Shri Krishnacharitra Manjari: श्रीकृष्णचारित्रमञ्जरी
Shri Krishnacharitra Manjari: श्रीकृष्णचारित्रमञ्जरी विष्णुर्ब्रह्मादिदेवैः क्षितिभरहरणे प्रार्थितः प्रादुरासीद् देवक्यां नन्दनन्दी शिशुवधविहितां पूतनां यो जघान ।उत्थानौत्सुक्यकाले रथचरणगतं चासुरं पादघातै- श्चक्रावर्तं च मात्रा गुरुरिति निहितो भूतले सोऽवतान्माम् ॥ १॥ यो मातुर्जृम्भमाणो जगदिदमखिलं दर्शयन्नङ्करूढो गर्गेणाचीर्णनामा कृतरुचिरमहाबाललीलो वयस्यैः ।गोपीगेहेषु भाण्डस्थितमुरुदयया क्षीरदध्यादि मुष्णन् मृन्ना भक्षीति मातुः स्ववदनगजगद्भासयन् भासतां मे ॥ २॥ दध्नोमत्रस्य भङ्गादुपगमितरुषा नन्दपत्न्याऽथ बद्धः कृच्छ्रेणोलूखले यो धनपतितनयौ मोचयामास शापात् ।नन्दाद्यैः प्राप्य वृन्दावनमिह रमयन् वेणुनादादिभिर्यो वत्सान्पान्वत्सरूपं क्रतुभुगरिमथो पोथयन्सोऽवतान्माम् ॥ ३॥ रक्षन् वत्सान्वयस्यैर्बकमभिनदथो तिग्मतुण्डे गृहीत्वा प्रीतिं कर्तुं सखीनां खरमपि बलतो घातयन् कालियाहिम् ।उन्मथ्योद्वास्य कृष्णामतिविमलजलां यो व्यधाद्दाववह्निं सुप्तानावृत्य गोष्ठे स्थितमपिबदसौ दुष्टवृक्षच्चिदव्यात् ॥ ४॥ दुर्गारण्यप्रवेशाच्च्युतनिजसरणीन् गोगणानाह्वयद्यो दावाग्निं तत्र पीत्वा समपुषदनुगान् गोपकानाविषिण्णान् ।गोभिर्गोपैः परितः सरिदुदकतटस्थोपले भोज्यमन्नं भुक्त्वा वेणोर्निनादाद्व्रजगतवनिताचित्तहारी स माऽव्यात् ॥ ५॥ कृष्णोऽस्माकं पतिः स्यादिति कृततपसां मज्जने गोपिकानां नग्नानां वस्त्रदाता द्विजवरवनितानीतमन्नं समश्नन् ।श्रान्तैर्गोपैः समं यो बलमथनबलावाहृतेऽस्मिन् सवृष्टौ प्रोद्ध्रुत्याहार्यवर्यं निजजनमखिलं पालयन् पात्वसौ माम् ॥ ६॥ गोविन्दाख्योऽथ तातं जलपतिहृतमानीय लोकं स्वकीयं यः कालिन्द्या निशायामरमयदमलज्योत्स्नया दीपितायाम् ।नन्दादीनां प्रदर्श्य व्रजगतवनितागानकृष्टार्तचित्ताः चार्वङ्गीर्नर्मवाक्यैः स्तनभरनमिताः प्रीणयन् प्रीयतां नः ॥ ७॥ अन्तर्धत्ते स्म तासां मदहरणकृते त्वेकया क्रीडमानः स्वस्कन्धारोहणाद्यैः पुनरपि विहितो गर्वशान्त्यै मृगाक्ष्याः ।खिन्नानां गोपिकानां बहुविधनुतिभिर्यो वहन् प्रीतिमाविः- प्राप्तो रासोत्सवेन न्यरमयदबलाः प्रीयतां मे हरिः सः ॥ ८॥ हत्वा यः शङ्खचूडं मणिमथ समदादग्रजायार्तगोपी- गीतानेकस्वलीलो हतवृषभमहापूर्वदेवोऽमरेड्यः ।केशिप्राणापहारी सुरमुनिवदनप्रार्थिताशेषकृत्यो हत्वा पुत्रं मयस्य स्वजनमपिहितं मोचयन् मोक्षदः स्यात् ॥ ९॥ अक्रूराकारितो यान् व्रजयुवतिजनान्सान्त्वयित्वाऽभितप्तान् स्वं रूपं मज्जतेऽस्मै विलसितमहिगं दर्शयंस्तेन वन्द्यः ।यो गत्वा कंसधानीं हृतरजकशिराश्चारुवेषः सुदाम्नः प्रीतिं कुर्वंस्त्रिवक्रां व्यतनुत रुचिरां पौरमह्योऽवतात्सः ॥ १०॥ शार्वं भङ्क्त्वा धनुर्यो बलमपि धनुषो रक्षकं कुञ्जरं तं मल्लांश्चाणूरपूर्वानपि सहसहजो मर्दयन्स्तुङ्गमञ्चात् ।भोजेशं पातयित्वा व्यसुमकृत निजान् नन्दयन् प्राप्य गर्गात् द्वैजं संस्कारमाप्तो गुरुमथ विदिताशेषविद्योऽवतान्नः ॥ ११॥ दत्वा पुत्रं प्रवक्त्रे प्रतिगतमधुरः सान्त्वयन्नुद्धवास्या- द्गोष्टस्थान् नन्दपूर्वानरमयदबलां प्रीतिकृद्यः शुभस्य ।अक्रूरस्याथ तेन प्रतिविदितपृथापुत्रकृत्यो जरायाः सूनुं निर्भिन्नसेनं व्यतनुत बहुशो विद्रुतं नः स पायात् ॥ १२॥ पुर्या निर्गत्य रामादथ सहमुसली प्राप्य कृष्णोऽभ्यनुज्ञां गोमन्तं चापि मौलिं खगपतिविहितां वासुदेवं सृगालम् ।हत्वा शत्रुं च पुर्यामधिजलधि पुरीं निर्मितां बन्धुवर्गान् नित्ये यः सोऽवतान्नः प्रमथितयवनो मौचुकुन्दाक्षिवह्नेः ॥ १३॥ राज्ञा संस्तूयमानो हतयवनबलो भीतवन्मागधेशा- द्गोमन्तं प्राप्य भूयो जितमगधपतिर्जातशान्ताग्निशैलः ।आगत्य द्वारकां यो हृदिकसुतगिरा ज्ञातकौन्तेयकृत्यः पश्यत्स्वादाय भैष्मीं नृषु युधि जितावान्भूभृतः प्रीयतां नः ॥ १४॥ वैरूप्यं रुक्मिणो योऽकृत मणिसहितं जाम्बवद्देहजातां सत्यां तेनैव युक्तामपि परिजगृहे हस्तिनं कुल्यहेतोः ।यातो व्यस्यात्र सत्याशुचमथ समगाद्द्वारकां सत्ययेतो द्रष्टुं पार्थान्सकृष्णान्द्रुपदपुरमगाद्विद्धलक्ष्यान्स पायात् ॥ १५॥ कृष्णः प्राप्याथ सत्राजिदहितवधकृद्यः श्वफल्कस्य सूनौ रत्नं सन्दर्श्य रामं व्यधित गतरूषं द्रष्टुकामः प्रतस्थे ।इन्द्रप्रस्थस्थस्थपार्थानथ सहविजयो यामुनं तीरमायन् कालिन्दीं तत्र लब्ध्वा यमसुतपुरकृत् पातु मां द्वारकास्थः ॥ १६॥ यो जह्ने मित्रविन्दामथ दृढवृषभान् सप्त बध्वाऽपि नीलां भद्रां मद्रेशपुत्रीमपि परिजगृहे शक्र विज्ञापितार्थः ।तार्क्ष्यरूढः सभार्यो हिमगिरिशिखरे भौमदुर्गं समेत्य छित्वा दुर्गाणि कृन्त्वा मुरगलमरिणा देवतेड्यः स माऽव्यात् ॥ १७॥ त्रिंशत्पञ्चावधीद्यः सचिववरसुतान् भूमिजेनातिघोरं युद्धं कृत्वा गजाद्यैररिहृतशिरसं तं व्यधाद्भूस्तुतोऽथ ।कृत्वा राज्येऽस्य सूनुं वरयुवतिजनान् भूरिशश्चारुवेषान् प्रापय्य द्वारकां सोऽकृत मुदमदितेः कुण्डलाभ्यामवेन्माम् ॥ १८॥ इन्द्राराध्योऽमरेन्द्रप्रियतममगमाहृत्य देवान् विजित्य प्राप्याथ द्वारकां यः सुतमतिरुचिरं रुक्मिणीशः प्रपेदे ।भ्रातृव्यं पौण्ड्रकाख्यं पुररुधमतनोत् कृत्तशीर्षं तदीया- पत्योत्पन्नां च कृत्यां रथचरणरुचा कालयन् कामधुक् स्यात् ॥ १९॥ कृष्णः सूर्योपरागे निजयुवतिगणैर्भार्गवं क्षेत्रमाप्त- स्तत्रायातान् स्वबन्धून् मुनिगणमपि सन्तोष्य यज्ञं स्वपित्रा ।योऽनुष्ठाप्याप्य नैजं पुरमथ वदिताऽनेकतत्त्वानि पित्रे मातुः पुत्रान् प्रदर्श्याकृत हितमहितं मेऽपनुद्यात् स ईशः ॥ २०॥ रुक्मिण्या नर्मवाक्यैररमत बहुभिः स्त्रीजनैर्योऽथ पुत्रा- नेकैकस्यां प्रपेदे दश दश रुचिरान् पौत्रकानप्यनेकान् ।पौत्रस्योद्वाहकाले भृशकुपितबलाद्रुक्मिणं घातयित्वा नन्दन् योषिद्गणेन प्रतिगृहमबलाप्रीतिकारी गतिर्मे ॥ २१॥ नानारत्नप्रदीप्तासमविभवयुतद्व्यष्टसाहस्रकान्ता- गेहेष्वश्नन् शयानः क्व च जपमगृयादीनि कुर्वन् क्वचिच्च ।दीव्यन्नक्षैर्ब्रुवाणः प्रवचनमपरैर्मन्त्रयन्नेवमादि- व्यापरान्नादरस्य प्रतिसदमहो दर्शयन् नः स पायात् ॥ २२॥ प्रातर्ध्यायन् प्रसन्नः कृतनिजविहितः सत्सभां प्राप्य कृष्णो दूतं राज्ञां प्रतोष्यामरमुनिविदिताशेषकृत्यः प्रयासीत् ।शक्रप्रस्थं चमूभिर्बहुविभवयुतं बन्धुभिर्मानितोऽयं भीमेनापात्य बार्हद्रथमथ नृपतीन् मोचयन्मे प्रसीदेत् ॥ २३॥ पुत्रं राज्येऽस्य कृत्वा हृतशिरसमथो चेदिराजं विधाय प्रोद्यन्तं राजसूयं यमसुतविहितं संस्थितं यो विधाय ।शक्रप्रस्थात् प्रयातो निजनगरमसौ साल्वभग्नं समीक्ष्य क्रुद्धो घन्नब्धिगं तं शिववरबलिनं यान् पुरं पातु नित्यम् ॥ २४॥ विप्रादाकर्ण्य धर्मं वनगतमनुजैः सान्त्वयित्वैत्य सर्वा- नभ्येत्य द्वारकां यो नृगमथ कुजनिं दिव्यरूपं चकार ।गत्वा वैदेहगेहं कतिपयदिवसांस्तत्र नीत्वाऽतिभक्तौ सन्तोष्य द्वारकां यान् बहुबलसमतोऽयन्नुपप्लाव्यमव्यात् ॥ २५॥ दौत्यं कुर्वन्ननन्ता निजरुचिरतनूर्दर्शयन् दिव्यदृष्टे- र्गीतातत्त्वोपदेशाद्रणमुखविजयस्याचरन् सारथित्वम् ।नीत्वा कैलासमेनं पशुपतिमुखतो दापयित्वाऽस्त्रमस्मै भीमेनापात्य दुष्टं क्षितिपतिमकरोद्धर्मराजं तमीडे ॥ २६॥ प्राप्तः स्थानं यदूनां प्रियसखमकृतावाप्तकामं कुचेलं कुर्वन् कर्माश्वमेधं निजभवनमथो दर्शयित्वाऽर्जुनाय ।पुत्रान् विप्राय दत्वा सहसहजमसौ दन्तवक्रं निपात्य प्राप्याथ द्वारकां स्वां समवतु विहरन्नुद्धवायोक्ततत्त्वः ॥ २७॥ रक्षन् लोकान् समस्तान् निजजननयनान्दकारी निरस्ता- वद्यः सौख्यैकमूर्तिः सुरतरुकुसुमैः कीर्यमाणोऽमरेन्द्रैः ।सिद्धैर्गन्धर्वपूर्वैर्जयजयवचनैः स्तूयमानोऽत्र कृष्णः स्त्रीभिः पुत्रैश्च पौत्रैः स जयति भगवान् सर्वसम्पत्समृद्धः ॥ २८॥ इति श्रीकृष्णचारित्रमञ्जरी लेशतः कृता ।राघवेन्द्रेण यतिना भूयात् कृष्णप्रसाददा ॥ २९॥ श्रीराघवेन्द्रतीर्थश्रीचरणविरचिता श्रीकृष्णचारित्रमञ्जरीभारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Shri Krishnacharitra Manjari: श्रीकृष्णचारित्रमञ्जरी Read More »

KARMASU