MANTRA

Krishnamangalam

Shri Krishnacharitra Manjari: श्रीकृष्णचारित्रमञ्जरी

Shri Krishnacharitra Manjari: श्रीकृष्णचारित्रमञ्जरी विष्णुर्ब्रह्मादिदेवैः क्षितिभरहरणे प्रार्थितः प्रादुरासीद् देवक्यां नन्दनन्दी शिशुवधविहितां पूतनां यो जघान ।उत्थानौत्सुक्यकाले रथचरणगतं चासुरं पादघातै- श्चक्रावर्तं च मात्रा गुरुरिति निहितो भूतले सोऽवतान्माम् ॥ १॥ यो मातुर्जृम्भमाणो जगदिदमखिलं दर्शयन्नङ्करूढो गर्गेणाचीर्णनामा कृतरुचिरमहाबाललीलो वयस्यैः ।गोपीगेहेषु भाण्डस्थितमुरुदयया क्षीरदध्यादि मुष्णन् मृन्ना भक्षीति मातुः स्ववदनगजगद्भासयन् भासतां मे ॥ २॥ दध्नोमत्रस्य भङ्गादुपगमितरुषा नन्दपत्न्याऽथ बद्धः कृच्छ्रेणोलूखले यो धनपतितनयौ मोचयामास शापात् ।नन्दाद्यैः प्राप्य वृन्दावनमिह रमयन् वेणुनादादिभिर्यो वत्सान्पान्वत्सरूपं क्रतुभुगरिमथो पोथयन्सोऽवतान्माम् ॥ ३॥ रक्षन् वत्सान्वयस्यैर्बकमभिनदथो तिग्मतुण्डे गृहीत्वा प्रीतिं कर्तुं सखीनां खरमपि बलतो घातयन् कालियाहिम् ।उन्मथ्योद्वास्य कृष्णामतिविमलजलां यो व्यधाद्दाववह्निं सुप्तानावृत्य गोष्ठे स्थितमपिबदसौ दुष्टवृक्षच्चिदव्यात् ॥ ४॥ दुर्गारण्यप्रवेशाच्च्युतनिजसरणीन् गोगणानाह्वयद्यो दावाग्निं तत्र पीत्वा समपुषदनुगान् गोपकानाविषिण्णान् ।गोभिर्गोपैः परितः सरिदुदकतटस्थोपले भोज्यमन्नं भुक्त्वा वेणोर्निनादाद्व्रजगतवनिताचित्तहारी स माऽव्यात् ॥ ५॥ कृष्णोऽस्माकं पतिः स्यादिति कृततपसां मज्जने गोपिकानां नग्नानां वस्त्रदाता द्विजवरवनितानीतमन्नं समश्नन् ।श्रान्तैर्गोपैः समं यो बलमथनबलावाहृतेऽस्मिन् सवृष्टौ प्रोद्ध्रुत्याहार्यवर्यं निजजनमखिलं पालयन् पात्वसौ माम् ॥ ६॥ गोविन्दाख्योऽथ तातं जलपतिहृतमानीय लोकं स्वकीयं यः कालिन्द्या निशायामरमयदमलज्योत्स्नया दीपितायाम् ।नन्दादीनां प्रदर्श्य व्रजगतवनितागानकृष्टार्तचित्ताः चार्वङ्गीर्नर्मवाक्यैः स्तनभरनमिताः प्रीणयन् प्रीयतां नः ॥ ७॥ अन्तर्धत्ते स्म तासां मदहरणकृते त्वेकया क्रीडमानः स्वस्कन्धारोहणाद्यैः पुनरपि विहितो गर्वशान्त्यै मृगाक्ष्याः ।खिन्नानां गोपिकानां बहुविधनुतिभिर्यो वहन् प्रीतिमाविः- प्राप्तो रासोत्सवेन न्यरमयदबलाः प्रीयतां मे हरिः सः ॥ ८॥ हत्वा यः शङ्खचूडं मणिमथ समदादग्रजायार्तगोपी- गीतानेकस्वलीलो हतवृषभमहापूर्वदेवोऽमरेड्यः ।केशिप्राणापहारी सुरमुनिवदनप्रार्थिताशेषकृत्यो हत्वा पुत्रं मयस्य स्वजनमपिहितं मोचयन् मोक्षदः स्यात् ॥ ९॥ अक्रूराकारितो यान् व्रजयुवतिजनान्सान्त्वयित्वाऽभितप्तान् स्वं रूपं मज्जतेऽस्मै विलसितमहिगं दर्शयंस्तेन वन्द्यः ।यो गत्वा कंसधानीं हृतरजकशिराश्चारुवेषः सुदाम्नः प्रीतिं कुर्वंस्त्रिवक्रां व्यतनुत रुचिरां पौरमह्योऽवतात्सः ॥ १०॥ शार्वं भङ्क्त्वा धनुर्यो बलमपि धनुषो रक्षकं कुञ्जरं तं मल्लांश्चाणूरपूर्वानपि सहसहजो मर्दयन्स्तुङ्गमञ्चात् ।भोजेशं पातयित्वा व्यसुमकृत निजान् नन्दयन् प्राप्य गर्गात् द्वैजं संस्कारमाप्तो गुरुमथ विदिताशेषविद्योऽवतान्नः ॥ ११॥ दत्वा पुत्रं प्रवक्त्रे प्रतिगतमधुरः सान्त्वयन्नुद्धवास्या- द्गोष्टस्थान् नन्दपूर्वानरमयदबलां प्रीतिकृद्यः शुभस्य ।अक्रूरस्याथ तेन प्रतिविदितपृथापुत्रकृत्यो जरायाः सूनुं निर्भिन्नसेनं व्यतनुत बहुशो विद्रुतं नः स पायात् ॥ १२॥ पुर्या निर्गत्य रामादथ सहमुसली प्राप्य कृष्णोऽभ्यनुज्ञां गोमन्तं चापि मौलिं खगपतिविहितां वासुदेवं सृगालम् ।हत्वा शत्रुं च पुर्यामधिजलधि पुरीं निर्मितां बन्धुवर्गान् नित्ये यः सोऽवतान्नः प्रमथितयवनो मौचुकुन्दाक्षिवह्नेः ॥ १३॥ राज्ञा संस्तूयमानो हतयवनबलो भीतवन्मागधेशा- द्गोमन्तं प्राप्य भूयो जितमगधपतिर्जातशान्ताग्निशैलः ।आगत्य द्वारकां यो हृदिकसुतगिरा ज्ञातकौन्तेयकृत्यः पश्यत्स्वादाय भैष्मीं नृषु युधि जितावान्भूभृतः प्रीयतां नः ॥ १४॥ वैरूप्यं रुक्मिणो योऽकृत मणिसहितं जाम्बवद्देहजातां सत्यां तेनैव युक्तामपि परिजगृहे हस्तिनं कुल्यहेतोः ।यातो व्यस्यात्र सत्याशुचमथ समगाद्द्वारकां सत्ययेतो द्रष्टुं पार्थान्सकृष्णान्द्रुपदपुरमगाद्विद्धलक्ष्यान्स पायात् ॥ १५॥ कृष्णः प्राप्याथ सत्राजिदहितवधकृद्यः श्वफल्कस्य सूनौ रत्नं सन्दर्श्य रामं व्यधित गतरूषं द्रष्टुकामः प्रतस्थे ।इन्द्रप्रस्थस्थस्थपार्थानथ सहविजयो यामुनं तीरमायन् कालिन्दीं तत्र लब्ध्वा यमसुतपुरकृत् पातु मां द्वारकास्थः ॥ १६॥ यो जह्ने मित्रविन्दामथ दृढवृषभान् सप्त बध्वाऽपि नीलां भद्रां मद्रेशपुत्रीमपि परिजगृहे शक्र विज्ञापितार्थः ।तार्क्ष्यरूढः सभार्यो हिमगिरिशिखरे भौमदुर्गं समेत्य छित्वा दुर्गाणि कृन्त्वा मुरगलमरिणा देवतेड्यः स माऽव्यात् ॥ १७॥ त्रिंशत्पञ्चावधीद्यः सचिववरसुतान् भूमिजेनातिघोरं युद्धं कृत्वा गजाद्यैररिहृतशिरसं तं व्यधाद्भूस्तुतोऽथ ।कृत्वा राज्येऽस्य सूनुं वरयुवतिजनान् भूरिशश्चारुवेषान् प्रापय्य द्वारकां सोऽकृत मुदमदितेः कुण्डलाभ्यामवेन्माम् ॥ १८॥ इन्द्राराध्योऽमरेन्द्रप्रियतममगमाहृत्य देवान् विजित्य प्राप्याथ द्वारकां यः सुतमतिरुचिरं रुक्मिणीशः प्रपेदे ।भ्रातृव्यं पौण्ड्रकाख्यं पुररुधमतनोत् कृत्तशीर्षं तदीया- पत्योत्पन्नां च कृत्यां रथचरणरुचा कालयन् कामधुक् स्यात् ॥ १९॥ कृष्णः सूर्योपरागे निजयुवतिगणैर्भार्गवं क्षेत्रमाप्त- स्तत्रायातान् स्वबन्धून् मुनिगणमपि सन्तोष्य यज्ञं स्वपित्रा ।योऽनुष्ठाप्याप्य नैजं पुरमथ वदिताऽनेकतत्त्वानि पित्रे मातुः पुत्रान् प्रदर्श्याकृत हितमहितं मेऽपनुद्यात् स ईशः ॥ २०॥ रुक्मिण्या नर्मवाक्यैररमत बहुभिः स्त्रीजनैर्योऽथ पुत्रा- नेकैकस्यां प्रपेदे दश दश रुचिरान् पौत्रकानप्यनेकान् ।पौत्रस्योद्वाहकाले भृशकुपितबलाद्रुक्मिणं घातयित्वा नन्दन् योषिद्गणेन प्रतिगृहमबलाप्रीतिकारी गतिर्मे ॥ २१॥ नानारत्नप्रदीप्तासमविभवयुतद्व्यष्टसाहस्रकान्ता- गेहेष्वश्नन् शयानः क्व च जपमगृयादीनि कुर्वन् क्वचिच्च ।दीव्यन्नक्षैर्ब्रुवाणः प्रवचनमपरैर्मन्त्रयन्नेवमादि- व्यापरान्नादरस्य प्रतिसदमहो दर्शयन् नः स पायात् ॥ २२॥ प्रातर्ध्यायन् प्रसन्नः कृतनिजविहितः सत्सभां प्राप्य कृष्णो दूतं राज्ञां प्रतोष्यामरमुनिविदिताशेषकृत्यः प्रयासीत् ।शक्रप्रस्थं चमूभिर्बहुविभवयुतं बन्धुभिर्मानितोऽयं भीमेनापात्य बार्हद्रथमथ नृपतीन् मोचयन्मे प्रसीदेत् ॥ २३॥ पुत्रं राज्येऽस्य कृत्वा हृतशिरसमथो चेदिराजं विधाय प्रोद्यन्तं राजसूयं यमसुतविहितं संस्थितं यो विधाय ।शक्रप्रस्थात् प्रयातो निजनगरमसौ साल्वभग्नं समीक्ष्य क्रुद्धो घन्नब्धिगं तं शिववरबलिनं यान् पुरं पातु नित्यम् ॥ २४॥ विप्रादाकर्ण्य धर्मं वनगतमनुजैः सान्त्वयित्वैत्य सर्वा- नभ्येत्य द्वारकां यो नृगमथ कुजनिं दिव्यरूपं चकार ।गत्वा वैदेहगेहं कतिपयदिवसांस्तत्र नीत्वाऽतिभक्तौ सन्तोष्य द्वारकां यान् बहुबलसमतोऽयन्नुपप्लाव्यमव्यात् ॥ २५॥ दौत्यं कुर्वन्ननन्ता निजरुचिरतनूर्दर्शयन् दिव्यदृष्टे- र्गीतातत्त्वोपदेशाद्रणमुखविजयस्याचरन् सारथित्वम् ।नीत्वा कैलासमेनं पशुपतिमुखतो दापयित्वाऽस्त्रमस्मै भीमेनापात्य दुष्टं क्षितिपतिमकरोद्धर्मराजं तमीडे ॥ २६॥ प्राप्तः स्थानं यदूनां प्रियसखमकृतावाप्तकामं कुचेलं कुर्वन् कर्माश्वमेधं निजभवनमथो दर्शयित्वाऽर्जुनाय ।पुत्रान् विप्राय दत्वा सहसहजमसौ दन्तवक्रं निपात्य प्राप्याथ द्वारकां स्वां समवतु विहरन्नुद्धवायोक्ततत्त्वः ॥ २७॥ रक्षन् लोकान् समस्तान् निजजननयनान्दकारी निरस्ता- वद्यः सौख्यैकमूर्तिः सुरतरुकुसुमैः कीर्यमाणोऽमरेन्द्रैः ।सिद्धैर्गन्धर्वपूर्वैर्जयजयवचनैः स्तूयमानोऽत्र कृष्णः स्त्रीभिः पुत्रैश्च पौत्रैः स जयति भगवान् सर्वसम्पत्समृद्धः ॥ २८॥ इति श्रीकृष्णचारित्रमञ्जरी लेशतः कृता ।राघवेन्द्रेण यतिना भूयात् कृष्णप्रसाददा ॥ २९॥ श्रीराघवेन्द्रतीर्थश्रीचरणविरचिता श्रीकृष्णचारित्रमञ्जरीभारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।

Shri Krishnacharitra Manjari: श्रीकृष्णचारित्रमञ्जरी Read More »

Krishnamangalam

Shri Krishnacharitra Manjari: श्रीकृष्णचारित्रमञ्जरी

Shri Krishnacharitra Manjari: श्रीकृष्णचारित्रमञ्जरी विष्णुर्ब्रह्मादिदेवैः क्षितिभरहरणे प्रार्थितः प्रादुरासीद् देवक्यां नन्दनन्दी शिशुवधविहितां पूतनां यो जघान ।उत्थानौत्सुक्यकाले रथचरणगतं चासुरं पादघातै- श्चक्रावर्तं च मात्रा गुरुरिति निहितो भूतले सोऽवतान्माम् ॥ १॥ यो मातुर्जृम्भमाणो जगदिदमखिलं दर्शयन्नङ्करूढो गर्गेणाचीर्णनामा कृतरुचिरमहाबाललीलो वयस्यैः ।गोपीगेहेषु भाण्डस्थितमुरुदयया क्षीरदध्यादि मुष्णन् मृन्ना भक्षीति मातुः स्ववदनगजगद्भासयन् भासतां मे ॥ २॥ दध्नोमत्रस्य भङ्गादुपगमितरुषा नन्दपत्न्याऽथ बद्धः कृच्छ्रेणोलूखले यो धनपतितनयौ मोचयामास शापात् ।नन्दाद्यैः प्राप्य वृन्दावनमिह रमयन् वेणुनादादिभिर्यो वत्सान्पान्वत्सरूपं क्रतुभुगरिमथो पोथयन्सोऽवतान्माम् ॥ ३॥ रक्षन् वत्सान्वयस्यैर्बकमभिनदथो तिग्मतुण्डे गृहीत्वा प्रीतिं कर्तुं सखीनां खरमपि बलतो घातयन् कालियाहिम् ।उन्मथ्योद्वास्य कृष्णामतिविमलजलां यो व्यधाद्दाववह्निं सुप्तानावृत्य गोष्ठे स्थितमपिबदसौ दुष्टवृक्षच्चिदव्यात् ॥ ४॥ दुर्गारण्यप्रवेशाच्च्युतनिजसरणीन् गोगणानाह्वयद्यो दावाग्निं तत्र पीत्वा समपुषदनुगान् गोपकानाविषिण्णान् ।गोभिर्गोपैः परितः सरिदुदकतटस्थोपले भोज्यमन्नं भुक्त्वा वेणोर्निनादाद्व्रजगतवनिताचित्तहारी स माऽव्यात् ॥ ५॥ कृष्णोऽस्माकं पतिः स्यादिति कृततपसां मज्जने गोपिकानां नग्नानां वस्त्रदाता द्विजवरवनितानीतमन्नं समश्नन् ।श्रान्तैर्गोपैः समं यो बलमथनबलावाहृतेऽस्मिन् सवृष्टौ प्रोद्ध्रुत्याहार्यवर्यं निजजनमखिलं पालयन् पात्वसौ माम् ॥ ६॥ गोविन्दाख्योऽथ तातं जलपतिहृतमानीय लोकं स्वकीयं यः कालिन्द्या निशायामरमयदमलज्योत्स्नया दीपितायाम् ।नन्दादीनां प्रदर्श्य व्रजगतवनितागानकृष्टार्तचित्ताः चार्वङ्गीर्नर्मवाक्यैः स्तनभरनमिताः प्रीणयन् प्रीयतां नः ॥ ७॥ अन्तर्धत्ते स्म तासां मदहरणकृते त्वेकया क्रीडमानः स्वस्कन्धारोहणाद्यैः पुनरपि विहितो गर्वशान्त्यै मृगाक्ष्याः ।खिन्नानां गोपिकानां बहुविधनुतिभिर्यो वहन् प्रीतिमाविः- प्राप्तो रासोत्सवेन न्यरमयदबलाः प्रीयतां मे हरिः सः ॥ ८॥ हत्वा यः शङ्खचूडं मणिमथ समदादग्रजायार्तगोपी- गीतानेकस्वलीलो हतवृषभमहापूर्वदेवोऽमरेड्यः ।केशिप्राणापहारी सुरमुनिवदनप्रार्थिताशेषकृत्यो हत्वा पुत्रं मयस्य स्वजनमपिहितं मोचयन् मोक्षदः स्यात् ॥ ९॥ अक्रूराकारितो यान् व्रजयुवतिजनान्सान्त्वयित्वाऽभितप्तान् स्वं रूपं मज्जतेऽस्मै विलसितमहिगं दर्शयंस्तेन वन्द्यः ।यो गत्वा कंसधानीं हृतरजकशिराश्चारुवेषः सुदाम्नः प्रीतिं कुर्वंस्त्रिवक्रां व्यतनुत रुचिरां पौरमह्योऽवतात्सः ॥ १०॥ शार्वं भङ्क्त्वा धनुर्यो बलमपि धनुषो रक्षकं कुञ्जरं तं मल्लांश्चाणूरपूर्वानपि सहसहजो मर्दयन्स्तुङ्गमञ्चात् ।भोजेशं पातयित्वा व्यसुमकृत निजान् नन्दयन् प्राप्य गर्गात् द्वैजं संस्कारमाप्तो गुरुमथ विदिताशेषविद्योऽवतान्नः ॥ ११॥ दत्वा पुत्रं प्रवक्त्रे प्रतिगतमधुरः सान्त्वयन्नुद्धवास्या- द्गोष्टस्थान् नन्दपूर्वानरमयदबलां प्रीतिकृद्यः शुभस्य ।अक्रूरस्याथ तेन प्रतिविदितपृथापुत्रकृत्यो जरायाः सूनुं निर्भिन्नसेनं व्यतनुत बहुशो विद्रुतं नः स पायात् ॥ १२॥ पुर्या निर्गत्य रामादथ सहमुसली प्राप्य कृष्णोऽभ्यनुज्ञां गोमन्तं चापि मौलिं खगपतिविहितां वासुदेवं सृगालम् ।हत्वा शत्रुं च पुर्यामधिजलधि पुरीं निर्मितां बन्धुवर्गान् नित्ये यः सोऽवतान्नः प्रमथितयवनो मौचुकुन्दाक्षिवह्नेः ॥ १३॥ राज्ञा संस्तूयमानो हतयवनबलो भीतवन्मागधेशा- द्गोमन्तं प्राप्य भूयो जितमगधपतिर्जातशान्ताग्निशैलः ।आगत्य द्वारकां यो हृदिकसुतगिरा ज्ञातकौन्तेयकृत्यः पश्यत्स्वादाय भैष्मीं नृषु युधि जितावान्भूभृतः प्रीयतां नः ॥ १४॥ वैरूप्यं रुक्मिणो योऽकृत मणिसहितं जाम्बवद्देहजातां सत्यां तेनैव युक्तामपि परिजगृहे हस्तिनं कुल्यहेतोः ।यातो व्यस्यात्र सत्याशुचमथ समगाद्द्वारकां सत्ययेतो द्रष्टुं पार्थान्सकृष्णान्द्रुपदपुरमगाद्विद्धलक्ष्यान्स पायात् ॥ १५॥ कृष्णः प्राप्याथ सत्राजिदहितवधकृद्यः श्वफल्कस्य सूनौ रत्नं सन्दर्श्य रामं व्यधित गतरूषं द्रष्टुकामः प्रतस्थे ।इन्द्रप्रस्थस्थस्थपार्थानथ सहविजयो यामुनं तीरमायन् कालिन्दीं तत्र लब्ध्वा यमसुतपुरकृत् पातु मां द्वारकास्थः ॥ १६॥ यो जह्ने मित्रविन्दामथ दृढवृषभान् सप्त बध्वाऽपि नीलां भद्रां मद्रेशपुत्रीमपि परिजगृहे शक्र विज्ञापितार्थः ।तार्क्ष्यरूढः सभार्यो हिमगिरिशिखरे भौमदुर्गं समेत्य छित्वा दुर्गाणि कृन्त्वा मुरगलमरिणा देवतेड्यः स माऽव्यात् ॥ १७॥ त्रिंशत्पञ्चावधीद्यः सचिववरसुतान् भूमिजेनातिघोरं युद्धं कृत्वा गजाद्यैररिहृतशिरसं तं व्यधाद्भूस्तुतोऽथ ।कृत्वा राज्येऽस्य सूनुं वरयुवतिजनान् भूरिशश्चारुवेषान् प्रापय्य द्वारकां सोऽकृत मुदमदितेः कुण्डलाभ्यामवेन्माम् ॥ १८॥ इन्द्राराध्योऽमरेन्द्रप्रियतममगमाहृत्य देवान् विजित्य प्राप्याथ द्वारकां यः सुतमतिरुचिरं रुक्मिणीशः प्रपेदे ।भ्रातृव्यं पौण्ड्रकाख्यं पुररुधमतनोत् कृत्तशीर्षं तदीया- पत्योत्पन्नां च कृत्यां रथचरणरुचा कालयन् कामधुक् स्यात् ॥ १९॥ कृष्णः सूर्योपरागे निजयुवतिगणैर्भार्गवं क्षेत्रमाप्त- स्तत्रायातान् स्वबन्धून् मुनिगणमपि सन्तोष्य यज्ञं स्वपित्रा ।योऽनुष्ठाप्याप्य नैजं पुरमथ वदिताऽनेकतत्त्वानि पित्रे मातुः पुत्रान् प्रदर्श्याकृत हितमहितं मेऽपनुद्यात् स ईशः ॥ २०॥ रुक्मिण्या नर्मवाक्यैररमत बहुभिः स्त्रीजनैर्योऽथ पुत्रा- नेकैकस्यां प्रपेदे दश दश रुचिरान् पौत्रकानप्यनेकान् ।पौत्रस्योद्वाहकाले भृशकुपितबलाद्रुक्मिणं घातयित्वा नन्दन् योषिद्गणेन प्रतिगृहमबलाप्रीतिकारी गतिर्मे ॥ २१॥ नानारत्नप्रदीप्तासमविभवयुतद्व्यष्टसाहस्रकान्ता- गेहेष्वश्नन् शयानः क्व च जपमगृयादीनि कुर्वन् क्वचिच्च ।दीव्यन्नक्षैर्ब्रुवाणः प्रवचनमपरैर्मन्त्रयन्नेवमादि- व्यापरान्नादरस्य प्रतिसदमहो दर्शयन् नः स पायात् ॥ २२॥ प्रातर्ध्यायन् प्रसन्नः कृतनिजविहितः सत्सभां प्राप्य कृष्णो दूतं राज्ञां प्रतोष्यामरमुनिविदिताशेषकृत्यः प्रयासीत् ।शक्रप्रस्थं चमूभिर्बहुविभवयुतं बन्धुभिर्मानितोऽयं भीमेनापात्य बार्हद्रथमथ नृपतीन् मोचयन्मे प्रसीदेत् ॥ २३॥ पुत्रं राज्येऽस्य कृत्वा हृतशिरसमथो चेदिराजं विधाय प्रोद्यन्तं राजसूयं यमसुतविहितं संस्थितं यो विधाय ।शक्रप्रस्थात् प्रयातो निजनगरमसौ साल्वभग्नं समीक्ष्य क्रुद्धो घन्नब्धिगं तं शिववरबलिनं यान् पुरं पातु नित्यम् ॥ २४॥ विप्रादाकर्ण्य धर्मं वनगतमनुजैः सान्त्वयित्वैत्य सर्वा- नभ्येत्य द्वारकां यो नृगमथ कुजनिं दिव्यरूपं चकार ।गत्वा वैदेहगेहं कतिपयदिवसांस्तत्र नीत्वाऽतिभक्तौ सन्तोष्य द्वारकां यान् बहुबलसमतोऽयन्नुपप्लाव्यमव्यात् ॥ २५॥ दौत्यं कुर्वन्ननन्ता निजरुचिरतनूर्दर्शयन् दिव्यदृष्टे- र्गीतातत्त्वोपदेशाद्रणमुखविजयस्याचरन् सारथित्वम् ।नीत्वा कैलासमेनं पशुपतिमुखतो दापयित्वाऽस्त्रमस्मै भीमेनापात्य दुष्टं क्षितिपतिमकरोद्धर्मराजं तमीडे ॥ २६॥ प्राप्तः स्थानं यदूनां प्रियसखमकृतावाप्तकामं कुचेलं कुर्वन् कर्माश्वमेधं निजभवनमथो दर्शयित्वाऽर्जुनाय ।पुत्रान् विप्राय दत्वा सहसहजमसौ दन्तवक्रं निपात्य प्राप्याथ द्वारकां स्वां समवतु विहरन्नुद्धवायोक्ततत्त्वः ॥ २७॥ रक्षन् लोकान् समस्तान् निजजननयनान्दकारी निरस्ता- वद्यः सौख्यैकमूर्तिः सुरतरुकुसुमैः कीर्यमाणोऽमरेन्द्रैः ।सिद्धैर्गन्धर्वपूर्वैर्जयजयवचनैः स्तूयमानोऽत्र कृष्णः स्त्रीभिः पुत्रैश्च पौत्रैः स जयति भगवान् सर्वसम्पत्समृद्धः ॥ २८॥ इति श्रीकृष्णचारित्रमञ्जरी लेशतः कृता ।राघवेन्द्रेण यतिना भूयात् कृष्णप्रसाददा ॥ २९॥ श्रीराघवेन्द्रतीर्थश्रीचरणविरचिता श्रीकृष्णचारित्रमञ्जरीभारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।

Shri Krishnacharitra Manjari: श्रीकृष्णचारित्रमञ्जरी Read More »

Krishnamangalam

Krishna Chandra Ashtakam: कृष्णचन्द्राष्टकम्

Krishna Chandra Ashtakam: कृष्णचन्द्राष्टकम् Krishna Chandra: अम्बुदाञ्जनेन्द्रनीलनिन्दिकान्तिडम्बरः कुङ्कुमोद्यदर्कविद्युदंशुदिव्यदम्बरः ।श्रीमदङ्गचर्चितेन्दुपीतनाक्तचन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ १॥ गण्डताण्डवातिपण्डिताण्डजेशकुण्डल- श्चन्द्रपद्मषण्डगर्वखण्डनस्यमण्डलः ।बल्लवीषु वर्धितात्मगूढभावबन्धनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ २॥ नित्यनव्यरूपवेषहर्दकेलिचेष्टितः केलिनर्मसार्मदायिमित्रवृन्दवेष्टितः ।स्वीयकेलिकाननांशुनिर्जितेन्द्रनन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ३॥ प्रेमहेममण्डितात्मबन्धुताभिनन्दितः क्सौणिलग्नभाललोकपालपालिवन्दितः ।नित्यकालसृष्टविप्रगौरवालिवन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ४॥ लीलयेन्द्रकालियोष्णकंसवत्सघातक- स्तत्तदात्मकेलिवृष्टिपुष्टभक्तचातकः ।वीर्यशीललिलायात्मघोसवासिनन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ५॥ Shri Krishnachandrashtakam 2: श्रीकृष्णचन्द्राष्टकम् २ कुञ्जरासकेलिसीधुराधिकादितोषण- स्तत्तदात्मकेलिनर्मतत्तदालिपोषणः ।प्रेमशीलकेलिकीर्तिविश्वचित्तनन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ६॥ रासकेलिदर्शितात्मशुद्धभक्तिसत्पथः स्वीयचित्ररूपवेषमन्मथलीमन्मथः ।गोपीकसु नेत्रकोणभाववृन्दगन्धनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ७॥ पुष्पचायिराधिकाभिमर्षलब्धितर्षितः प्रेमवाम्यराम्यराधिकास्यदृष्टिहर्षितः ।राधिकोरसीह लेप एष हरिचन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ८॥ अष्टकेन यस्त्वनेन राधिकासुवल्लभं संस्तवीति दर्शनेऽपि सिन्धुजादिदुर्लभम् ।तं युनक्ति तुष्टचित्त एष घोषकानने राधिकाङ्गसङ्गनन्दितात्मपादसेवने ॥ ९॥ इति कृष्णदासकविराजविरचितं कृष्णचन्द्राष्टकं सम्पूर्णम् ।

Krishna Chandra Ashtakam: कृष्णचन्द्राष्टकम् Read More »

Krishnamangalam

Shri Krishnachandrashtakam 2: श्रीकृष्णचन्द्राष्टकम् २

Shri Krishnachandrashtakam 2: श्रीकृष्णचन्द्राष्टकम् २ Krishnachandrashtakam: श्रीकेवलरामप्रणीतम्वनभुवि विहरन्तौ तच्छविं वर्णयन्तौसुहृदमनुसरन्तौ दुर्हृदं सूदयन्तौ ।उपयमुनमटन्तौ वेणुनादं सृजन्तौभज हृदय हसन्तौ रामकृष्णौ लसन्तौ ॥ १॥ कलयसि भवरीतिं नैव चेद्भूरिभूतिंयमकृतनिगृहीतिं तर्हि कृत्वा विनीतिम् ।जहिहि मुहुरनीतिं जायमानप्रतीतिंकुरु मधुरिपुगीतिं रे मनो मान्यगीतिम् ॥ २॥ द्विपपरिवृढदन्तं यः समुत्पाट्य सान्तंसदसि परिभवन्तं लीलया हन्त सान्तम् ।स्वजनमसुखयन्तं कंसमाराद्भ्रमन्तंसकलहृदि वसन्तं चिन्तयामि प्रभुं तम् ॥ ३॥ गर्भगतकृष्णस्तुतिः Garbhgatakrishnastutih करधृतनवनीतः स्तेयतस्तस्य भीतःपशुपगणपरीतः श्रीयशोदागृहीतः ।निखिलनिगमगीतः कालमायाद्यभीतःकनकसदुपवीतः श्रीशुकादिप्रतीतः ॥ ४॥ सकलजननियन्ता गोसमूहानुगन्ताव्रजविलसदनन्ताभीरुगेहेषु रन्ता ।असुरनिकरहन्ता शक्रयागावमन्ताजयति विजयियन्ता वेदमार्गाभिमन्ता ॥ ५॥ सुकृतिविहितसेवो निर्जितानेकदेवोभवविधिकृतसेवः प्रीणिताशेषदेवः ।स्म नयति वसुदेवो गोकुलं यं मुदे वोभवतु स यदुदेवः सर्वदा वासुदेवः ॥ ६॥ करकजधृतशैले प्रोल्लसत्पीतचैले ?? मय् बे चोर्रेच्त्रुचिरनवघनाभे शोभने पद्मनाभे ।विकचकुसुमपुञ्जे शोभमाने निकुञ्जेस्थितवति कुरु चेतः प्रीतिमन्यत्र नेतः ॥ ७॥ विषयविरचिताशे प्राप्तसंसारपाशे-ऽनवगतनिजरूपे सृष्टकर्मण्यपूपे ।सुकृतकृतिविहीने श्रीहरे भक्तिहीनेमयि कृतय समन्तौ केवले दीनजन्तौ ॥ ८॥ इति श्रीकेवलरामप्रणीतं श्रीकृष्णचन्द्राष्टकं सम्पूर्णम् ।

Shri Krishnachandrashtakam 2: श्रीकृष्णचन्द्राष्टकम् २ Read More »

Krishnamangalam

Shri Krishnachaturvimshati Stotram: श्रीकृष्णचतुर्विंशतिस्तोत्रम्

Shri Krishnachaturvimshati Stotram: श्रीकृष्णचतुर्विंशतिस्तोत्रम् केशवं केशिमथनं वासुकेर्नोगशायिनम् ।रासक्रीडाविलासाढ्यं कृष्णं वन्दे जगद्गुरुम् ॥ १॥ नारायणं नरहरिं नारदादिभिरर्चितम् ।तारकं भवबन्धानां कृष्णं वन्दे जगद्गुरुम् ॥ २॥ माधवं मधुरावासं भूधरोद्धारकं विभुम् ।आधारं सर्वभूतानां कृष्णं वन्दे जगद्गुरुम् ॥ ३॥ गोविन्दमिन्दुवदनं श्रीवन्द्यचरणाम्बुजम् ।नवेन्दीवरसङ्काशं कृष्णं वन्दे जगद्गुरुम् ॥ ४॥ विष्णुमुष्णीषभूषाढ्यं जिष्णुं दानवमर्दनम् ।तृष्णाभयप्रभेत्तारं कृष्णं वन्दे जगद्गुरुम् ॥ ५॥ (कृष्णाभयप्रभेत्तारं) मधुसूदनं विधिनुतं बुधमानसवासितम् ।दधिचोरं महाभागं कृष्णं वन्दे जगद्गुरुम् ॥ ६॥ त्रिविक्रमं त्रिलोकेशं भवदादिविजैर्नुतम् । (वृषाद्यदितिजैर्नुतम्)कविं पुराणपुरुषं कृष्णं वन्दे जगद्गुरुम् ॥ ७॥ वामनं श्रीमदाकारं कामितार्थफलप्रदम् ।रामानुजं सामलोलं कृष्णं वन्दे जगद्गुरुम् ॥ ८॥ श्रीधरं श्रीधरानुतं राधेयाद्यैर्नुतं हरिम् ।राधाविडम्बनासक्तं कृष्णं वन्दे जगद्गुरुम् ॥ ९॥ हृषीकेशं विषावासं भिषजं भवरोगिणाम् ।तुषाराद्रिसुतावन्द्यं कृष्णं वन्दे जगद्गुरुम् ॥ १०॥ पद्मनाभं पद्मनेत्रं पद्माहृत्पद्म बम्भरम् ।आध्मातमुरलीलोलं कृष्णं वन्दे जगद्गुरुम् ॥ ११॥ दामोदरं श्यामलाङ्गं सोमसूर्यविलोचनम् ।चामीकराम्बरधरं कृष्णं वन्दे जगद्गुरुम् ॥ १२॥ सङ्कर्षणं वेङ्कटेशं ओङ्काराकारमव्ययम् ।शङ्खचक्रगदापाणिं कृष्णं वन्दे जगद्गुरुम् ॥ १३॥ वासुदेवं व्यासनुतं भासुराभरणोज्ज्वलम् ।दासपोषणसंसक्तं कृष्णं वन्दे जगद्गुरुम् ॥ १४॥ प्रद्युम्नमाम्नायमयं खद्योतनमयार्चितम् ।वैद्यनाथं प्रपञ्चास्यं कृष्णं वन्दे जगद्गुरुम् ॥ १५॥ अनिरुद्धं ध्रुवनुतं शुद्धसङ्कल्पमव्ययम् ।शुद्धब्रह्मानन्दरूपं कृष्णं वन्दे जगद्गुरुम् ॥ १६॥ नरोत्तमं पुराणेशं मुरदानववैरिणम् ।करुणावरुणावासं कृष्णं वन्दे जगद्गुरुम् ॥ १७॥ अधोक्षजं सुधालापं बुवमानसवासिनम् ।अधिकानुग्रहं रक्षं कृष्णं वन्दे जगद्गुरुम् ॥ १८॥ नारसिंह दारुणास्यं क्षीराम्बुधिनिकेतनम् ।वीराग्रेसरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ १९॥ अच्युतं कच्छपाकारमुज्ज्वलं कुण्डलोज्ज्वलम् ।सच्चिदानन्दवीर्याढ्यं कृष्णं वन्दे जगद्गुरुम् ॥ २०॥ (सच्चिदानन्दरूपेशं) जनार्दनं घनाकारं सनातनतमं विभुम् ।विनायकपतिं नाथं कृष्णं वन्दे जगद्गुरुम् ॥ २१॥ उपेन्द्रमिन्द्रावरजं कवीन्द्रनुतविग्रहम् ।कविं पुराणपुरुषं कृष्णं वन्दे जगद्गुरुम् ॥ २२॥ हरिं सुरासुरनुतं दुरालोकं दुरीक्षणम् ।परेशं मुरसंहारं कृष्णं वन्दे जगद्गुरुम् ॥ २३॥ श्रीकृष्णं गोकुलावासं साकेतपुरवासिनम् ।आकाशकालदिग्रूपं कृष्णं वन्दे जगद्गुरुम् ॥ २४॥ कृष्णस्तोत्रं चतुर्विंशमेतत् सन्नामगर्भितम् ।यः पठेत् प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ २५॥ कृष्णाय वासुदेवाय हरये परमात्मने ।प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ २६॥ इति श्रीकृष्णचतुर्विंशतिस्तोत्रं सम्पूर्णम् ।

Shri Krishnachaturvimshati Stotram: श्रीकृष्णचतुर्विंशतिस्तोत्रम् Read More »

Krishnamangalam

Krishnagiti Namavalih : कृष्णगीति नामावलिः

Krishnagiti Namavalih : कृष्णगीति नामावलिः (अवलम्बः – महाकवि मानवेदराजेन विरचिता कृष्णगीति) Krishnagiti हरिः श्री गणपतये नमः अविघ्नमस्तु ।नमः शिवायै च नमः शिवाय ।ॐ नमो नारायणाय ।ॐ सरस्वत्यै नमः ।ॐ श्री गुरुभ्यो नमः ।श्रिकृष्णाय परब्रह्मणे नमः ।नमोस्तुते महायोगिन् प्रपन्नमनुशाधि मां ।यथा त्वत् चरणांभोजे रतिस्यादनपायिनी ॥Serial No. Names (Part Shloka-padyam pAdam number)क्रमांक नाम (भागः पद्यम्-श्लोकः/ पादम् संख्या)विष्णु-कृष्ण नामानि१. ॐ जगति सुकृतिलोकैः नन्दिताय नमः । (अवतारम् श्लोकः १)२. ॐ आनन्दिताशाय नमः । (अवतारम् श्लोकः १)३. ॐ कळविरणितवंशीभासमानाय नमः । (अवतारम् श्लोकः १)४. ॐ असमानाय नमः । (अवतारम् श्लोकः १)५. ॐ पशुपयुवतिभोग्याय नमः । (अवतारम् श्लोकः १)६. ॐ सजलजलदपाळीमेचकाय नमः । (अवतारम् श्लोकः १)७. ॐ देवतादेवताय नमः । (अवतारम् श्लोकः १)८. ॐ नन्देन रामेण यशोदया च प्रेम्णा सदयं लाळ्यमानाय नमः । (अवतारम् श्लोकः २)९. ॐ दिव्यगव्या आदीव्यमानाय नमः । (अवतारम् श्लोकः २)१०. ॐ विभुधपरिवृढाय नमः । (अवतारम् श्लोकः २)११. ॐ अघमोक्षं पुष्णमानाय नमः । (अवतारम् श्लोकः २)१२. ॐ परमतमपदोद्भासकाय नमः । (अवतारम् श्लोकः २)१३. ॐ गुरवे कृष्णाय नमः । (अवतारम् श्लोकः २)१४. ॐ सौवर्णाद्भुतभूषणोज्ज्वलवपुषे नमः । (अवतारम् श्लोकः ३)१५. ॐ संवीतपीतांबराय नमः । (अवतारम् श्लोकः ३)१६. ॐ नीलांभोदनिभाय नमः । (अवतारम् श्लोकः ३)१७. ॐ धृतगदाशंखारिपङ्केरुहैः भुजैः भ्राजिष्णवे नमः । (अवतारम् श्लोकः ३)१८. ॐ विश्वजनोपजनोपतापहरणे स्वयं धृष्णवे नमः । (अवतारम् श्लोकः ३)१९. ॐ गुरुवायुमन्दिरविरोचिष्णवे नमः । (अवतारम् श्लोकः ३)२०. ॐ विष्णवे नमः । (अवतारम् श्लोकः ४)२१. ॐ मुरमथनाय नमः । (अवतारम् श्लोकः ४)२२. ॐ वृष्णीश्वराय नमः । (अवतारम् श्लोकः ४)२३. ॐ लक्ष्मीनाथाय नमः । (अवतारं/पदं १ श्लोकः ६)२४. ॐ जगदवनकलादीक्षिताय नमः । (अवतारं/पदं १ श्लोकः ६)२५. ॐ शर्वादिकविबुधजनैः उर्व्या च साकं क्षिरांभोधेः तीरं गत्वा वेधसा पुरुषसूक्तेन भक्त्या स्तुताय नमः । (अवतारं/पदं १ श्लोकः ७)२६. ॐ वेधसं समाधौ दिवि गिरा अवतारवृत्तान्तं श्रावयित्वा गां आश्वासितवते नमः । (अवतारं/पदं १ श्लोकः ८)२७. ॐ मायया अहिपतौ रोहिण्यां आहिते देवहेतोः देवकीं समविशतवते नमः । (अवतारं/पदं २ श्लोकः १७)२८. ॐ हरये नमः । (अवतारं/पदं ३ श्लोकः १८)२९. ॐ बोधमयाय नमः । (अवतारं/पदं ४ पद्यम् १)३०. ॐ अव्ययाय नमः । (अवतारं/पदं ४ पद्यम् १)३१. ॐ लोकहिताय अनन्तं रूपं भजमानाय नमः । (अवतारं/पदं ४ पद्यम् १)३२. ॐ यस्यावतारस्मरणात् जनाः दुरन्तं भवसागरं तरन्ति तस्मै नमः । (अवतारं/पदं ४ पद्यम् १)३३. ॐ अजिताय नमः । (अवतारं/पदं ४ पद्यम् २)३४. ॐ यस्य सुललितपदभाजां कुतोऽपि इह न हानिस्तस्मै नमः । (अवतारं/पदं ४ पद्यम् २)३५. ॐ त्रिभुवनसाक्षिणे नमः । (अवतारं/पदं ४ पद्यम् ३)३६. ॐ तनुगुणकृतिमरणभवविहीनाय नमः । (अवतारं/पदं ४ पद्यम् ३)३७. ॐ भजतां अरणाय नमः । (अवतारं/पदं ४ पद्यम् ३)३८. ॐ भक्तानां भजनार्थं तनुगुणकृतिमरणभवान् भजमानाय नमः । (अवतारं/पदं ४ पद्यम् ३)३९. ॐ सुमहितधाम्ने नमः । (अवतारं/पदं ४ पद्यम् ४)४०. ॐ यस्य नाम्नां स्मरणस्मारणनिकथननिशमनैः जगति जनिमृतिं न एति तस्मै नमः । (अवतारं/पदं ४ पद्यम् ४)४१. ॐ भवहराय नमः । (अवतारं/पदं ४ पद्यम् ५)४२. ॐ यस्य विहतसमाधिं समाधिं विदधत् भरिताधिकमहिताधिं भवपाथोधिं गोवत्सपदवत् तनुते तस्मै नमः । (अवतारं/पदं ४ पद्यम् ५)४३. ॐ मुरहराय नमः । (अवतारं/पदं ४ पद्यम् ६)४४. ॐ माधवाय नमः । (अवतारं/पदं ४ पद्यम् ६)४५. ॐ खलनृपकृतभूभारव्यपहारिणे नमः । (अवतारं/पदं ४ पद्यम् ६)४६. ॐ जयन्त्यां निशीथे शिशिररुचि उदीते वियति प्रावृट् पयोदं यथा (तथा) प्रातुर्भूताय नमः । (अवतारं/पदं ४ श्लोकः २५)४७. ॐ चक्रायुधाय नमः । (अवतारं/पदं ४ श्लोकः २५)४८. ॐ कृष्णाभिख्याय नमः । (अवतारं/पदं ४ श्लोकः २५)४९. ॐ अक्षीणाभाय नमः । (अवतारं/पदं ४ श्लोकः २६)५०. ॐ दयार्द्रैर्मृदुहसितसखैः वीक्षणैः ईक्षमाणाय नमः । (अवतारं/पदं ४ श्लोकः २६)५१. ॐ परस्मै पुरुषाय नमः । (अवतारं/पदं ४ श्लोकः २६)५२. ॐ अक्षामपुण्यैः लक्ष्याय नमः । (अवतारं/पदं ४ श्लोकः २६)५३. ॐ त्रैलोक्याधीशाय नमः । (अवतारं/पदं ४ श्लोकः २६)५४. ॐ पित्रा शौरिणा पुष्टादरं स्तुताय नमः । (अवतारं/पदं ४ श्लोकः २६)५५. ॐ महितशिरोधृतमणिमकुटाय नमः । (अवतारं/पदं ५ पद्यम् १)५६. ॐ तिलकविभासितफालाय नमः । (अवतारं/पदं ५ पद्यम् १)५७. ॐ नतचिल्लीजितवल्लीततिपृथुनयनजितांबुजजालाय नमः । (अवतारं/पदं ५ पद्यम् १)५८. ॐ नितरामनुरूपरूपाय नमः । (अवतारं/पदं ५ पद्यम् १)५९. ॐ त्रिभुवनबन्धुरगन्धवहाय नमः । (अवतारं/पदं ५ पद्यम् २)६०. ॐ मणिकुण्डलमण्डितगण्डाय नमः । (अवतारं/पदं ५ पद्यम् २)६१. ॐ अधररुगगञ्चितदन्तगणाय नमः । (अवतारं/पदं ५ पद्यम् २)६२. ॐ मुखनिन्दितपङ्कजषण्डाय नमः । (अवतारं/पदं ५ पद्यम् २)६३. ॐ निर्मलकौस्तुभकम्रगळाय नमः । (अवतारं/पदं ५ पद्यम् ३)६४. ॐ लसदंसगळितवनमालिने नमः । (अवतारं/पदं ५ पद्यम् ३)६५. ॐ वत्सविराजितवत्सतलाय नमः । (अवतारं/पदं ५ पद्यम् ३)६६. ॐ वरहारोदितरुचिजालाय नमः । (अवतारं/पदं ५ पद्यम् ३)६७. ॐ करधृतदरकमलारिगदाय नमः । (अवतारं/पदं ५ पद्यम् ४)६८. ॐ जठरोषितभुवकदंबाय नमः । (अवतारं/पदं ५ पद्यम् ४)६९. ॐ केसरभासुरनाभितलाय नमः । (अवतारं/पदं ५ पद्यम् ४)७०. ॐ शांबरकम्रनितंबाय नमः । (अवतारं/पदं ५ पद्यम् ४)७१. ॐ करिवरकरकमनोरुयुगाय नमः । (अवतारं/पदं ५ पद्यम् ५)७२. ॐ जानुकृताखिललोभाय नमः । (अवतारं/पदं ५ पद्यम् ५)७३. ॐ प्रसृतायुगजितकेकिगळाय नमः । (अवतारं/पदं ५ पद्यम् ५)७४. ॐ प्रपदाधुतकमठविशोभिने नमः । (अवतारं/पदं ५ पद्यम् ५)७५. ॐ वल्गुरुगाततगुल्फयुगाय नमः । (अवतारं/पदं ५ पद्यम् ६)७६. ॐ नूपुरभासुरपादाय नमः । (अवतारं/पदं ५ पद्यम् ६)७७. ॐ भंगिपदांगुलिपंङ्क्तिधराय नमः । (अवतारं/पदं ५ पद्यम् ६)७८. ॐ मणिघृणिधुतविधुपादाय नमः । (अवतारं/पदं ५ पद्यम् ६)७९. ॐ मृदुरेखासखपादतलाय नमः । (अवतारं/पदं ५ पद्यम् ७)८०. ॐ पदनतमतिशोधिपरागाय नमः । (अवतारं/पदं ५ पद्यम् ७)८१. ॐ अमलतमाभमालनिभाय नमः । (अवतारं/पदं ५ पद्यम् ७)८२. ॐ जगदानन्दननिखिलांगाय नमः । (अवतारं/पदं ५ पद्यम् ७)८३. ॐ जगदभिरूपाय नमः । (अवतारं/पदं ५ पद्यम् ८)८४. ॐ दिव्यरूपाय नमः । (अवतारं/पदं ५ पद्यम् ८)८५. ॐ कीर्तिपयोनिधये नमः । (अवतारं/पदं ५ श्लोकः २७)८६. ॐ देवकीवसुदेवाभ्यां ईडिताय नमः । (अवतारं/पदं ५ श्लोकः २७)८७. ॐ ᳚युवां मां ब्रह्मधिया अथवा सुतधिया शश्वत् संस्मरन्तौ अमितैः पुण्योत्करैः प्राप्यं मद्पदं क्षिप्रं आप्नुयात्᳚ इति पितरौ उक्तवते नमः । (अवतारं/पदं ५ श्लोकः २८)८८. ॐ ᳚नन्दालये मां निधाय तत्र यशोदया प्रसूतां नन्दसुतां आदाय अत्र निषीद᳚ इति पितरं उक्तवते नमः । (अवतारं/पदं ५ श्लोकः २९)८९. ॐ पशुपालमणये नमः । (अवतारं/पदं ५ श्लोकः २९)९०. ॐ शिशुतां इतवान् जगतीमहितौ पितरौ प्रणयात् अधिकं विधुरौ कृतवते नमः । (अवतारं/पदं ५ श्लोकः ३०)९१. ॐ शौरिणा गोकुलं गत्वा यशोदायाः सूतितल्पे विन्यस्ताय नमः । (अवतारं/पदं ५ श्लोकः ३१)९२. ॐ वलभिदुपलनीलवपुषे नमः । (अवतारं/पदं ५ श्लोकः ३५)९३. ॐ सूतितल्पे लसते रुदन्ते मुग्द्धवक्त्राय नमः । (अवतारं/पदं ५ श्लोकः ३५)९४. ॐ यस्य मुग्द्धवक्त्रं दृग्भ्यां पीत्वा यशोदा मोदं प्राप्तवती तस्मै नमः । (अवतारं/पदं ५ श्लोकः ३५)९५. ॐ यस्य वदनं अलं उदीक्ष्य वसुदेवो गोजालं आप्ळुतसात् अकृत तस्मै नमः । (अवतारं/पदं ६ पद्यम् १)९६. ॐ यं ᳚बालक चिरं जीव᳚ इतिआशंस्य पशुपकलापाः वृषगोततिं निशया कपिशं अकृषत तस्मै नमः । (अवतारं/पदं ६ पद्यम् ४)९७. ॐ पूतनायाः प्राणैः सह प्राणान्मोचकं मेचकं चुचुकं पीतवते नमः । (अवतारं/पदं ७ पद्यम् ६)९८. ॐ केशवाय नमः । (अवतारं/पदं ८ श्लोकः ४०)९९. ॐ विवृत्तनेत्रां विकीर्णकेशां विमुक्तनादप्रतिनादिताशां पूतनां पदौ भुजौ विसारितां पादपौघैः सह भूमौ पातितवते नमः । (अवतारं/पदं ८ श्लोकः ४०)१००. ॐ मृतपूतनावपुरुपरि कृतखेलनाय

Krishnagiti Namavalih : कृष्णगीति नामावलिः Read More »

Krishnamangalam

Krishna Giti or Krishna NatakaM of Manaveda Raja: कृष्णगीति अथवा कृष्णनाटकम

Krishna Giti or Krishna NatakaM of Manaveda Raja: कृष्णगीति अथवा कृष्णनाटकम् जगति सुकृतिलोकैर्नन्दितानन्दिताशा कळविरणितवंशीभासमानासमाना ।पशुपयुवतिभोग्या देवतादेवता सा सजलजलदपाळीमेचका मे चकास्तु ॥ १॥प्रेम्णालं लाळ्यमानः सदयमिह सदा नन्दसंज्ञेन पित्रा रामेण ज्यायसा वा विवशमतियशोदाख्यया वा जनन्या ।आदीव्यन् दिव्यगव्या विबुधपारे(परि)वृढो रिष्टदाताघमोक्षं पुष्णन् कृष्णो गुरुर्मे परमपदसमुद्भासको बोभवीतु ॥ २॥सौवर्णाद्भुतभूषणोज्ज्वलवपुः संवीतपीताम्बरो नीलाम्भोदनिभो भुजैधृ(र्धृ)तगदाशङ्खारिपङ्केरुहैः ।भ्राजिष्णुर्गुरुवायुमन्दिरविरोचिष्णुः स विष्णुः स्वयं धृष्णुर्विश्वजनोपतापहरणे काव्यं मम ख्यापयेत् ॥ ३॥((१)वंशी-वेणुः । देवतानामपि देवता । (२)अत्र प्रस्तुतश्लेषेण भगवान् श्रीकृष्णस्तन्नामकः स्वगुरुरपि विवक्षितः ॥ (३)अरि चक्रम् ।)विक्रान्त्याक्रान्तविश्वद्विषत इहगुरोविङ्क्र(र्विक्र)माख्यस्य राज्ञः स्वस्त्री(स्री)यो मानवेदो मुरमथनकथावर्णनालोभनुन्नः ।विष्णोर्वृष्णीश्वरस्य प्रथयति पदरूपेण किञ्चित् कथां तां कान्तां विश्वव्यथान्तामिह विबुधजनाः सन्तु सन्तोषवन्तः ॥ ४॥लक्ष्मीनाथ पुरा सुरासुरमृधे ये कालनेम्यादय- स्त्वत्पिष्टा अपि शिष्टकर्मबलतो दैत्या न मुक्तिं गताः ।तेषां भूरिभरेण भूतलजुषां सा भूतधात्री व्यथा- पात्री वेधसमेत्य वेगत इति प्रोवाच देवावृतम् ॥ ५॥पाटिरागेण गीयते । एकताळेन वाद्यते ।त्रपयालपितुमनीशामपि मांव्वसनभरो हि कथापयतीमांवनितानामिह वचनं परुषंविषहेथा मम रुगाधिकपरुषम् ।(४)नुन्नृः = प्रेरितः । पदरूपेण = गानरूपेण । विश्वव्यथान्तां = सकलदुःखसंहर्त्रीं (५)मृधं = युद्धम् ।पल्लवम् ।नाथ कृपालय परिपालय मांपापनृपालकरचिताधिमिमां (नाथ)निगदितमिदमयि निशमय च विधेशुचमिह मम शमय च शमजलधेवनितावच इति न वचो हेयंमम, किमु गव्यं शकृदिति हेयं (नाथ)स्वशिरो न तु शक्नोति स विनतंपन्नगपतिरुन्नेतुं नियतंकमठाधिपमपि महितं भुवनेन कुशलमयि मन्ये मम वहने (नाथ)कुलशिखरिकुलं खलु बत पतितंसपदि भवेदधिजलनिधि नियतंगतिरसि मम तु चकोरी शरणंकमयति जगति विना हिमकिरणं (नाथ)व्यसनमनोपममुदितमनूनंमम तु मनोगतमधुना नूनंपरममतो नतजगदवनरतेप्रभुरिह तु भवान्ननु भुवनपते (नाथ)(अधिजलधि = समुद्रे । कमयति = कं गच्छति? ।अयेतः – परस्मैपद कविप्रयोगात् । अनोपमं असदृशम् । साधुत्वं चिन्त्यम् ॥)उर्वीं गुर्वीं वहन्तीं विपदमिति वदन्तीं पतन्तीं पदान्ते पश्यन् बाष्पं वमन्तीं त्वयि स कृतमना व्याजहाराधिहारः ।वत्से सर्वंसहे त्वं क्षणसमयमये साध्वि सर्वं सहेथा लक्ष्मीनाथः स साक्षाज्जगदवनकलादीक्षितो रक्षिता नः ॥ ६॥एवं व्याहृत्य शर्वादिकविबुधजनैः साकमुर्व्या च तीरंक्षीराम्भोधेस्तवोरस्थलघृततुळसीसौरभीलोभनीयम् ।गत्वा नत्वा च स त्वामजित पुरुषसूक्तेन भक्त्योपतस्थेयावत्तावत्समाधौ दिवि तव गिरमाकर्ण्य मोदादगादीत् ॥ ७॥हे देवा देवदेवेरितमतिरिदमावेदये दानवारे- र्लीलासाहाय्यहेतोर्जगति यदुकुलं तन्वतो धन्यधन्यम् ।साकं नाकाङ्गनौघैरवतरत जवादेवमादिश्य गोभि- र्गामाश्वास्याप्तगेहो भवदवतरणात्युत्सुकोऽयं न्यवात्सीत् ॥ ८॥त्वत्सान्निध्येन धन्ये पुर इह मधुरानामके देवकीं तांपाणौकृत्याथ शौरिर्व्यचलदतिनृशंसेन कंसेन साकम् ॥आदायाकाशवाण्या क्रुधमपि च कृपाणीं कृपां स्वां त्रपां वाहित्वेमां हन्तुकामं यदुपतिमयमालोक्य वाक्यं बभाषे ॥ ९॥((६)आधिहारः = तापहर्ता ॥ (८)गोभिः = वाग्भिः ॥ (९)पाणौकृत्य = परिणीय ॥)सामन्तमलहरिरागेण गीयते । चम्पताळेन वाद्यते ।अनृशंस ननु कंस वसुधाभृदवतंसकथमिति व्यवसितं बत कृपाकुलमतेत्वयि विदितवेद्ये किमुपदेश्यमन्येनतदपि मे मुखरतां प्रणयिता वितनुते ।पल्लवम् ।वरमते साहसान्ननु विरम नरपतेपरमतेजोनिधे सपदि बत यदुपते (वर)वपुषैव सह मृत्युरिह जायतेऽचिरादतिचिरादपि च वा मृतिरियं सुनियताकिमनित्यतासदननिजतनोरपि च कृतेविदधते परहतिं निजहिते नृप रताः (वर)स्वसृहतेरपि तेन जीवितेन किमु तेनिजनाशनतो यशो वरमिह तु भूतलेउद्य(दय)ति सदा जगन्मदयाते(यति)यशोमय-शशाङ्के कळङ्कोऽय(द्य)नोदयेतामले (वर)(वपुषैव सहेत्यादि “मृत्युर्जन्मवतां वीर देहेन सह जायते ।अद्य वा(?)ब्दशतान्ते वा मृत्यु(त्युर्वै)प्राणिनां ध्रुवः” इति भागवताशयविवरणम् ॥)वनितावधो निखिलकुशलानि नाशये-दिति नीतिमयि फलय न तु विबुधविरचितांबहुमतो बहुशोऽपि विबुधविजयेन तेधर्मपालो ननु परामृशन्न वनितां (वर)दयनयि(नीय)तरजने भवदीयमतिरन्य-रूपैव ननु मनो विमलय विमर्शनान्विपदां हि विवरमविचार इति बुधवचोविस्मृतं किमु विभो विदितमपि दर्शनात् (वर)त्वदधीनमतिदीनमपराधलवहीन(-)ममिताधिभरलीनमतिभीतिभाजनंनिजशिशुजनं विवशमपकरुणमुपयमंनय न(नयनं)पुनरुपयमे बत जातवेपनं (वर)हितमिदं निगदितं शङ्कां न हरति चेत्परमपि मतं परमकरुण श‍ृणु पुनरिदंननु सुतान् दातास्मि यत एव तव भयंनृप रुषं त्यज परुषमयि कुरु हृदुरुमुदं (वर)शौरेस्त्वदाहितमतेः किमु वाक्यभङ्ग्या किं देवकीसुकृतपुञ्जविजृम्भितेन ।कंस्त(कंसस्त)थेति तरसैव तदीयवाच- मूरीचकार च चकार च हन्त चिन्ताम् ॥ १०॥सत्या किमेषा वसुदेववाणी तथ्या किमेषा गगनोत्थवाणी ।कालेन चैतन्निखिलं यथावत् ज्ञायेत तत्सम्प्रति सम्प्रतीक्षे ॥ ११॥एवं विचिन्तयन्नेव विविधं विवशाशयः ।विवेश स पुरं विष्णो विदूषितमनास्त्वया ॥ १२॥भोजाधिपात्स हरिणीं हरिणारिवर्य- पाणिद्वयी महितपञ्जरतो यथा ताम् ।धीमान्विमोच्य तरुणीं कृपणां कृपाण- पाणेर्भवत्प्रहितधीर्गृहमाप शौरिः ॥ १३॥कंसो यथोदितमथो तव तातनीतं तं सोऽवधीन्न कृपया निजभागिनेयम् ।आदाय नन्दनमुदारमना निकेत- मागम्य शौरिरखिलं निजगाद जायाम् ॥ १४॥((१३)हरिणारिः = सिंहः । शौरिर्वसुदेवः ॥)धन्येयं नारीदं वाक्यं श्रुत्वा स्मृत्वा चैतद्वृत्तम् ।विद्युन्मालाभिख्यं पुत्रं दृष्ट्वा चासीत्तुष्टा विष्णो ॥ १५॥तावश्च नारदमुनिर्मधुरापुरी(रीं)ता- मागच्छदाशयमयं भवतो विदित्वा ।कंसं शशंस च नृशंसमलं प्रशंसन् तं सन्निविष्टमतिहृष्टमतिं सभायाम् ॥ १६॥दैतेया यूयमेते यदव इह सुरास्त्वद्वधायैव विष्णुः प्रादुःष्यादेवमुक्तो विदुतयदुकुलः पञ्चतां षट् तनूजान् ।प्राणैषीदेष शौरेर्निभृतमहिपतावाहिते माययाथो रोहिण्यां देवकीं तां त्वमपि समविशो देव हे देवहेतोः ॥ १७॥भैरविरागेण गीयते । एकताळेन वाद्यते ।परिपाण्डुपयोधरभरभासाशरदिव शुशुभे तदनु शुभा सा((१५)अत्र मुद्रालंङ्काररीत्या “धन्येयं नारी”त्यस्य ज्योतिषिक “वाक्या”(?)न्तःपातिता वृत्तस्य विद्युन्मालाभिधेयता च द्योत्यते ॥(१७)प्रादुःष्यात् प्रादुर्भवेत् । विदुतयदुकुलः सन्तापितयादवगणः । अहिपतौ शेषांशभूते बलभद्रे ॥)पल्लवम् ।मञ्जुळदौहृदमन्दिरभूताकथमिव कथनीया तव माता (मञ्जु)कृशतरमुदरं गरिमपरीतंविबुधव्यसनमतो विपरीतं (मञ्जु)स कुचो मलिनमुखोऽतिकठोरोयदुपवदजनि विमुक्ताहारो (मञ्जु)विजहौ सा भरभयतो भूषा-मथ केवलतैवाजनि भूषा (मञ्जु)अदसीयमहो निभृतं हसितंमृदुळं च गतं भृशनिश्वसितं (मञ्जु)अवलोकितुमिव तव लळितमुखंकुचयुगळमभूदथ विनतमुखं (मञ्जु)आशां पाकरिपोः प्रसाधिततमामापादयन्नादरा- दालम्बो विबुधावलेस्त्रिजगतामेकावतंसो हरे ।मन्दम्मन्दमहो वहन् निजतनोरापूर्णतामन्वहं सोऽयं दौहृदपार्वणेन्दुरिह नो कं सप्रमोदं व्यधात् ॥ १८॥(यदुपवत् = कंस इव ॥(१८)कंसस्य प्रमोद न व्यधादेवेति च श्लेषभङ्ग्या प्रतिपाद्यते ॥)भवदेकावलम्बा सा वसुदेवकुडुम्बिनी ।आललम्बे परां शोभां जितदेवनितम्बिनी ॥ १९॥कंसस्त्वापन्नसत्त्वामिह निजसहजां शोकदामेकदा तां त्वत्सान्निध्योत्थतेजःप्रसरभृशपरिध्वस्तनेत्रप्रचाराम् ।निध्यायैवं स दध्यौ किमु कुसृतियुतः कोऽप्यसौ कृष्णसर्पोमत्प्राणैः पारणाय स्वसुरुदरगुहामध्यमद्याध्यवात्सीत् ॥ २०॥मन्नाथायां हतायां स्वसरि च युवतौ धर्मपत्न्यां च शौरे- रन्तर्वत्न्यामकीर्तिर्मम तु सहचरी नूनमाजीवनान्तम् ।हा हन्ताहिंसितायां पुनरिह सहसैवार्भकः कोऽप्यमुष्याः प्रादुर्भूतः करिष्यत्यसुरवरचमूघस्मरो भस्मसान्माम् ॥ २१॥एवं दोळायितात्मा नरपतिरजिघांसाजिघांसाभिभूतः पुत्रं तस्याः प्रसूतं प्रसभमिह निहन्तास्मि हन्तास्मि नूनम् ।इत्थं निश्चित्य दुःस्थाशय इह शयने भोजने सोऽथ याने स्नाने वा संस्मरंस्त्वां प्रतिपुरमवसत्तत्प्रसूतिप्रतीक्षः ॥ २२॥((२०)कृष्णसर्पः = कृष्ण एव सर्पः । तज्जातीयः पन्नगश्च । पारणाय = पारणां कर्तुम् ।प्राणैः पारणायेति प्रयोगश्चिन्त्यः ।(२२)द्वितीयं अस्मीत्यहमर्थेऽव्ययम् ॥)चतुर्मुखमुखा बहिर्मुखाः फुल(ल्ल)मुखाम्बुजाः ।तुष्टुवुस्त्वां तदा तुष्टा निविष्टमुद्रे(दरे)हरे ॥ २३॥मेच्चिद्भोळिरागेण गीयते । एकताळेन वाद्यते ।बोधमयाव्यय लोकहिताय हिभजसे रूपमनन्तंयत्स्मरणादपि भवसागरमिहसपदि तरन्ति दुरन्तंपल्लवम् ।याम इमे शरणं त्वां यदुवरयाम इमे शरणं त्वांत्वयि विमुखानां पतनं सुनियत-मपि सुमहितपदभाजांक्वापि कुतोऽपि न हानिरिहाजिततव सुलळितपदभाजां (याम)त्रिभुवनसाक्षी भजतेऽजित तनु-गुणकृतिमरणभवान्नो((२३)बर्हिर्मुखाः देवाः ॥)तदपि च तान्त्रि(न्नि)जभजनाय भजतिभजतामरण भवान्नो (याम)स्मरणस्मारणनिकथननिशमन-मयि खलु तव तनुनाम्नांजगति वितन्वञ्जनिमृतिमेता-मेति न सुमहितधाम्नां (याम)भवहर तनुते भवपाथोधिंभरिताधिकमहिताधिंगोवत्सपदं त्वयि तु समाधिंविदधद्विहतसमाधिं (याम)मुरहर खलनृपकृतभूभारंव्यवहर सहसोदारंमाधव मान्द्यं ननु तनु(मान्यान्ननु)तनु(न)या नोपरिपालय तरसा नो (याम)नुत्वा नत्वा गते त्वामिति विबुधगणे प्रावृताशा पयोदैः प्रावृट् प्रादुर्बभूव प्रकटरसमुपानीततत्तत्पदार्था ।अत्यासन्नप्रसूतिं सपदि परिचरन्तीव हन्तासहाया- मेनामत्यन्तदीनामिह पुनरनुकूले विधौ को न बन्धुः ॥ २४॥(विह्तसमाधिं = निरस्तसमस्तसन्तापम् ॥)कृष्णाभिख्यं जगत्यां प्रचुरतरतमोवर्धने बद्धदक्षिं(दीक्षं) व्यादीव्यत्पुष्करास्यं भुवनमहितमारात्कृतार्कप्रकाशम् ।जाया शौरेरुदीते शिशिररुचि निशीथे जयन्त्यां भवन्तं प्रादुश्चक्रेऽथ चक्रायुध वियति यथा प्रावृडेषा पयोदम् ॥ २५॥अक्षीणाभं दयार्द्रैर्मृदुहति(सि)तसखैर्वीक्षणैरीक्षमाणं लक्ष्मीनाथं स साक्षात् परमिह पुरुषं लक्ष्यमक्षामपुण्यैः ।त्रैलोक्याधीशमालोक्य च निजतनयं विस्मयस्नेहमोदै- राविष्टात्माथ शौरिः सदयित इति तुष्टाव पुष्टादरं त्वाम् ॥ २६॥कानक्कुर्ञिरागेण गीयते । एकताळेन वाद्यते ।महितशिरोधृतमणिमकुटं वर-तिलकविभासितफालंनतचिल्लीजितवल्लीतति पृथु -नयनजिताम्बुजजालं((२५)कृष्णाभित्र्यं = कृष्णनामधेयं, नीलकान्तिमिति च । तमोवर्धने = तमोगुणनाशने, अन्धकाराधिक्यकरणे च ।पुष्करास्यं पद्ममुखं, जलमुखं च । आरात्, समीपे दूरे च ॥)पल्लवम् ।कथये माधव कथमिव रूपंतव नितरामनुरूपं (कथ)त्रिभुवनबन्धुरगन्धवहं मणि।कुण्डलमण्डितगण्डंअधररुगञ्चितदन्तगणं मुख-निन्दितपङ्कजषण्डं (कथ)निर्मलकौस्तुभकम्रगळं लस-दंसगळितवनमालंवत्सविराजितवत्सतलं वर-हारोदितरुचिजालं (कथ)करधृतदरकमलारिगदं जठ-रोषितभुवनकदम्बंकेसरभासुरनाभितलं कपि-शाम्बरकम्रनितम्बं (कथ)करिवरकरकमनोरुयुगं मृदु-जानुकृताखिललोभं(वत्सतलं = उरस्थलम् । दरः = शङ्खः ।)प्रसृतायुगजितकेकिगळं प्रप-दाघृतकमठविशोभं (कथ)वल्गुरुगाततगुल्फयुगं वर-नूपुरभासुरपादंभङ्गिपदाङ्गुलिपङ्क्तिधरं नख-मणिधृ(घृ)णिधु(धृ)तविधुपादं (कथ)मृदुरेखासखपादतलं पद्-नतमतिशोधिपरागंअमलतमाभतमालनिभं जग-दानन्दननिखिलाङ्गं (कथ)दिव्यमिदं खलु तव रूपं लघुसंहर जगदभिरूपंअयि मामचिरादव कंसादल-मवमादसवतंसात् (कथ)देवकीवसुदेवाभ्यां देव कीर्तिपयोनिधे ।एवमीडित एतौ गामेवमीरितवान् भवान् ॥ २७॥(अवमात् = अधमात् ॥)मातस्तात तपस्यया हि युवयोर्मोमुद्यमानात्मना प्राग्जन्मस्मरणाय मे वपुरिदं दिव्यं मया दर्शितम् ।शश्वद् ब्रह्मधियाथवा सुतधिया मां संस्मरन्तौ युवां क्षिप्रं मत्पदमाप्नुयातममितैः प्राप्यं हि पुण्योत्करैः ॥ २८॥नन्दालये नन्दसुतां प्रसूतांयशोदयादाय यशोदयाब्धे ।निधाय मां तत्र निधे गुणानांनिषीद चात्रार्य विषीद मा त्वम् ॥ २९॥ (वर् मात्रार्य)शिशुतामितवानभिधाय भवा- न्विशदामिति गां पशुपालमणे ।प्रणयादधिकं विधुरौ पितरौ जनितावपि तौ जगती महितौ (जगतीमहितौ)॥ ३०॥विज्ञाय त्वन्मतं त्वां दधदथ गतवान् गोकुलं सूतितल्पे गृढं विन्यस्य चित्तं त्वयि च स तु यशोदाप्रसूतां सुतां ताम् ।धृत्वा विश्लेषपीडामपि सदनमुपेत्यास्त शौरिः पुरेव

Krishna Giti or Krishna NatakaM of Manaveda Raja: कृष्णगीति अथवा कृष्णनाटकम Read More »

Krishnamangalam

Shri Krishnakundashtakam: श्रीकृष्णकुण्डाष्टकम्

Shri Krishnakundashtakam: श्रीकृष्णकुण्डाष्टकम् किं तपश्चचार तीर्थलक्षमक्षयं पुरा सुप्रसीदति स्म कृष्ण एव सदरं यतः ।यत्र वासमाप साधु तत्समस्तदुर्लभे तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ १॥ यद्यरिष्टदानवोऽपि दानदो महानिधे- रस्मदादिदुर्मतिभ्य इत्यहोवसीयते ।यो मृतिच्छलेन यत्र मुक्तिमद्भुतां व्यधात् तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ २॥ Shrikrishna Karpura Stotram: श्रीकृष्णकर्पूरस्तोत्रम् गोवधस्य निष्कृतिस्त्रिलोकतीर्थकोटिभी राधयेत्यवादि तेन ता हरिः समाह्वयन् ।यत्र पार्ष्णिघाटजे ममज्ज च स्वयं मुदा तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ३॥ क्वापि पापनाश एव कर्मबन्धबन्धना- द्ब्रह्मसौख्यमेव विष्णुलोकवासिता क्वचित् ।प्रेमरत्नमत्ययत्नमेव यत्र लभ्यते तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ४॥ फुल्लमाधवीरसालनीपकुञ्जमण्डले भृङ्गकोककोकिलादिकाकली यदञ्चति ।आष्टयामिकावितर्ककोटिभेदसौरभं तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ५॥ Krishnakundashtakam दोलकेलिचित्ररासनृत्यगीतवादनै- र्निह्नवप्रसूनयुद्धसीधुपानकौतुकैः ।यत्र खेलतः कोशोरशेखरौ सहालिभि- स्तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ६॥ दिव्यरत्ननिर्मितावतारसारसौष्टवै- श्छत्रिका विराजि चारु कुट्टिमप्रभाभरैः ।सर्वलोकलोचनातिधन्यता यतो भवेत् तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ७॥ माथुरं विकुण्ठतोऽपि जन्मधामदुर्लभं वास्काननन्ततोऽपि पाणिना धृतो गिरिः ।श्रीहरेस्ततोऽपि यत्परं सरोऽतिपावनं तत्र कृष्णकुण्ड एव संस्थितिः स्तुतास्तु नः ॥ ८॥ कृष्णकुण्डतीरवाससाधकं पठेदिदं योऽष्टकं धियं निमज्य केलकुञ्जराजितोः ।राधिकागिरीन्द्रधारिणोः पदाम्बुजेषु स प्रेमदास्यमेव शीघ्रमाप्नुयादनामयम् ॥ ९॥ इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं श्रीकृष्णकुण्डाष्टकं समाप्तम् ।

Shri Krishnakundashtakam: श्रीकृष्णकुण्डाष्टकम् Read More »

Krishnamangalam

ShrIKrishna Kavacham or Trailokyavijayam Kavacham:श्रीकृष्ण अथवा त्रैलोक्यविजयं नामकवचम्

ShrIKrishna Kavacham or Trailokyavijayam Kavacham: श्रीकृष्ण अथवा त्रैलोक्यविजयं नामकवचम् नारद उवाच । भगवञ्छ्रोतुमिच्छामि किं मन्त्रं भगवान्हरः ।कृपया-ऽदात् परशुरामाय स्तोत्रं च वर्म च ॥ १॥कोवाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च ।स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हसि ॥ २॥ ShrIKrishna Kavacham नारायण उवाच । मन्त्राराध्यो हि भगवान् परिपूर्णतमः स्वयम् ।गोलोकनाथः श्रीकृष्णो गोप-गोपीश्वरः प्रभुः ॥ ३॥ त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।स्तवराजं महापुण्यं भूतियोग-समुद्भवम् ॥ ४॥ मन्त्रं कल्पतरुं नाम सर्वकाम-फलप्रदम् ।ददौ परशुरामाय रत्नपर्वत-सन्निधौ ॥ ५॥ स्वयंप्रभा-नदीतीरे पारिजात-वनान्तरे ।आश्रमे लोकदेवस्य माधवस्य च सन्निधौ ॥ ६॥ ShrIKrishna Kavacham: महादेव उवाच । वत्सागच्छ महाभाग भृगुवंश-समुद्भव ।पुत्राधिकोऽसि प्रेम्णा मे कवचग्रहणं कुरु ॥ ७॥ श‍ृणु राम प्रवक्ष्यामि ब्रह्माण्डे परमाद्भुतम् ।त्रैलोक्यविजयं नाम श्रीकृष्णस्य जयावहम् ॥ ८॥ श्रीकृष्णेन पुरा दत्तं गोलोके राधिकाश्रमे ।रासमण्डल-मध्ये च मह्यं वृन्दावने वने ॥ ९॥ अतिगुह्यतरं तत्त्वं सर्व-मन्त्रौघविग्रहम् ।पुण्यात्पुण्यतरं चैव परं स्नेहाद्वदामि ते ॥ १०॥ यद्धृत्वा पठनाद्देवी मूलप्रकृतिरीश्वरी ।शुंभं निशुंभं महिषं रक्तबीजं जघान ह ॥ ११॥ यद्धृत्वाऽहं च जगतां ShrIKrishna Kavacham संहर्ता सर्वतत्ववित् ।अवध्यं त्रिपुरं पूर्वं दुरन्तमपि लीलया ॥ १२॥ यद्धृत्वा पठनाद्ब्रह्मा ससृजे सृष्टिमुत्तमाम् ।यद्धृत्वा भगवाञ्छेषो विधत्ते विश्वमेव च ॥ १३॥ यद्धृत्वा कूर्मराजश्च शेषं धत्ते हि लीलया ।यद्धृत्वा भगवान्वायुः विश्वाधारो विभुः स्वयम् ॥ १४॥ यद्धृत्वा वरुणः सिद्धः कुबेरश्च धनेश्वरः ।यद्धृत्वा पठनादिन्द्रो देवानामधिपः स्वयम् ॥ १५॥ यद्धृत्वा भाति भुवने तेजोराशिः स्वयं रविः ।यद्धृत्वा पठनाच्चन्द्रो महाबल-पराक्रमः ॥ १६॥ अगस्त्यः सागरान्सप्त यद्धृत्वा पठनात्पपौ ।चकार तेजसा जीर्णं दैत्यं वातापिसंज्ञकम् ॥ १७॥ यद्धृत्वा पठनाद्देवी सर्वाधारा वसुन्धरा ।यद्धृत्वा पठनात्पूता गङ्गा भुवनपावनी ॥ १८॥ यद्धृत्वा जगतां साक्षी धर्मो धर्मभृतां वरः ।सर्व-विद्याधिदेवी सा यच्च धृत्वा सरस्वती ॥ १९॥ यद्धृत्वा जगतां लक्ष्मी-रन्नदात्री परात्परा ।यद्धृत्वा पठनाद्वेदान् सावित्री सा सुषाव च ॥ २०॥ वेदाश्च धर्मवक्तारो यद्धृत्वा पठनाद् भृगो ।यद्धृत्वा पठनाच्छुद्ध-स्तेजस्वी हव्यवाहनः ।सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां वरः ॥ २१॥ दातव्यं कृष्ण-भक्ताय साधवे च महात्मने ।शठाय परशिष्याय दत्वा ShrIKrishna Kavacham मृत्युमवाप्नुयात् ॥ २२॥ त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।ॠषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम् ॥ २३॥ त्रैलोक्यविजय-प्राप्तौ विनियोगः प्रकीर्तितः ।परात्परं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ २४॥ ॐ प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा ।पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ॥ २५॥ कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् ।हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥ २६॥ ॐ गोविन्दाय स्वाहेति नासिकां ShrIKrishna Kavacham पातु सन्ततम् ।गोपालाय नमो गण्डौ पातु मे सर्वतः सदा ॥ २७॥ ॐ नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम ।ॐ कृष्णाय नमः शश्वत्पातु मेऽधर-युग्मकम् ॥ २८॥ ॐ गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु ।पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥ २९॥ ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ।रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥ ३०॥ राधिकेशाय स्वाहेति कण्ठं पातु सदा मम ।नमो गोपाङ्गनेशाय वक्षः पातु सदा मम ॥ ३१॥ ॐ गोपेशाय स्वाहेति स्कन्धं पातु सदा मम ।नमः किशोर-वेषाय स्वाहा पृष्टं सदाऽवतु ॥ ३२॥ उदरं पातु मे नित्यं मुकुन्दाय नमः सदा ।ॐ ह्रीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ॥ ३३॥ ॐ विष्णवे नमो बाहुयुग्मं पातु सदा मम ।ॐ ह्रीं भगवते स्वाहा नखं पातु मे सदा ॥ ३४॥ ॐ नमो नारायणायेति नखरन्ध्रं सदाऽवतु ।ॐ श्रीं क्लीं पद्मनाभाय नाभिं पातु सदा मम ॥ ३५॥ (ह्रीं ह्रीं) ॐ सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा ।ॐ गोपीरमणाय स्वाह नितम्बं पातु मे सदा ॥ ३६॥ ॐ गोपीरमणनाथाय पादौ पातु सदा मम ।ॐ ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु।३७ ॥ ॐ केशवाय स्वाहेति मम केशान्सदाऽवतु ।नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥ ३८॥ ॐ माधवाय स्वाहेति मे लोमानि सदाऽवतु ।ॐ ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥ ३९॥ परिपूर्णतमः कृष्णः प्राच्यां ShrIKrishna Kavacham मां सर्वदाऽवतु ।स्वयं गोलोकनाथो मामाग्नेयां दिशि रक्षतु ॥ ४०॥ पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु ।नैरॄत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ॥ ४१॥ गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः ।उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥ ४२॥ ऐशान्यां मां सदा पातु वृन्दावन-विहारकृत् ।वृन्दावनी-प्राणनाथः पातु मामूर्ध्वदेशतः ॥ ४३॥ सदैव माधवः पातु बलिहारी महाबलः ।जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥ ४४॥ स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा ।सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ॥ ४५॥ इति ते कथितं वत्स सर्वमन्त्रौघ-विग्रहम् ।त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ ४६॥ मया श्रुतं कृष्ण-वक्त्रात् प्रवक्तव्यं न कस्यचित् ।गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् यः ॥ ४७॥ कण्ठे वा दक्षिणे बाहौ ShrIKrishna Kavacham सोऽपि विष्णुर्न संशयः ।स च भक्तो वसेद्यत्र लक्ष्मीर्वाणी वसेत्ततः ॥ ४८॥ यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः ।निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् ॥ ४९॥ राजसूय-सहस्राणि वाजपेय-शतानि च ।अश्वमेधायुतान्येव नरमेधायुतानि च ॥ ५०॥ महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ।त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥ ५१॥ व्रतोपवास-नियमं स्वाध्यायाध्ययनं तपः ।स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥ ५२॥ सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि ।यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् ॥ ५३॥ स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः ।यो भवेत्सिद्धकवचः सर्वज्ञः स भवेद्ध्रुवम् ॥ ५४॥ इदं कवच-मज्ञात्वा भजेत्कृष्णं सुमन्दधीः ।कोटिकल्पं प्रजप्तोऽपि न मन्त्रः सिद्धि-दायकः ॥ ५५॥ गृहीत्वा कवचं वत्स महीं निःक्षत्रियं कुरु ।त्रिस्सप्तकृत्वो निश्शंकः सदानन्दो हि लीलया ॥ ५६॥ ShrIKrishna Kavacham राज्यं देयं शिरो देयं प्रणा देयाश्च पुत्रक ।एवंभूतं च कवचं न देयं प्राणसंकटे ॥ ५७॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डेनारद-नारायणसंवादे परशुरामाय श्रीकृष्णकवच-प्रदानं नाम एकत्रिंशत्तमोऽध्ययः ॥ ब्रह्मवैवर्तपुराण । गणपतिखण्ड । अध्याय ३१/८-५७॥

ShrIKrishna Kavacham or Trailokyavijayam Kavacham:श्रीकृष्ण अथवा त्रैलोक्यविजयं नामकवचम् Read More »

Krishnamangalam

Shrikrishna Karpura Stotram: श्रीकृष्णकर्पूरस्तोत्रम्

Shrikrishna Karpura Stotram: श्रीकृष्णकर्पूरस्तोत्रम् कर्पूरं पूररेफैर्विरहितमवनी वामनेत्रेन्दुभूषं कृष्णायेदं पदं यः प्रजपति सुजनष्ठद्रयं योजयित्वा ।नानासौख्यादिभोगैः सह स विहरते दीर्घजीवी पृथिव्या- मन्ते गोलोकवासो भवति हरिरसे लीनचित्तस्य तस्य ॥ १॥ ध्यायत्रून्रूपं त्वदीयं हृदि विमलमुखं शान्तचित्तो जनो यो- मन्दं मन्दं स्मरन् सन् तव सुमनुवरं पूर्णमर्थं विचार्य ।भोः कृष्ण त्वद्विलीनं निखिलजगदिदं भावयन् सुप्रहृष्टो- जीवन्मुक्तः प्रशान्तः प्रभवति स नरो लोकपूज्यः सुरेश ॥ २॥ नादब्रह्माङ्कुरस्त्वं सुनिखिलजगदाधारबीजस्वरूपः सिद्धानां सिद्धरूपः Shrikrishna Karpura Stotram कुलजनहृदये चित्कलाकाररूपः ।कालस्यान्तस्वरूपः कलिकलुष महाकालरूपस्त्वमेव श्रीमद्योगेशवन्द्यस्त्वमसि मधुरिपुः पाहि मां दीनबन्धो ॥ ३॥ गोपीनां कामदेवो द्रुपदतनुजनुः कामधेनुस्वरूपो- गोपालानां सखा त्वं विविधनृपनुतो वान्धवः पाण्डवानाम् ।नन्दस्यानन्ददाता सहचरवरदो राधिकाचित्तचौरो- रत्नं त्वं यादवानां शिवसखकृपया रक्ष मां नाथहीनम् ॥ ४॥ विष्णुस्त्वं व्यापकत्वात्त्वमसि गिरिधरो गोशिखाधारणत्वात् कृष्णः श्यामाङ्गकत्वाद्यदुकुलजननाद्वासुदेवस्त्वमेव ।पूर्णब्रह्मात्मकत्वात्त्वमसि हि निखिलानन्दरूपाच्युताख्यः काली त्वं पुंस्वरूपा कुलजनवरदः कालसङ्कल्पनाच्च ॥ ५॥ महामेघश्यामं मणिमुकुट पीताम्बरधरं सुवेणुं बाहुभ्यां दधतमतिशोभायुततनुम् ।हरे प्रत्यालीढासनपरिगतं त्वां स्मितमुखं त्रिपञ्चारे पीठे स्मरति कुलजः कृष्णमतुलम् ॥ ६॥ दिवा श्रीकृष्ण त्वां यजति तुलसीपत्रकमलै- र्जनो यो लक्षञ्च प्रजपति मनुं ते दृढमनाः ।नरेन्द्रः सम्भूय प्रभवति स लक्ष्मीपतिरं महावागीशानी निवसति च तत्कएठकुहरे ॥ ७॥ १लतागेहे स्थित्वा २नवनिधुवनान्तर्गतमना यजन् त्वां रात्रौ श्रीरमण ३कुलपुष्पैः ४कुलधनैः ।५कुलस्थानं पश्यन् प्रजपति मनुं यः ६कुलजनः स जीवन्मुक्तः सन् विचरति शिवोऽक्षितितले ॥ ८॥ महा जन्माष्टम्यां तव चरणयुग्मं मुनिपते निशायामभ्यर्च्य प्रजपति सहस्राक्षरमनुम् ।हृदम्भोजे ध्यायन् तव ललितरूपं सपदियः सदानन्दाकारः प्रभवति स मान्यः सुरसमः ॥ ९॥ समाराध्य प्राणेन्द्रियमपि ७कुलाचारविधिना वलिं कामक्रोधादिकपशुगणानां Shrikrishna Karpura Stotram प्रतिदिनम् ।प्रयच्छेद्यस्तुभ्यं तवचरण पद्मार्पितमनाः स एव ब्रह्मज्ञः स च परशिवः सैष सकलः ॥ १०॥ अनन्त श्रीकृष्ण त्रिपुरहरवन्धो सुरनुत त्वमेतद्ब्रह्माण्डं सृजसि मनसा रक्षसि हरे ।पुनः स्वामिन् काले सकलमपि लीनं प्रकुरुषे त्वमेवैको नान्यस्त्वमसि जगतां मुख्यनिलयः ॥ ११॥ अभूमिस्त्वं भूमन् गुणविषययोर्वाङ्मनसयोः कथं स्तोतुं शक्यो भवसि धनशंशेरवचसा ।तथापि त्वद्भक्तिर्मुखरयति मामत्र भवती सपर्यापर्यायः प्रभवतु ततस्त्वत्स्तुतिरयम् ॥ १२॥ (टिप्पणी१ लताः इडापिङ्गलासुषुम्णानाडीत्रयं तस्य गेहं नाडीस्पन्दस्थानमाज्ञाचक्रम् ।२ नवनिधुवनं Shrikrishna Karpura Stotram मूलाधारगतकुण्डल्याः सहस्रारस्थपरशिवेनसह संयोगस्थानम् ॥ ३ कुलपुष्पानि मूलाधारगतकुण्डल्या सहस्रारगतचन्द्रमण्डले आघातात् निसृतलाक्षारसाभामृतविन्दवः ।४ कुलधनानि पञ्चप्राणाः५ मूलाधारस्थकुण्डल्या आरोहावरोहक्रम एव कुलाकुलक्रमः तस्य स्थानं मृणालतन्तुः ।६ “कुलाकुलकमाभ्यासद्भवेत्कौलोवरानने” । इति वचनात् एवं कौलो भवति स एव कुलजनः प्रथवा कुलतः उच्यते ।)७ कुलाचारविधिरेव कुलाकुलक्रमाभ्यासम् इति श्रीधनशंशेरजङ्गवर्मणाविरचितं वीरेन्द्रकेसरिन्शर्मणा संशोधितं श्रीकृष्ण कर्पूरस्तोत्रम् ॥

Shrikrishna Karpura Stotram: श्रीकृष्णकर्पूरस्तोत्रम् Read More »

Krishnamangalam

ShrIkRiShNakarNAmRitam:श्रीकृष्णकर्णामृतम्

ShrIkRiShNakarNAmRitam:श्रीकृष्णकर्णामृतम् ॥ प्रथमाश्वासः ॥चिन्तामणिर्जयति सोमगिरिर्गुरुर्मेशिक्षागुरुश्च भगवान् शिखिपिञ्छमौलिः ।यत्पादकल्पतरुपल्लवशेखरेषुलीलास्वयंवररसं लभते जयश्रीः ॥ १.१॥ अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतंवस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतंहस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥ १.२॥ चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरंलावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् ।कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरंबालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ॥ १.३॥ बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननंप्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितंज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम् ॥ १.४॥ मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहंमदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।विषयविषामिषग्रसनगृध्नुषि चेतसि मेविपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥ १.५॥ मुकुलायमाननयनाम्बुजं विभोर्मुरलीनिनादमकरन्दनिर्भरम् ।मुकुरायमाणमृदुगण्डमण्डलं मुखपङ्कजं मनसि मे विजृम्भताम् ॥ १.६॥ कमनीयकिशोरमुग्धमूर्तेः कलवेणुक्वणितादृताननेन्दोः ।मम वाचि विजृम्भतां मुरारेर्मधुरिम्णः कणिकापि कापि कापि ॥ १.७॥ मदशिखण्डिशिखण्डविभूषणं मदनमन्थरमुग्धमुखांबुजम् ।व्रजवधूनयनाञ्जनरञ्जितं विजयतां मम वाङ्मयजीवितम् ॥ १.८॥ पल्लवारुणपाणिपङ्कजसङ्गिवेणुरवाकुलंफुल्लपाटलपाटलीपरिवादिपादसरोरुहम् ।उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननंवल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥ १.९॥ अपाङ्गरेखाभिरभङ्गुराभिरनङ्गलीलारसरञ्जिताभिः ।अनुक्षणं वल्लवसुन्दरीभिरभ्यर्चमानं विभुमाश्रयामः ॥ १.१०॥ हृदये मम हृद्यविभ्रमाणां हृदयं हर्षविशाललोलनेत्रम् ।तरुणं व्रजबालसुन्दरीणां तरलं किञ्चन धाम सन्निधत्ताम् ॥ १.११॥ निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यांकमलविपिनवीथीगर्वसर्वङ्कषाभ्याम् ।प्रणमदभयदानप्रौढगाढोद्धताभ्यांकिमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥ १.१२॥ प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यांप्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यांप्रभवतु हृदये नः प्राणनाथः किशोरः ॥ १.१३॥ माधुर्यवारिधिमदान्धतरङ्गभङ्गीश‍ृङ्गारसंकलितशीतकिशोरवेषम् ।आमन्दहासललिताननचन्द्रबिम्बमानन्दसम्प्लवमनुप्लवतां मनो मे ॥ १.१४॥ अव्याजमञ्जुलमुखाम्बुजमुग्धभावैरास्वाद्यमाननिजवेणुविनोदनादम् ।आक्रीडतामरुणपादसरोरुहाभ्यामार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥ १.१५॥ ShrIkRiShNakarNAmRitam मणिनूपुरवाचालं वन्दे तच्चरणं विभोः ।ललितानि यदीयानि लक्ष्माणि व्रजवीथिषु ॥ १.१६॥ मम चेतसि स्फुरतु वल्लवीविभोर्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् ।कमलावनेचरकलिन्दकन्यकाकलहंसकण्ठकलकूजितादृतम् ॥ १. १७॥ तरुणारुणकरुणामयविपुलायतनयनंकमलाकुचकलशीभरपुलकीकृतहृदयम् ।मुरलीरवतरलीकृतमुनिमानसनलिनंमम खेलति मदचेतसि मधुराधरममृतम् ॥ १.१८॥ आमुग्धमर्धनयनाम्बुजचुम्ब्यमान-हर्षाकुलव्रजवधूमधुराननेन्दोः ।आरब्धवेणुरवमादिकिशोरमूर्ते-राविर्भवन्ति मम चेतसि केऽपि भावाः ॥ १.१९॥ कलक्वणितकङ्कणं करनिरुद्धपीताम्बरंक्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः ।पुनः प्रसृतिचापलं प्रणयिनीभुजायन्त्रितंमम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥ १.२०॥ स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितंप्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथो जल्पितंमिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥ १.२१॥ विचित्रपत्राङ्कुरशालिबालास्तनान्तरं मौनिमनोऽन्तरं वा ।अपास्य वृन्दावनपादपास्यमुपास्यमन्यन्न विलोकयामः ॥ १.२२॥ सार्धं समृद्धैरमृतायमानैराध्यायमानैर्मुरलीनिनादैः ।मूर्धाभिषिक्तं मधुराकृतीनां बालं कदा नाम विलोकयिष्ये ॥ १.२३॥ शिशिरीकुरुते कदा नु नः शिखिपिञ्छाभरणश्शिशुर्दृशोः ।युगलं विगलन्मधुद्रवस्मितमुद्रामृदुना मुखेन्दुना ॥ १.२४॥ कारुण्यकर्बुरकटाक्षनिरीक्षणेन तारुण्यसंवलितशैशववैभवेन ।आपुष्णता भुवनमद्भुतविभ्रमेण श्रीकृष्णचन्द्र शिशिरीकुरु लोचनं मे ॥ १.२५॥ कदा वा कालिन्दीकुवलयदलश्यामलतराःकटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराःकिमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥ १.२६॥ अधीरमालोकितमार्द्रजल्पितं गतं च गंभीरविलासमन्थरम् ।अमन्दमालिङ्गितमाकुलोन्मदस्मितं च ते नाथ वदन्ति गोपिकाः ॥ १.२७॥ अस्तोकस्मितभरमायतायताक्षं निःशेषस्तनमृदितं व्रजाङ्गनाभिः ।निस्सीमस्तबकितनीलकान्तिधारं दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ १.२८॥ मयि प्रसादं मधुरैः कटाक्षैर्वंशीनिनादानुचरैर्विधेहि ।त्वयि प्रसन्ने किमिहापरैर्नस्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ १.२९॥ ShrIkRiShNakarNAmRitam निबद्धमुग्धाञ्जलिरेष याचे नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् ।दयाम्बुधे देव भवत्कटाक्षदाक्षिण्यलेशेन सकृन्निषिञ्च ॥ १.३०॥ पिञ्छावतंसरचनोचितकेशपाशे पीनस्तनीनयनपङ्कजपूजनीये ।चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे चापल्यमेति नयनं तव शैशवे नः ॥ १.३१॥ त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि यच्चापलं च मम वागविवादगम्यम् ।तत् किं करोमि विरणन्मुरलीविलासमुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम् ॥ १.३२॥ पर्याचितामृतरसानि पदार्थभङ्गीफल्गूनि वल्गितविशालविलोचननानि ।बाल्याधिकानि मदवल्लवभावितानि भावे लुठन्ति सुदृशां तव जल्पितानि ॥ १.३३॥ पुनः प्रसन्नेन मुखेन्दुतेजसा पुरोऽवतीर्णस्य कृपामहाम्बुधेः ।तदेव लीलामुरलीरवामृतं समाधिविघ्नाय कदा नु मे भवेत् ॥ १.३४॥ भावेन मुग्धचपलेन विलोकनेन मन्मानसे किमपि चापलमुद्वहन्तम् ।लोलेन लोचनरसायनमीक्षणेन लीलाकिशोरमुपगूहितुमुत्सुकोऽस्मि ॥ १.३५॥ अधीरबिम्बाधरविभ्रमेण हर्षार्द्रवेणुस्वरसम्पदा च ।अनेन केनापि मनोहरेण हा हन्त हा हन्त मनो धुनोति ॥ १.३६॥ यावन्न मे निखिलमर्मदृढाभिघातनिस्सन्धिबन्धनमुदेत्यसवोपतापः ।तावद्विभो भवतु तावकवक्त्रचन्द्रचन्द्रातपद्विगुणिता मम चित्तधारा ॥ १.३७॥ यावन्न मे नरदशा दशमी दृशोऽपि रन्ध्रादुदेति तिमिरीकृतसर्वभावा ।लावण्यकेलिभवनं तव तावदेतु लक्ष्म्याः समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥ १.३८॥ आलोललोचनविलोकितकेलिधारानीराजिताग्रसरणेः करुणाम्बुराशेः ।आर्द्राणि वेणुनिनदैः प्रतिनादपूरैराकर्णयामि मणिनूपुरशिञ्जितानि ॥ १.३९॥ हे देव हे दयित हे जगदेकबन्धो के कृष्ण हे चपल हे करुणैकसिन्धो ।हे नाथ हे रमण हे नयनाभिराम हा हा कदा नु भवितासि पदं दृशोर्मे ॥ १.४०॥ अमून्यधन्यानि दिनान्तराणि हरे त्वदालोकनमन्तरेण ।अनाथबन्धो करुणैकसिन्धो हा हन्त हा हन्त कथं नयामि ॥ १.४१॥ किमिव श‍ृणुमः कस्य ब्रूमः कथं कृतमाशयाकथयत कथां धन्यामन्यामहो हृदयेशयः ।मधुरमधुरस्मेराकारे मनोनयनोत्सवेकृपणकृपणा कृष्णे तृष्णा चिरं बत लम्बते ॥ १.४२॥ आभ्यां विलोचनाभ्यामम्बुजदलललितलोचनं बालम् ।द्वाभ्यामपि परिरब्धुं दूरे मम हन्त दैवसमाग्री ॥ १.४३॥ अश्रान्तस्मितमरुणारुणाधरोष्ठं हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।विभ्राम्यद्विपुलविलोचनार्धमुग्धं वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥ १.४४॥ लीलायताभ्यां रसशीतलाभ्यां नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।आलोकयेदद्भुतविभ्रमाभ्यां बालः कदा कारुणिकः किशोरः ॥ १.४५॥ बहुलचिकुरभारं बद्धपिञ्छावतंसं चपलचपलनेत्रं चारुबिम्बाधरोष्ठम् ।मधुरमृदुलहासं मन्थरोदारलीलं मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ १.४६॥ बहुलजलदच्छायाचोरं विलासभरालसंमदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् ।कमपि कमलापाङ्कोदग्रप्रपन्नजगज्जितंमधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥ १.४७॥ परामृश्यं दूरे परिषदि मुनीनां व्रजवधू-दृशां दृश्यं शश्वत् त्रिभुवनमनोहारिवपुषम् ।अनामृश्यं वाचामनिदमुदयानामपि कदादरीदृश्ये देव दरदलितनीलोत्पलनिभम् ॥ १.४८॥ लीलाननाम्बुजमधीरमुदीक्षमाणंनर्माणि वेणुविवरेषु निवेशयन्तम् ।डोलायमाननयनं नयनाभिरामंदेवं कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९॥ लग्नं मुहुर्मनसि लम्पटसम्प्रदायि-लेखाविलेखनरसज्ञमनोज्ञवेषम् ।लज्जन्मृदुस्मितमधुस्नपिताधरांशु-राकेन्दुलालितमुखेन्दुमुकुन्दबाल्यम् ॥ १.५०॥ ShrIkRiShNakarNAmRitam अहिमकरकरनिकरमृदुमृदितलक्ष्मी-सरसतरसरसिरुहसदृशदृशि देवे ।व्रजयुवतिरतिकलहविजयिनिजलीला-मदमुदितवदनशशिमधुरिमणि लीये ॥ १.५१॥ करकमलदलदलितललिततरवंशीकलनिनदगलदमृतघनसरसि देवे ।सहजरसभरभरितदरहसितवीथी-सततवहदधरमणिमधुरिमणि लीये ॥ १.५२॥ कुसुमशरशरसमरकुपितमदगोपी-कुचकलशघुसृणरसलसदुरसि देवे ।मदलुलितमृदुहसितमुषितशशिशोभा-मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३॥ आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे-ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।आताम्रामधरामृते मदकलामम्लानवंशीरवे-ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ १.५४॥ तत्कैशोरं तच्च वक्त्रारविन्दं तत्कारुण्यं ते च लीलाकटाक्षाः ।तत्सौन्दर्यं सा च मन्दस्मितश्रीः सत्यं सत्यं दुर्लभं दैवतेषु ॥ १.५५॥ विश्वोपप्लवशमनैकबद्धदीक्षं विश्वासस्तवकितचेतसां जनानाम् ।पश्यामः प्रतिनवकान्तिकन्दलार्द्रं पश्यामः पथि पथि शैशवं मुरारेः ॥ १.५६॥ मौलिश्चन्द्रकभूषणा मरकतस्तम्भाभिरामं वपु-र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ ।वाचश्शैशवशीतलामदगजश्लाघ्या विलासस्थिति-र्मन्दं मन्दमये क एष मथुरावीथीमितो गाहते ॥ १.५७॥ पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौपाणी वेणुविनोदनप्रणयिनौ पर्यन्तशिल्पश्रियौ ।बाहू दोहदभाजनं मृगदृशां माधुर्यधारा गिरोवक्त्रं वाग्विभवातिलङ्घितमहो बालं किमेतन्महः ॥ १.५८॥ बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलंवक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम् ।शीलैरल्पधियामगम्यविभवैः श‍ृङ्गारभङ्गीमयंचित्रं चित्रमहो विचित्रमहहो चित्रं विचित्रं महः ॥ ११.५९॥ अग्रे समग्रयति कामपि केलिलक्ष्मी-मन्यासु दिक्ष्वपि विलोचनमेव साक्षी ।हा हन्त हस्तपथदूरमहो किमेत-दासीत् किशोरमयमम्ब जगत्त्रयं मे ॥ १.६०॥ चिकुरं बहुलं विरलं भ्रमरं मृदुलं वचनं विपुलं नयनम् ।अधरं मधुरं वदनं ललितं चपलं चरितन्तु कदाऽनुभवे ॥ १.६१॥ परिपालय नः कृपालयेत्यसकृज्जल्पितमात्मबान्धवः ।मुरलीमृदुलस्वनान्तरे विभुराकर्णयिता कदा नु नः ॥ १.६२॥ कदा नु कस्यां नु विपद्दशायां कैशोरगन्धिः करुणाम्बुधिर्नः ।विलोचनाभ्यां विपुलायताभ्यां व्यालोकयिष्यन् विषयीकरोति ॥ १.६३॥ मधुरमधरबिम्बे मञ्जुलं मन्दहासे शिशिरममृतवाक्ये शीतलं दृष्टिपाते ।विपुलमरुणनेत्रे विश्रुतं वेणुनादे मरकतमणिनीलं बालमालोकये नु ॥ १.६४॥ माधुर्यादपि मधुरं मन्मथतातस्य किमपि कैशोरम् ।चापल्यादपि चपलं चेतो मम हरति हन्त किं कुर्मः ॥ १.६५॥ वक्षःस्थले च विपुलं नयनोत्पले च मन्दस्मिते च मृदुलं मदजल्पिते च ।बिम्बाधरे च मधुरं मुरलीरवे च बालं विलासनिधिमाकलये कदा नु ॥ १.६६॥ ShrIkRiShNakarNAmRitam आर्द्रावलोकितदयापरिणद्धनेत्रमाविष्कृतस्मितसुधामधुराधरोष्ठम् ।आद्यं पुमांसमवतंसितबर्हिबर्हमालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥ १.६७॥ मारः स्वयं नु मधुरद्युतिमण्डलं नु माधुर्यमेव नु मनोनयनामृतं नु ।वाणीमृजा नु मम जीवितवल्लभो नु बालोऽयमभ्युदयते मम लोचनाय ॥ १.६८॥ बालोऽयमालोलविलोचनेन वक्त्रेण चित्रीकृतदिङ्मुखेन ।वेषेण घोषोचितभूषणेन मुग्धेन दुग्धे नयनोत्सुकं नः ॥ १.६९॥ आन्दोलिताग्रभुजमाकुलनेत्रलीलमार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।शिञ्जानभूषणशतं शिखिपिञ्छमौलिं शीतं विलोचनरसायनमभ्युपैति ॥ १.७०॥ पशुपालपालपरिषद्विभूषणं शिशुरेष शीतलविलोललोचनः ।मृदुलस्मितार्द्रवदनेन्दुसम्पदा मदयन्मदीयहृदयं विगाहते ॥ १.७१॥ var De’s version has additional verse. Numbers are not changed wi De’s.किमिदमधरवीथीकॢप्तवंशीनिनादं किरति नयनयोर्नः कामपि प्रेमधाराम् ।तदिदममरवीथीदुर्लभं वल्लभं नः त्रिभुवनकमनीयं दैवतं जीवितंच ॥ १.७२॥ var तदिदमुपनतं तमालनीलं तरलविलोचनतारकाभिरामम् ।मुदितमुदितवक्त्रचन्द्रबिम्बं मुखरितवेणुविलासजीवितं मे ॥ १.७२॥ चापल्यसीम चपलानुभवैकसीम चातुर्यसीम चतुराननशिल्पसीम ।सौरभ्यसीम सकलाद्भुतकेलिसीम सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥ १.७३॥ माधुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्तीवंशीवीथीविगलदमृतस्रोतसा सेचयन्ती ।मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजांमत्पुण्यानां परिणतिरहो नेत्रयोस्सन्निधत्ते ॥ १.७४॥ तेजसेऽस्तु नमो धेनुपालिने लोकपालिने ।राधापयोधरोत्सङ्गशायिने शेषशायिने ॥ १.७५॥ धेनुपालदयितास्तनस्थलीधन्यकुङ्कुमसनाथकान्तये ।वेणुगीतगतिमूलवेधसे तेजसे तदिदमों नमो नमः ॥ १.७६॥ मृदुक्वणन्नूपुरमन्थरेण बालेन पादाम्बुजपल्लवेन ।अनुक्वणन्मञ्जुलवेणुगीतमायाति मे जीवितमात्तकेलि ॥ १.७७॥ सोऽयं विलासमुरलीनिनदामृतेन सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम् ।आयाति मे नयनबन्धुरनन्यबन्धुरानन्दकन्दलितकेलिकटाक्षलक्ष्यः ॥ १.७८॥ दूराद्विलोकयति वारणखेलगामी धाराकटाक्षभरितेन विलोचनेन ।आरादुपैति हृदयङ्गमवेणुनादवेणीदुघेन दशनावरणेन देवः ॥ १.७९॥ त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यांदृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् ।अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-मयमयमनुकूजद्वेणुरायाति देवः ॥ १.८०॥ सोऽयं मुनीन्द्रजनमानसतापहारी सोऽयं मदव्रजवधूवसनापहारी ।सोऽयं तृतीयभुवनेश्वरदर्पहारी सोऽयं मदीयहृदयाम्बुरुहापहारी ॥ १.८१॥ सर्वज्ञत्वे च मौग्ध्ये च सार्वभौममिदं मम ।निर्विशन्नयनं तेजो निर्वाणपदमश्नुते ॥ १.८२॥ पुष्णानमेतत्पुनरुक्तशोभमुष्णेतरांशोरुदयान्मुखेन्दोः ।तृष्णाम्बुराशिं द्विगुणीकरोति कृष्णाह्वयं किञ्चन जीवितं मे ॥ १.८३॥ तदेतदाताम्रविलोचनश्रीसम्भाविताशेषविनम्रवर्गम् ।मुहुर्मुरारेर्मधुराधरोष्ठं मुखाम्बुजं चुम्बति मानसं मे ॥ १.८४॥ करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरूपदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ ।दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौविलोक्य सुविलोचनामृतमहो महच्छैशवम् ॥ १.८५॥ आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमा-नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया ।आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा-मानन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमाज्जृम्भते ॥ १.८६॥ समुच्छ्वसितयौवनं तरलशैशवालङ्कृतंमदच्छुरितलोचनं मदनमुग्धहासामृतम् ।प्रतिक्षणविलोकनं प्रणयपीतवंशीमुखंजगत्त्रयविमोहनं जयति मामकं जीवितम् ॥ १.८७॥ चित्रं तदेतच्चरणारविन्दं चित्रं तदेतन्नयनारविन्दम् ।चित्रं तदेतद्वदनारविन्दं चित्रं तदेतत्पुनरम्ब चित्रम् ॥ १.८८॥ अखिलभुवनैकभूषमधिभूषितजलधिदुहितृकुचकुम्भम् ।व्रजयुवतीहारवल्लीमरकतनायकमहामणिं वन्दे ॥ १.८९॥ कान्ताकचग्रहणविग्रहबद्धलक्ष्मीखण्डाङ्गरागरसरञ्जितमञ्जुलश्रीः ।गण्डस्थलीमुकुरमण्डलखेलमानघर्माङ्कुरं किमपि खेलति कृष्णतेजः ॥ १.९०॥ मधुरं मधुरं वपुरस्य विभोर्मधुरं मधुरं वदनं मधुरम् ।मधुगन्धि मृदुस्मितमेतदहो मधुरं मधुरं

ShrIkRiShNakarNAmRitam:श्रीकृष्णकर्णामृतम् Read More »

Krishnamangalam

ku~njavihAryaShTakam 2: कुञ्जविहार्यष्टकम् २

ku~njavihAryaShTakam 2: कुञ्जविहार्यष्टकम् २ द्वितीयं श्रीकुञ्जविहार्यष्टकंनमः कुञ्जविहारिणे ।अविरतरतिबन्धुस्मेरताबन्धुरश्रीः कबलित इव राधापाङ्गभङ्गीतरङ्गैः ।मुदितवदनचन्द्रश्चन्द्रिकापीतधारी मुदिरमधुरकान्तिर्भाति कुञ्जे विहारी ॥ १॥ ततसुषिरघनानां नादमानद्धभाजां जनयति तरुणीनां मण्डले मण्डितानाम् ।तटभुवि नटराजक्रीडया भानुपुत्र्याः विदधदतुलचारिर्भाति कुञ्जे विहारी ॥ २॥ शिखिनिगलितषड्जेकोकिले पञ्चमाढ्ये स्वयमपि नववंश्योद्दामयन् ग्राममुख्यम् ।धृतमृगमदगन्धः सुष्ठुगान्धारसंज्ञं त्रिभुवनधृतिहारिर्भाति कुञ्जे विहारी ॥ ३॥ अनुपमकरशाखोपात्तराधाङ्गुलीको लघु लघु कुसुमानां पर्यटन् वाटिकायाम् ।सरभसमनुगीतश्चित्रकण्ठीभिरुच्चैः व्रजनवयुवतीभिर्भाति कुञ्जे विहारी ॥ ४॥ अहिरिपुकृतलास्ये कीचकारब्धवाद्ये व्रजगिरितटरङ्गे भृङ्गसङ्गीतभाजि ।विरचितपरिचर्यश्चित्रतौर्यत्रिकोण- स्तिमितकरणवृत्तिर्भाति कुञ्जे विहारी ॥ ५॥ दिशि दिशि शुकशारीमण्डलैर्गूढलीलाः प्रकटमनुपठद्भिर्निर्मिताश्चर्यपूरः ।तदतिरहसि वृत्तं प्रेयसीकर्णमूले स्मितमुखमभिजल्पन् भाति कुञ्जे विहारी ॥ ६॥ तव चिकुरकदम्बं स्तम्भते प्रेक्ष्य केकी नयनकमललक्ष्मीर्वन्दते कृष्णसारः ।अलिरलमलकान्तं नौति पश्येति राधां सुमधुरमभिशंसन् भाति कुञ्जे विहारी ॥ ७॥ मदनतरलबाला चक्रवालेन विष्वग्- विविधवरकलानां शिक्षया सेव्यमानः ।स्खलितचिकुरवेशे स्कन्धदेशे प्रियायाः प्रथितपृथुलबाहुर्भाति कुञ्जे विहारी ॥ ८॥ इदमनुपमलीलाहारि कुञ्जविहारी स्मरणपदमधीते तुष्टधीरष्टकं यः ।निजगुणवृतया श्रीराधयाराधिऽऽराधितस्तं नयति निजपदाब्जं कुञ्जसद्माधिराजः ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकुञ्जविहार्यष्टकं द्वितीयं सम्पूर्णम् ॥

ku~njavihAryaShTakam 2: कुञ्जविहार्यष्टकम् २ Read More »