MANTRA

अपराजितास्तोत्रम्

श्रीत्रैलोक्यविजया अपराजितास्तोत्रम् । ॐ नमोऽपराजितायै । ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाः वामदेव-बृहस्पति-मार्कण्डेया ऋषयः । गायत्र्युष्णिगनुष्टुब्बृहती छन्दांसि । लक्ष्मीनृसिंहो देवता । ॐ क्लीं श्रीं ह्रीं बीजम् । हुं शक्तिः । सकलकामनासिद्ध्यर्थं अपराजितविद्यामन्त्रपाठे विनियोगः । ॐ नीलोत्पलदलश्यामां भुजङ्गाभरणान्विताम् । शुद्धस्फटिकसङ्काशां चन्द्रकोटिनिभाननाम् ॥ १॥ शङ्खचक्रधरां देवी वैष्ण्वीमपराजिताम् बालेन्दुशेखरां देवीं वरदाभयदायिनीम् ॥ २॥ नमस्कृत्य पपाठैनां मार्कण्डेयो महातपाः ॥ ३॥ मार्कण्डेय उवाच – श‍ृणुष्वं मुनयः सर्वे सर्वकामार्थसिद्धिदाम् । असिद्धसाधनीं देवीं वैष्णवीमपराजिताम् ॥ ४॥ ॐ नमो नारायणाय, नमो भगवते वासुदेवाय, नमोऽस्त्वनन्ताय सहस्रशीर्षायणे, क्षीरोदार्णवशायिने, शेषभोगपर्य्यङ्काय, गरुडवाहनाय, अमोघाय अजाय अजिताय पीतवाससे, ॐ वासुदेव सङ्कर्षण प्रद्युम्न, अनिरुद्ध, हयग्रीव, मत्स्य कूर्म्म, वाराह नृसिंह, अच्युत, वामन, त्रिविक्रम, श्रीधर राम राम राम । वरद, वरद, वरदो भव, नमोऽस्तु ते, नमोऽस्तुते, स्वाहा, ॐ असुर-दैत्य-यक्ष-राक्षस-भूत-प्रेत-पिशाच-कूष्माण्ड- सिद्ध-योगिनी-डाकिनी-शाकिनी-स्कन्दग्रहान् उपग्रहान्नक्षत्रग्रहांश्चान्या हन हन पच पच मथ मथ विध्वंसय विध्वंसय विद्रावय विद्रावय चूर्णय चूर्णय शङ्खेन चक्रेण वज्रेण शूलेन गदया मुसलेन हलेन भस्मीकुरु कुरु स्वाहा । ॐ सहस्रबाहो सहस्रप्रहरणायुध, जय जय, विजय विजय, अजित, अमित, अपराजित, अप्रतिहत, सहस्रनेत्र, ज्वल ज्वल, प्रज्वल प्रज्वल, विश्वरूप बहुरूप, मधुसूदन, महावराह, महापुरुष, वैकुण्ठ, नारायण, पद्मनाभ, गोविन्द, दामोदर, हृषीकेश, केशव, सर्वासुरोत्सादन, सर्वभूतवशङ्कर, सर्वदुःस्वप्नप्रभेदन, सर्वयन्त्रप्रभञ्जन, सर्वनागविमर्दन, सर्वदेवमहेश्वर, सर्वबन्धविमोक्षण,सर्वाहितप्रमर्दन, सर्वज्वरप्रणाशन, सर्वग्रहनिवारण, सर्वपापप्रशमन, जनार्दन, नमोऽस्तुते स्वाहा । विष्णोरियमनुप्रोक्ता सर्वकामफलप्रदा । सर्वसौभाग्यजननी सर्वभीतिविनाशिनी ॥ ५॥ सर्वैंश्च पठितां सिद्धैर्विष्णोः परमवल्लभा । नानया सदृशं किङ्चिद्दुष्टानां नाशनं परम् ॥ ६॥ विद्या रहस्या कथिता वैष्णव्येषापराजिता । पठनीया प्रशस्ता वा साक्षात्सत्त्वगुणाश्रया ॥ ७॥ ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ८॥ अथातः सम्प्रवक्ष्यामि ह्यभयामपराजिताम् । या शक्तिर्मामकी वत्स रजोगुणमयी मता ॥ ९॥ सर्वसत्त्वमयी साक्षात्सर्वमन्त्रमयी च या । या स्मृता पूजिता जप्ता न्यस्ता कर्मणि योजिता । सर्वकामदुघा वत्स श‍ृणुष्वैतां ब्रवीमि ते ॥ १०॥ य इमामपराजितां परमवैष्णवीमप्रतिहतां पठति सिद्धां स्मरति सिद्धां महाविद्यां जपति पठति श‍ृणोति स्मरति धारयति कीर्तयति वा न तस्याग्निवायुवज्रोपलाशनिवर्षभयं, न समुद्रभयं, न ग्रहभयं, न चौरभयं, न शत्रुभयं, न शापभयं वा भवेत् । क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविद्वेषि-विषगरगरदवशीकरण- विद्वेषोच्चाटनवधबन्धनभयं वा न भवेत् । एतैर्मन्त्रैरुदाहृतैः सिद्धैः संसिद्धपूजितैः । ॐ नमोऽस्तुते । अभये, अनघे, अजिते, अमिते, अमृते, अपरे, अपराजिते, पठति, सिद्धे जयति सिद्धे, स्मरति सिद्धे, एकोनाशीतितमे, एकाकिनि, निश्चेतसि, सुद्रुमे, सुगन्धे, एकान्नशे, उमे ध्रुवे, अरुन्धति, गायत्रि, सावित्रि, जातवेदसि, मानस्तोके, सरस्वति, धरणि, धारणि, सौदामनि, अदिति, दिति, विनते, गौरि, गान्धारि, मातङ्गी कृष्णे, यशोदे, सत्यवादिनि, ब्रह्मवादिनि, कालि, कपालिनि, करालनेत्रे, भद्रे, निद्रे, सत्योपयाचनकरि, स्थलगतं जलगतं अन्तरिक्षगतं वा मां रक्ष सर्वोपद्रवेभ्यः स्वाहा । यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि । म्रियते बालको यस्याः काकवन्ध्या च या भवेत् ॥ ११॥ धारयेद्या इमां विद्यामेतैर्दोषैर्न लिप्यते । गर्भिणी जीववत्सा स्यात्पुत्रिणी स्यान्न संशयः ॥ १२॥ भूर्जपत्रे त्विमां विद्यां लिखित्वा गन्धचन्दनैः । एतैर्दोषैर्न लिप्येत सुभगा पुत्रिणी भवेत् ॥ १३॥ रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् । शस्त्रं वारयते ह्येषा समरे काण्डदारुणे ॥ १४॥ गुल्मशूलाक्षिरोगाणां क्षिप्रं नाश्यति च व्यथाम् ॥ शिरोरोगज्वराणां न नाशिनी सर्वदेहिनाम् ॥ १५॥ इत्येषा कथिता विद्या अभयाख्याऽपराजिता । एतस्याः स्मृतिमात्रेण भयं क्वापि न जायते ॥ १६॥ नोपसर्गा न रोगाश्च न योधा नापि तस्कराः । न राजानो न सर्पाश्च न द्वेष्टारो न शत्रवः ॥१७॥ यक्षराक्षसवेताला न शाकिन्यो न च ग्रहाः । अग्नेर्भयं न वाताच्च न स्मुद्रान्न वै विषात् ॥ १८॥ कार्मणं वा शत्रुकृतं वशीकरणमेव च । उच्चाटनं स्तम्भनं च विद्वेषणमथापि वा ॥ १९॥ न किञ्चित्प्रभवेत्तत्र यत्रैषा वर्ततेऽभया । पठेद् वा यदि वा चित्रे पुस्तके वा मुखेऽथवा ॥ २०॥ हृदि वा द्वारदेशे वा वर्तते ह्यभयः पुमान् । हृदये विन्यसेदेतां ध्यायेद्देवीं चतुर्भुजाम् ॥ २१॥ रक्तमाल्याम्बरधरां पद्मरागसमप्रभाम् । पाशाङ्कुशाभयवरैरलङ्कृतसुविग्रहाम् ॥ २२॥ साधकेभ्यः प्रयच्छन्तीं मन्त्रवर्णामृतान्यपि । नातः परतरं किञ्चिद्वशीकरणमनुत्तमम् ॥ २३॥ रक्षणं पावनं चापि नात्र कार्या विचारणा । प्रातः कुमारिकाः पूज्याः खाद्यैराभरणैरपि । तदिदं वाचनीयं स्यात्तत्प्रीत्या प्रीयते तु माम् ॥ २४॥ ॐ अथातः सम्प्रवक्ष्यामि विद्यामपि महाबलाम् । सर्वदुष्टप्रशमनीं सर्वशत्रुक्षयङ्करीम् ॥ २५॥ दारिद्र्यदुःखशमनीं दौर्भाग्यव्याधिनाशिनीम् । भूतप्रेतपिशाचानां यक्षगन्धर्वरक्षसाम् ॥ २६॥ डाकिनी शाकिनी-स्कन्द-कूष्माण्डानां च नाशिनीम् । महारौद्रिं महाशक्तिं सद्यः प्रत्ययकारिणीम् ॥ २७॥ गोपनीयं प्रयत्नेन सर्वस्वं पार्वतीपतेः । तामहं ते प्रवक्ष्यामि सावधानमनाः श‍ृणु ॥ २८॥ एकान्हिकं द्व्यन्हिकं च चातुर्थिकार्द्धमासिकम् । द्वैमासिकं त्रैमासिकं तथा चातुर्मासिकम् ॥ २९॥ पाञ्चमासिकं षाङ्मासिकं वातिक पैत्तिकज्वरम् । श्लैष्पिकं सात्रिपातिकं तथैव सततज्वरम् ॥ ३०॥ मौहूर्तिकं पैत्तिकं शीतज्वरं विषमज्वरम् । द्व्यहिन्कं त्र्यह्निकं चैव ज्वरमेकाह्निकं तथा । क्षिप्रं नाशयेते नित्यं स्मरणादपराजिता ॥ ३१॥ ॐ हॄं हन हन, कालि शर शर, गौरि धम्, धम्, विद्ये आले ताले माले गन्धे बन्धे पच पच विद्ये नाशय नाशय पापं हर हर संहारय वा दुःखस्वप्नविनाशिनि कमलस्थिते विनायकमातः रजनि सन्ध्ये, दुन्दुभिनादे, मानसवेगे, शङ्खिनि, चक्रिणि गदिनि वज्रिणि शूलिनि अपमृत्युविनाशिनि विश्वेश्वरि द्रविडि द्राविडि द्रविणि द्राविणि केशवदयिते पशुपतिसहिते दुन्दुभिदमनि दुर्म्मददमनि । शबरि किराति मातङ्गि ॐ द्रं द्रं ज्रं ज्रं क्रं क्रं तुरु तुरु ॐ द्रं कुरु कुरु । ये मां द्विषन्ति प्रत्यक्षं परोक्षं वा तान् सर्वान् दम दम मर्दय मर्दय तापय तापय गोपय गोपय पातय पातय शोषय शोषय उत्सादय उत्सादय ब्रह्माणि वैष्णवि माहेश्वरि कौमारि वाराहि नारसिंहि ऐन्द्रि चामुण्डे महालक्ष्मि वैनायिकि औपेन्द्रि आग्नेयि चण्डि नैरृति वायव्ये सौम्ये ऐशानि ऊर्ध्वमधोरक्ष प्रचण्डविद्ये इन्द्रोपेन्द्रभगिनि । ॐ नमो देवि जये विजये शान्ति स्वस्ति-तुष्टि पुष्टि- विवर्द्धिनि । कामाङ्कुशे कामदुघे सर्वकामवरप्रदे । सर्वभूतेषु मां प्रियं कुरु कुरु स्वाहा । आकर्षणि आवेशनि-, ज्वालामालिनि-, रमणि रामणि, धरणि धारिणि, तपनि तापिनि, मदनि मादिनि, शोषणि सम्मोहिनि । नीलपताके महानीले महागौरि महाश्रिये । महाचान्द्रि महासौरि महामायूरि आदित्यरश्मि जाह्नवि । यमघण्टे किणि किणि चिन्तामणि । सुगन्धे सुरभे सुरासुरोत्पन्ने सर्वकामदुघे । यद्यथा मनीषितं कार्यं तन्मम सिद्ध्यतु स्वाहा । ॐ स्वाहा । ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वहा । ॐ महः स्वहा । ॐ जनः स्वहा । ॐ तपः स्वाहा । ॐ सत्यं स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । यत एवागतं पापं तत्रैव प्रतिगच्छतु स्वाहेत्योम् । अमोघैषा महाविद्या वैष्णवी चापराजिता ॥ ३२॥ स्वयं विष्णुप्रणीता च सिद्धेयं पाठतः सदा । एषा महाबला नाम कथिता तेऽपराजिता ॥ ३३॥ नानया सदृशी रक्षा। त्रिषु लोकेषु विद्यते । तमोगुणमयी साक्षद्रौद्री शक्तिरियं मता ॥ ३४॥ कृतान्तोऽपि यतो भीतः पादमूले व्यवस्थितः । मूलाधारे न्यसेदेतां रात्रावेनं च संस्मरेत् ॥ ३५॥ नीलजीमूतसङ्काशां तडित्कपिलकेशिकाम् । उद्यदादित्यसङ्काशां नेत्रत्रयविराजिताम् ॥ ३६॥ शक्तिं त्रिशूलं शङ्खं च पानपात्रं च विभ्रतीम् । व्याघ्रचर्मपरीधानां किङ्किणीजालमण्डिताम् ॥ ३७॥ धावन्तीं गगनस्यान्तः पादुकाहितपादकाम् । दंष्ट्राकरालवदनां व्यालकुण्डलभूषिताम् ॥ ३८॥ व्यात्तवक्त्रां ललज्जिह्वां भृकुटीकुटिलालकाम् । स्वभक्तद्वेषिणां रक्तं पिबन्तीं पानपात्रतः ॥ ३९॥ सप्तधातून् शोषयन्तीं क्रूरदृष्ट्या विलोकनात् । त्रिशूलेन च तज्जिह्वां कीलयन्तीं मुहुर्मुहुः ॥ ४०॥ पाशेन बद्ध्वा तं साधमानवन्तीं तदन्तिके । अर्द्धरात्रस्य समये देवीं धायेन्महाबलाम् ॥ ४१॥ यस्य यस्य वदेन्नाम जपेन्मन्त्रं निशान्तके । तस्य तस्य तथावस्थां कुरुते सापि योगिनी ॥ ४२॥ ॐ बले महाबले असिद्धसाधनी स्वाहेति । अमोघां पठति सिद्धां श्रीवैष्णवीम् ॥ ४३॥ श्रीमदपराजिताविद्यां ध्यायेत् । दुःस्वप्ने दुरारिष्टे च दुर्निमित्ते तथैव च । व्यवहारे भेवेत्सिद्धिः पठेद्विघ्नोपशान्तये ॥ ४४॥ यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वऽक्षरहीनमीडितम् । तदस्तु सम्पूर्णतमं प्रयान्तु मे सङ्कल्पसिद्धिस्तु सदैव जायताम् ॥ ४५॥ तव तत्त्वं

अपराजितास्तोत्रम् Read More »

सूर्यनमस्कार मन्त्राः

ॐ ध्येयः सदा सवितृमण्डल मध्यवर्ति नारायणः सरसिजासन्संनिविष्टः । केयूरवान मकरकुण्डलवान किरीटी हारी हिरण्मयवपुधृतशंखचक्रः ॥ ॐ ह्रां मित्राय नमः । ॐ ह्रीं रवये नमः । ॐ ह्रूं सूर्याय नमः । ॐ ह्रैं भानवे नमः । ॐ ह्रौं खगाय नमः । ॐ ह्रः पूष्णे नमः । ॐ ह्रां हिरण्यगर्भाय नमः । ॐ ह्रीं मरीचये नमः । ॐ ह्रूं आदित्याय नमः । ॐ ह्रैं सवित्रे नमः । ॐ ह्रौं अर्काय नमः । ॐ ह्रः भास्कराय नमः । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ श्रीसवितृसूर्यनारायणाय नमः ॥ आदितस्य नमस्कारान् ये कुर्वन्ति दिने दिने जन्मान्तरसहस्रेषु दारिद्र्यं दोषनाशते । अकालमृत्युहरणं सर्वव्याधिविनाशनम् सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम् ॥ योगेन चित्तस्य पदेन वाचा मलं शरीरस्य च वैद्यकेन । योपाकरोत्तं प्रवरं मुनीनां पतंजलिं प्रांजलिरानतोऽस्मि ॥

सूर्यनमस्कार मन्त्राः Read More »

सुब्रह्मण्यषडक्षरमन्त्रः

अस्य श्रीसुब्रह्मण्यषडक्षरमहामन्त्रस्य, अगस्त्यः ऋषिः । अनुष्टुप्छन्दः, सुब्रह्मण्यो देवता, वं बीजं, नमः शक्तिः, वचद्भुवे कीलकम् । श्रीसुब्रह्मण्यप्रीत्यर्थे जपे विनियोगः ॥ करन्यासः – वां अङ्गुष्ठाभ्यां नमः । वीं तर्जनीभ्यां नमः । वूं मध्यमाभ्यां नमः । वैं अनामिकाभ्यां नमः । वौं कनिष्ठिकाभ्यां नमः । वः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ॥ अङ्गन्यासः – ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् । क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः । लमित्यादि पञ्चपूजा । जपसमर्पणम् ॥ ध्यानम् – सिन्धूरारुणमिन्दुकान्तिवदनं केयूरहारदिभिः दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्थसौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागांशुकं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ लमित्यादि पञ्चपूजा । ॐ वचद्भुवे नमः इति मन्त्रः । (१०८ वारं) सिद्धिक्रमः- लक्षमेकं जपेन्मन्त्रं साज्यान्नहविषा ततः । दशांशं जुहुयादन्ते ब्राह्मणानपि पूजयेत् ॥ पूजाक्रमः- धर्मादिकल्पिते पीठे वह्निमण्डलपश्चिमे । पूजयेद्विधिना देवमुपचारैर्यथोदितैः ॥ केसरेष्वङ्गपूजा स्यात् । पत्रमध्येषु जयन्तं आग्निवेश्यं कृत्तिकापुत्रं भूतपतिं सेनान्यं गुहं हेमशूलं विशाखं शक्तिवज्रधरं च,दिग्दलेषु पूर्वादिषु देवसेनापतिं विद्यां मेधां वज्रं च, विदिग्दलेषु शक्तिकुक्कुटौ मयूरद्विपौ, पत्राद्येषु, तद्बाह्ये लोकेश्वरान् तदस्त्राणि च पूजयेत् ॥ पुष्ठ्यां संप्रीणयद्देवं स्वादुभिर्भक्ष्यभोज्यकैः । पूजयेद्देवताबुद्ध्या कुमारान्ब्रह्मचारिणः ॥ पूजितस्तु स देवोऽपि सन्तानं विजयं यशः । राज्ञामायुः श्रियं वीर्यं प्रदद्यात् साधकस्य तु । सुब्रह्मण्यः सुरार्चितः ॥ (मन्त्ररत्नमञ्जूषातः

सुब्रह्मण्यषडक्षरमन्त्रः Read More »

श्रीसुब्रह्मण्यपञ्चदशाक्षरमन्त्रः

अस्य श्रीसुब्रह्मण्यपञ्चदशाक्षरमहामन्त्रस्य, ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीसुब्रह्मण्यो देवता । ॐ श्रीं ह्रीं क्लीं इति बीजम् । शरवणभव इति शक्तिः । ॐ ऐं ईं नं ळं सौः इति कीलकम् । श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः – हृदयादि न्यासः (१) ॐ श्रीं ह्रीं क्लीं – अङ्गुष्ठाभ्यां नमः – हृदयाय नमः । (२) ॐ ऐं ईं नं ळं सौः – तर्जनीभ्यां नमः – शिरसे स्वाहा । (३) शरवणभव – मध्यमाभ्यां नमः – शिखायै वषट् । (४) ॐ श्रीं ह्रीं क्लीं – अनामिकाभ्यां नमः – कवचाय हुं । (५) ऐं ईं नं ळं सौः – कनिष्ठिकाभ्यां नमः – नेत्रत्रयाय वौषट् । (६) शरवणभव – करतलकरपृष्ठाभ्यां नमः – अस्त्राय फट् । इति करन्यासाङ्गन्यासौ । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम्- सिन्दूरारुणमिन्दुपद्मजयिभिः षड्भिर्मुखैर्भासितं कारुण्यामृतपूरसुन्दरतरैर्भान्तं द्विषल्लोचनैः । बिभ्राणं वरमब्जयुग्ममभयं शक्तिद्वयं कार्मुकं खड्गं चर्म पृषत्कमङ्कुशगदे वल्लीशमीक्षे हृदि ॥ (लमित्यादि पञ्चपूजा – लं पृथिव्यात्मने……. as above) मूलमन्त्रः – ॐ श्रीं ह्रीं क्लीं, ऐं ईं नं ळं सौं, शरवणभव । (१०८ वारं – 108 times) (अङ्गन्यासाः …. भूर्भुवस्सुवरोमिति दिग्विमोकः, ध्यानं – as above) लमित्यादिपञ्चोपचारपूजा – लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि । मूलमन्त्रः- ॐ ह्रीं ऐं क्लीं ॐ ह्सौं शरवणभव ॥ जपान्ते पुनर्हृदयाद्यङ् । जपसमर्पणम् । इति श्रीसुब्रह्मण्यपञ्चदशाक्षरमन्त्रः सम्पूर्णः ।

श्रीसुब्रह्मण्यपञ्चदशाक्षरमन्त्रः Read More »

श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः

अथ तत्त्वाचमनम्- ह्रीं आत्मतत्त्वं शोधयामि नमः स्वाहा । क्लीं विद्यातत्त्वं शोधयामि नमः स्वाहा । ह्सौं शिवतत्त्वं शोधयामि नमः स्वाहा । ह्रीं क्लीं ह्सौं सर्वतत्त्वं शोधयामि नमः स्वाहा ॥ (प्रत्यूहशान्तिः । प्राणायामः । सङ्कल्पः ।) ह्रीं अस्य श्रीसुब्रह्मण्यद्वादशाक्षरमहामन्त्रस्य अमृताकर्षणदक्षिणामूर्तिः ऋषिः । जगतीच्छान्दः । श्रीप्रसन्नज्ञानसुब्रह्मण्यो देवता । ह्रीं बीजम् । ह्सौं शक्तिः । क्लीं कीलकम् । श्रीप्रसन्नज्ञानसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । ऋष्यादिन्यासः – ह्रीं अमृताकर्षणदक्षिणामूर्तये नमः शिरसि । जगतीच्छान्दसे नमो मुखे । श्रीप्रसन्नज्ञानसुब्रह्मण्याय देवतायै नमो हृदये । ह्रीं बीजाय नमो गुह्ये । ह्सौं शक्तये नमः स्तनयोः । क्लीं कीलकाय नमो नाभौ । विनियोगाय नमः सर्वाङ्गे ॥ (मूलेन करौ संशोध्य) करन्यासः – ॐ अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ऐं मध्यमाभ्यां नमः । क्लीं अनामिकाभ्यां नमः । ॐ कनिष्ठिकाभ्यां नमः । ह्सौं करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः – ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् । क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः । ध्यानम्- ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् । कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलैश्शोभितं काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥ पञ्चोपचारपूजा – लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि । मूलमन्त्रः- ॐ ह्रीं ऐं क्लीं ॐ ह्सौं शरवणभव ॥ जपान्ते पुनर्हृदयाद्यङ्गन्यासाः । (At the end of Japa, once again Hrdayaadyanganyas as above) ह्रीं भूर्भुवस्सुवरों इति दिग्विमोकः । (ध्यानम् । लमित्यादि पूजा । जपसमर्पणम् ।) इति श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः सम्पूर्णः ।

श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः Read More »

श्रीसुब्रह्मण्य-एकचत्वारिंशदक्षरो मन्त्रः

अस्य श्रीसुब्रह्मण्यमहामन्त्रस्य, ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीसुब्रह्मण्यो देवता । शरजन्मा अक्षयो बीजम् । शक्तिधरोऽक्षयः कार्तिकेयः शक्तिः । क्रौञ्चधरः कीलकम् । शिखिवाहनः कवचम् । सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः – अं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने नमः संहृतायेष्टचित्तात्मने भास्वरूपाय – अङ्गुष्टाभ्यां नमः । ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय – तर्जनीभ्यां नमः । ॐ हं षण्मुखशरजन्मने । शुभलक्षणाय, शिखिवाहनाय – मध्यमाभ्यां नमः । ॐ णं कृशानुसम्भवाय कविचने कुक्कुटध्वजाय – अनामिकाभ्यां नमः । ॐ भं कन्दपकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय – कनिष्ठिकाभ्यां नमः । ॐ वं खेटधराय खड्गिने शक्तिहस्ताय – करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः – ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् । क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः । ध्यानं- वन्दे षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् । कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥ ध्यायामीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् । वज्रं शक्तिमसिं च शूलमभयं दोर्भिधृतं षण्मुखं ध्यायेच्चित्तमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥ (मूलमन्त्रः) ॐ ह्रीं श्रीं क्लीं औं सौः शरहणभवरहणभवश – हणभवशर – णभवशरह – भवशरहण – वशरहणभ कर-हृदयादिन्यासः । दिग्विमोकः । ध्यानम् । लमित्यादि पञ्चपूजा । (Taking the above 6 names, – a) AnguShThAbhyAM namaH, b) Hrdayaaya namaH) जपसमर्पणम् ।

श्रीसुब्रह्मण्य-एकचत्वारिंशदक्षरो मन्त्रः Read More »

सप्तशती सिद्ध सम्पुटमन्त्राः

श्रीदुर्गा-सप्तशती के कुछ सिद्ध सम्पुट मन्त्र १) सामूहिक कल्याण के लिये देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ २) विश्व के अशुभ तथा भय का नाश करने के लिये यस्याः प्रभावमतुलं भगवानन्तो ब्रह्म हरश्च न हि वक्तुमलं बलं च । सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥ ३) विश्व की रक्षा के लिये या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ ४) विश्व के अभ्युदय के लिये विश्वेश्वरि त्वं परिपासि विश्वं विश्वात्मिका धारयसीति विश्वम् । विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः ॥ ५) विश्वव्यापी विपत्तियों के नाश के लिये देवि प्रपन्नर्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य । प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥ ६) विश्व के पाप-ताप-निवारण के लिये देवि प्रसीद परिपालय नोऽरिभीते- र्नित्यं यथासुरवधादधुनैव सद्यः । पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च महोपसर्गान् ॥ ७) विपत्तिनाश के लिये शरणागतदीनार्तपरित्राणपरायणे । सर्वास्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ८) विपत्तिनाश और् शुभ की प्राप्ति के लिये करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः । ९) भयनाश के लिये क) सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ख) एतत्ते वदनं सौम्यं लोचनत्रयभूषितं । पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते ॥ ग) ज्वालाकरालमत्युग्रमशेषासुरसूदनम् । त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥ १०) पापनाश के लिये हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् । सा घण्टा पातु नो देवि पापेभ्योऽनः सुतानिव ॥ ११) रोगनाश के लिये रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् । त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ १२) महामारीनाश के लिये जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ १३) आरोग्य और सौभाग्य प्राप्ति के लिये देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् । रुपं देहि यशो जयं देहि यशो देहि द्विषो जहि ॥ १४) सुलक्षणा पत्नी की प्राप्ति के लिये पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् । तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम् ॥ १५) बाधाशान्ति के लिये सर्वाबाधाप्रशमनं त्रैलोक्याखिलेश्वरि । एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ १६) सर्वविध अभ्युदय के लिये ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः । धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना ॥ १७) दारिद्र्यदुःखादिनाश के लिये दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥ १८) रक्षा पाने के लिये शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥ १९) समस्त विद्याओं की और् समस्त स्त्रियों में मातृभाव की प्राप्ति के लिये विद्या समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु । त्वैकया पूरितमम्बयैतत् । का ते स्तुतिः स्तव्यपरा परोक्त्तिः ॥ २०) सब प्रकार के कल्याण के लिये सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ २१) शक्तिप्राप्ति के लिये सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि । गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥ २२) प्रसन्नताप्राप्ति के लिये प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि । त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥ २३) विविध उप्द्रवों से बचने के लिये रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र । दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् ॥ २४) बाधामुक्त होकर धन और् पुत्रादि की प्राप्ति के लिये सर्वबाधाविनिर्मुक्तो धनधान्यसुतान्वितः । मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥ २५) भुक्तिमुक्ति की प्राप्ति के लिये विधेहि देवि कल्याणं विधेहि परमां श्रियम् । रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २६) पापनाश तथा भक्तिप्राप्ति के लिये नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २७) स्वर्ग और मोक्ष के लिये सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी । त्वं स्तुता स्तुतये का वा भवन्तु परमोत्तयः ॥ २८) स्वर्ग और मुक्ति के लिये सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते । स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥ २९) मोक्ष की प्राप्ति के लिये त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया । सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ३०) स्वप्न मे सिद्धि-असिद्धि जानने के लिये दुर्गे देवि नमस्तुभ्यं सर्वकामार्थसाधिके । मम सिद्धिमसिद्धिं वा स्वप्ने सर्वं प्रदर्शय ॥

सप्तशती सिद्ध सम्पुटमन्त्राः Read More »

श्रीसन्तानगोपालकृष्णमन्त्रम्

सन्तानगोपालः – नीलवर्णः पिबन्तं च स्तनं मातुः मुखं संवीक्ष्य सुस्मितम् । अङ्गुल्यग्रे स्तनं चान्यं स्पृशन्तं च मुहुर्मुहुः ॥ यशोदाङ्गस्थितं गोपं ध्यायेत्पुत्रप्रदं सदा ॥ (मूलमन्त्रेण प्राणानायम्य – श्रीसन्तानगोपालकृष्णप्रीत्यर्थे श्रीसन्तानगोपालमन्त्रजपं करिष्ये – इति सङ्कल्प्य -) ॐ पूर्णज्ञानात्मने हृदयाय नमः । ॐ पूर्णैश्वर्यात्मने शिरसे स्वाहा । ॐ पूर्णपरमात्मने शिखायै वषट् । ॐ पूर्णानन्दात्मने कवचाय हुं । ॐ पूर्णतेजात्मने नेत्राभ्यां वौषट् । ॐ पूर्णशक्त्यात्मने अस्त्राय फट् । इति दिग्बन्धः – अस्य श्रीद्वात्रिंशदक्षर सन्तानगोपालकृष्णमहामन्त्रस्य – (शिरसि) – नारद ऋषिः (मुखे) – अनुष्टुप् छन्दः (हृदये) – श्रीसन्तानगोपालकृष्णो देवता – कं बीजं – स्वाहा शक्तिः – श्रीसन्तानगोपालकृष्णप्रीत्यर्थे जपे विनियोगः । ध्यानम् शङ्खचक्रधरं कृष्णं रथस्थं च चतुर्भुजम् । सर्वाभरणसंयुक्तं पीतवाससमच्युतम् ॥ द्विजवर्यार्जुनयुतं विष्णुतेजोपबृम्हितम् । समर्पयन्तं विप्राय नष्टानानीय बालकान् ॥ करुणामृतसम्पूर्णदृष्ट्यैक्षन्तं च तं द्विजम् । ध्यात्वा जपार्चनादीनि कुर्याद्भक्तिपरायणः । पुत्रार्थी स्वस्तिके न्यस्य तत्रस्थं कृष्णं पूजयेत् ॥ मूलमन्त्रः – देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ॥ एकलक्षं जपेन्मन्त्रं सिद्धिर्भवति तत्क्षणात् ॥ दशांशतर्पणं, तद्दशांशहोमः, पायसेन तद्दशांशं ब्राह्मणभोजनं, पुनरुपहारार्थं प्राणायामः, षडङ्गन्यासः, ऋष्यादि न्यासः, ध्यानञ्च कुर्यात् । इति श्रीसन्तानगोपालकृष्णमन्त्रं सम्पूर्णम् ।

श्रीसन्तानगोपालकृष्णमन्त्रम् Read More »

श्रीशान्तादुर्गा प्रणाममन्त्रः

आदिशक्तिर्महामाये सच्चिदानन्द(स्व)रूपिणी । पालनार्थं स्वभक्तानां शान्तादुर्गाभिधामता ॥ १॥ नमो दुर्गे महादुर्गे नवदुर्गास्वरूपिणी । कैवल्यवासिनी श्रीमच्छान्तादुर्गे नमोऽस्तु ते ॥ २॥ शान्त्यै नमोऽस्तु शरणागतरक्षणायै कान्त्यै नमोऽस्तु कमनीयगुणाश्रयायै । क्षात्यै नमोऽस्तु दुरितक्षयकारणायै धान्त्यै नमोऽस्तु धनधान्यसमृद्धिदायै ॥ ३॥ शान्तादुर्गे नमस्तुभ्यं सर्वकामार्थसाधिके । मम सिद्धिमसिद्धिं वा स्वप्ने सर्वं प्रदर्शय ॥ ४॥ शान्तादुर्गे जगन्माते शरणागतवत्सले । कैवल्यवासिनी देवि शान्तादुर्गे नमोऽस्तु ते ॥ ५॥ इति श्रीशान्तादुर्गा प्रणाममन्त्रः सम्पूर्णः ।

श्रीशान्तादुर्गा प्रणाममन्त्रः Read More »

श्रीवेदव्यासमन्त्राः

१. श्रीवेदव्यासमन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः । वेदव्यासो देवता । श्रीवेदव्यासमन्त्र जपे विनियोगः । ध्यानश्लोकः – विज्ञानरोचिः परिपूरितान्तर्बाह्याण्डकोशं हरितोपलाभम् । तर्काभयेतं विधिशर्वपूर्वगीर्वाण विज्ञानद मानतोऽस्मि ॥ मन्त्रः – ॐ व्यां वेदव्यासाय नमः ॥ २. श्रीव्यासगायत्री मन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः । वेदव्यासो देवता । श्रीवेदव्यास गायत्रीमन्त्र जपे विनियोगः । ध्यानश्लोकः – ध्यायेच्छशाङ्क शतकोट्यति सौख्यकान्तिं संसिच्यमानममृतोरुघटैः सुरेशैः । वर्णाभिमानिभिरजेशमुखैः सहैव पञ्चाशता प्रतिगिरन्तमशेष विद्याः ॥ गायत्रीमन्त्रः – ॐ पूर्णज्ञानाय विद्महे । पूर्णानन्दाय धीमहि । तन्नो व्यासः प्रचोदयात् ॥ ३. एकाक्षर व्यासमन्त्रः ॐ व्यां ॐ ॥ ध्यानश्लोकः – ध्यायेच्छशाङ्क शतकोट्यति सौख्यकान्तिं संसिच्यमानममृतोरुघटैः सुरेशैः । वर्णाभिमानिभिरजेशमुखैः सहैव पञ्चाशता प्रतिगिरन्तमशेष विद्याः ॥ इति श्रीवेदव्यासमन्त्राः समाप्ताः ।

श्रीवेदव्यासमन्त्राः Read More »

रामनमस्काराष्टकमन्त्राः (आनन्दरामायाअणान्तर्गता)

श्रीराम नमस्काराष्टकमन्त्राः ॐ नमो भगवते श्रीरामाय परमात्मने । सर्वभूतान्तरस्थाय ससीताय नमो नमः ॥ १॥ ॐ नमो भगवते श्रीराम रामचन्द्राय वेधसे । सर्ववेदान्तवेद्याय ससीताय नमो नमः ॥ २॥ ॐ नमो भगवते श्रीविष्णवे परमात्मने । परात्पराय रामाय ससीताय नमो नमः ॥ ३॥ ॐ नमो भगवते श्रीरघुनाथाय शार्ङ्गिणे । चिन्मयानन्दरूपाय ससीताय नमो नमः ॥ ४॥ ॐ नमो भगवते श्रीराम श्रीकृष्णाय चक्रिणे । विशुद्धज्ञानदेहाय ससीताय नमो नमः ॥ ५॥ ॐ नमो भगवते श्रीवासुदेवाय विष्णवे । पूर्णानन्दैकरूपाय ससीताय नमो नमः ॥ ६॥ ॐ नमो भगवते श्रीराम रामभद्राय वेधसे । सर्वलोकशरण्याय ससीताय नमो नमः ॥ ७॥ ॐ नमो भगवते श्रीरामायामिततेजसे । ब्रह्मानन्दैकरूपाय ससीताय नमो नमः ॥ ८॥ इति श्रीआनन्रश्रीराम नमस्काराष्टकमन्त्राः ।

रामनमस्काराष्टकमन्त्राः (आनन्दरामायाअणान्तर्गता) Read More »

मृतसंजीविनी मन्त्रः

। अथ मृतसंजीविनी मन्त्रः । शुक्र ऋषिः, गायत्री छन्दः, मृतसंजीवनी देवी देवता । ह्रीं बीजं, स्वाहा शक्तिः, हंसः कीलकं, न्यासं मूलेन । विनियोगः समाख्यात स्त्रिचतुश्चैककं पुनः । षट् चतु द्विककेनैव षडंगानि समाचरेत् । १ ह्रीं हंसः, २ संजीविनि, ३ जूं, ४ जीवंप्राणग्रन्थिं, ५ कुरु स्वाहा । ह्रीं हंसः, संजीविनि, जूं हंसः कुरु कुरु, कुरु सौः सौः, स्वाहा ।

मृतसंजीविनी मन्त्रः Read More »