nAmAvali

Shri Kalpakaganeshapancharatna Stava: श्रीकल्पकगणेशपञ्चरत्नस्तवः

GANESH
Shri Kalpakaganeshapancharatna Stava: श्रीकल्पकगणेशपञ्चरत्नस्तवः
KARMASU 25 August 2025 1 मिनट पढ़ें
GANESHGANESH MANTRA📅 25 August 2025⏱ 1 मिनट

Shri Kalpakaganeshapancharatna Stava: श्रीकल्पकगणेशपञ्चरत्नस्तवः

श्रीमदुमापतिशिवप्रणीतः
श्रीमत्तिल्ववने सभेशसदन-प्रत्यक्ककुब्गोपुरा-
धोभागस्थित चारुसद्मवसतिर्भक्तेष्टकल्पद्रुमः ।
नृत्तानन्दमदोत्कटो गणपतिः संरक्षताद्वोऽनिशं
दूर्वासः प्रमुखाखिलर्षि विनुतः सर्वेश्वरोऽग्र्योऽव्ययः ॥ १॥

श्रीमत्तिल्लवनाभिधं पुरवरं क्षुल्लावुकं प्राणिनां
इत्याहुर्मुनयः किलेति नितरां ज्ञातुं च तत्सत्यताम् ।
आयान्तं निशि मस्करीन्द्रमपि यो दूर्वाससं प्रीणयन्
नृत्तं दर्शयति स्म नो गणपतिः कल्पद्रुकल्पोऽवतात् ॥ २॥

देवान् नृत्तदिदृक्षया पशुपतेरभ्यागतान् कामिनः
शक्रादीन् स्वयमुद्धृतं निजपदं वामेतरं दर्शयन् ।
दत्वा तत्तदभीष्टवर्गमनिशं स्वर्गादिलोकान्विभुः
निन्ये यः शिवकामिनाथतनयः कुर्याच्छिवं वोऽन्वहम् ॥ ३॥

अस्माकं पुरतश्चकास्तु भगवान् श्रीकल्पकाख्योऽग्रणीः
गोविन्दादि सुरार्चितोऽमृतरसप्राप्त्यै गजेन्द्राननः ।
वाचं यच्छतु निश्चलां श्रियमपि स्वात्मावबोधं परं
दारान् पुत्रवरांश्च सर्वविभवं कात्यायनीशात्मजः ॥ ४॥

वन्दे कल्पक कुञ्जरेन्द्रवदनं वेदोक्तिभिस्तिल्वभू-
देवैः पूजितपादपद्मयुगलं पाशच्छिदं प्राणिनाम् ।
दन्तादीनपि षड्भुजेषु दधतं वाञ्छाप्रदत्वाप्तये
स्वाभ्यर्णाश्रयिकामधेनुमनिशं श्रीमुख्यसर्वार्थदम् ॥ ५॥

औमापत्यमिमं स्तवं प्रतिदिनं प्रातर्निशं यः पठेत्
श्रीमत्कल्पककुञ्जरानन-कृपापाङ्गाव लोकान्नरः ।
यं यं कामयते च तं तमखिलं प्राप्नोति निर्विघ्नतः
कैवल्यं च तथाऽन्तिमे वयसि तत्सर्वार्थसिद्धिप्रदम् ॥ ६॥

इति श्रीमदुमापतिशिवप्रणीतः श्रीकल्पकगणेशपञ्चरत्नस्तवः सम्पूर्णः ।

Kalpakaganeshapancharatna

🙏 पूजा सेवाएँ — अभी बुक करें

KARMASU वीडियो

छोटे वीडियो — देखें, सुनें और सीखें

YouTube पर देखें ↗
धनतेरस 2026 विशेष महापूजा | धन्वंतरि, माता लक्ष्मी और कुबेर पूजा |…
KARMASU
KARMASU
धनतेरस 2026 विशेष महापूजा | धन्वंतरि, माता लक्ष्मी और कुबेर पूजा |…
बुधवार विशेष गणेश मंत्र जाप | Wednesday Special Ganesh Mantra 108 Times
Rama ekadashi 2026
Mahalaxmi Puja (Lakshmi Puja) for Diwali 2026
मंगलवार Special हनुमान मंत्र | Hanuman Ji Powerful Mantra for Strength, Peace…
The most powerful mantras to Lakshmi and Lord Kuber on Dhanteras
Career Growth & Promotion के लिए विशेष पूजा | Career Success &…
नुमान जी के पवित्र नाम | Sacred Names of Lord Hanuman
Tulsi Mata ke 8 Divya Naam #shorts #trendingshorts
App Download