एक ऐसा कवच-जिसके पढने से मिलता है एक हज़ार गाय दान करने का फल

आज मैं आपको एक ऐसे कवच के बारे में बताने जा रहा हूँ जिसका महत्ता का वर्णन स्वयं भगवान् श्री नारायण ने किया है। इसका नाम है श्री गायत्री कवच।

श्री गायत्री कवच एक महान कवच है जो स्वयं नारद ऋषि को भगवान श्री नारायण ने बताया और जिसकी रचना महर्षि वेद व्यास जी ने की। श्री गायत्री कवच का उल्लेख श्रीमद देवी भागवत में 12 वे अध्याय में किया गया है। भगवान श्रीमान नारायण, महर्षि नारद को कवच की महिमा और श्री गायत्री देवी की पूजा के माध्यम से प्राप्त भक्ति के बारे में बताते हैं। गायत्री कवच द्वारा अर्जित की गयी शुद्धता सभी प्रकार के पूजा के पापों को नष्ट कर देती है, सभी इच्छाओं को पूरा करती है और मुक्ति प्रदान करती है। भगवान श्रीमान नारायण ने कहा कि देवी गायत्री के दैवीय कवच, सभी अवरोधों और बुराइयों को समाप्त कर सकते हैं। यह पूजा के लिए 64 रूपों के ज्ञान (कला रूपों) और मुक्ति को देने में सक्षम है। इसके अलावा, जो कोई गायत्री कवच की महिमा को पढ़ता या सुनता है, वह एक हज़ार गौ दान के पुण्य को प्राप्त करता है।

श्रीगायत्रीकवचम्-

श्रीगणेशाय नमः

याज्ञवल्क्य उवाच-

स्वामिन् सर्वजगन्नाथ संशयोऽस्ति महान्मम ।

चतुःषष्ठिकलानं च पातकानां च तद्वद।

मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत् ।

देहं च देवतारूपं मन्त्ररूपं विशेषतः ।

क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम् ।

ब्रह्मोवाच-

गायत्र्याः कवचस्यास्य ब्रह्मा विष्णुः शिवो ऋषिः ।

ऋग्यजुःसामाथर्वाणि छन्दांसि परिकीर्तिताः ।

परब्रह्मस्वरूपा सा गायत्री देवता स्मृता ।

रक्षाहीनं तु यत्स्थानं कवचेन विना कृतम् ।

सर्वं सर्वत्र संरक्षेत्सर्वाङ्गं भुवनेश्वरी ।

बीजं भर्गश्च युक्तिश्च धियः कीलकमेव च ।

पुरुषार्थविनियोगो यो नश्च परिकीर्त्तितः ।

ऋषिं मूर्ध्नि न्यसेत्पूर्वं मुखे छन्द उदीरितम् ।

देवतां हृदि विन्यस्य गुह्ये बीजं नियोजयेत् ।

शक्तिं विन्यस्य पदयोर्नाभौ तु कीलकं न्यसेत् ।

द्वात्रिंशत्तु महाविद्याः साङ्ख्यायनसगोत्रजाः ।

द्वादशलक्षसंयुक्ता विनियोगाः पृथक्पृथक् ।

एवं न्यासविधिं कृत्वा कराङ्गं विधिपूर्वकम् ।

व्याहृतित्रयमुच्चार्य ह्यनुलोमविलोमतः ।

चतुरक्षरसंयुक्तं कराङ्गन्यासमाचरेत् ।

आवाहनादिभेदं च दश मुद्राः प्रदर्शयेत् ।

सा पातु वरदा देवी अङ्गप्रत्यङ्गसङ्गमे ।

ध्यानं मुद्रां नमस्कारं गुरुमन्त्रं तथैव च ।

संयोगमात्मसिद्धिं च षड्विधं किं विचारयेत् ।

विनियोग-

अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः, ऋग्यजुःसामाधर्वाणि छन्दांसि, परब्रह्मस्वरूपिणी गायत्री देवता, भूर्बीजं, भुवः शक्तिः, स्वाहा कीलकं, श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः ।

ॐ भूर्भुवः स्वः तत्सवितुरिति हृदयाय नमः ।

ॐ भूर्भुवः स्वः वरेण्यमिति शिरसे स्वाहा ।

ॐ भूर्भुवः स्वः भर्गो देवस्येति शिखायै वषट् ।

ॐ भूर्भुवः स्वः धीमहीति कवचाय हुम् ।

ॐ भूर्भुवः स्वः धियो यो नः इति नेत्रत्रयाय वौषट् ।

ॐ भूर्भुवः स्वः प्रचोदयादिति अस्त्राय फट् ।

वर्णास्त्रां कुण्डिकाहस्तां शुद्धनिर्मलज्योतिषीम्म् ।

सर्वतत्त्वमयीं वन्दे गायत्रीं वेदमातरम् ।

अथ ध्यानम्-

मुक्ता विद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै-

र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।

गायत्रीं वरदाभयाङ्कुशकशां शूलं कपालं गुणं

शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ।

कवच-

ॐ गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ।

ब्रह्मविद्या च मे पश्चादुत्तरे मां सरस्वती ।

पावकी मे दिशं रक्षेत्पावकोज्ज्वलशालिनी ।

यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी ।

पावमानीं दिशं रक्षेत्पवमानविलासिनी ।

दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी ।

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।

एवं दश दिशो रक्षेत् सर्वतो भुवनेश्वरी ।

ब्रह्मास्त्रस्मरणादेव वाचां सिद्धिः प्रजायते ।

ब्रह्मदण्डश्च मे पातु सर्वशस्त्रास्त्रभक्षक्रः ।

ब्रह्मशीर्षस्तथा पातु शत्रूणां वधकारकः ।

सप्त व्याहृतयः पान्तु सर्वदा बिन्दुसंयुताः ।

वेदमाता च मां पातु सरहस्या सदैवता ।

देवीसूक्तं सदा पातु सहस्राक्षरदेवता ।

चतुःषष्टिकला विद्या दिव्याद्या पातु देवता ।

बीजशक्तिश्च मे पातु पातु विक्रमदेवता ।

तत्पदं पातु मे पादौ जङ्घे मे सवितुःपदम् ।

वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च ।

देवस्य मे तु हृदयं धीमहीति गलं तथा ।

धियो मे पातु जिह्वायां यःपदं पातु लोचने ।

ललाटे नः पदं पातु मूर्धानं मे प्रचोदयात् ।

तद्वर्णः पातु मूर्धानं सकारः पातु भालकम् ।

चक्षुषी मे विकारस्तु श्रोत्रं रक्षेत्तु कारकः ।

नासापुटेर्वकारो मे रेकारस्तु कपोलयोः ।

णिकारस्त्वधरोष्ठे च यकारस्तूर्ध्व ओष्ठके ।

आत्यमध्ये भकारस्तु गोकारस्तु कपोलयोः ।

देकारः कण्ठदेशे च वकारः स्कन्धदेशयोः ।

स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ।

मकारो हृदयं रक्षेद्धिकारो जठरं तथा ।

धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम् ।

गुह्यं रक्षतु योकार ऊरू मे नः पदाक्षरम् ।

प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशयोः ।

दकारो गुल्भदेशं तु यात्कारः पादयुग्मकम् ।

तकारो व्यंजनं चैव सर्वांगे में सदा Ƨ वतु।

फलश्रुति-

इदं तु कवच दिव्यं बाधाशतविनाशकम् ।

चतुःषष्टिकला विद्या दायकं मोक्ष कारकं ।

मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति ।

पठनात श्रवणात वा Ƨ पि गो सहस्र फलं लभेत ।

इति श्री गायत्री कवचम्‌ संपूर्णम्‌

App Download