MANTRA

Krishnamangalam

Karana Shatka Gitam: कारणषट्कगीतम्

Karana Shatka Gitam: कारणषट्कगीतम् Karana Shatka Gitam: मम जीवनस्य जीवनंउद्भाषितं नित्यशोभनंत्वमेव देवं त्वमेव सर्वंहृदि स्थिते सदा धारणंहे कृष्ण हे माधव हे देव त्वंसर्व कारणस्य कारणम् ॥ १॥ मम हृदयस्य हृदयंसद्भाषितं नित्य सदयंत्वमेव पूर्णं त्वमेव स्वर्णंप्रेमं आनन्दं अद्भुदयंहे कृष्ण हे माधव हे देव त्वंसर्व कारणस्य कारणम् ॥ २॥ मम विचारस्य विचारंसद्भाव-हॄद्भाव-सञ्चारंत्वमेव सत्यं त्वमेव नित्यंस्मृति-ज्ञानं सर्वाधारंहे कृष्ण हे माधव हे देव त्वंसर्व कारणस्य कारणम् ॥ ३॥ मम शरीरस्य आधारंत्वमेक नित्य निराधारंत्वमेव धर्मं त्वमेव कर्मंसर्वसूत्रस्य सूत्रधारंहे कृष्ण हे माधव हे देव त्वंसर्व कारणस्य कारणम् ॥ ४॥ खण्डिता (रूपगोस्वामिविरचिता) Khandita (Rupagoswamivirchita) मम सर्व सुखदायकंनित्यसुधा वेणु गायकंत्वमेव कर्ता त्वमेव धर्ता माता पिता आत्मनायकंहे कृष्ण हे माधव हे देव त्वंसर्व कारणस्य कारणम् ॥ ५॥ मम दिव्य नन्दनन्दनंआनन्दकन्द सुचन्दनंत्वमेव स्वामी हे अन्तर्यामी सर्व हॄदयस्य स्पन्दनंहे कृष्ण हे माधव हे देव त्वंसर्व कारणस्य कारणम् ॥ ६॥ रचयिता — श्रीकृष्णदासः

Karana Shatka Gitam: कारणषट्कगीतम् Read More »

Krishnamangalam

Shri Kaviraja Stuti: श्रीकविराजस्तुतिः

Shri Kaviraja Stuti: श्रीकविराजस्तुतिः Shri Kaviraja Stuti:विलोचनकदम्बकं यदुपलभ्य लुभ्य त्किमा- लिलेह न हि किं पपौ न हि ममज्ज किंवा न हि ।परं तु किमिवाभवन्नवतमाललक्ष्मीतिर- रिक्रयानिगमसाम्प्रदायिकमुपास्महे तन्महः ॥ १॥अबालकजवाधरः सलिलवाहवाहद्युतिः नवाब्जवनवादिदृग्बृहदवार्यबाहुद्वयः ।स वाङ्मनसबाह्यद्दक्प्रमदवारवारां निधिः भवाल्लवणवारिधेः सविधवासवानुद्धरेत् ॥ २॥यदीयसुषमावलोकनमुदः शरत्कौमुदी- कदम्बपरिशीलनप्रमदधाटिकाचेटिका ।तदम्बुदकदम्बडम्बरविडम्बिकिञ्चिच्छर- त्सरोजदुरहङ्कृतेरनवकाशनेत्रं भजे ॥ ३॥सिताभ्रचयपङ्किला विधुशिलाम्बुवापीविधु- प्रभामयसरोजिनी यदि सृजेत् प्रसूनं नवम् ।तदीयमुपमा यदीयनयनस्य नः स्पर्धिनी- ममन्दमुदमम्बुधेस्तटकुटीचरं तक्रियात् ॥ ४॥कुतूहलमयी हरिन्महमयं नभोमेदिनी प्रमोदलहरीमयी जगति यत्र कुत्र क्वचित् ।मतिः परमरंस्त यद्वदनबिम्बसञ्चुम्बिनी तदस्तु वटभूरुहस्तटचरिष्णु धाम श्रियै ॥ ५॥किमद्भुतततेः किमुल्लसनसम्पदः किं महो- त्सवस्य कुतुकस्य किं किमु जगत्त्रयीविस्मृतेः ।बभूव हृदयं यदाननविहारि जाने न तत् पुनातु लवणाम्बुधे सविधचुम्बि किञ्चिन्महः ॥ ६॥अधीनमिति यत्कृपानिमुखमित्यशेषोपमा ससङ्ग्रहमिति द्युतिः प्रणयपूर्णमित्युत्सवः ।अजस्रमनुशीलयत्यधिकलुब्धमित्यक्षित- द्वटाव निरुहस्तटीघटितधाम धामाश्रये ॥ ७॥यदीयरजसां गणः कबलितोडुवासां गणः पतत्यमिततारकप्रियकरच्छटाकारकः ।सुधां किरति यत्कलाकरपुलाकराशिर्दृशो- स्तमम्बुधितटीचरं कमपि कान्तिसारं भजे ॥ ८॥सुधांशुमयमाम्मुसुमांसलमृजं सुधारासुधा- विधौतमतिनिर्मलप्रबलकौमुदीप्रोत्थितम् ।परस्परविघर्षणैर्दहितशार्मणस्रोतसं भुवि क्वचन पुञ्जितं मधुरिमाणमन्तर्भजे ॥ ९॥प्रतिक्षणरतिक्षणप्रदमुरारिपादद्वयी- विहारसुखसञ्चितद्रढिमनीलशैलद्रवे ।अपाकृतबलस्त्रपाभरजयाय मादृङ्मनो- द्रवं विरचयन्मदं मधुरिमा स कोऽपि क्रियात् ॥ १०॥वदान्ययशसो जगद्विजयगर्वगम्भीरिमा तुलाकणकलङ्कितानवसरः क्षमासम्पदः ।महोर्मिभरिताद्भुतस्तबकिता कृपाचातुरी तुरीयपुरुषार्थदं जयति मर्म शर्म श्रियाम् ॥ ११॥दृशोरमृतवापिकामधुरिमैकधाराधरे घनप्रमदकन्दलो वपुषि पानबाहुद्वये ।भवामयपयोनिधेस्तरणसेतुरव्याहतं पदं मनसि काचनाचरतु सा चितश्चातुरी ॥ १२॥मदंहसि मदं हसत्पलमनूननानैनसां प्रचण्डिमपिचण्डिले मरुति हिण्डमाने मुहः ।चलत्पतितपावनाधिपपतातिकास्तम्भकृ- त्किमाततभुजद्वयः स मयि निर्दयः किं भवेत् ॥ १३॥परे तपति विक्रमाह्वयनिदाघचण्डातप- व्यथादलनकेलिकौतुककदस्ववानम्बुदः ।क्रियाज्जलधिकूलभृन्मुदितभाव्यलक्ष्मीवधू- प्रसाधनविधौ हरिन्मणिजदर्पणस्तर्पणम् ॥ १४॥सखे किमुपलभ्य कां ननु दशां भजे वेद्मि नो परस्परमिति ब्रुवद्वचनसत्यतासिद्धये ।निमज्ज्य सुखनीरधौ न हि बहिर्ययौ दृङ्ममनो- द्वयं यदवलोकने तवलोकवाञ्छास्तु नः ॥ १५॥दुरुद्धरमहाधमाधिपतिमादृशोद्धारणा- तिभारगिरिविघ्नवन्मधुरिमाब्धिजीचिप्लवः ।जगन्नयनभाग्यवैभवमहौषधीवाधव- द्वयाद्रवमयोदयः स्फुरतु कोऽपि मन्मानसे ॥ १६॥महोत्सवकरम्बितामितरगन्धशून्यापर- प्रमोदमयसृष्टिमुल्लसितलोभकोशं दृशोः ।अकण्टकविलुण्ठनापणमनश्वरश्रेयसां मुहुर्मुहुरहं महोघनमहोज्ज्वलं कामये ॥ १७॥कलङ्ककपटस्फुटोदररजच्छटापङ्किलं यन्दाननसुधाम्भसः कलुषहृत्पटीमण्डलम् ।धिनोति वसुधां सुधामयमयूखमाली मुहुः मम प्रमददोहनः स भवताज्जगन्मोहनः ॥ १८॥यदाननसुधाकरद्युतिसुधाधिपानेच्छयोः मुहुर्विवृतसर्वतोमुखमतित्वरं धावतोः ।अनाविलमणीमयाभरणमन्तरायस्त्विषा भवन्नयनयोर्ममाभयनयोदयं सङ्क्रियात् ॥ १९॥सपत्नविरहो महोल्लसितमाधुरीसम्पदां सहासननवोत्सवो निखिलमोहलक्ष्मीततेः ।परप्रमदकन्दलीवलदमन्दलीलाभरः स रक्षतु पुरस्सरः सरसिजस्रजश्चक्षुषा ॥ २०॥पराजितवराकरक्तकनवौष्ठलेखाकरः श्रिया विमलनाकरक्षणशिलाविलासाकरः ।मुखेन हरिणा करम्बितसुधांशुनिन्दाकरः स मेऽस्त्वघनिराकरः खलु गृहीतपद्माकरः ॥ २१॥कृपालुकुलमौलिना सपदि येन सम्पत्तथा वनीयकमनीयतापदतनूरुचिन्तापदम् ।शितिक्षितिमहेन्द्र हे शरण शून्यताशालिनां गणे सुरतरूपमोचितमहे भवं ध्यायताम् ॥ २२॥श्रियं च सुहृदे ददद्वितरसन्मतिं भूपजा- ङ्गणे सुरतरूपमोचितमहे भवं ध्यायताम् ।जबाधरदरस्मितं मुखरुचा महेन्द्रप्रभा- करम्बिततमालसारसदृगन्तरं गाहताम् ॥ २३॥दिशं विरचयन्महो विपुलबाहुपुष्पावली करम्बिततमालसारसदृगन्तरं गाहताम् ।अरे हृदय यः सुधारसनिधानवेणुध्वनि वनेजनयनाशयातनुतनुतराधिकारङ्गदम् ॥ २४॥तमीक्षणनटं सकृत्तटवतीशतीरस्थली वनेजनयनाशयातनुतराधिकारङ्गदम् ।प्रपन्नपरिपालने पतितपावने पाटवी पवित्रपदपङ्करुटपतनपूतपाषाणकम् ॥ २५॥पयरसुपरिपन्थिपीडितपदः स पाता प्रभुः प्रियं प्रतनपूरुषः परमपुण्यदः पूरयेत् ।महेन्द्रमणिमञ्जुतां मलिनयन् महोमण्डलैः मनोहरमहामहामधुरमर्मणां मर्दनः ।महीध्रमयमन्दिरो मनुजमत्ततामञ्जरी मधुर्मथनकृन्मथोर्मसृणयेन्मदीयां मतिम् ॥ २६॥उदञ्चितसमुच्चकोरकरुचिप्रसूनस्मितं- स्फुरत्तरलतातिखेलदलकान्तभालास्यभृत् ।स्वरूपमिह ते न कः प्रकटवासवेलावने जजल्प कुशलान्यनल्पय मुकुन्द कल्पद्रुम ॥ २७॥सुधारसमयोदयं मुहुरुदञ्चयन् यः स्वरू- पलक्षणरुचिच्छटापटिमपूरिताशातटः ।धनाञ्जनरुचिं दधाति बहुधा नवैराश्रितो महोभिरनिशं दिशेत् कुशलमम्बुजाक्षोऽम्बुदः ॥ २८॥अरङ्कुधरधामवन्नरजनीमहोल्लासभृ- त्कलापचयपूर्णविग्रहमहः श्रिया भास्वरम् ।नकैरवगतां मुदं दिशति यन्नदीनोदये पराङ्मुखमहं भजेऽद्भुतसुधानिधिं धाम तत् ॥ २९॥अनुक्षणरसार्द्रतां सृजति यो यदीयं वल- द्विनोदकमलं वपुः कलयतोऽपि यस्योदयः ।न चन्द्रकिरणोच्चतामपि च ताडितालोकस- न्तनिर्यमनुमोदिता स्मर तमद्भुताम्भोधरम् ॥ ३०॥तुलानवसरोजबानवमरो जवामौष्ठदृ- ग्घनाञ्जनकलापगञ्जनकलापगर्हच्छविः ।भुजायुगमहोकचायुगसहोरुचातुर्यभा- ग्भुजन्मदवलम्बतां मदबलं दृढार्तेर्हरेत् ॥ ३१॥भविष्यदरुणानुजध्वजवियोगचिन्ताशुचो विभिन्नशितशैलभृद्गलितरक्तधारोपमम् ।शिवं दिशतु नीलभूधरविलग्नसोपानभू- पतद्बहलतूलतुन्दिलविशालशोणांशुकम् ॥ ३२॥हृदामितरवृत्तिभिः सह विधूतमूर्तिक्षणं समं कमलकोरकाकृतिकरैरुदस्तं ततः ।स्खलत्तदनुपीठतः सह सहस्रनेत्रोदकैः क्रियात् किमपि मन्महः श्रियमनारतं तन्महः ॥ ३३॥नदेशनिनदाधिपल्लवितलोककोलाहला स्फुटार्तिविनिवेदनाश्रवणसावधानः किमु ।सलीलसवनस्थलीगमनकौतुकोपक्रमे तिरोवलितकन्धरो धरधुरन्धरोऽस्तु श्रियै ॥ ३४॥जगद्विहरणोचितस्वतनुसङ्गहासाङ्गतो- तरङ्गरुचिरङ्गससङ्ग्रहविधित्सया किं धुतः ।गमोत्सवसमुत्सुको द्यतुमहं ह सारंहसा बलान्यधवलावनीधरवनीवसन्तो विभुः ॥ ३५॥प्रमोदजलधौ निमज्जति मनो जलार्द्रा दृशः कदम्बकुसुमश्रियं हरति वर्ष्म बद्धोऽञ्जलिः ।प्रधावति जयध्वनिर्निपतितं शिरोभूषणे स कोऽपि समयः क्रियादिति चरित्रचित्रः श्रियम् ॥ ३६॥पुरा परिचितेतरप्रणयचातुरीं कस्यचि- न्मतिं नवकुमुद्वतीमभिलषन्तमालिङ्गितुम् ।वहन्तमवरोहणं किमु कलाकरं तं भजे शितिक्षितिधरः स्खलद्विपुलगण्डशैलोपमम् ॥ ३७॥शनैरतुसरत्तरप्रमदवारिपूरेक्षण- प्रमुक्तजनतेक्षगप्रकरसानुरोधः किमु ।स्वकीयचरणद्वयीविहरमाणभक्ताशय- व्यथालवविशङ्कितः किमु मृदु ब्रजन् पातु सः ॥ ३८॥अनाथजनतार्पितं भरणभारमाविर्भव- त्कृपादरमुपादेत् किमु विलासयात्रालसम् ।दरोदितशिरोनतिः क्वचन चारु गारुत्मत- प्रभालधिनकारु तद्भवतु दारु कारुण्यभाक् ॥ ३५॥विपन्नजनतावनप्रचुरधावनत्रासतः सदारतिकरक्षणव्यतिकरस्पृहोल्लासतः ।विलम्बमवलम्ब्य चुम्बति नितान्तधीरागति- र्यदीयपदसारसं समदसारसङ्गं हरेत् ॥ ४०॥विधूतिमभितो दधद्बहुविधां मुहुर्मादृशा- मनुद्धरणदुर्दमाद्बहलदुर्यशःकर्दमात् ।समुद्धृतिविधानकृन्मुरहरस्य लोकोत्तरो जयत्यतितरां हरेरपि हरेः प्रयाणोत्सवः ॥ ४१॥मुहुः परिजनोत्करैर्धृतगुणैः कृताकर्षणो नरप्रकरवीक्षितः सकरतारकोलाहलः ।गृहीततनुरुत्तरैरलसयानशीलोऽवतु ब्रजेशपुरनागरीवसनतस्करो दुष्कृतात् ॥ ४२॥सुखाम्बुधिगभीरतावकलनादिवोर्ध्वस्फुर । द्भुजाधिविनिवेदनाप्रवणलोकसन्तानकम् ।मृदङ्गरवरङ्गतुङ्गिमतरङ्गिघण्टारवं भजे पशुपदारदृक्पतनपात्रयात्रोत्सवम् ॥ ४३॥महीतलमहो जगद्विजयवादिनिःसाणज- प्रणादभरनिर्भरभ्रमधुरीणसन्नाहिनम् ।भजे चलपरेतराट्पतितराज्यधैर्याचल- स्खलत्पृथुशिलारवप्रतिममङ्घ्रिघोष हरेः ॥ ४४॥स्वतः प्रसरणोत्सुकामरुणचेलभामेलना- दश‍ृङ्खलितखेलितां नवसुधांशुधारोन्मदाम् ।विधूननपम्परोदयविधूतसाम्यासनां भजामि वदनद्युतिं मदनमोहनस्य प्रभोः ॥ ४५॥करोद्धरणवाञ्छया करिवरस्य गाढत्वचा- वगाढसरसीमिलन्मलिनकण्टकैः पीडनम् ।नतोन्नतनिजाङ्गजङ्गमतयेव संसूचय- न्युपाधिविगलत्कृपानदनृपालपादोऽवतात् ॥ ४६॥कनत्किसलयावलीसुललितप्रभारामव- न्नवारुणरुचारुणेक्षणविपत्त्रियामान्तवत् ।महेन्द्रमणिमानसम्पदणिमानमानर्तय- ज्जयत्यतिलसज्जवाविजयसन्जवासो महः ॥ ४७॥वपुर्लवणिमोर्मिषु प्रतिफलन्निजास्यप्रभा- वलोकनबलोत्थिता मम विमोहिता नोहिता ।भवेदिह महाधमोद्धरणपात्रयात्रोदये मुरारिरिति चिन्तयन् किमु समावृताङ्गोऽवतात् ॥ ४८॥अये हरिपदद्वये हृदयखेलदेलातिगं तदीययुगपद्गतौ बत कुतो विमर्शस्तवः ।यतस्तदपदोषमानसपदं वदन्ति त्वया विमृश्यमिदमेव यद्भवति विभ्रमश्रीर्गतिः ॥ ४९॥मुकुन्दमुखवापिकाजगदपूर्वलक्ष्मीसमु- द्नमाग्रसरबुद्बुदप्रतिममिन्दुबिन्दुव्रजम् ।प्रफुल्लतरमुल्लसद्भुवनमोहवल्लीनव- प्रसूनवलयभ्रमं प्रबलयन्तमन्तर्भजे ॥ ५०॥दुरापरमणीयमारमणवक्त्रकान्तिच्छटा- वलोकनवलोभतः किमु शिरस्तटोर्ध्वं गता ।मदीयनयनायनीभवतु कापि यात्रोत्सवो- त्सुकस्य परमेशितुश्चरमचुम्बिनी पट्टिका ॥ ५१॥जनार्दनदृशोर्भृशोल्लसितपुण्डरीकोत्करा- धिराज्यगरिमोपरि स्फुरितचामरोड्डामराम् ।भजे फणिफटाच्छटानटललाटसीम्नि भ्रुवोः स मां विलसितामनाविलसिताभ्ररेखाद्वयीम् ॥ ५२॥हरेर्गमननिस्वनैः शमनयातनानिःसर- न्मुरारिपुरसम्मुखप्रबलपापिनां विघ्नदौ ।विघातविनिवारणं निगदितुं किमु द्वाःस्थितौ विहायसि विहारदृक् क्वचन चक्रभृत् पातु नः ॥ ५३॥नृलोकविषदोल्लसत्सुकृतजालबद्धं बहि- र्गतं श्रुतिशिरोऽम्बुधेः किमपि रत्नमभ्रप्रभम् ।महीपटतटस्थलीललितलोचनालङ्क्रिया प्रियाणि च फलं क्रियाद्वसनदामनद्धो हरिः ॥ ५४॥ललाटतटभूनदपटुकृरग्टकनकदल- न्नवीनशतपर्विकास्तबकमिन्दुबिन्दुत्विवाम् ।तरङ्गनिकरं गतावधिमधिश्रयद्विस्मृतं प्रयातु वदनं न कम्पवदनन्तशोभाम्बुधः ॥ ५५॥गमक्रमकुतूहली क्व च दधद्ममी विभ्रमी समुद्धटितभङ्गिमन्दिरकपाटवरपाटवम् ।गुणालयमृणालिनीकुसुमकान्तिकीर्ति श्रिया- मनध्ययनलोचनः कलुषमोचनं नः क्रियात् ॥ ५६॥नखद्युतिविलासवैभवलवार्थिकोटिक्षयां करप्रकरमाधुरीपदनिपातदैन्यग्रहात् ।ध्रुवं म्रदिमशालिसुन्दरगतिर्गतिर्मादृशां दृशा विशदपुष्कर द्युतितिरस्क्रियादुष्करः ॥ ५७॥अगाधनिजमाधुरीधृतनिमञ्जनायाः श्रुतेः विकर्षणवशादिवोत्तरलमौलिभिर्मानवैः ।गृहीतमरिजैत्रयात्रिकमिवाखिलाशाचरं भजे मुरजयि क्षणे मुरजघण्टिकानिस्वनम् ॥ ५८॥निमेषकणिकाविपद्युवतिदर्शनं दुष्क्रिया- द्विषन्विविधविभ्रमो नृपचमुर्जुगप्सास्पदम ।यदन्यदखिलं तदप्यपथमेव यस्मिन् दृशो- र्मुकुन्दवदनस्पृशोः स समयोस्तु नः श्रेयसे ॥ ५९॥विलोकितमितस्ततो विरचयग्निवान्वेषय- न्ननाकलितमादृशः किमु नताननो लज्जया ।मदीयपतितावलीनृपतितासहस्रासहा सहस्रदलदा ? सर्षदविलोचनः सम्भवेत् ॥ ६०॥मुहुर्मथितलोचनोच्चयविषादचक्रं चर- त्तमालतरुमस्तकोत्थितसिताब्जमत्यद्भुतम् ।चलद्दलितकज्जलद्युतिमुरारिमौलौ मिल- त्त्विषा धवलदीधितेः प्रबलमातपत्रं भजे ॥ ६१॥चलन्नृहरिभूतिवैभववनीसमुद्भेदव- न्महाद्भुतमहीरहबृहत्पलाशोपमम् ।स्मरामि दियदुन्मुखं किमपि मण्डलाकारभृ- त्पटेन घटनाद्धनाघनघटानिभेनोद्भटम् ॥ ६२॥परेतपृतनापतिः पतितमण्डले चण्डता- मखण्डबहुदण्डदां प्रकटरान यदाकर्णनम् ।गतेषु पतितेषु पूजनजनम्रतासम्भ्रमं त्रपाबहलमावहत् स हृदि गाहतां काहलः ॥ ६३॥धनांशुमघनाशिनाकृतिघनाघनाडम्बरं विलोक्य विहितप्रडीनगतयोऽगतीनां गतेः ।दृगम्बुजविहारलोभत इवापतन्तः स्थित- च्छदाश्चलदुपर्यधो जयति चामराणां कुलम् ॥ ६४॥प्रहारशकलीभवन्नमुचिवैरिकैरोटभू- जुटन्मणिगणोच्चलत्तरझणक्रियामांसलः ।पलायनपरायणव्यसनवारहाहारवा- नवाप्य कलितोन्नतिर्जयति कोऽपि वेत्रध्वनिः ॥ ६५॥जगत्त्रितयभानकृद्यदुकुलप्रदीपप्रभा- प्रभासनसमुद्भवस्मयरसादिवोद्ग्रीवताम् ।गतैः किल शिखाशतैर्घनतमास्तमाघस्मराः स्मरामि धरणीपतेः सरणिदीपिका दीपिकाः ॥ ६६॥रसास्थितिवशाकृपानिधिकृपाकटाक्षास्पदं ततो विधिबलावरजमौलिसीमां गतः ।अनाप्तजलजाक्षवीक्षणलवस्तदाकाङ्क्षया विनम्रवदनोघटस्त्रुटितजीवनः पातु नः ॥ ६॥शरद्विमलकौमुदीमयमहीमहाह्लादभू- धरोपरि परिस्फुटामृतझरीव लीलावहा ।सुधाधरणिरोहणत्रिजगतीमनोमोहनो- त्तमाङ्गतलनिर्गलत्सलिलनिर्झरी पातु नः ॥ ६८॥स्वजातकुसुमस्त्रजामसमभावलावण्यकृ- न्मुरारिमुखहक्पदाम्बुजसमुच्चलश्रीलवः ।अवाप्तुमिव माधवाननविलोचनाङ्घ्रिद्वय- क्रमभ्रमणविभ्रमप्रियमदभ्रमम्भः क्रियात् ॥ ६९॥मुखेन्दुमथ लोचनं स्वसुतवैरिभावान्निजा धिपाभरणलोहितोपलकुलश्रियो लुण्टनात् ।स्वशैत्यविजयाद्रदच्छदहृदोश्च सीमेत्यज- द्भजद्भुवनपावनं चरणमम्बु विष्णोर्जयेत् ॥ ७०॥वहन्तमलमम्बुदं स्ववहनाधिकस्निग्धतां पपौ दलितकालियो ललितकालिमाडन्बरैः ।रुषेत्वपनयत्पयोजनयनस्य नैल्यं मुहुः पयो जनयतु प्रियाण्यनयतुष्टिभाजो मम ॥ ७१॥निपीय वदनाम्बुजोदरमरन्दवृन्दं हरेः पदाब्जमधुलालसागतमिलिन्दमाला किमु ।विधौतमुखवर्णकैः शितिपुषां पयोविनुषां ततः सपदि पातु काचन कृपालुतः पातुका ॥ ७२॥जगत्त्रितयचित्तमोहनमनुपदेशाय किं कपोलतलचुम्बिनः कति च केचन श्रीपतेः ।विलोचनपिधायकाः किमतिलुण्ठनाय श्रियां दिशन्तु मदनामयं वदनवारिपूरा हरेः ॥ ७३॥कचिद्द्रुतगतिश्रियो हृदयचौर्यभीता इव क च स्थिरतरा जगन्नयनरुद्धमार्गा इव ।दिशन्तु मम सन्ततं स्खलनशोभिताम्भोधिजा- धिवास्यशरदिन्दवः कुशलमम्भसां बिन्दवः ॥ ७४॥लसद्वसनदामसन्नहनयन्त्रणानर्गल- स्खलत्कमललोचनाननसुधांशुपीयूषवत् ।मिलन्मलयसम्भवद्रवकदम्बवल्गुच्छवि च्छिनत्तु दुरितामयं किमपि वारिधारामयम् ॥ ७५॥विलोचनविलुण्ठितामृतमुखालयोद्घाटना- तटद्वयनटद्विशङ्कटकवाटयुग्मोपमम् ।भजाम्यभिषवोत्सवोत्तरतरङ्गिकेलीकर- क्रियस्य कमलाकरग्रहकरस्य कर्णद्वयीम् ॥ ७६॥धनः क्वगतमात्मनो मदमदभ्रमाहूतवान् परेतसदृशि द्युतौ प्रतिकरोति पाथोरहम् ।रसातलगतं विधुर्मधुरिमाणमाकृष्टवान् यदङ्गनयनाननावरणतः स्वपन् पातु सः ॥ ७७॥अखण्डसुखसम्पदानयनयोः शितिक्षमाधर- स्थलीसुषमया निशारतिगुरोर्विषादश्रिया ।समं समदमुत्थितः प्रभुरभूतपूर्वं क्रियात् कृपाविपुलसम्पुटप्रतिमदृष्टिरिष्टं मम ॥ ७८॥प्लवप्रवररामणीयक इवाभिलुब्धोत्थितं सुधामयमरीचिमण्डलपिचण्डमध्यात् किमु ।घनप्रमदमर्मतः किमु समुद्धृतं शर्म तत् करोतु करुणानिधेरभिनवाक्षियुग्मं गम ॥ ७९॥अनादृतजगस्थितेर्निजरथैकवासोद्वल- त्कलेश्च रुचिसन्ततेः स्वरथसन्निवेशावनीम् ।विमृश्य विभजद्धृवं रथतटभ्रमीविभ्रमि क्रियान्मुहुरदभ्रमिष्टचयमभ्रमित्रं महः ॥ ८०॥मनोवचनयोगिचिन्तनपरिच्युतश्रीधरा- धिरोहणमहोत्सवोन्नतनिमित्ततां दर्शयन् ।तुलामुचि रुचिच्छटापटिमविक्रियात्पातक- व्यथाहररथाङ्गभृन्मम मनोरथानश्लथान् ॥ ८१॥रथो मुरहरत्विषा विकसता विलासेन सा सलोचनचयेन सप्रमदसम्भवेनाम्भसा ।तदप्यमितवीचिभिर्गहनतां जगाहे यतः स तर्पयतु दर्पहृत् कलिमलस्य कोऽपि क्षणः ॥ ८२॥स्वकीयसुरनिम्नगाप्रभृतिलीर्थराजीनृपा- भिषेकमुकुटं शिरस्यसितशैलचूडामणिम् ।अधोऽप्यमरधोरणीमुकुटधाटिकामावह- द्रथोपरि परिस्फुटं किमपि पीठमन्तर्दधे ॥ ८३॥हरेर्यदभवत्त्विषां भुवि तदेव तादृक् पुन- र्वदेन्ननु वदेन्न तद्यदभवद्रथारोहणे ।विलोचनचयोत्कथोपरि विभावयत्तच्च किं शुभानि यदिदंविधं तदनिशं विधत्तां महः ॥ ७४॥किमद्रवमयी सुधा न धवलाकृतिश्चन्द्रिका न बिन्दुपतनान्विता प्रमदवृष्टिरत्युन्नता ।शताङ्गमधिरोहतः स्फुरतु कापि केलीमन- स्तटे तटविटप्यधः स्फुटकृटी नटस्य प्रभोः ॥ ८५॥विकीर्ण इव कुत्रचित् कचन दुर्मदोर्मिक्रमः क्व

Shri Kaviraja Stuti: श्रीकविराजस्तुतिः Read More »

Krishnamangalam

EkAkSharakRiShNamantram:एकाक्षरकृष्णमन्त्रम्

EkAkSharakRiShNamantram:एकाक्षरकृष्णमन्त्रम् ॐ पूर्णज्ञानात्मने हृदयाय नमः ।ॐ पूणैश्वर्यात्मने शिरसे स्वाहा ।ॐ पूर्णपरमात्मने शिखायै वषट् ।ॐ पूर्णानन्दात्मने कवचाय हुं ।ॐ पूर्णतेजात्मने नेत्राभ्यां वौषट् ।ॐ पूर्णशक्त्यात्मने अस्त्राय फट् ।इति दिग्बन्धः ॥एकाक्षर श्रीकृष्णमहामन्त्रस्य -ब्रह्मा ऋषिः – निचृत् गायत्री छन्दः – श्रीकृष्णो देवता -श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥ध्यानम्ध्यायेद्धरिं मणिनिभं जगदेकवन्द्यं सौन्दर्यसारमरिशङ्खवराभयानि ।दोर्भिर्दधानमजितं सरसं सभैष्मी-सत्यासमेतमखिलप्रदमिन्दिरेशम् ॥मूलमन्त्रं ॐ – क्लीं – ॐइति एकाक्षरकृष्णमन्त्रं सम्पूर्णम् ।

EkAkSharakRiShNamantram:एकाक्षरकृष्णमन्त्रम् Read More »

Krishnamangalam

एकश्लोकी भागवतम्: ekashlokI bhAgavatam

एकश्लोकी भागवतम्:ekashlokI bhAgavatam आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम् मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ।कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम् एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् । इति श्रीभागवतसूत्र ॥ Shri Krishna’s charitam in short is that he is Devaki’s son, Gopi’s admiration, Putana’s killer, holder of Govardhan Giri, slayer of Kansa, destroyer of Kauravas, protector of Kunti’s sons and the central figure of Srimad Bhagavata PurAnam.

एकश्लोकी भागवतम्: ekashlokI bhAgavatam Read More »

Krishnamangalam

Utkalikavallarih: उत्कलिकावल्लरीः

Utkalikavallarih: उत्कलिकावल्लरीः श्रीवृन्दारण्यविहारिणे नमः । प्रपद्य वृन्दावनमध्यमेकः क्रोशन्नसावुत्कलिकाकुलात्मा । उद्घाटयामि ज्वलतः कठोरां बाष्पस्य मुद्रां हृदि मुद्रितस्य ॥ १॥ अये वृन्दारण्य त्वरितमिह ते सेवनपराः परामापुः के वा न किल परमानन्दपदवीम् । अतो नीचैर्याचे स्वयमधिपयोरीक्षणविधे- र्वरेण्यां मे चेतस्युपदिश दिशं हा कुरु कृपाम् ॥ २॥ तवारण्ये देवि ध्रुवमिह मुरारिपोर्विहरते सदा प्रेयस्येति श्रुतिरपि विरौति स्मृतिरपि । इति ज्ञात्वा वृन्दे चरणमभिवन्दे तव कृपां कुरुष्व क्षिप्रं मे फलतु नितरां तर्षविटपी ॥ ३॥ हृदि चिरवसदाशामण्डलालम्बपादौ गुणवति तव नाथौ नाथितुं जन्तुरेषः । सपदि भवदनुज्ञां याचते देवि वृन्दे मयि किर करुणार्द्रां दृष्टिमत्र प्रसीद ॥ ४॥ दधतं वपुरंशुकन्दलीं दलदिन्दीवरवृन्दबन्धुराम् । कृतकाञ्चनकान्तिवञ्चनैः स्फुरितां चारुमरीचिसञ्चयैः ॥ ५॥ निचितं घनचञ्चलातते- रनुकूलेन दुकूलरोचिषा । मृगनाभिरुचः सनाभिना महितां मोहनपट्टवाससा ॥ ६॥ माधुरीं प्रकटयन्तमुज्ज्वलां श्रीपतेरपि वरिष्ठसौष्ठवाम् । इन्दिरामधुरगोष्ठसुन्दरी वृन्दविस्मयकरप्रभोन्नताम् ॥ ७॥ इतरजनदुर्घटोदयस्य स्थिरगुणरत्नचयस्य रोहणाद्रिम् । अखिलगुणवतीकदम्बचेतः प्रचुरचमत्कृतिकारिसद्गुणाढ्यम् ॥ ८॥ निस्तुलव्रजकिशोरमण्डली मौलिमण्डनहरिन्मणीश्वरम् । विश्वविस्फूरितगोकुलोल्लसन् नव्ययौवतवतंसमालिकाम् ॥ ९॥ स्वान्तसिन्धुमकरीकृतराधं हृन्निशाकरकुरङ्गितकृष्णाम् । प्रेयसीपरिमलोन्मदचित्तं प्रेष्ठसौरभहृतेन्द्रियवर्गाम् ॥ १०॥ प्रेममूर्तिवरकार्त्तिकदेवी कीर्तिगानमुखरीकृतवंशम् । विश्वनन्दनमुकुन्दसमज्ञा वृन्दकीर्तनरसज्ञरसज्ञाम् ॥ ११॥ नयनकमलमाधुरीनिरुद्ध व्रजनवयौवतमौलिहृन्मरालम् । व्रजपतिसुतचित्तमीनराज ग्रहणपटिष्ठविलोचनान्तजालाम् ॥ १२॥ गोपेन्द्रमित्रतनयाध्रुवधैर्यसिन्धु पानक्रियाकलससम्भववेणुनादम् । विद्यामहिष्ठमहतीमहनीयगान सम्मोहिताखिलविमोहनहृत्कुरङ्गाम् ॥ १३॥ क्वाप्यानुसङ्गिकतयोदितराधिकाख्या विस्मारिताखिलविलासकलाकलापम् । कृष्णेतिवर्णयुगलश्रवणानुबन्ध प्रादुर्भवज्जडिमडम्बरसंविताङ्गीम् ॥ १४॥ त्वां च वल्लवपुरन्दरात्मज त्वां च गोकुलवरेण्यनन्दिनि । एष मूर्ध्नि रचिताञ्जलिर्नयन् भिक्षते किमपि दुर्भगो जनः ॥ १५॥ हन्त सान्द्रकरुणासुधाझरी पूर्णमानसह्रदौ प्रसीदतम् । दुर्जनेऽत्र दिशतं रते निज प्रेक्षणप्रतिभुवश्छटामपि ॥ १६॥ श्यामयोर्नववयःसुषमाभ्यां गौरयोरमलकान्तियशोभ्याम् । क्वापि वामखिलवल्गुवतंसौ माधुरी हृदि सदा स्फुरतान् मे ॥ १७॥ सर्ववल्लववरेण्यकुमारौ प्रार्थये बत युवां प्रणिपत्य । लीलया वितरतं निजदास्यं लीलया वितरतं निजदास्यम् ॥ १८॥ प्रणिपत्य भवन्तमर्थये पशुपालेन्द्रकुमार काकुभिः । व्रजयौवतमौलिमालिका करुणापात्रमिमं जनं कुरु ॥ १९॥ भवतीमभिवाद्य चाटुभि- र्वरमूर्जेश्वरि वर्यमर्थये । भवदीयतया कृपां यथा मयि कुर्यादधिकां बकान्तकः ॥ २०॥ दिशि विदिशि विहारमाचरन्तः सह पशुपालवरेण्यनन्दनाभ्याम् । प्रणयिजनगणास्तयोः कुरुध्वं मयि करुणां बत काकुमाकलय्य ॥ २१॥ गिरिकुञ्जकुटीरनागरौ ललिते देवि सदा तवाश्रवौ । इति ते किल नास्ति दुष्करं कृपयाङ्गीकुरु मामतः स्वयम् ॥ २२॥ भाजनं वरमिहासि विशाखे गौरनीलवपुषोः प्रणयानाम् । त्वं निजप्रणयिनोर्मयि तेन प्रापयस्व करुणार्द्रकटाक्षम् ॥ २३॥ सुबल वल्लववर्यकुमारयो- र्दयितसखस्त्वमसि व्रजे । इति तयोः पुरतो विधुरं जनं क्षणममुं कृपयाद्य निवेदय ॥ २४॥ श‍ृणुत कृपया हन्त प्राणेशयोः प्रणयोद्धुराः किमपि यदयं दीनः प्राणी निवेदयति क्षणम् । प्रवणितमनाः किं युष्माभिः समं तिलमप्यसौ युगपदनयोः सेवां प्रेम्णा कदापि विधास्यति ॥ २५॥ क्व जनोऽयमतीव पामरः क्व दुरापं रतिभाग्भिरप्यदः । इयमुल्लयत्यजर्जरा गुरु- रुत्तर्षधुरा तथापि माम् ॥ २६॥ ध्वन्तब्रह्ममरालकूजितभरैरूर्जेश्वरीनूपुर क्वानैरूर्जितवैभवस्तव विभो वंशीप्रसूतः कलः । लब्धः शस्तसमस्तनादनगरीसाम्राज्यलक्ष्मीं परां आराध्यः प्रणयात् कदा श्रवणयोर्द्वन्द्वेन मन्देन मे ॥ २७॥ स्तम्भं प्रपञ्चयति यः शिखिपिञ्छमौलि वेणोरपि प्रवलयन् स्वरभङ्गमुच्चैः । नादः कदा क्षणमवाप्स्यति ते महत्या वृन्दावनेश्वरि स मे श्रवणातिथित्वम् ॥ २८॥ कस्य सम्भवति हा तदहर्वा यत्र वां प्रभुवरौ कलगीतिः । उन्नमन् मधुरिमोर्मिसमृद्धा दुष्कृतं श्रवणयोर्विधुनोति ॥ २९॥ परिमलसरणिर्वां गौरनीलाङ्गराजन् मृगमदघुसृणानुग्राहिणी नागरेशौ । स्वमहिमपरमाणुप्रावृताशेषगन्धा किमिह मम भवित्री घ्राणभृङ्गोत्सवाय ॥ ३०॥ प्रदेशिनीं मुखकुहरे विनिक्षिपन् जनो मुहुर्वनभुवि फुत्करोत्यसौ । प्रसीदतं क्षणमधिपौ प्रसीदतं दृशोः पुरः स्फुरतु तडिद्घनच्छविः ॥ ३१॥ व्रजमधुरजनव्रजावतंसौ किमपि युवामभियाचते जनोऽयम् । मम नयनचमत्कृतिं करोतु क्षणमपि पादनखेन्दुकौमुदी वाम् ॥ ३२॥ अतर्कितसमीक्षणोल्लसितया मुदा श्लिष्यतो- र्निकुञ्जभवनाङ्गने स्फुरितगौरनीलाङ्गयोः । रुचः प्रचुरयन्तु वां पुरटयूथिकामञ्जरी विराजदलिरम्ययोर्मम चमत्कृतिं चक्षुषोः ॥ ३३॥ साक्षात्कृतिं बत ययोर्न महत्तमोऽपि कर्तुं मनस्यपि मनाक् प्रभुतामुपैति । इच्छन्नयं नयनयोः पथि तौ भवन्तौ जन्तुर्विजित्य निजगार भियं ह्रियं च ॥ ३४॥ अथवा मम किं नु दूषणं बत वृन्दावनचक्रवर्तिनौ । युवयोर्गुणमाधुरी नवा जनमुन्मादयतीव कं न वा ॥ ३५॥ अहह समयः सोऽपि क्षेमो घटेत नरस्य किं व्रजनटवरौ यत्रोद्दीप्ता कृपासुधयोज्ज्वला । कृतपरिजनश्रेणिचेतश्चकोरचमत्कृति- र्व्रजति युवयोः सा वक्त्रेन्दुद्वयी नयनाध्वनि ॥ ३६॥ प्रियजनकृतपार्ष्णिग्राहचर्योन्नताभिः सुगहनघटनाभिर्वक्रिमाडम्बरेण । प्रणयकलहकेलिक्ष्वेलिभिर्वामधीशौ किमिह रचयितव्यः कर्णयोर्विस्मयो मे ॥ ३७॥ निभृतमपहृतायामेतया वंशिकायां दिशि दिशि दृशमुत्कां प्रेर्य सम्पृच्छमानः । स्मितशवलमुखीभिर्विप्रलब्धः सखीभि- स्त्वमघहर कदा मे तुष्टिमक्ष्णोर्विधत्से ॥ ३८॥ क्षतमधरदलस्य स्वस्य कृत्वा त्वदाली कृतमिति ललितयां देवि कृष्णे ब्रुवाणे । स्मितशवलदृगन्ता किञ्चिदुत्तम्भितभ्रू- र्मम मुदमुपधास्यत्यास्यलक्ष्मीः कदा ते ॥ ३९॥ कथमिदमपि वाञ्छितुं निकृष्टः स्फुटमयमर्हति जन्तुरुत्तमार्हम् । गुरुलघुगणनोज्झितार्तनाथौ जयतितरामथवा कृपाद्युतिर्वाम् ॥ ४०॥ वृत्ते दैवाद् व्रजपतिसुहृन्नन्दिनीविप्रलम्भे संरम्भेणोल्ललित ललिताशङ्कयोद्भ्रान्तनेत्रः । त्वं शारीभिः समयपटुभिर्द्राग् उपालभ्यमानः कामं दामोदर मम कदा मोदमक्ष्णोर्विधाता ॥ ४१॥ रासारम्भे विलसति परित्यज्य गोष्ठाम्बुजाक्षी वृन्दं वृन्दावनभुवि रहः केशवेनोपनीय । त्वां स्वाधीनप्रियतमपदप्रापणेनार्चिताङ्गीं दूरे दृष्ट्वा हृदि किमचिरादर्पयिष्यामि दर्पम् ॥ ४२॥ रम्या शोणद्युतिभिरलकैर्यावकेनोर्जदेव्याः सद्यस्तन्द्रीमुकुलदलसक्लान्तनेत्रा व्रजेश । प्रातश्चन्द्रावलीपरिजनैः साचि दृष्टा विवर्णै- रास्यश्रीस्ते प्रणयति कदा सम्मदं मे मुदं च ॥ ४३॥ व्यात्युक्षीरभसोत्सवेऽधरसुधापानग्लहे प्रस्तुते जित्वा पातुमथोत्सुकेन हरिणा कण्ठे धृतायाः पुरः । ईषच्छोणिममीलिताक्षमनृजुभ्रूवल्लिहेलोन्नतं प्रेक्षिष्ये तव सस्मितं सरुदितं तद् देवि वक्त्रं कदा ॥ ४४॥ आलीभिः सममभुपेत्य शनकैर्गान्धर्विकायां मुदा गोष्ठाधीशकुमार हन्त कुसुमश्रेणीं हरन्त्यां तव । प्रेक्षिष्ये पुरतः प्रविश्य सहसा गूढस्मितास्यं बलाद् आच्छिन्दानमिहोत्तरीयमुरसस्त्वां भानुमत्याः कदा ॥ ४५॥ उदञ्चति मधूत्सवे सहचरीकुलेनाकुले कदा त्वमवलोक्यसे व्रजपुरन्दरस्यात्मज । स्मितोज्ज्वलमदीश्वरीचलदृगञ्चलप्रेरणान् निलीनगुणमञ्जरीवदनमत्र चुम्बन् मया ॥ ४६॥ कलिन्दतनयातटिवनविहारतः श्रान्तयोः स्फुरन्मधुरमाधवीसदनसीम्नि विश्राम्यतोः । विमुच्य रचयिष्यते स्वकचवृन्दमत्रामुना जनेन युवयोः कदा पदसरोजसन्मार्जनम् ॥ ४७॥ परिमिलदुपबर्हं पल्लवश्रेणिभिर्वां मदनसमरचर्याभारपर्याप्तमत्र । मृदुभिरमलपुष्पैः कल्पयिष्यामि तल्पं भ्रमरयुजि निकुञ्जे हा कदा कुञ्जराजौ ॥ ४८॥ अलिद्युतिभिराहृतैर्मिहिरनन्दिनीनिर्झरात् पुरः पुरटझर्झरीपरिभृतैः पयोभिर्मया । निजप्रणयिभिर्जनैः सह विधास्यते वां कदा विलासशयनस्थयोरिह पदाम्बुजक्षालन ॥ ४९॥ लीलातल्पे कलितवपुषोर्व्यावहासीमनल्पां स्मित्वा स्मित्वा जयकलनया कुर्वतोः कौतुकाय । मध्ये कुञ्जं किमिह युवयोः कल्पयिष्याम्यधीशौ सन्धारम्भे लघु लघु पदाम्भोजसंवाहनानि ॥ ५०॥ प्रमदमदनयुद्धारम्भसम्भावुकाभ्यां प्रमुदितहृदयाभ्यां हन्त वृन्दावनेशौ । किमहमिह युवाभ्यां पानलीलोन्मुखाभ्यां चषकमुपहरिष्ये साधु माध्वीकपूर्णम् ॥ ५१॥ कदाहं सेविष्ये व्रततिचमरीचामरमरुद् विनोदेन क्रीडाकुसुमशयने न्यस्तवपुषौ । दरोन्मीलन्नेत्रौ श्रमजलकणक्लिद्यदलकौ ब्रुवाणावन्योन्यं व्रजनवयुवानाविह युवाम् ॥ ५२॥ च्युतशिखरशिखण्डं किञ्चिदुत्स्रंसमानां विलुठदमलपुष्पश्रेणिमुन्मुच्य चूडाम् । दनुजदमन देव्याः शिक्षया ते कदाहं कमलकलितकोटिं कल्पयिष्यामि वेणीम् ॥ ५३॥ कमलमुखि विलासैरंसयोः स्रंसितानां तुलितशिखिकलापं कुन्तलानां कलापम् । तव कवरतयाविर्भाव्य मोदात् कदाहं विकचविचकिलानां मालयालङ्करिष्ये ॥ ५४॥ मिथःस्पर्धाबद्धे बलवति वलत्यक्षकलहे व्रजेश त्वां जित्वा व्रजयुवतिधम्मिल्लमणिना । दृगन्तेन क्षिप्ताः पणमिह कुरङ्गं तव कदा ग्रहीष्यामो बद्धा कलयति वयं तत्प्रियगणे ॥ ५५॥ किं भविष्यति शुभः स वासरो यत्र देवि नयनाञ्चलेन माम् । गर्वितं विहसितुं नियोक्ष्यसे द्यूतसंसदि विजित्य माधवम् ॥ ५६॥ किं जनस्य भवितास्य तद् दिनं यत्र नाथ मुहुरेनमादृतः । त्वं व्रजेश्वरवयस्यनन्दिनी मानभङ्गविधिमर्थयिष्यसे ॥ ५७॥ त्वदादेशं शारीकथितमहमाकर्ण्य मुदितो वसामि त्वत्कुण्डोपरि सखि विलम्बस्तव कथम् । इतीदं श्रीदामस्वसरि मम सन्देशकुसुमं हरेति त्वं दामोदर जनममुं नोत्स्यसि कदा ॥ ५८॥ शठोऽयं नावेक्ष्य पुनरिह मया मानधनया विशन्तं स्त्रीवेशं सुबलसुहृदं वारय गिरा । इदं ते साकूतं वचनमवधार्योच्छलितधीश्- छलाटोपैर्गोपप्रवरमवरोत्स्यामि किमहम् ॥ ५९॥ अघहर बलीवर्दः प्रेयान्नवस्तव यो व्रजे वृषभवपुषा दैत्येनासौ बलादभियुज्यते । इति किल मृषागीर्भिश्चन्द्रावलीनिलयस्थितं वनभुवि कदा नेष्यामि त्वां मुकुन्द मदीश्वरीम् ॥ ६०॥ निगिरति जगदुच्चैः सूचिभेद्ये तमिस्रे भ्रमररुचिनिचोलेनाङ्गमावृत्य दीप्तम् । परिहृतमणिकाञ्चीनूपुरायाः कदाहं तव नवमभिसाऋअं काऋअयिष्यामि देवि ॥ ६१॥ आस्ये देव्याः कथमपि मुदा न्यस्तमास्यात् त्वयेश क्षिप्तं पर्णे प्रणयजनिताद् देवि वाम्यात् त्वयाग्रे । आकूतज्ञस्तदतिनिभृतं चर्वितं खर्विताङ्ग- स्ताम्बूलीयं रसयति जनः फुल्लरोमा कदायम् ॥ ६२॥ परस्परमपश्यतोः प्रणयमानिनोर्वां कदा धृतोत्केलिकयोरपि स्वमभिरक्षतोराग्रहम् । द्वयोः स्मितमुदञ्चये नुदसि किं मुकुन्दामुना दृगन्तनटनेन मामुपरमेत्यलीकोक्तिभिः ॥ ६३॥ कदाप्यवसरः स मे किमु भविष्यति स्वामिनौ जनोऽयमनुरागतः पृथुनि यत्र कुञ्जोदरे । त्वया सह तवालिके विविधवर्णगन्धद्रव्यैश्- चिरं विरचयिष्यति प्रकटपत्रवल्लीश्रियम् ॥ ६४॥ इदं सेवाभाग्यं भवति सुलभं येन युवयोश्- छटाप्यस्य प्रेम्णः स्फुरति नहि सुप्तावपि मम । पदार्थेऽस्मिन् युष्मद्व्रजमनु निवासेन जनित- स्तथाप्याशाबन्धः परिवृढवरौ मां द्रढयति ॥ ६५॥ प्रपद्य भवदीयतां कलितनिर्मलप्रेमभि- र्महद्भिरपि काम्यते किमपि यत्र तार्णं

Utkalikavallarih: उत्कलिकावल्लरीः Read More »

Krishnamangalam

Udupi shrIkRiShNa suprabhAtam: उडुपि श्रीकृष्ण सुप्रभातम्

Udupi shrIkRiShNa suprabhAtam: उडुपि श्रीकृष्ण सुप्रभातम् Udupi shrIkRiShNa suprabhAtam: उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥॥नारायणाखिल शरण्य रथाङ्ग पाणे ।प्राणायमान विजयागणित प्रभाव ।गीर्वाणवैरि कदलीवन वारणेन्द्र ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १॥उत्तिष्ठ दीन पतितार्तजनानुकम्पिन् ।उत्तिष्ठ विश्व रचना चतुरैक शिल्पिन् ।उत्तिष्ठ वैष्णव मतोद्भव धामवासिन् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २॥उत्तिष्ठ पातय कृपामसृणान् कटाक्षान् ।उत्तिष्ठ दर्शय सुमङ्गल विग्रहन्ते ।उत्तिष्ठ पालय जनान् शरणं प्रपन्नान् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३॥उत्तिष्ठ यादव मुकुन्द हरे मुरारे ।उत्तिष्ठ कौरवकुलान्तक विश्वबन्धो ।उत्तिष्ठ योगिजन मानस राजहंस ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ४॥उत्तिष्ठ पद्मनिलयाप्रिय पद्मनाभ ।पद्मोद्भवस्य जनकाच्युत पद्मनेत्र ।उत्तिष्ठ पद्मसख मण्डल मध्यवर्तिन् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ५॥मध्वाख्यया रजतपीठपुरेवतीर्णः ।त्वत्कार्य साधनपटुः पवमान देवः ।मूर्तेश्चकार तव लोकगुरोः प्रतिष्ठाम् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ६॥सन्यास योगनिरताश्रवणादिभिस्त्वाम् ।भक्तेर्गुणैर्नवभिरात्म निवेदनान्तैः ।अष्टौयजन्ति यतिनो जगतामधीशम् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ७॥या द्वारकापुरि पुरातव दिव्यमूर्तिः ।सम्पूजिताष्ट महिषीभिरनन्य भक्त्या ।अद्यार्चयन्ति यतयोष्टमठाधिपास्ताम् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ८॥वामेकरे मथनदण्डमसव्य हस्ते ।गृह्णंश्च पाशमुपदेष्टु मना इवासि ।गोपालनं सुखकरं कुरुतेति लोकान् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ९॥सम्मोहिताखिल चराचररूप विश्व ।श्रोत्राभिराममुरली मधुरारवेण ।आधायवादयकरेण पुनश्चवेणुम् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १०॥गीतोष्णरश्मिरुदयन्वहनोदयाद्रौ ।यस्याहरत्सकललोकहृदान्धकारम् ।सत्वं स्थितो रजतपीठपुरे विभासी ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ११॥कृष्णेति मङ्गलपदं कृकवाकुवृन्दम् ।वक्तुं प्रयत्य विफलं बहुशः कुकूकुः ।त्वां सम्प्रबोधयितुमुच्चरतीतिमन्ये ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १२॥भृङ्गापिपासव इमे मधु पद्मषन्दे ।कृष्णार्पणं सुमरसो स्वितिहर्षभाजः ।झङ्कार राव मिषतः कथयन्ति मन्ये ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १३॥निर्यान्ति शावक वियोगयुता विहङ्गाः ।प्रीत्यार्भकेशु च पुनः प्रविशन्ति नीडम् ।धावन्ति सस्य कणिकानुपचेतु मारात् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १४॥भूत्वातिथिः सुमनसामनिलः सुगन्धम् ।सङ्गृह्यवाति जनयन् प्रमदं जनानाम् ।विश्वात्मनोर्चनधियातव मुञ्च निद्राम् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १५॥तारालि मौक्तिक विभूषण मण्डिताङ्गी ।प्राचीदुकूल मरुणं रुचिरं दधान ।खेसौखसुप्तिक वधूरिव दृश्यतेद्य ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १६॥आलोक्य देह सुषमां तव तारकालिः ।ह्रीणाक्रमेण समुपेत्य विवर्णभावम् ।अन्तर्हितेवनचिरात्यज शेषशय्याम् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १७॥साध्वीकराब्जवलयध्वनिनासमेतो ।गानध्वनिः सुदधि मन्थन घोष पुष्टः ।संश्रूयते प्रतिग्रहं रजनी विनष्टा ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १८॥भास्वानुदेश्यति हिमांशुर भूद्गतश्रीः ।पूर्वान्दिशामरुणयन् समुपैत्यनूरुः ।आशाः प्रसाद सुभगाश्च गतत्रियामा ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १९॥आदित्य चन्द्र धरणी सुत रौहिणेय ।जीवोशनः शनिविधुं तुदकेतवस्ते ।दासानुदास परिचारक भृत्य भृत्य ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २०॥इन्द्राग्नि दण्डधर निर्रिति पाशिवायु ।वित्तेश भूत पतयो हरितामधीशाः ।आराधयन्ति पदवी च्युति शङ्कया त्वाम् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २१॥वीणां सती कमलजस्य करे दधाना ।तन्त्र्यागलस्य चरवे कलयन्त्य भेदम् ।विश्वं निमज्जयति गानसुधारसाब्धौ ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २२॥देवर्षिरंबर तलादवनीं प्रपन्नः ।त्वत्सन्निधौ मधुरवादित चारु वीणा ।नामानिगायति नत स्फुरितोत्तमाङ्गो ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २३॥वातात्मजः प्रणत कल्प तरुर्हनूमान् ।द्वारे कृताञ्जलि पुटस्तवदर्शनार्थी ।तिष्ठत्यमुं कुरुकृतार्थमपेत निद्रम् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २४॥सर्वोत्तमो हरिरिति श्रुतिवाक्य वृन्दैः ।चन्द्रेश्वर द्विरदवक्त्र षडाननाद्याः ।उद्घोशयन्त्य निमिषा रजनी प्रभात ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २५॥मध्वाभिदे सरसि पुण्यजले प्रभाते ।गङ्गेंभ सर्वमघमाशु हरेति जप्त्वा ।मज्जन्ति वैदिक शिखामणयो यथावन् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २६॥द्वारे मिलन्ति निगमान्त विदस्त्रयीज्ञाः ।मीमांसकाः पदविदोनयदर्शनज्ञाः ।गान्धर्ववेद कुशलाश्च तवेक्षणार्थम् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २७॥श्री मध्वयोगि वरवन्दित पादपद्म ।भैष्मी मुखांभोरुह भास्कर विश्ववन्द्य ।दासाग्रगण्य कनकादिनुत प्रभाव ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २८॥पर्याय पीठ मधिरुह्य मठाधिपास्त्वाम् ।अष्टौ भजन्ति विधिवत् सततं यतीन्द्राः ।श्री वादिराजनियमान् परिपालयन्तो ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २९॥श्रीमन्ननन्त शयनोडुपिवास शौरे ।पूर्णप्रबोध हृदयांबर शीत रश्मे ।लक्ष्मीनिवास पुरुषोत्तम पूर्णकाम ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३०॥श्री प्राणनाथ करुणा वरुणालयार्त ।सन्त्राण शौन्द रमणीय गुणप्रपूर्ण ।सङ्कर्षणानुज फणीन्द्र फणा वितान ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३१॥आनन्दतुन्दिल पुरन्दर पूर्वदास ।वृन्दाभिवन्दित पदांबुजनन्द सूनो ।गोविन्द मन्दरगिरीन्द्र धरांबुदाभ ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३२॥मीनाकृते कमठरूप वराहमूर्ते ।स्वामिन् नृसिंह बलिसूदन जामदग्न्यः ।श्री राघवेन्द्र यदुपुङ्गव बुद्ध कल्किन् ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३३॥गोपाल गोप ललनाकुलरासलीला ।लोलाभ्रनील कमलेश कृपालवाल ।कालीयमौलि विलसन्मणिरञ्जिताङ्घ्रे ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३४॥कृष्णस्य मङ्गल निधेर्भुवि सुप्रभातम् ।येहर्मुखे प्रतिदिनं मनुजाः पठन्ति ।विन्दन्ति ते सकल वाञ्छित सिद्धिमाशु ।ज्ञानञ्च मुक्ति सुलभं परमं लभन्ते ॥ ३५॥ ॥ श्रीकृष्णार्पणमस्तु ॥

Udupi shrIkRiShNa suprabhAtam: उडुपि श्रीकृष्ण सुप्रभातम् Read More »

Shri Hayagriva Stotram – श्रीहयग्रीवस्तोत्रं

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ स्वतःसिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासध्रीचीभिः द्युतिभिरपतापतिभुवनम् । अनन्तैः त्रय्यन्तैरनुविदितहेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि वहः ॥ व्याख्यानं इन्दिरामन्दिरोरस्कमिन्दादिसुरवन्दितम्- वन्दारुबृन्दमन्दारं वन्दे गोविन्दबालकम् ॥ १॥ कन्दर्पसंवराकारं बृन्दावनविभूषणम् । आनन्दकन्दजं नन्दनन्दनं वन्दिषीमहि ॥ प्रणिपत्य गुरूत्तंसं श्रीमद्वेदान्तदेशिकम् । हयग्रीवस्तवव्याख्यां कुर्वेऽहं तत्प्रसादतः ॥ इह खलु श्रीमान् वेदान्तदेशिकः, सम्यगुपासनविशेषवशीकृत हृदय पुण्डरीकमध्यमण्डनायित ताण्डवप्रचण्डतुरङ्गमुख मार्ताण्डमण्डलः, सकल पण्डितनिकुरुम्बमुक्तातपत्रितकीर्तिमण्डलः, सर्वतन्त्रस्वतन्त्रः, कवितार्किककेसरी, परमकारुणिकः,भगवत्मल्याणगुणगणानुसन्धानेन अनादिसंसार सञ्चितदौष्कर्श्य पाशबन्दीकृत प्राणिबृन्दं सन्तितारयिषुः, श्रीहयग्रीवमभिष्टोतुं प्रतिजानीते (स्वत) इति । स्वतस्सिद्धं – स्वप्रकाशम्, ननु सिद्धशब्दस्य भावार्थविहित कृत्प्रत्ययान्तत्वे स्वत इति पञ्चम्यर्थभूतहेत्वर्थविहित तसिल्प्रत्ययस्यानन्वयः स्यात् – सिद्धशब्दस्य प्रकाशमात्रार्थकत्वेन, स्वशब्दस्यापि “प्रकाशार्थकत्वेन तसिः पञ्चम्यर्थहेत्वर्थकत्वेन च प्रकाशाधीनप्रकाशार्थलाभात्, प्रकृते प्रकाशस्य नित्यत्वेन स्वात्मानं प्रति स्वस्य हेतुत्वासम्भवेन च तदसम्भवात्, कर्त्रर्थविहित कृतकृत्प्रत्ययान्तत्वे पूर्वोक्तरीत्या । स्वाधीन प्रकाशवत्त्वमर्थस्स्यात्। तथा च स्वस्येव स्वप्रकाशस्यापि नित्यत्वेन पूर्वोक्त दूषणग्रासादिति चेत्, मैवम्। उभयधाऽपि दोषाभावात्। तथाहि। आद्यपक्षे-प्रकाशस्य स्वाधीनत्वे तात्पर्याभावात्। अन्यानधीनत्वे तात्पर्यात्, द्वितीयपक्षे- स्वाधीनप्रकाशवत्त्वे तात्पर्याभावात्, अन्यानधीनप्रकाशवत्त्वे तात्पर्यात्, उभयथापि मणि प्रकाशमण्यादि व्यावृत्तिसिद्धेः। स्वतः – स्वस्मात्, सिद्धं – सिद्धिः – ज्ञानं, प्रकाश स्वरूपं; सिद्धं ज्ञातं प्रकाशितं वा; स्वाधीन प्रकाशाभिन्नं अन्याधीन प्रकाशरहितं वेत्यर्थः। सार्वविभक्तिकतसिल् प्रत्ययान्तत्वे तु प्रथमार्ध वर्णनसम्भवेन स्वयं प्रकाशार्थलाभान्न कोऽपि दोषगन्धः। यद्वा – स्वतः – स्वस्मात्, सिद्धं – उत्पन्नं, कारणान्तरापादितोत्पत्ति शून्यमित्यर्थः। नित्यमिति यावत्। अथवा, नित्यत्वं नान्याधीनमित्यावा – (स्वत) इति। अनेन नित्यमुक्त दिव्यावृत्तिः, तेषां स्वरूप स्वभावस्थितिप्रवृत्तीनां भगवदायत्तत्वात्। ननु नित्यमुक्तस्वरूव स्वभावादीनामपि नित्यत्वात्कथं भगदायत्तत्वमिति चेन्न, नित्यानामपि तद्वतिरेक प्रसञ्जितव्यतिरेक प्रतियोगित्वरूप भगवदायत्तत्वसम्भवात्। तथा च श्रुतिः- “को ह्येवान्यात्म प्राण्यात्, यदेष आकाश आनन्दो न स्यात्” इति – परमाणुगतपारिमाण्डल्यस्य नित्यत्वेऽप्याश्रयाधीनावस्थाया न्यायविद्भिरङ्गीकाराच्च। ननु सिद्धशब्दस्य नित्यपर्यायत्वं कथमिति चेदुच्यते – “सिद्दे शब्दार्थसम्बन्धे” इत्यत्र महाभाष्ये सिद्धशब्दस्य नित्यपर्यायत्वेन व्याख्यानात्। तथा हि। सिद्धशब्दस्य कः पदार्थः? नित्यपर्यायवाची सिद्धशब्दः कथं पुनः ज्ञायते? मत्कूट स्थेष्वविचालिषु भावेषु वर्तते तद्वच्च सिद्धं। सिद्धा पृथिवी, सिद्ध माकाश मित्यलं बहुना। (शुद्धस्फटिकमणिभूभृत्प्रतिभट) मिति। शुद्धस्य – निर्मलस्य, स्फटिकमणिभूभृतः – स्फटिकमयपर्वतस्य, प्रतिभटं – ततोऽप्यतिशयित कान्तिमत्त्वेन तं तिरस्कुर्वन्तमित्यर्थः । सुधासध्रीचीभिः – अमृतसहचरीखिः, द्युतिभिः – कान्तिभिः, (अपतापत्रिभुवनम्) अपगतः तापः – आध्यात्मिकाधिदैविकाधिभौतिकादि समस्तदुःखात्मकस्तापो यस्मिन् तत्; त्रयाणां भुवनानां समाहार स्त्रिभुवनं, पात्रादित्वान्न जीप्। अपतापं त्रिभुवनं यस्य तथोक्तः; हयग्रीवकान्तयश्चन्द्रमण्डलमध्यवृत्तिसुधास हितास्सत्य स्त्रिलोकीसन्तापहारिण्यो भवन्ति। मण्डलस्थस्सुधांशोः “पुंसां कर्मानलार्तानां पापिनां क्लेशशान्तये, स्वदेतेन्दुस्समुद्रेण ह्लादयन्गोगणेनवे” त्यादिवचनात्। अनन्तैः- निरवधिकैः,त्रय्यन्तैः – वेदान्तैः, (अनुविहितहेषाहलहलम्), अनुविहितः – अनुसृतः, हेषा – हेषाभ्यो हलहलः, अश्वध्वनिविशेषो यस्य तथोक्तम्। यथोक्तं भागवते द्वितीय स्कन्धे ब्रह्मनारदसंवादे – “वाचो बभूवु रुशती श्वसतोऽस्य न स्त” इति। “तस्य ह वा तस्य महतो भूतस्य निश्वसित मेतदृग्वेद” इति श्रुतिः। (हताशेषावद्यं) हतानि – परिहृतानि, अशेषावद्यानि – नमस्तदोषाः, येन तत्तथोक्तम्। आश्रितानामिति शेषः। यद्वा – आश्रितापराधोपेक्षकत्वमत्र विवक्षिम्। “न स्मरत्यपकाराणां शतमप्यात्मवत्तये” त्युक्तेः। हतानि- अत्यन्तासंश्लिष्टानि, अशेषावद्यानि – समस्तहेयानि, यस्मिन् तथोक्तम्। निखिलहेयप्रत्यनीकत्वात्तत्र दोषा न सम्भवन्तीति भावः। तथा च श्रुतिः – “अपहतपाप्मा विरजो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्प” इति। हयवदनं – हयस्य वदनमिव वदनं यस्य तथोक्तम्, शाक पार्थिवादित्वान्मध्यमपदलोपी समासः। (मह) इति। परं ब्रह्म ज्योतिषा मपि ज्योतिरयं पुरुषस्स्वयञ्ज्योतिः। “तेजस्तेजस्विनामह” मित्याद्युक्तेः। ईडीमहि – स्तुवीमहि। (ईड- स्तुतौ लडात्मनेपदम्) नित्यत्व- तेजिष्ठत्व -सकलदोषापहारित्व- वेदप्रवक्तृत्व- निर्दोषत्वादिगुणकं श्रीहयग्रीवं स्तुम इत्यर्थः। स्वभावोक्तिरलङ्कारः। “स्वभावोक्तिरलङ्कारो यथावद्वस्तुवर्णन” मितिलक्षणात्। अत्र स्वातन्त्र्याभिमान निवृत्तये कर्तुरनुपादानम् । प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टे रञ्जनश्री रपूर्वा । वक्त्री वेदान् भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ २॥ भगवन्तं स्तोतुं तदाविर्भावप्रार्थनया तमभिमुखीकरोति। प्राचीति। वासुदेवस्य – “सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः, तत स्स वासुदेवेति विद्वद्भिः परिपठ्यत” इत्याद्युक्तस्य परमात्मनः, वाजिवक्त्रा -हयवदना, वागीशाख्या – वागीशेति आख्या यस्या तथोक्ता; वेदान् -ऋग्यजुस्सामाधर्वणरूपान्, वक्त्री – व्यञ्जयन्ती, “ऋचस्सामानि जज्ञिरे छन्दाङ्ग्सि जज्ञिरे तस्मात्” इति, “प्रवक्ता छण्डसां वक्ता पञ्चरात्रस्य य स्स्वय”मित्यादिवचनात्। अत्र “न लोकाय निष्ठाखलर्थतृणा”मिति षष्ठीनिषेधः। अन्तर्निशायाः – अज्ञाननिशीथिन्याः, काचित्-विलक्षणा सन्ध्या, प्राची सन्ध्या – विभातसन्ध्या, अज्ञानान्धकार निवर्तिनीति यावत्। (प्रज्ञादृष्टेः) प्रज्ञा – तत्त्वहितपुरुषार्थविषयिणी धीः, सैव, दृष्टिः – ईक्षणं, तस्याः, अपूर्वा – प्रसिद्धा विलक्षणा, अञ्जनश्रीः – अञ्जनसम्पन्मूर्तिः, तनुः मे, भातु – स्फुरतु, भा -दीप्तौ लोट्। तादृशमूर्तिसाक्षात्कारे स्वस्याप्यज्ञाननिवृत्तिपूर्वक ज्ञानवृद्धिर्भूयादित्याशयः। रूपकालङ्कारः। “आरोप्यविषयस्य स्यादतिरोहितरूपिणः, उपरञ्जितमारोप्यमाणं तदूप्रकं मत” मिति लक्षणात् । ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ ३॥ पूर्वस्मिन् श्लोके हयमुखसन्निधानं प्रार्थितम्। इदानीं सन्निहितं भगवन्तमुपास्मह इत्याह (ज्ञानानन्देति)। ज्ञानानन्दमयं – ज्ञानानन्दप्रचुरम्। “तत् प्रकृतवचने मयडिति प्राचुर्यार्थे मयट्। यद्वा – ज्ञानानन्दमयं – ज्ञानानन्दस्वरूपं, “स्वार्थे मयट्, प्राणमय इत्यादिवत्। “सत्यं ज्ञानमनन्तं ब्रह्म, को ह्येवान्यात्कः प्राण्यात् यदेष अकाश आनन्दो न स्या” दित्युक्तेः। (निर्मलस्फटिकाकृतिम्) निर्मलः- जाज्वल्यमानः, स्फटिकः – स्फटिकमणिः, तस्याकृतिरिवाकृतिर्यस्य तं; सर्वविद्यानां – सकलकलानाम्, आधारं – निलयं, “छन्दोमयो मखमयोऽखिलदेवतात्मे” त्युक्तेः। हयग्रीवं देवमुपास्महे – ध्यायामः, “आस- उपवेशने” । विशुद्धविज्ञान घनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ ४॥ गुरुलघूपायभूतयोर्भक्ति प्रपत्त्योर्मध्ये प्रचरामीत्याह (विशुद्ध) मिति। अहं – दासभूतः, दयायाः निधिं – अक्षयस्थानं, तम्, अत एव देहभृतां – प्राणिनां, शरण्यं – रक्षकं, (विशुद्धविज्ञानघनस्वरूपं) विशुद्धेन – निर्मलेन, विज्ञानेन, घनं – निबिडं, अन्तर्बहिर्ज्ञानमयमित्यर्थः। यद्वा, विज्ञानरूपो घनः -पिण्डः, तद्रूपमित्यर्थः। “विज्ञानघन एवे”ति श्रुतेः, स्वरूपं यस्य, तम्। (विज्ञानविश्राणनबद्धदीक्षम्) विज्ञानस्य – ज्ञानयोगस्य, विश्राणने – वितरणे, बद्धा -धृता, दीक्षा – सङ्कल्पः, यस्य तम्। “तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्, ददामि बुद्धियोगं तं येन मामुपयान्ति त” इत्यादिवचनात्। हयग्रीवं, प्रपद्ये – शरणं यामि, “पद्ल् -गतौ” लडात्मनेपदम्। ज्ञानस्वरूपस्य ज्ञानप्रदस्य दयाळोः सर्वभूतशरण्यस्य शरणागता अस्मत्संरक्षणं कियदिति भावः । समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादृप्यत्कौतस्कुतकलह कोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥ ५॥ भगवति हयास्ये भक्तिप्रपत्तिरूपोपायद्वयं विधाय,सम्प्रति चिकीर्षितस्तोत्रपरिसमाप्ति प्रतिबन्धकाज्ञानान्धकारनिवृत्तिं सर्वविघ्नोपशमाद्धयमुख हेषारवसकाशात् स्वस्य प्रार्थयते (समाहर) इति। साम्नां – सामशाखानां, समाहारः – सङ्घातः, तत्स्वरूपमिति यावत्। “प्रणवोद्गीथवचस” इत्युक्तेः। ऋक्साखानां, प्रतिपदं- तदर्थबोधकपर्यायपदं, यजुषां – तैत्तिरीयशाखानां, धाम – वासप्थानं, प्रत्यूहानां – विद्याप्रतिबन्धकविघ्नानां, लयः – ध्वंसः, बोधजलधेः – ज्ञानसागरस्य, लहरिविततिः – तरङ्गपरंवरा,(हयवदन हेषाहलहलः) हयवदनस्य – हयग्रीवस्य, हेषाख्यो हलहलः – अश्वध्वनिः, (कथादृप्यत्कौतस्कुतकलह कोलाहलभवम्) कथासु – वादकथासु, दृप्यन्तः कौतस्कुताः – कुतः कुत इति वादिनः, स “कस्कादित्वात्सः”, तेषां, कलहकोलाहलेन – अयथार्थवादकलहेन, भवः – जन्यः, अन्तर्द्वान्तम्, हरतु – निवर्तयतु, “हृञ्- हरणे”। हेषाहलहलस्य समाहाराद्यभेदोक्त्या भेदरूपकालङ्कारः । अपौरुषेयै रपि वाक्प्रपञ्चै रद्यापि ते भूतिमदृष्टपाराम् । स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ ! कटाक्षणीयः ॥ ६॥ साक्षात्कृते भगवति विविध विचित्रानन्ताश्चर्य सनकसनन्दनादि ध्यानागोचर दिव्यस्वभावं दृष्ट्वाऽस्य भगवद्गुणानुवर्णने प्रयत्नः परिहसास्पद इत्यभिप्रेत्याह (अपौरुषेयै रिति)। हे नाथ – हे हयग्रीव, अद्यापि – इदानी मपि, अपौरुषेयैः – नित्यैः, “अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवे” त्याद्युक्तेः। वाक्प्रपञ्चैरपि – वेदजालैरपि, (अदृष्टपाराम्) अदृष्टं – प्रतिपादनाविषयीभूतं, पारम्-अवधिः, यस्या स्सा तथोक्ता “यतो वाचो निवर्तन्ते, अप्राप्य मनसा सहे” ति श्रुतेः । “नान्तोऽस्ति म दिव्यानां विभूतीनां परन्तपे” त्यादि स्मृतेश्च । भूतिं – गुणाद्यैश्वर्यं, स्तुवन् – वर्णयन्, अहं, मुग्धः – बालः, कृत्यसाध्ये यतमान इति यावत्; इति – हेतोः, त्वया, कारुण्यत एव – कृपावशादेव, न ह्यस्मदादिषु कटाक्षनिमित्तं किञ्चिदस्तीति भावः। कटाक्षणीयः – बालेष्वकिञ्चित्कुर्वत्स्वपि परमकारुणिकस्य पितुः करुणाकटाक्षः स्वाभाविक इति भावः । दाक्षिण्यरम्या गिरिशस्य मूर्तिर्देवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाच स्स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ ७॥ लोके ये विद्यादिकाः ते सर्वेऽपि भवदीयशक्त्यंशैः स्पृशन्तीत्याह (दाक्षिण्ये) ति । हे नाथ – हे हयग्रीव, गिरिशस्य – रुद्रस्य, (दाक्षिण्यरम्या) दाक्षिण्यीन – सुखप्रियवचनादिना, रम्या -मनोहरा, यद्वा, दाक्षिण्येन – विद्याप्रदान सामर्थ्वेन, रम्या – मनोज्ञा, मूर्तिः, सरोजासनस्य – चतुर्मुखस्य, धर्मपत्नी – सहधर्मचरी, देवी – सरस्वती, व्यपदेश्यवाचः – प्रसिद्ध ग्रन्थकर्तारो व्यासादयः, व्यासवाल्मीकिशुक पराशरादयोऽपि, सर्वे – पूर्वसमुदितव्यतिरिक्ताः, तव शक्तिलेशैः – विद्याशक्त्यंशैः, स्फुरन्ति – भान्ति। “न तत्र सूर्यो भाति न चन्द्रतारकं, नेमा विद्युतो भान्ति कुतोऽयमग्निः, तमेव भान्त मनुभाति सर्वं तस्य भासा सर्वमिदं विभाती” ति श्रुतेः।

Shri Hayagriva Stotram – श्रीहयग्रीवस्तोत्रं Read More »

Krishnamangalam

आनन्दस्तोत्रम्: Anandastotram

आनन्दस्तोत्रम्: Anandastotram श्रीकृष्णः परमानन्दो गोविन्दो नन्दनन्दनः । तमालश्यामलरुचिः शिखण्डकृतशेखरः ॥ १॥ पीतकौशेयवसनो मधुरस्मितशोभितः । कन्दर्पकोटिलावण्यो वृन्दारण्यमहोत्सवः ॥ २॥ वैजयन्तीस्फुरद्वक्षाः कक्षात्तलगुडोत्तमः । कुञ्जापितरतिर्गुञ्जापुञ्जमञ्जुलकण्ठकः ॥ ३॥ कर्णिकाराढ्यकर्णश्रीधृतिस्वर्णाभवर्णकः । मुरलीवादनपटुर्वल्लवीकुलवल्लभः ॥ ४॥ गान्धर्वाप्तिमहापर्वा राधाराधनपेशलः । इति श्रीकृष्णचन्द्रस्य नाम विंशतिसंज्ञितम् ॥ ५॥ आनन्दाख्यं महास्तोत्रं यः पठेच्छृणुयाच्च यः । स परं सौख्यमासाद्य कृष्णप्रेमसमन्वितः ॥ ६॥ सर्वलोकप्रियो भूत्वा सद्गुणावलिभूषितः । व्रजराजकुमारस्य सन्निकर्षमवाप्नुयात् ॥ ७॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीमहानन्दाख्यस्तोत्रं समाप्तम् ।

आनन्दस्तोत्रम्: Anandastotram Read More »

Krishnamangalam

आनन्दचन्द्रिकास्तोत्रम्: Anandachandrikastotram

आनन्दचन्द्रिकास्तोत्रम्: Anandachandrikastotram श्रीश्रीराधाकृष्णाभ्यां नमः ।ध्यानम् ।अङ्गश्यामलिमच्छटाभिरभितो मन्दीकृतेन्दीवरं जाड्यं जागुडरोचिषां विदधतं पट्टाम्बरस्य श्रिया ।वृन्दारण्यविलासिनं हृदि लसद्दामाभिरामोदरं राधास्कन्धनिवेशितोज्ज्वलभुजं ध्यायेम दामोदरम् ॥अथ श्रीराधिकाया आनन्दचन्द्रिकास्तोत्रंश्रीराधिकायै नमः ।राधादामोदरप्रेष्ठा राधिका वार्षभानवी ।समस्तवल्लवीवृन्दधम्मिल्लोत्तंसमल्लिका ॥ १॥कृष्णप्रियावलीमुख्या गान्धर्वा ललितासखी ।विशाखासख्यसुखिनी हरिहृद्भृङ्गमञ्जरी ॥ २॥इमां वृन्दावनेश्वर्या दशनाममनोरमाम् ।आनन्दचन्द्रिकां नाम यो रहस्यां स्तुतिं पठेत् ॥ ३॥स क्लेशरहितो भूत्वा भूरिसौभाग्यभूषितः ।त्वरितं करुणापात्रं राधामाधवयोर्भवेत् ॥ ४॥इति श्रीरूपगोस्वामिविरचितस्तवमालायां आनन्दचन्द्रिकास्तोत्रं समाप्तम् ।

आनन्दचन्द्रिकास्तोत्रम्: Anandachandrikastotram Read More »

Krishnamangalam

Aksharadhamadhipatilakshanavarnanam: अक्षरधामाधिपतिलक्षणवर्णनम्

Aksharadhamadhipatilakshanavarnanam: अक्षरधामाधिपतिलक्षणवर्णनम् पूर्वं त्वसाधारणलक्षणं यच्छ्रीस्वामिनारायणदिव्यमूर्तेः । पूर्वावतारान् सकलान् स्वमूर्ती सन्दर्शयेदुक्तमिदं हि लक्ष्म ॥ १॥ वैकुण्ठलोकादिषु दिव्यमूर्ती दिव्येऽद्भुतैश्वर्यसुखे च तासु । स्वकीयरूपे शतशो मनुष्यान् सन्दर्शयेच्चिह्नमिदं द्वितीयम् ॥ २॥ साधारणानपि तं समाधिं यः कारयित्वा मनसः प्रवृत्तिम् । संरोधयेत् स्वात्मनि तत्तृतीयं लक्ष्मोदितं ब्रह्मपुराधिपस्य ॥ ३॥ अन्यावतारैः श्रितमानवानां श्रेयस्कृतं वृत्तिनिरोधनं वा । सन्दर्शयेत्तद्वयमेव भक्तद्वारा हि तुर्यं प्रभुलक्षणं तत् ॥ ४॥ धाक्षरे स्वे बहुप्रकाशे मुक्तव्रजैः स्नेहभरेण सेव्याम् । सिंहासनस्थां रुचिरां स्वमूर्तिं सन्दर्शयेद् यादृशतादृशान्नृन् ॥ ५॥ तत्पञ्चमं लक्षणमत्र धार्मेः अथोच्यते चिह्नमिदं हि षष्ठम् । पूर्वागमे ज्ञानविरागभक्तिधर्मादिकं योगपथश्च साङ्ख्यम् । कुर्याद्ध तद्वर्णनमात्मयोगात् स्वैः कारयेत्तत्र चमत्कृतिश्च । पूर्वागमार्थादपि सौष्ठवार्थः प्रादुर्भवेच्छान्तिकरः सुधेव ॥ ६॥ स्वालोकमात्रेण सहस्रजीववृत्तेस्तु नैसर्गिकरोधनं स्यात् । स्वस्मिन् यथा चुम्बकमेति लोहं तत् सप्तमं चिह्नम् ॥ ७॥ अथाष्टमं च । कस्यापि नुः स्वाश्रयमात्रतोऽपि महाशिवं स्याद्धि तदन्तकाले । तमक्षरं नेतुमियात् स्वकीयैर्मुक्तैर्विमानैः सहितः स धार्मिः ॥ ८॥ निजे निदेशे शतशो मनुष्यान् ज्ञाने तथा त्यागयुते स्वधर्मे । संस्थापयेद् घोरकलौ युगेऽस्मिन् प्रोक्तं प्रभोस्तन्नवमं हि लक्ष्म ॥ ९॥ जनाः स्वसम्बन्धगवस्त्रपुष्पस्पर्शेक्षणाभ्यां समियुः समाधिम् । पश्येयुरैश्यं हरिमत्र धाम विनापि योगं दशमं च लक्ष्म ॥ १०॥ देशान्तरे कश्चन धार्मिमूर्तेर्वार्ता प्रकुर्यात् पुरतो नृणान्तम् । श्रुत्वा जनास्तेजसि लोकयेयुरेकादशं चिह्नमिदं हरेश्च ॥ ११॥ प्रधानजीवेश्वरकालमायामुक्ताक्षराणां पुरुषोत्तमस्य । पृथक् पृथग् लक्षणमेव कुर्यात् स्वयं स्वभक्तैरपि कारयेद्वा ॥ १२॥ सैश्वर्यरूपाणि पुनश्च तेषां प्रदर्शयेद्वा बहुशो जनांश्च । सर्वोत्तमस्वाक्षरधामभाजश्चिह्नं परं द्वादशमुक्तमेतत् ॥ १३॥ सन्दर्शयेत् पूर्वनिजावताराँल्लीनान् स्वमूर्ती शतशो मनुष्यान् । नो न तेषु स्वयमद्भुतं तत् त्रयोदशं धर्मसुतस्य लक्ष्म ॥ १४॥ इति श्रीअक्षरधामाधिपतिलक्षणवर्णनं सम्पूर्णम् ।

Aksharadhamadhipatilakshanavarnanam: अक्षरधामाधिपतिलक्षणवर्णनम् Read More »

Krishnamangalam

श्री अष्टाक्षरीध्यानम्: Shri Ashtaksharidhyanam

वेदान्तस्वद्रुमायस्तलपरिलसिताष्टाक्षराष्टच्छदाब्जे तिष्ठन् वामाङ्घ्रिणासावितरपदतलं वामतोऽग्रे निधाय । बिभ्रत् सर्वा विभूतीर्मणिगणविलसद्भूषणश्यामलश्रीः शब्दब्रह्मात्मवेणुं भुवनधृतिहरं नादयन् माधवोऽव्यात् ॥ १॥ इति श्री अष्टाक्षरीध्यानं सम्पूर्णम् ।

श्री अष्टाक्षरीध्यानम्: Shri Ashtaksharidhyanam Read More »

Krishnamangalam

AShTashlokI:अष्टश्लोकी

AShTashlokI:अष्टश्लोकी अकारार्थो विष्णुर्जगदुदयरक्षाप्रलयकृत्मकारार्थो जीवस्तदुपकरणं वैष्णवमिदम् ।उकारोऽनन्यर्हं नियमयति सम्बन्धमनयोःत्रयीसारस्त्र्यात्मा प्रणव इममर्थं समदिशत् ॥ १॥मन्त्रब्रह्मणि मध्यमेन नमसा पुंसःस्वरूपङ्गतिःगम्यं शिक्षितमीक्षितेन पुरतःपश्चादपि स्थानतः ।स्वातन्रयं निजरक्षणं समुचिता वृत्तिश्च नान्योचितातस्यैवेति हरेर्विविच्य कथितं स्वस्यापि नार्हं ततः ॥ २॥अकारार्थायैवस्वमहमथ मह्यं न निवहाःनराणां नित्यानामयनमिति नारायणपदम् ।यमाहास्मै कालं सकलमपि सर्वत्र सकला-स्ववस्थास्वाविः स्युर्मम सहजकैङ्कर्यविधयः ॥ ३॥देहासक्तात्मबुद्धिर्यदि भवति पदं साधु विद्यात्तृतीयंस्वातन्त्र्यान्धो यदि स्यात्प्रथममितरशेषत्वधीश्चेद्द्वितीयम् ।आत्मत्राणोन्मुखश्चेन्नम इति च पदं बान्धवाभासलोलःशब्दं नारायणाख्यं विषयचपलधीश्चेच्चतुर्थीं प्रपन्नः ॥ ४॥नेतृत्वं नित्ययोगं समुचितगुणजातं तनुख्यापनञ्चो-पायं कर्त्तव्यभागं त्वथ मिथुनपरं प्राप्यमेवं प्रसिद्धम् ।स्वामित्वं प्रार्थनां च प्रबलतरविरोधिप्रहाणं दशैतान्मन्तारं त्रायते चेत्यधिगतनियमः षट्पदोऽयं द्विखण्डः ॥ ५॥ईशानाञ्जगतामधीशदयितां नित्यानपायां श्रियंसंश्रित्याश्रयणोचिताखिलगुणस्याङ्घ्री हरेराश्रये ।इष्टोपायतया श्रिया च सहितायात्मेश्वरायार्थयेकर्तुं दास्यमशेषमप्रतिहतं नित्यं त्वहं निर्ममः ॥ ६॥मत्प्राप्त्यर्थतया मयोक्तमखिलं सन्त्यज्य धर्मं पुनःमामेकं मदवाप्तये शमणमित्यार्तोऽवसायं कुरु ।त्वामेकं व्यवसाययुक्तमखिलज्ञानादिपूर्णो ह्यहंमत्प्राप्तिप्रतिबन्धकैर्विरहितं कुर्यां शुचं मा कृथाः ॥ ७॥निश्चित्य त्वदधीनतां मयि सदा कर्माद्युपायान् हरेकर्तुं त्यक्तुमपि प्रपत्तुमनलं सीदामि दुःखाकुलः ।एतज्ज्ञानमुपेयुषो मम पुनस्सर्वापराधक्षयंकर्तासीति दृढोऽस्मि ते तु चरमं वाक्यं स्मरन्सारथेः ॥ ८॥शाखानामुपरि स्थितेन मनुना मूलेन लब्धात्मकःसत्ताहेतुसकृज्जपेन सकलं कालं द्वयेन क्षिपन् ।वेदोत्तंसविहारसारथिदयागुम्फेन विस्त्रम्भितःसारज्ञो यदि कश्चिदस्ति भुवने नाथः स यूथस्य नः ॥ ९॥इति अष्टश्लोकी समाप्ता ॥

AShTashlokI:अष्टश्लोकी Read More »