श्री गंगा स्तोत्रम हिंदी पाठ: Shri Ganga Stotram in Hindi
देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥ १ ॥
भागीरथि सुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानंपाहि कृपामयि मामज्ञानम् ॥ २ ॥
हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ॥ ३ ॥
तव जलममलं येन निपीतं, परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥ ४ ॥
पतितोद्धारिणि जाह्नवि गङ्गे खण्डितगिरिवरमण्डितभङ्गे ।
भीष्मजननि हे मुनिवरकन्ये, पतितनिवारिणि त्रिभुवनधन्ये ॥ ५ ॥
कल्पलतामिव फलदां लोके, प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गङ्गे विमुखयुवतिकृततरलापाङ्गे ॥ ६ ॥
तव चेन्मातः स्रोतःस्नातः पुनरपि जठरे सोऽपि न जातः ।
नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे ॥ ७ ॥
पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥ ८ ॥
रोगं शोकं तापं पापं हर मे Ganga Stotram भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥ ९ ॥
अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये ।
तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ॥ १० ॥
वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।
अथवा श्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ॥ ११ ॥
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।
गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥ १२ ॥
येषां हृदये गङ्गाभक्तिस्तेषां भवति सदा सुखमुक्तिः ।
मधुराकान्तापज्झटिकाभिः परमानन्दकलितललिताभिः ॥ १३ ॥
गङ्गास्तोत्रमिदं भवसारं Ganga Stotram वाञ्छितफलदं विमलं सारम् ।
शङ्करसेवकशङ्कररचितं पठति सुखी स्तव इति च समाप्तः ॥ १४ ॥
देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥
॥ इति श्री गंगा स्तोत्रम सम्पूर्णम् ॥
Shri Dattatreya Apradh Kshamapan Stotra: श्रीदत्तात्रेय अपराध क्षमापन स्तोत्र….
Shri Dattatreya Apradh Kshamapan Stotra : श्री दत्तात्रेय अपराध क्षमापन स्तोत्र: भगवान दत्तात्रेय को हिंदू त्रिमूर्ति – ब्रह्मा, विष्णु और…
Sri Tripurasundari Vedasara Stotram : श्रीत्रिपुर सुन्दरी वेदसार स्तोत्रम
श्रीत्रिपुर सुन्दरी वेदसार स्तोत्रम हिंदी पाठ : Sri Tripurasundari Vedasara Stotram in Hindiकस्तूरीपङ्कभास्वद्गलचलदमलस्थूलमुक्तावलीकाज्योत्स्नाशुद्धावदाता शशिशिशुमकुटालंकृता ब्रह्मपत्नी ।साहित्यांभोजभृङ्गी कविकुलविनुता Vedasara Stotram सात्विकीं वाग्विभूतिंदेयान्मे…
Shri Tripura Sundari Stotram: श्री त्रिपुरसुंदरी स्तोत्रम्….
Shri Tripura Sundari Stotram : श्री त्रिपुरसुंदरी स्तोत्रम्: त्रिपुरसुंदरी एक देवी हैं, जो सुंदरता का प्रतीक हैं। माना जाता है…




KARMASU