं वं क्लीं वं तमसे स्वाहा । ॐ महोग्रं धूमाभं करचरणयुतं छिन्नशीर्षं सुदीप्तम् हस्ते वाणं कृपाणं त्रिशिखशशिधृतं वेदहस्तं प्रसन्नं । ब्रह्मा तस्याधिदैवं सकलगदयुतं सर्पप्रत्यधिदैवं ध्यायेत् केतुं विशालं सकलसुरनरे शान्तिदं पुष्टिदञ्च ॥ श्रीं श्रीं आं वं रं लं केतवे स्वाहा ।

नवग्रह ध्यान मन्त्राः साधुसङ्कुलि तन्त्रान्तर्गतम् Read More »

द्वादशज्योतिर्लिङ्गस्तोत्रम्

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १॥ श्रीशैलश‍ृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् । तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २॥ अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३॥ कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥ ४॥ पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् । सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५॥ याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः । सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ६॥ महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः । सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ ७॥ सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे । यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ ८॥ सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः । श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ ९॥ यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च । सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥ १०॥ सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् । वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११॥ इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् । वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥ १२॥ ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण । स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥ ॥ इति श्रीमद्शङ्कराचार्यविरचितं द्वादशज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम् ॥

द्वादशज्योतिर्लिङ्गस्तोत्रम् Read More »

दुर्गाद्वात्रिंशन्नामावली

दुर्गा दुर्गार्तिंशमनी दुर्गाऽऽपद्विनिवारिणी । दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी ॥ १॥ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा । दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला ॥ २॥ दुर्गमादुर्गमालोका दुर्गमाऽऽत्मस्वरूपिणी । दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ॥ ३॥ दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी । दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी ॥ ४॥ दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी । दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्वरी ॥ ५॥ दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारिणी । नामावलिमिमां यस्तु दुर्गाया सुधी मानवः ॥ ६॥ पठेत् सर्वभयान्मुक्तो भविष्यति न संशयः । शत्रुभिः पीड्यमानो वा दुर्गबन्धगतोऽपि वा । द्वात्रिंशन्नामपाठेन मुच्यते नात्र संशयः ॥ ७॥

दुर्गाद्वात्रिंशन्नामावली Read More »

श्रीगोपालसहस्रनामस्तोत्रम्

पार्वत्युवाच- कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम् । ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ १॥ त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः । नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥ २॥ आश्चर्यमिदमाख्यानं जायते मयि शङ्कर । तत्प्राणेश महाप्राज्ञ संशयं छिन्धि मे प्रभो ॥ ३॥ श्रीमहादेव उवाच- धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे । रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ ४॥ स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ ५॥ दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् । इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥ ६॥ धनरत्नौघमाणिक्यं तुरङ्गं च गजादिकम् । ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ ७॥ तत्तेऽहं सम्प्रवक्ष्यामि श‍ृणुष्वावहिता प्रिये । योऽसौ निरञ्जनो देवः चित्स्वरूपी जनार्दनः ॥ ८॥ संसारसागरोत्तारकारणाय नृणाम् सदा । श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ ९॥ ततो लोका महामूढा विष्णुभक्तिविवर्जिताः । निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥ १०॥ निरञ्जनो निराकारो भक्तानां प्रीतिकामदः । वृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥ ११॥ मुरलीवादनाधारी राधायै प्रीतिमावहन् । अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ १२॥ श्रीकृष्णचन्द्रो भगवान् नन्दगोपवरोद्यतः । धरणीरूपिणीमातृयशोदानन्ददायकः ॥ १३॥ द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः । ब्रह्मणाऽभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥ १४॥ जातोऽवन्यां मुकुन्दोऽपि मुरलोवेदरेचिका । तया सार्द्धं वचः कृत्वा ततो जातो महीतले ॥ १५॥ संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् । एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम् ॥ १६॥ गौरतेजो विना यस्तु श्यामतेजस्समर्चयेत् । जपेद्वा ध्यायते वापि स भवेत् पातकी शिवे ॥ १७॥ स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः । एतैर्दोषैर्विलिप्येत तेजोभेदान्महीश्वरि ॥ १८॥ तस्माज्ज्योतिरभूद् द्वेधा राधामाधवरूपकम् । तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥ १९॥ दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले । ततः पृष्टवती राधा सन्देहभेदमात्मनः ॥ २०॥ निरञ्जनात्समुत्पन्नं मयाऽधीतं जगन्मयि । श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ २१॥ ततो नारदतस्सर्वे विरला वैष्णवा जनाः । कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥ २२॥ शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि । ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ २३॥ पाठ करने की विधि ॐ अस्य श्रीगोपालसहस्रनामस्तोत्रमहामन्त्रस्य श्रीनारद ऋषिः । अनुष्टुप् छन्दः । श्रीगोपालो देवता । कामो बीजम् । माया शक्तिः । चन्द्रः कीलकम् श्रीकृष्णचन्द्र भक्तिरूपफलप्राप्तये श्रीगोपालसहस्रनामस्तोत्रजपे विनियोगः । या इसतरह करें पाठ ॐ ऐं क्लीं बीजम् । श्रीं ह्रीं शक्तिः । श्रीवृन्दावननिवासः कीलकम् । श्रीराधाप्रियपरब्रह्मेति मन्त्रः । धर्मादिचतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥ अथ करादिन्यासः ॐ क्लां अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः ॥ ॐ क्लूं मध्यमाभ्यां नमः ॥ ॐ क्लैं अनामिकाभ्यां नमः ॥ ॐ क्लौं कनिष्टिकाभ्यां नमः ॥ ॐ क्लः करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः ॐ क्लां हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा ॥ ॐ क्लूं शिखायै वषट् ॥ ॐ क्लैं कवचाय हुं ॥ ॐ क्लौं नेत्रत्रयाय वौषट् ॥ ॐ क्लः अस्त्राय फट् ॥ अथ ध्यानम् कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रेवरमौक्तिकं करतले वेणुं करे कङ्कणम् ॥ सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलिम् गोपस्त्रीपरिवेष्टितो विजयते गोपालचूड़ामणिः ॥ १॥ फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ॥ गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ २॥ सहस्रनाम स्तोत्र आरम्भ- ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः । श्रीगोपालो महीपालो सर्ववेदान्तपारगः ॥ १॥ var सर्ववेदाङ्गपारगः कृष्णः कमलपत्राक्षः पुण्डरीकः सनातनः । var धरणीपालकोधन्यः गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः ॥ २॥ आदिकर्ता महाकर्ता महाकालः प्रतापवान् । जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥ ३॥ मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् । नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥ ४॥ गोकुलेन्द्रो महीचन्द्रः शर्वरीप्रियकारकः । कमलामुखलोलाक्षः पुण्डरीकः शुभावहः ॥ ५॥ दुर्वासाः कपिलो भौमः सिन्धुसागरसङ्गमः । गोविन्दो गोपतिर्गोपः कालिन्दीप्रेमपूरकः ॥ ६॥ गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः । नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥ ७॥ सर्वमङ्गलदाता च सर्वकामप्रदायकः । आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥ ८॥ गजगामी गजोद्धारी कामी कामकलानिधिः । कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥ ९॥ मालाकारः कृपाकारः कोकिलस्वरभूषणः । रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥ १०॥ सहस्राक्षपुरीभेत्ता महामारीविनाशनः । शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥ ११॥ कुमारीवरदायी च वरेण्यो मीनकेतनः । नरो नारायणो धीरो राधापतिरुदारधीः ॥ १२॥ श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा । वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः ॥ १३॥ रेवतीरमणो रामः प्रियश्चञ्चललोचनः । रामायणशरीरोऽयं रामो रामः श्रियःपतिः ॥ १४॥ शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः । राधाराधयिताराधी राधाचित्तप्रमोदकः ॥ १५॥ राधारतिसुखोपेतः राधामोहनतत्परः । राधावशीकरो राधाहृदयाम्भोजषट्पदः ॥ १६॥ राधालिङ्गनसम्मोहः राधानर्तनकौतुकः । राधासञ्जातसम्प्रीतो राधाकाम्यफलप्रदः ॥ १७॥ वृन्दापतिः कोशनिधिः कोकशोकविनाशनः । चन्द्रापतिः चन्द्रपतिः चण्डकोदण्डभञ्जनः ॥ १८॥ रामो दाशरथी रामः भृगुवंशसमुद्भवः । आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥ १९॥ वृषभानुभवो भावः काश्यपिः करुणानिधिः । कोलाहलो हली हाली हेली हलधरप्रियः ॥ २०॥ राधामुखाब्जमार्ताण्डः भास्करो रविजा विधुः । विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥ २१॥ रोहिणीहृदयानन्दो वसुदेवात्मजो बली । नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥ २२॥ नागो नवाम्भो विरुदो वीरहा वरदो बली । गोपथो विजयी विद्वान् शिपिविष्टः सनातनः ॥ २३॥ परशुरामवचोग्राही वरग्राही श‍ृगालहा । दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥ २४॥ वीरपत्नीयशस्त्राता जराव्याधिविघातकः । द्वारकावासतत्त्वज्ञः हुताशनवरप्रदः ॥ २५॥ यमुनावेगसंहारी नीलाम्बरधरः प्रभुः । विभुः शरासनो धन्वी गणेशो गणनायकः ॥ २६॥ लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः । वामनो वामनीभूतोऽवामनो वामनारुहः ॥ २७॥ यशोदानन्दनः कर्त्ता यमलार्जुनमुक्तिदः । उलूखली महामानी दामबद्धाह्वयी शमी ॥ २८॥ भक्तानुकारी भगवान् केशवो बलधारकः । केशिहा मधुहा मोही वृषासुरविघातकः ॥ २९॥ अघासुरविनाशी च पूतनामोक्षदायकः । कुब्जाविनोदी भगवान् कंसमृत्युर्महामखी ॥ ३०। अश्वमेधो वाजपेयो गोमेधो नरमेधवान् । कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥ ३१॥ रविकोटिप्रतीकाशो वायुकोटिमहाबलः । ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥ ३२॥ कमला कमलाक्षश्च कमलामुखलोलुपः । कमलाव्रतधारी च कमलाभः पुरन्दरः ॥ ३३॥ सौभाग्याधिकचित्तोऽयं महामायी मदोत्कटः । तारकारिः सुरत्राता मारीचक्षोभकारकः ॥ ३४॥ विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः । लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥ ३५॥ सीतानन्दकरो रामो वीरो वारिधिबन्धनः । खरदूषणसंहारी साकेतपुरवासवान् ॥ ३६॥ चन्द्रावलीपतिः कूलः केशिकंसवधोऽमलः । माधवो मधुहा माध्वी माध्वीको माधवो विधुः ॥ ३७॥ मुञ्जाटवीगाहमानः धेनुकारिर्धरात्मजः । वंशीवटविहारी च गोवर्धनवनाश्रयः ॥ ३८॥ तथा तालवनोद्देशी भाण्डीरवनशङ्खहा । तृणावर्तकृपाकारी वृषभानुसुतापतिः ॥ ३९॥ राधाप्राणसमो राधावदनाब्जमधुव्रतः । गोपीरञ्जनदैवज्ञः लीलाकमलपूजितः ॥ ४०॥ क्रीडाकमलसन्दोहः गोपिकाप्रीतिरञ्जनः । रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥ ४१॥ कामः कामारिभक्तोऽयं पुराणपुरुषः कविः । नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥ ४२॥ अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः । ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥ ४३॥ पद्मनाभः सुरज्येष्ठी ब्रह्मा रुद्रोऽहिभूषितः । गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही ॥ ४४॥ गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्त्रयः । यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥ ४५॥ भ्रमरः कुन्तली कुन्तीसुतरक्षो महामखी । यमुनावरदाता च काश्यपस्य वरप्रदः ॥ ४६॥ शङ्खचूडवधोद्दामो गोपीरक्षणतत्परः । पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥ ४७॥ फाल्गुनः फाल्गुनसखो विराधवधकारकः । रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥ ४८॥ कल्पवृक्षो महावृक्षः दानवृक्षो महाफलः । अङ्कुशो भूसुरो भावो भ्रामको भामको हरिः ॥ ४९॥ सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः । प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥ ५०॥ महाधनी महावीरो वनमालाविभूषणः । तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥ ५१॥ शूरः सूर्यो मृतण्डश्च भास्करो विश्वपूजितः । रविस्तमोहा वह्निश्च बाडवो वडवानलः ॥ ५२॥ दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः । गोपीनाथो महानाथो वृन्दानाथोऽविरोधकः ॥ ५३॥ प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः । गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥ ५४॥ कावेरी नर्मदा ताप्ती गण्डकी सरयूस्तथा । राजसस्तामसस्सत्त्वी सर्वाङ्गी सर्वलोचनः ॥ ५५॥ सुधामयोऽमृतमयो योगिनीवल्लभः शिवः । बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥ ५६॥ वंशी वंशधरो लोकः विलोको मोहनाशनः । रवरावो रवो रावो

श्रीगोपालसहस्रनामस्तोत्रम् Read More »

गर्भरक्षणस्तोत्रम्

एह्यहि भगवन् ब्रह्मन् प्रजाकर्तः प्रजापते । प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥ १॥ अश्विनौ देवदेवेशौ प्रगृह्णीधन् बलिं त्विमम् । सापत्यं गर्भिणीं सैमं स रक्षतां पूजयानया ॥ २॥ रुद्रेशा एकादश प्रोक्ताः प्रगृह्णन्तु बलिं त्विमम् । यक्षागमप्रीतये वृत्तं नित्यं रक्षन्तु गर्भिणीम् ॥ ३॥ आदित्या द्वादश प्रोक्ताः प्रगृह्णीध्वं बलिं त्विमाम् । अस्माकं तेजसां वृद्ध्यै नित्यं रक्षतु गर्भिणीम् ॥ ४॥ विनायक गणाध्यक्ष शिवपुत्र महाबल । प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥ ५ ॥ स्कन्द षण्मुख देवेश पुत्रप्रीतिविवर्धन । प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥ ६॥ प्रभासः प्रभवश्यामः प्रत्यासौ मारुतोऽनलः । ध्रुवाधर धराशैव वसवेष्टौ प्रकीर्तितः । प्रगृह्णीष्व बलिं सैमं नित्यं रक्षतु गर्भिणीम् ॥ ७॥ पितृदेवि पितृश्रेष्ठे बहुपुत्रि महाबले । बुधश्रेष्ठे निशावासे निवृत्ते शौनकप्रिये । प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥ ८॥ रक्ष रक्ष महादेव भक्तानुग्रहकारक । पक्षिवाहन गोविन्द सापत्यं रक्ष गर्भिणीम् ॥ ९॥

गर्भरक्षणस्तोत्रम् Read More »

गरुडकवचम्

अथ गरुडकवचम् । हरिः ॐ । अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारद भगवान् ऋषिः वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः । ॐ शिरो मे गरुडः पातु ललाटे विनितासुतः । नेत्रे तु सर्पहा पातु कर्णौ पातु सुराहतः ॥ १॥ नासिकां पातु सर्पारिः वदनं विष्णुवाहनः । सूर्येतालू च कण्ठे च भुजौ पातु महाबलः ॥ २॥ हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ॥ ३॥ स्तनौ मे विहगः पातु हृदयं पातु सर्पहा । नाभिं पातु महातेजाः कटिं मे पातु वायुनः ॥ ४॥ ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा । पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा ॥ ५॥ रोमकूपानि मे वीरो त्वचं पातु भयापहा । इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् ॥ ६॥ यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति । त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः । द्वादशाहं पठेद्यस्तु मुच्यते सर्वकिल्विषैः ॥ ७॥ ॥ इति श्रीनारदगरुडसंवादे गरुडकवचं सम्पूर्णम् ॥

गरुडकवचम् Read More »

श्रीकृष्णसहस्रनामस्तोत्र

श्रीमद्रुक्मिमहीपालवंशरक्षामणिः स्थिरः । राजा हरिहरः क्षोणीं रक्षत्यम्बुधिमेखलाम् ।१॥ स राजा सर्वतन्त्रज्ञः समभ्यर्च्य वरप्रदम् । देवं श्रियः पतिं स्तुत्या समस्तौद्वेदवेदितम् ॥ २॥ तस्य हृष्टाशयः स्तुत्या विष्णुर्गोपांगनावृतः । स पिंछश्यामलं रूपं पिंछोत्तंसमदर्शयत् ॥ ३॥ स पुनः स्वात्मविन्यस्तचित्तं हरिहरं नृपम् । अभिषिच्य कृपावर्षैरभाषत कृतांजलिम् ॥ ४॥ श्रीभगवानुवाच । मामवेहि महाभाग कृष्णं कृत्यविदां वर । पुरःस्थितोऽस्मि त्वद्भक्त्या पूर्णास्सन्तु मनोरथाः ॥ ५॥ संरक्षणाय शिष्टानां दुष्टानां शिक्षणाय च । समृद्ध्यै वेदधर्माणां ममांशत्वमिहोदितः ॥ ६॥ राजन्नामसहस्रेण रामो नाम्नां स्तुतस्त्वया । सोऽहं सर्वविदो तस्मात्प्रसन्नोऽस्मि विशेषतः ॥ ७॥ मामपि त्वं महाभाग मदीयचरितात्मना । सम्प्रीणय सहस्रेण नाम्नां सर्वार्थदायिनाम् ॥ ८॥ पराशरेण मुनिना व्यासेनाम्नायर्दशिना । स्वात्मभाजा शुकेनापि सूक्तेऽप्येतद्विभावितम् ॥ ९॥ तं हि त्वमनुसन्धेहि सहस्रशिरसं प्रभुम् । दत्तान्येषु मया न्यस्तं सहस्रं रक्षयिष्यति ॥ १०॥ इदं विश्वहितार्थाय रसनारंगगोचरम् । प्रकाशय त्वं मेदिन्यां परमागमसम्मतम् ॥ ११॥ इदं शठाय मूर्खाय नास्तिकाय विकीर्णिने । असूयिनेऽहितायापि न प्रकाश्यं कदाचन ॥ १२॥ विवेकिने विशुद्धाय वेदमार्गानुसारिणे । आस्तिकायात्मनिष्ठाय स्वात्मन्यनुसृतोदयम् ॥ १३॥ कृष्णनामसहस्रं वै कृतधीरेतदीरयेत् । विनियोगः ॐ अस्य श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य पराशरऋषिः, अनुष्टुप् छन्दः, श्रीकृष्णः परमात्मा देवता, श्रीकृष्णेति बीजम्, श्रीवल्लभेति शक्तिः, शार्ङ्गीति कीलकं, श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥ न्यासः पराशराय ऋषये नमः इति शिरसि, अनुष्टुप् छन्दसे नमः इति मुखे, गोपालकृष्णदेवतायै नमः, इति हृदये, श्रीकृष्णाय बीजाय नमः इति गुह्ये, श्रीवल्लभाय शक्त्यै नमः इति पादयोः, शार्ङ्गधराय कीलकाय नमः इति सर्वांगे ॥ करन्यासः श्रीकृष्ण इत्यारभ्य शूरवंशैकधीरित्यन्तानि अंगुष्ठाभ्यां नमः । शौरिरित्यारभ्य स्वभासोद्भासितव्रज इत्यन्तानि तर्जनीभ्यां नमः । कृतात्मविद्याविन्यासेत्यारभ्य प्रस्थानशकटारूढ इति मध्यमाभ्यां नमः, वृंदावनकृतालय इत्यारभ्य मधुराजनवीक्षित इत्यानामिकाभ्यां नमः, रजकप्रतिघातक इत्यारभ्य द्वारकापुरकल्पन इति कनिष्ठिकाभ्यां नमः द्वारकानिलय इत्यारभ्य पराशर इति करतलकरपृष्ठाभ्यां नमः, एवं हृदयादिन्यासः ॥ ध्यानम् । केषांचित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् । केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत् ॥ १॥ क्षीराब्धौ कृतसंस्तवस्सुरगणैर्ब्रह्मादिभिः पण्डितैः प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले । कंसध्वंसकृते जगाम मधुरां सारामसद्वारकां गोपालोऽखिलगोपिकाजनसखः पायादपायात् स नः ॥ २॥ फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतं गोविन्दं कलवेणुवादनरतं दिव्यांगभूषं भजे ॥ ३॥ ॐ कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः । क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥ १॥ भक्तिगम्यः त्रईमूर्तिर्भारार्तवसुधास्तुतः । देवदेवो दयासिन्धुर्देवदेवशिखामणिः ॥ २॥ सुखभावस्सुखाधारो मुकुन्दो मुदिताशयः । अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥ ३॥ शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः । अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥ ४॥ वसुधायासहरणो नारदप्रेरणोन्मुखः । प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥ ५॥ रौहिणेयकृतानन्दो योगज्ञाननियोजकः । महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥ ६॥ शूरवंशैकधीश्शौरिः कंसशंकाविषादकृत् । वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः ॥ ७॥ वसुदेवसुतः श्रीमान्देवकीनन्दनो हरिः । आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥ ८॥ स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः । प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः ॥ ९॥ शंखचक्रगदापद्मपाणिः पद्मनिभेक्षणः । किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥ १०॥ पीतवासा घनश्यामः कुंचितांचितकुन्तलः । सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥ ११॥ कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः । वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥ १२॥ निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः । अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥ १३॥ महर्षिमानसोल्लासो महीमंगलदायकः । सन्तोषितसुरव्रातः साधुचित्तप्रसादकः ॥ १४॥ जनकोपायनिर्देष्टा देवकीनयनोत्सवः । पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥ १५॥ स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः । शेषोरगफणाच्छत्रश्शेषोक्ताख्यासहस्रकः ॥ १६॥ यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः । कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः ॥ १७॥ दुर्गानिवेदितोद्भावो यशोदातल्पशायकः । नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः ॥ १८॥ सुजातजातकर्म श्रीर्गोपीभद्रोक्तिनिर्वृतः । अलीकनिद्रोपगमः पूतनास्तनपीडनः ॥ १९॥ स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः । विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥ २०॥ नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः । बालः पर्यंकनिद्रालुर्मुखार्पितपदांगुलिः ॥ २१॥ अंजनस्निग्धनयनः पर्यायांकुरितस्मितः । लीलाक्षस्तरलालोकश्शकटासुरभंजनः ॥ २२॥ द्विजोदितस्वस्त्ययनो मंत्रपूतजलाप्लुतः । यशोदोत्संगपर्यंको यशोदामुखवीक्षकः ॥ २३॥ यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः । तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥ २४॥ प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः । व्यालम्बिचूलिकारत्नो घोषगोपप्रहर्षणः ॥ २५॥ स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः । पंकानुलेपरुचिरो मांसलोरूकटीतटः ॥ २६॥ घृष्टजानुकरद्वंद्वः प्रतिबिम्बानुकारकृत् । अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्ग्मः ॥ २७॥ धात्रीकरसमालम्बी प्रस्खलच्चित्रचंक्रमः । अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥ २८॥ वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः । विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥ २९॥ अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः । नवनीतमहाचोरो दारकाहारदायकः ॥ ३०॥ पीठोलूखलसोपानः क्षीरभाण्डविभेदनः । शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत् ॥ ३१॥ भूषारत्नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः । परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥ ३२॥ बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः । कृतसन्त्रासलोलाक्षो जननीप्रत्ययावहः ॥३३। मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः । यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥ ३४॥ सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः । नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥ ३५॥ मृषाकोपप्रकम्पोष्ठो गोष्ठांगणविलोकनः । दधिमन्थघटीभेत्ता किकिंणीक्वणसूचितः ॥ ३६॥ हैयंगवीनरसिको मृषाश्रुश्चौर्यशंकितः । जननीश्रमविज्ञाता दामबन्धनियंत्रितः ॥ ३७॥ दामाकल्पश्चलापांगो गाढोलूखलबन्धनः । आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥। ३८॥ नारदोक्तिपरामर्शी यमलार्जुनभंजनः । धनदात्मजसंघुष्टो नन्दमोचितबन्धनः ॥ ३९॥ बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः । आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥ ४०॥ प्रस्थानशकटारूढो वृन्दावनकृतालयः । गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥ ४१॥ क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः । वृषवत्सानुकरणो वृषध्वनिविडम्बनः ॥ ४२॥ नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः । उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत् ॥ ४३॥ भृंगानुकारी दध्यन्नचोरो वत्सपुरस्सरः । बली बकासुरग्राही बकतालुप्रदाहकः ॥ ४४॥ भीतगोपार्भकाहूतो बकचंचुविदारणः । बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥ ४५॥ बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः । क्रीडासेतुनिधानज्ञः प्लवंगोत्प्लवनोऽद्भुतः ॥ ४६॥ कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः । सुमनोऽलंकृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥ ४७॥ गुंजाप्रालम्बनच्छन्नः पिंछैरलकवेषकृत् । वन्याशनप्रियः श‍ृंगरवाकारितवत्सकः ॥ ४८॥ मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः । मंजुशिंजितमंजीरचरणः करकंकणः ॥ ४९॥ अन्योन्यशासनः कीडापटुः परमकैतवः । प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः ॥ ५०॥ अघदानवसंहर्ता व्रजविघ्नविनाशनः । व्रजसंजीवनः श्रेयोनिधिर्दानवमुक्तिदः ॥ ५१॥ कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः । कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥ ५२॥ भुजसन्ध्यन्तरन्यस्तश‍ृंगवेत्रः शुचिस्मितः । वामपाणिस्थदध्यन्नकबलः कलभाषणः ॥ ५३॥ अंगुल्यन्तरविन्यस्तफलः परमपावनः । अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥ ५४॥ अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः । गोवत्सवत्सपान्वेषी विराट्-पुरुषविग्रहः ॥ ५५॥ स्वसंकल्पानुरूपार्थो वत्सवत्सपरूपधृक् । यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥ ५६॥ यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी । चिराद्वलोहितो दान्तो ब्रह्मविज्ञातवैभवः ॥ ५७॥ विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः । ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः ॥ ५८॥ ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः । निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः ॥ ५९॥ प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् । अकामस्सर्ववेदादिरणीयस्थूलरूपवान् ॥ ६०॥ व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः । छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः ॥ ६१॥ अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः । सकलावरणोपेतस्सर्वदेवो महेश्वरः ॥ ६२॥ महाप्रभावनः पूर्ववत्सवत्सपदर्शकः । कृष्णयादवगोपालो गोपालोकनहर्षितः ॥ ६३॥ स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः । ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः ॥ ६४॥ बलभद्रैकहृदयो नामाकारितगोकुलः । गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥ ६५॥ वृक्षच्छायाहताशान्तिर्गोपोत्संगोपबर्हणः । गोपसंवाहितपदो गोपव्यजनवीजितः ॥६६। गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः । सुनन्दसुहृदेकात्मा सुबलप्राणरंजनः ॥ ६७॥ तालीवनकृतक्रीडो बलपातितधेनुकः । गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः ॥ ६८॥ गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः । प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥ ६९॥ विलासललितस्मेरगर्भलीलावलोकनः । स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक् ॥ ७०॥ वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः । यमुनातटसंचारी विषार्तव्रजहर्षदः ॥ ७१॥ कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः । कालियाहिफणारंगनटः कालियमर्दनः ॥ ७२॥ नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् । अविष्वक्तदृगात्मेशः खदृगात्मस्तुतिप्रियः ॥ ७३॥ सर्वेश्वरस्सर्वगुणः प्रसिद्धस्सर्वसात्वतः । अकुंठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥ ७४॥ अनिर्देश्यगतिर्नागवनितापतिभैक्षदः । स्वांघ्रिमुद्रांकनागेन्द्रमूर्धा कालियसंस्तुतः ॥ ७५॥ अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः । अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥ ७६॥ नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः । बलभद्रसुखालापो गोपालिंगननिर्वृतः ॥ ७७॥ दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः । नयनाच्छादनक्रीडालम्पटो नृपचेष्टितः ॥ ७८॥ काकपक्षधरस्सौम्यो बलवाहककेलिमान् । बलघातितदुर्धर्षप्रलम्बो बलवत्सलः ॥ ७९॥ मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान् । शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥ ८०॥ सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः । नटवेषधरः पद्ममालांको गोपिकावृतः ॥ ८१॥ गोपीमनोहरापांगो वेणुवादनतत्परः । विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः ॥ ८२॥ बिम्बाधरार्पितोदारवेणुर्विश्वविमोहनः । व्रजसंवर्णितश्राव्यवेणुनादः श्रुतिप्रियः ॥ ८३॥ गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः । गीतस्नुतिसरित्पूरो नादनर्तितबर्हिणः ॥ ८४॥ रागपल्लवितस्थाणुर्गीतानमितपादपः । विस्मारिततृणग्रासमृगो मृगविलोभितः ॥ ८५॥ व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः । गाढोदीरितगोवृन्दप्रेमोत्कर्णिततर्णकः ॥ ८६॥ निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः । शाखोत्कर्णशकुन्तौघश्छत्रायितबलाहकः ॥ ८७॥ प्रसन्नः परमानन्दश्चित्रायितचराचरः । गोपिकामदनो गोपीकुचकुंकुममुद्रितः ॥ ८८॥ गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापृहत् । स्कन्धारोपितगोपस्रग्वासाः कुन्दनिभस्मितः ॥ ८९॥ गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः । गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥ ९०॥ गोप्यंजलिविशेषार्थी गोपक्रीडाविलोभितः । शान्तवासस्फुरद्गोपीकृतांजलिरघापहः ॥ ९१॥ गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः । गोपस्त्रीईवस्त्रदो गोपीचित्तचोरः कुतूहली ॥ ९२॥ वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता । यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः ॥ ९३॥ मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः । द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः ॥ ९४॥ प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहिता । मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥ ९५॥ पितृप्रोक्तक्रियारूपशक्रयागनिवारणः । शक्राऽमर्षकरश्शक्रवृष्टिप्रशमनोन्मुखः ॥ ९६॥ गोवर्धनधरो गोपगोवृन्दत्राणतत्परः । गोवर्धनगिरिछत्रचंडदंडभुजार्गलः ॥ ९७॥ सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा । भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥ ९८॥ स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः । सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः ॥ ९९॥ कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः । धरांघ्रिरोषधीरोमा धर्मगोप्ता मनोमयः ॥ १००॥ ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः । ऐरावतकरानीतवियद्गंगाप्लुतो विभुः ॥ १०१॥

श्रीकृष्णसहस्रनामस्तोत्र Read More »

अपराजितास्तोत्रम्

श्रीत्रैलोक्यविजया अपराजितास्तोत्रम् । ॐ नमोऽपराजितायै । ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाः वामदेव-बृहस्पति-मार्कण्डेया ऋषयः । गायत्र्युष्णिगनुष्टुब्बृहती छन्दांसि । लक्ष्मीनृसिंहो देवता । ॐ क्लीं श्रीं ह्रीं बीजम् । हुं शक्तिः । सकलकामनासिद्ध्यर्थं अपराजितविद्यामन्त्रपाठे विनियोगः । ॐ नीलोत्पलदलश्यामां भुजङ्गाभरणान्विताम् । शुद्धस्फटिकसङ्काशां चन्द्रकोटिनिभाननाम् ॥ १॥ शङ्खचक्रधरां देवी वैष्ण्वीमपराजिताम् बालेन्दुशेखरां देवीं वरदाभयदायिनीम् ॥ २॥ नमस्कृत्य पपाठैनां मार्कण्डेयो महातपाः ॥ ३॥ मार्कण्डेय उवाच – श‍ृणुष्वं मुनयः सर्वे सर्वकामार्थसिद्धिदाम् । असिद्धसाधनीं देवीं वैष्णवीमपराजिताम् ॥ ४॥ ॐ नमो नारायणाय, नमो भगवते वासुदेवाय, नमोऽस्त्वनन्ताय सहस्रशीर्षायणे, क्षीरोदार्णवशायिने, शेषभोगपर्य्यङ्काय, गरुडवाहनाय, अमोघाय अजाय अजिताय पीतवाससे, ॐ वासुदेव सङ्कर्षण प्रद्युम्न, अनिरुद्ध, हयग्रीव, मत्स्य कूर्म्म, वाराह नृसिंह, अच्युत, वामन, त्रिविक्रम, श्रीधर राम राम राम । वरद, वरद, वरदो भव, नमोऽस्तु ते, नमोऽस्तुते, स्वाहा, ॐ असुर-दैत्य-यक्ष-राक्षस-भूत-प्रेत-पिशाच-कूष्माण्ड- सिद्ध-योगिनी-डाकिनी-शाकिनी-स्कन्दग्रहान् उपग्रहान्नक्षत्रग्रहांश्चान्या हन हन पच पच मथ मथ विध्वंसय विध्वंसय विद्रावय विद्रावय चूर्णय चूर्णय शङ्खेन चक्रेण वज्रेण शूलेन गदया मुसलेन हलेन भस्मीकुरु कुरु स्वाहा । ॐ सहस्रबाहो सहस्रप्रहरणायुध, जय जय, विजय विजय, अजित, अमित, अपराजित, अप्रतिहत, सहस्रनेत्र, ज्वल ज्वल, प्रज्वल प्रज्वल, विश्वरूप बहुरूप, मधुसूदन, महावराह, महापुरुष, वैकुण्ठ, नारायण, पद्मनाभ, गोविन्द, दामोदर, हृषीकेश, केशव, सर्वासुरोत्सादन, सर्वभूतवशङ्कर, सर्वदुःस्वप्नप्रभेदन, सर्वयन्त्रप्रभञ्जन, सर्वनागविमर्दन, सर्वदेवमहेश्वर, सर्वबन्धविमोक्षण,सर्वाहितप्रमर्दन, सर्वज्वरप्रणाशन, सर्वग्रहनिवारण, सर्वपापप्रशमन, जनार्दन, नमोऽस्तुते स्वाहा । विष्णोरियमनुप्रोक्ता सर्वकामफलप्रदा । सर्वसौभाग्यजननी सर्वभीतिविनाशिनी ॥ ५॥ सर्वैंश्च पठितां सिद्धैर्विष्णोः परमवल्लभा । नानया सदृशं किङ्चिद्दुष्टानां नाशनं परम् ॥ ६॥ विद्या रहस्या कथिता वैष्णव्येषापराजिता । पठनीया प्रशस्ता वा साक्षात्सत्त्वगुणाश्रया ॥ ७॥ ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ८॥ अथातः सम्प्रवक्ष्यामि ह्यभयामपराजिताम् । या शक्तिर्मामकी वत्स रजोगुणमयी मता ॥ ९॥ सर्वसत्त्वमयी साक्षात्सर्वमन्त्रमयी च या । या स्मृता पूजिता जप्ता न्यस्ता कर्मणि योजिता । सर्वकामदुघा वत्स श‍ृणुष्वैतां ब्रवीमि ते ॥ १०॥ य इमामपराजितां परमवैष्णवीमप्रतिहतां पठति सिद्धां स्मरति सिद्धां महाविद्यां जपति पठति श‍ृणोति स्मरति धारयति कीर्तयति वा न तस्याग्निवायुवज्रोपलाशनिवर्षभयं, न समुद्रभयं, न ग्रहभयं, न चौरभयं, न शत्रुभयं, न शापभयं वा भवेत् । क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविद्वेषि-विषगरगरदवशीकरण- विद्वेषोच्चाटनवधबन्धनभयं वा न भवेत् । एतैर्मन्त्रैरुदाहृतैः सिद्धैः संसिद्धपूजितैः । ॐ नमोऽस्तुते । अभये, अनघे, अजिते, अमिते, अमृते, अपरे, अपराजिते, पठति, सिद्धे जयति सिद्धे, स्मरति सिद्धे, एकोनाशीतितमे, एकाकिनि, निश्चेतसि, सुद्रुमे, सुगन्धे, एकान्नशे, उमे ध्रुवे, अरुन्धति, गायत्रि, सावित्रि, जातवेदसि, मानस्तोके, सरस्वति, धरणि, धारणि, सौदामनि, अदिति, दिति, विनते, गौरि, गान्धारि, मातङ्गी कृष्णे, यशोदे, सत्यवादिनि, ब्रह्मवादिनि, कालि, कपालिनि, करालनेत्रे, भद्रे, निद्रे, सत्योपयाचनकरि, स्थलगतं जलगतं अन्तरिक्षगतं वा मां रक्ष सर्वोपद्रवेभ्यः स्वाहा । यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि । म्रियते बालको यस्याः काकवन्ध्या च या भवेत् ॥ ११॥ धारयेद्या इमां विद्यामेतैर्दोषैर्न लिप्यते । गर्भिणी जीववत्सा स्यात्पुत्रिणी स्यान्न संशयः ॥ १२॥ भूर्जपत्रे त्विमां विद्यां लिखित्वा गन्धचन्दनैः । एतैर्दोषैर्न लिप्येत सुभगा पुत्रिणी भवेत् ॥ १३॥ रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् । शस्त्रं वारयते ह्येषा समरे काण्डदारुणे ॥ १४॥ गुल्मशूलाक्षिरोगाणां क्षिप्रं नाश्यति च व्यथाम् ॥ शिरोरोगज्वराणां न नाशिनी सर्वदेहिनाम् ॥ १५॥ इत्येषा कथिता विद्या अभयाख्याऽपराजिता । एतस्याः स्मृतिमात्रेण भयं क्वापि न जायते ॥ १६॥ नोपसर्गा न रोगाश्च न योधा नापि तस्कराः । न राजानो न सर्पाश्च न द्वेष्टारो न शत्रवः ॥१७॥ यक्षराक्षसवेताला न शाकिन्यो न च ग्रहाः । अग्नेर्भयं न वाताच्च न स्मुद्रान्न वै विषात् ॥ १८॥ कार्मणं वा शत्रुकृतं वशीकरणमेव च । उच्चाटनं स्तम्भनं च विद्वेषणमथापि वा ॥ १९॥ न किञ्चित्प्रभवेत्तत्र यत्रैषा वर्ततेऽभया । पठेद् वा यदि वा चित्रे पुस्तके वा मुखेऽथवा ॥ २०॥ हृदि वा द्वारदेशे वा वर्तते ह्यभयः पुमान् । हृदये विन्यसेदेतां ध्यायेद्देवीं चतुर्भुजाम् ॥ २१॥ रक्तमाल्याम्बरधरां पद्मरागसमप्रभाम् । पाशाङ्कुशाभयवरैरलङ्कृतसुविग्रहाम् ॥ २२॥ साधकेभ्यः प्रयच्छन्तीं मन्त्रवर्णामृतान्यपि । नातः परतरं किञ्चिद्वशीकरणमनुत्तमम् ॥ २३॥ रक्षणं पावनं चापि नात्र कार्या विचारणा । प्रातः कुमारिकाः पूज्याः खाद्यैराभरणैरपि । तदिदं वाचनीयं स्यात्तत्प्रीत्या प्रीयते तु माम् ॥ २४॥ ॐ अथातः सम्प्रवक्ष्यामि विद्यामपि महाबलाम् । सर्वदुष्टप्रशमनीं सर्वशत्रुक्षयङ्करीम् ॥ २५॥ दारिद्र्यदुःखशमनीं दौर्भाग्यव्याधिनाशिनीम् । भूतप्रेतपिशाचानां यक्षगन्धर्वरक्षसाम् ॥ २६॥ डाकिनी शाकिनी-स्कन्द-कूष्माण्डानां च नाशिनीम् । महारौद्रिं महाशक्तिं सद्यः प्रत्ययकारिणीम् ॥ २७॥ गोपनीयं प्रयत्नेन सर्वस्वं पार्वतीपतेः । तामहं ते प्रवक्ष्यामि सावधानमनाः श‍ृणु ॥ २८॥ एकान्हिकं द्व्यन्हिकं च चातुर्थिकार्द्धमासिकम् । द्वैमासिकं त्रैमासिकं तथा चातुर्मासिकम् ॥ २९॥ पाञ्चमासिकं षाङ्मासिकं वातिक पैत्तिकज्वरम् । श्लैष्पिकं सात्रिपातिकं तथैव सततज्वरम् ॥ ३०॥ मौहूर्तिकं पैत्तिकं शीतज्वरं विषमज्वरम् । द्व्यहिन्कं त्र्यह्निकं चैव ज्वरमेकाह्निकं तथा । क्षिप्रं नाशयेते नित्यं स्मरणादपराजिता ॥ ३१॥ ॐ हॄं हन हन, कालि शर शर, गौरि धम्, धम्, विद्ये आले ताले माले गन्धे बन्धे पच पच विद्ये नाशय नाशय पापं हर हर संहारय वा दुःखस्वप्नविनाशिनि कमलस्थिते विनायकमातः रजनि सन्ध्ये, दुन्दुभिनादे, मानसवेगे, शङ्खिनि, चक्रिणि गदिनि वज्रिणि शूलिनि अपमृत्युविनाशिनि विश्वेश्वरि द्रविडि द्राविडि द्रविणि द्राविणि केशवदयिते पशुपतिसहिते दुन्दुभिदमनि दुर्म्मददमनि । शबरि किराति मातङ्गि ॐ द्रं द्रं ज्रं ज्रं क्रं क्रं तुरु तुरु ॐ द्रं कुरु कुरु । ये मां द्विषन्ति प्रत्यक्षं परोक्षं वा तान् सर्वान् दम दम मर्दय मर्दय तापय तापय गोपय गोपय पातय पातय शोषय शोषय उत्सादय उत्सादय ब्रह्माणि वैष्णवि माहेश्वरि कौमारि वाराहि नारसिंहि ऐन्द्रि चामुण्डे महालक्ष्मि वैनायिकि औपेन्द्रि आग्नेयि चण्डि नैरृति वायव्ये सौम्ये ऐशानि ऊर्ध्वमधोरक्ष प्रचण्डविद्ये इन्द्रोपेन्द्रभगिनि । ॐ नमो देवि जये विजये शान्ति स्वस्ति-तुष्टि पुष्टि- विवर्द्धिनि । कामाङ्कुशे कामदुघे सर्वकामवरप्रदे । सर्वभूतेषु मां प्रियं कुरु कुरु स्वाहा । आकर्षणि आवेशनि-, ज्वालामालिनि-, रमणि रामणि, धरणि धारिणि, तपनि तापिनि, मदनि मादिनि, शोषणि सम्मोहिनि । नीलपताके महानीले महागौरि महाश्रिये । महाचान्द्रि महासौरि महामायूरि आदित्यरश्मि जाह्नवि । यमघण्टे किणि किणि चिन्तामणि । सुगन्धे सुरभे सुरासुरोत्पन्ने सर्वकामदुघे । यद्यथा मनीषितं कार्यं तन्मम सिद्ध्यतु स्वाहा । ॐ स्वाहा । ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वहा । ॐ महः स्वहा । ॐ जनः स्वहा । ॐ तपः स्वाहा । ॐ सत्यं स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । यत एवागतं पापं तत्रैव प्रतिगच्छतु स्वाहेत्योम् । अमोघैषा महाविद्या वैष्णवी चापराजिता ॥ ३२॥ स्वयं विष्णुप्रणीता च सिद्धेयं पाठतः सदा । एषा महाबला नाम कथिता तेऽपराजिता ॥ ३३॥ नानया सदृशी रक्षा। त्रिषु लोकेषु विद्यते । तमोगुणमयी साक्षद्रौद्री शक्तिरियं मता ॥ ३४॥ कृतान्तोऽपि यतो भीतः पादमूले व्यवस्थितः । मूलाधारे न्यसेदेतां रात्रावेनं च संस्मरेत् ॥ ३५॥ नीलजीमूतसङ्काशां तडित्कपिलकेशिकाम् । उद्यदादित्यसङ्काशां नेत्रत्रयविराजिताम् ॥ ३६॥ शक्तिं त्रिशूलं शङ्खं च पानपात्रं च विभ्रतीम् । व्याघ्रचर्मपरीधानां किङ्किणीजालमण्डिताम् ॥ ३७॥ धावन्तीं गगनस्यान्तः पादुकाहितपादकाम् । दंष्ट्राकरालवदनां व्यालकुण्डलभूषिताम् ॥ ३८॥ व्यात्तवक्त्रां ललज्जिह्वां भृकुटीकुटिलालकाम् । स्वभक्तद्वेषिणां रक्तं पिबन्तीं पानपात्रतः ॥ ३९॥ सप्तधातून् शोषयन्तीं क्रूरदृष्ट्या विलोकनात् । त्रिशूलेन च तज्जिह्वां कीलयन्तीं मुहुर्मुहुः ॥ ४०॥ पाशेन बद्ध्वा तं साधमानवन्तीं तदन्तिके । अर्द्धरात्रस्य समये देवीं धायेन्महाबलाम् ॥ ४१॥ यस्य यस्य वदेन्नाम जपेन्मन्त्रं निशान्तके । तस्य तस्य तथावस्थां कुरुते सापि योगिनी ॥ ४२॥ ॐ बले महाबले असिद्धसाधनी स्वाहेति । अमोघां पठति सिद्धां श्रीवैष्णवीम् ॥ ४३॥ श्रीमदपराजिताविद्यां ध्यायेत् । दुःस्वप्ने दुरारिष्टे च दुर्निमित्ते तथैव च । व्यवहारे भेवेत्सिद्धिः पठेद्विघ्नोपशान्तये ॥ ४४॥ यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वऽक्षरहीनमीडितम् । तदस्तु सम्पूर्णतमं प्रयान्तु मे सङ्कल्पसिद्धिस्तु सदैव जायताम् ॥ ४५॥ तव तत्त्वं

अपराजितास्तोत्रम् Read More »