MANTRA

मन्त्रात्मकश्लोकाः (वासुदेवानन्दसरस्वतीविरचितम्)

अनसूयात्रिसम्भूतो दत्तात्रेयो दिगम्बरः । स्मर्तृगामी स्वभक्तानामुद्धर्ता भव सङ्कटात् ॥ १॥ दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियम् । ददौ श्रीदत्तदेवः स दारिद्र्याच्छ्रीप्रदोऽवतु ॥ २॥ दूरीकृत्य पिशाचार्तिं जीवयित्वा मृतं सुतम् । योऽभूदभीष्टदः पातु स नः सन्तानवृद्धिकृत् ॥ ३॥ जीवयामास भर्तारं मृतं सत्या हि मृत्युहा । मृत्युञ्जयः स योगीन्द्रः सौभाग्यं मे प्रयच्छतु ॥ ४॥ अत्रेरात्मप्रदानेन यो मुक्तो भगवानृणात् । दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये ॥ ५॥ जपेच्छ्लोकमिमं देवपित्रर्षिपुन्नृणापहं । सोऽनृणो दत्तकृपया परम्ब्रह्माधिगच्छति ॥ ६॥ अत्रिपुत्रो महातेजो दत्तात्रेयो महामुनिः । तस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ७॥ नमस्ते भगवन्देव दत्तात्रेय जगत्प्रभो । सर्वबाधाप्रशमनं कुरु शान्तिं प्रयच्छ मे ॥ ८॥ अनसूयासुत श्रीश जनपातकनाशन । दिगम्बरं नमो नित्यं तुभ्यं मे वरदो भव ॥ ९॥ श्रीविष्णोरवतारोऽयं दत्तात्रेयो दिगम्बरः । मालाकमण्डलूच्छूलडमरूशङ्खचक्रधृक् ॥ १०॥ नमस्ते शारदे देवि सरस्वति मतिप्रदे । वस त्वं मम जिह्वाग्रे सर्वविद्याप्रदा भव ॥ ११॥ दत्तात्रेयं प्रपद्ये शरणमनुदिनं दीनबन्धुं मुकुन्दम् ॥ नैर्गुण्यं सन्निविष्टं पथि परमपदं बोधयन्तं मुनीनाम् ॥ भस्माभ्यङ्गं जटाभिः सुललितमुकुटं दिक्पटं दिव्यरूपं सह्याद्रौ नित्यवासं प्रमुदितममलं सद्गुरुं चारुशीलम् ॥ १२॥ इति श्रीवासुदेवानन्दसरस्वतीविरचिताः मन्त्रश्लोकाः सम्पूर्णाः ।

मन्त्रात्मकश्लोकाः (वासुदेवानन्दसरस्वतीविरचितम्) Read More »

श्रीनर्मदास्तोत्रम् मन्त्रगर्भ

वारिताऽनर्थसङ्घा या अनन्य नतमुक्तये । सुष्टुशर्मनिदानायै नद्यै पुम्मोहसंहृते ॥ १॥ देवर्षि दानवेड्यायै सूक्ष्मवस्तुदृशे नमः । वाक्यार्थायै सोमपुत्र्यै यातनाऽनलशान्तये ॥ २॥ नन्दायै नर्मदायै ते त्रिधाकर्मविशुद्धये । दयादमः स्थैर्यकर्त्र्यै संसिद्ध्यै देवतात्मने ॥ ३॥ सत्यसम्प्राप्तिकारिण्यै भूत्यै सन्तुष्टिहेतवे । रम्यायै तत्त्वरूपिण्यै तपस्व्यभ्यं तरात्मने ॥ ४॥ स्वच्छ स्वर्नद्यधिस्वाम्बु दमित त्रासिभीतये । तीव्रशर्महृते पुंहृत्तापघ्न्ये हितकीर्तये ॥ ५॥ कृतापदाविमोक्षायै त्रेधाधर्माङ्गमूर्तये । तपोदा यै तपःसिद्ध्यै यज्ञाङ्ग्यै विषभीहृते ॥ ६॥ रेवायै नरतापघ्न्यै दिव्यायै षड्द्विषद्धृते । वासनामोक्षदक्षायै गङ्गायै सत्यकीर्तये ॥ ७॥ स्तुतायै नित्यदीप्तायै बलिसर्पददुद्धृते । तितिक्षु शिवसन्धात्र्यै रत्यै चेतः समाधये ॥ ८॥ जय जय शिवकन्ये नर्मदे शर्मदे त्वम् । जय जय जनमान्ये धर्मदेऽधर्मदे त्वम् ॥ जय जय सुवदान्ये धर्मदे कर्मदे त्वम् । जय जय भुवि धन्ये भर्मदे वर्मदे त्वम् ॥ ९॥ मन्त्राद्याक्षरसहित नर्मदायै नमः प्रातर्नर्मदायै नमो निशि । नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥ वा रिताऽ न र्थसङ्घा या अ नन्य न तमुक्तये । सु ष्टुश र्म निदानायै न द्यै पुं मो हसंहृते ॥ १॥ दे वर्षि दा नवेड्यायै सू क्ष्मव स्तु दृशे नमः । वा क्यार्था यै सोमपुत्र्यै या तनाऽ न लशान्तये ॥ २॥ नं दायै न र्मदायै ते त्रि धाक र्म विशुद्धये । द या द मः स्थैर्यकर्त्र्यै सं सिद्ध्यै दे वतात्मने ॥ ३॥ स त्य सं प्रा प्तिकारिण्यै भू त्यै सं तु ष्टिहेतवे ॥ र म्यायै त त्त्वरूपिण्यै त पस्व्य भ्यं तरात्मने ॥ ४॥ स्व च्छ स्व र्न द्यधिस्वाम्बु द मित त्रा सिभीतये । ती व्रश र्म हृते पुंहृ त्ता पघ्न्ये हि तकीर्तये ॥ ५॥ कृ ताप दा विमोक्षायै त्रे धाधर् मां गमूर्तये । त पोदा यै तपःसिद्ध्यै य ज्ञाङ्ग्यै वि षभीहृते ॥ ६॥ रे वायै न रतापघ्न्यै दि व्यायै ष ड्द्विषद्धृते । वा सना मो क्षदक्षायै गं गायै स त्यकीर्तये ॥ ७॥ स्तु तायै नि त्यदीप्तायै ब लिस र्प ददुद्धृते । ति तिक्षु शि वसन्धात्र्यै र त्यै चे तः समाधये ॥ ८॥ जय जय शिवकन्ये नर्मदे शर्मदे त्वम् । जय जय जनमान्ये धर्मदेऽधर्मदे त्वम् ॥ जय जय सुवदान्ये धर्मदे कर्मदे त्वम् । जय जय भुवि धन्ये भर्मदे वर्मदे त्वम् ॥ ९॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीनर्मदास्तोत्रं सम्पूर्णम् ।

श्रीनर्मदास्तोत्रम् मन्त्रगर्भ Read More »

श्रीगणपतिस्तोत्रम् समन्त्रकम्

नमो गणपतये तुभ्यं ज्येष्ठ ज्येष्ठाय ते नमः । स्मरणाद्यस्य ते विघ्ना न तिष्ठन्ति कदाचन ॥ १॥ देवानां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः । त्यक्त्वा त्वामिह कः कार्य-सिद्धिं जन्तुर्गमिष्यति ॥ २॥ स त्वं गणपतिः प्रीतो भव ब्रह्मादिपूजित ॥ चरणस्मरणात्तेऽपि ब्रह्माद्या यशस्विनः ॥ ३॥ परा परब्रह्मदाता सुराणां त्वं सुरो यतः । सन्मतिं देहि मे ब्रह्मपते ब्रह्मसमीडित ॥ ४॥ उक्तं हस्तिमुखश्रुत्या त्वं ब्रह्म परमित्यपि । कृतं वाहनमाखुस्ते कारणन्त्वत्र वेद नो ॥ ५॥ इयं महेश ते लीला न पस्पर्श यतो मतिः । त्वां न हेरम्ब कुत्रापि परतन्त्रत्वमीश ते ॥ ६॥ स त्वं कवीनां च कविर्देव आद्यो गणेश्वरः । अरविन्दाक्ष विद्येश प्रसन्नः प्रार्थनां श‍ृणु ॥ ७॥ त्वमेकदन्त विघ्नेश देव श‍ृण्वर्भकोक्तिवत् । सत्कवीनां मध्य एव नैकाण्वंश कविं कुरु ॥ ८॥ श्रीविनायक ते दृष्ट्या कोपि नूनं भवेत्कविः । तं त्वामुमासुतं नौमि सन्मतिप्रद कामद ॥ ९॥ ममापराधः क्षन्तव्यो नतिभिः सम्प्रसीद मे । न नमस्यविधिं जाने त्वं प्रसीदाद्य केवलम् ॥ १०॥ न मे श्रद्धा न मे भक्तिर्न त्वदर्चनपद्धतिः । ज्ञाता वदान्य ते स्मीति ब्रुवे साधनवर्जितः ॥ ११॥ कर्तुं स्तवं च तेऽनीशः प्रसीद कृपयोद्धर । प्रणामं कुर्वेऽतोऽनेन सदानन्द प्रसीद मे ॥ १२॥ मन्त्राद्याक्षरसहित गणानां त्वा गणपतिꣳ हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श‍ृण्वन्नूतिभिस्सीद सादनम् ॥ नमो ग णपतये तुभ्यं ज्येष्ठ ज्ये ष्ठाय ते नमः । स्मर णा द्यस्य ते विघ्ना न ति ष्ठ न्ति कदाचन ॥ १॥ देवा नां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः । त्यक्त्वा त्वा मिह कः कार्य-सिदिन्ध जं तुर्गमिष्यति ॥ २॥ स त्वं ग णपतिः प्रीतो भव ब्र ह्मादिपूजित । चर ण स्मरणात्तेऽपि ब्र ह्मा द्या यशस्विनः ॥ ३॥ परा प रब्रह्मदाता सुरा णां त्वं सुरो यतः । सन्म तिं देहि मे ब्रह्मपते ब्र ह्मसमीडित ॥ ४॥ उक्तं ह स्तिमुखश्रुत्या त्वं ब्र ह्म परमित्यपि । कृतं वा हनमाखुस्ते कार ण न्त्वत्र वेद नो ॥ ५॥ इयं म हेश ते लीला न प स्पर्श यतो मतिः । त्वां न हे रम्ब कुत्रापि पर त न्त्रत्वमीश ते ॥ ६॥ स त्वं क वीनां च कवि-र्देव आ द्यो गणेश्वरः । अर विं दाक्ष विद्येश प्रसं नः प्रार्थनां श‍ृणु ॥ ७॥ त्वमे क दन्त विघ्नेश देव श‍ृ ण्वर्भकोक्तिवत् । सत्क वी नां मध्य एव नैका ण्वं श कविं कुरु ॥ ८॥ श्रीवि ना यक ते दृष्ट्या कोपि नू नं भवेत्कविः । तं त्वा मु मासुतं नौमि सन्म ति प्रद कामद ॥ ९॥ ममा प राधः क्षन्तव्यो नति भिः सम्प्रसीद मे । न न म स्यविधिं जाने त्वं प्र सी दाद्य केवलम् ॥ १०॥ न मे श्र द्धा न मे भक्तिर्न त्व द र्चनपद्धतिः । ज्ञाता व दान्य ते स्मीति ब्रुवे सा धनवर्जितः ॥ ११॥ कर्तुं स्त वं च तेऽनीशः प्रसी द कृपयोद्धर । प्रणा मं कुर्वेऽतोऽनेन सदा नं द प्रसीद मे ॥ १२॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं समन्त्रकं श्रीगणपतिस्तोत्रं सम्पूर्णम् ।

श्रीगणपतिस्तोत्रम् समन्त्रकम् Read More »

श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः

श्रीकृष्णमन्त्रकवचम् श्रीगणेशाय नमः । महादेव उवाचः । ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च । मन्त्रेषु मन्त्रराजोऽयं महान् सप्तदशाक्षरः ॥ १॥ सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुङ्गव । तद्दशांशं च हवनं तद्दशांशाभिषेचनम् ॥ २॥ तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम् । सुवर्णानां च शतकं पुरश्चरणदक्षिणा ॥ ३॥ मन्त्रसिद्धस्य पुंसश्च विश्वं करतलं मुने । शक्तः पातुं समुद्रांश्च विश्वं संहर्त्तुमीश्वरः । पाञ्चभौतिकदेहेन वैकुण्ठं गन्तुमीश्वरः ॥ ४॥ तस्य संस्पर्शमात्रेण पादपङ्कजरेणुना । पूतानि सर्वतीर्थानि सद्यः पूता वसुन्धरा ॥ ५॥ ॥ श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः समाप्तम् ॥

श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः Read More »

अक्कलकोटस्वामी समर्थ तारकमंत्र

निःशंक हो, निर्भय हो, मनारे प्रचंड स्वामीबल पाठिशी रे अतर्क्य अवधूत हे स्मर्तु गामी अशक्य ही शक्य करतील स्वामी ॥ १ ॥ जिथे स्वामीपाय तिथे न्यून काय स्वये भक्त प्रारब्ध घडवी ही माय आज्ञेविना काल ना नेई त्याला परलोकिही ना भीती तयाला ॥ २ ॥ उगाचि भीतोसि, भय हे पळू दे जवळी उभी स्वामीशक्ती कळू दे जगी जन्ममृत्यू असे खेळ ज्याचा नको घाबरू तू असे बाल त्यांचा ॥ ३ ॥ खरा होई जागा तू श्रद्धेसहीत कसा होशी त्यावीण तू स्वामिभक्त कितीदा दिला बोल त्यांनीच हात नको डगमगू स्वामी देतील साथ ॥ ४ ॥ विभूती नमन नाम ध्यानादि तीर्थ स्वामीच या पंच प्राणामृतात हे तीर्थ घे, आठवी रे प्रचीती न सोडी कदा स्वामी ज्या घेई हाती ॥ ५ ॥ ॥ भिऊ नकोस, मी तुझ्या पाठीशी आहे ॥

अक्कलकोटस्वामी समर्थ तारकमंत्र Read More »