Shri Kaviraja Stuti: श्रीकविराजस्तुतिः Shri Kaviraja Stuti:विलोचनकदम्बकं यदुपलभ्य लुभ्य त्किमा- लिलेह न हि किं पपौ न हि ममज्ज किंवा न हि ।परं तु किमिवाभवन्नवतमाललक्ष्मीतिर- रिक्रयानिगमसाम्प्रदायिकमुपास्महे तन्महः ॥ १॥अबालकजवाधरः सलिलवाहवाहद्युतिः नवाब्जवनवादिदृग्बृहदवार्यबाहुद्वयः ।स वाङ्मनसबाह्यद्दक्प्रमदवारवारां निधिः भवाल्लवणवारिधेः सविधवासवानुद्धरेत् ॥ २॥यदीयसुषमावलोकनमुदः शरत्कौमुदी- कदम्बपरिशीलनप्रमदधाटिकाचेटिका ।तदम्बुदकदम्बडम्बरविडम्बिकिञ्चिच्छर-…
EkAkSharakRiShNamantram:एकाक्षरकृष्णमन्त्रम् ॐ पूर्णज्ञानात्मने हृदयाय नमः ।ॐ पूणैश्वर्यात्मने शिरसे स्वाहा ।ॐ पूर्णपरमात्मने शिखायै वषट् ।ॐ पूर्णानन्दात्मने कवचाय हुं ।ॐ पूर्णतेजात्मने नेत्राभ्यां वौषट् ।ॐ पूर्णशक्त्यात्मने अस्त्राय फट् ।इति दिग्बन्धः ॥एकाक्षर श्रीकृष्णमहामन्त्रस्य -ब्रह्मा ऋषिः - निचृत् गायत्री छन्दः - श्रीकृष्णो देवता -श्रीकृष्णप्रीत्यर्थे जपे…
एकश्लोकी भागवतम्:ekashlokI bhAgavatam आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम् मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ।कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम् एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् । इति श्रीभागवतसूत्र ॥ Shri Krishna's charitam in short is that he is Devaki's son, Gopi's admiration, Putana's killer, holder of Govardhan Giri, slayer of…
Utkalikavallarih: उत्कलिकावल्लरीः श्रीवृन्दारण्यविहारिणे नमः । प्रपद्य वृन्दावनमध्यमेकः क्रोशन्नसावुत्कलिकाकुलात्मा । उद्घाटयामि ज्वलतः कठोरां बाष्पस्य मुद्रां हृदि मुद्रितस्य ॥ १॥ अये वृन्दारण्य त्वरितमिह ते सेवनपराः परामापुः के वा न किल परमानन्दपदवीम् । अतो नीचैर्याचे स्वयमधिपयोरीक्षणविधे- र्वरेण्यां मे चेतस्युपदिश दिशं हा कुरु कृपाम्…
Udupi shrIkRiShNa suprabhAtam: उडुपि श्रीकृष्ण सुप्रभातम् Udupi shrIkRiShNa suprabhAtam: उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥॥नारायणाखिल शरण्य रथाङ्ग पाणे ।प्राणायमान विजयागणित प्रभाव ।गीर्वाणवैरि कदलीवन वारणेन्द्र ।मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १॥उत्तिष्ठ दीन पतितार्तजनानुकम्पिन् ।उत्तिष्ठ विश्व रचना…
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ स्वतःसिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासध्रीचीभिः द्युतिभिरपतापतिभुवनम् । अनन्तैः त्रय्यन्तैरनुविदितहेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि वहः ॥ व्याख्यानं इन्दिरामन्दिरोरस्कमिन्दादिसुरवन्दितम्- वन्दारुबृन्दमन्दारं वन्दे गोविन्दबालकम् ॥ १॥ कन्दर्पसंवराकारं बृन्दावनविभूषणम् । आनन्दकन्दजं नन्दनन्दनं वन्दिषीमहि ॥ प्रणिपत्य गुरूत्तंसं श्रीमद्वेदान्तदेशिकम् । हयग्रीवस्तवव्याख्यां…
आनन्दस्तोत्रम्: Anandastotram श्रीकृष्णः परमानन्दो गोविन्दो नन्दनन्दनः । तमालश्यामलरुचिः शिखण्डकृतशेखरः ॥ १॥ पीतकौशेयवसनो मधुरस्मितशोभितः । कन्दर्पकोटिलावण्यो वृन्दारण्यमहोत्सवः ॥ २॥ वैजयन्तीस्फुरद्वक्षाः कक्षात्तलगुडोत्तमः । कुञ्जापितरतिर्गुञ्जापुञ्जमञ्जुलकण्ठकः ॥ ३॥ कर्णिकाराढ्यकर्णश्रीधृतिस्वर्णाभवर्णकः । मुरलीवादनपटुर्वल्लवीकुलवल्लभः ॥ ४॥ गान्धर्वाप्तिमहापर्वा राधाराधनपेशलः । इति श्रीकृष्णचन्द्रस्य नाम विंशतिसंज्ञितम् ॥ ५॥ आनन्दाख्यं महास्तोत्रं…
आनन्दचन्द्रिकास्तोत्रम्: Anandachandrikastotram श्रीश्रीराधाकृष्णाभ्यां नमः ।ध्यानम् ।अङ्गश्यामलिमच्छटाभिरभितो मन्दीकृतेन्दीवरं जाड्यं जागुडरोचिषां विदधतं पट्टाम्बरस्य श्रिया ।वृन्दारण्यविलासिनं हृदि लसद्दामाभिरामोदरं राधास्कन्धनिवेशितोज्ज्वलभुजं ध्यायेम दामोदरम् ॥अथ श्रीराधिकाया आनन्दचन्द्रिकास्तोत्रंश्रीराधिकायै नमः ।राधादामोदरप्रेष्ठा राधिका वार्षभानवी ।समस्तवल्लवीवृन्दधम्मिल्लोत्तंसमल्लिका ॥ १॥कृष्णप्रियावलीमुख्या गान्धर्वा ललितासखी ।विशाखासख्यसुखिनी हरिहृद्भृङ्गमञ्जरी ॥ २॥इमां वृन्दावनेश्वर्या दशनाममनोरमाम् ।आनन्दचन्द्रिकां नाम यो रहस्यां…
Aksharadhamadhipatilakshanavarnanam: अक्षरधामाधिपतिलक्षणवर्णनम् पूर्वं त्वसाधारणलक्षणं यच्छ्रीस्वामिनारायणदिव्यमूर्तेः । पूर्वावतारान् सकलान् स्वमूर्ती सन्दर्शयेदुक्तमिदं हि लक्ष्म ॥ १॥ वैकुण्ठलोकादिषु दिव्यमूर्ती दिव्येऽद्भुतैश्वर्यसुखे च तासु । स्वकीयरूपे शतशो मनुष्यान् सन्दर्शयेच्चिह्नमिदं द्वितीयम् ॥ २॥ साधारणानपि तं समाधिं यः कारयित्वा मनसः प्रवृत्तिम् । संरोधयेत् स्वात्मनि तत्तृतीयं लक्ष्मोदितं ब्रह्मपुराधिपस्य…
वेदान्तस्वद्रुमायस्तलपरिलसिताष्टाक्षराष्टच्छदाब्जे तिष्ठन् वामाङ्घ्रिणासावितरपदतलं वामतोऽग्रे निधाय । बिभ्रत् सर्वा विभूतीर्मणिगणविलसद्भूषणश्यामलश्रीः शब्दब्रह्मात्मवेणुं भुवनधृतिहरं नादयन् माधवोऽव्यात् ॥ १॥ इति श्री अष्टाक्षरीध्यानं सम्पूर्णम् ।
AShTashlokI:अष्टश्लोकी अकारार्थो विष्णुर्जगदुदयरक्षाप्रलयकृत्मकारार्थो जीवस्तदुपकरणं वैष्णवमिदम् ।उकारोऽनन्यर्हं नियमयति सम्बन्धमनयोःत्रयीसारस्त्र्यात्मा प्रणव इममर्थं समदिशत् ॥ १॥मन्त्रब्रह्मणि मध्यमेन नमसा पुंसःस्वरूपङ्गतिःगम्यं शिक्षितमीक्षितेन पुरतःपश्चादपि स्थानतः ।स्वातन्रयं निजरक्षणं समुचिता वृत्तिश्च नान्योचितातस्यैवेति हरेर्विविच्य कथितं स्वस्यापि नार्हं ततः ॥ २॥अकारार्थायैवस्वमहमथ मह्यं न निवहाःनराणां नित्यानामयनमिति नारायणपदम् ।यमाहास्मै कालं सकलमपि सर्वत्र…
Ashtamahishiyuta Krishna Stotram: अष्टमहिषीयुतकृष्णस्तोत्रम् हृद्गुहाश्रितपक्षीन्द्रवल्गुवाक्यैः कृतस्तुते । तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते ॥ १॥ अत्युन्नत्याऽखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित । सत्ययोजित सत्यात्मन् सत्यभामापते नमः ॥ २॥ जाम्बवत्याः कम्बुकण्ठालम्बिजृम्भिकराम्बुज । शम्भुत्र्यम्बकसम्भाव्यं साम्बतात नमोऽस्तु ते ॥ ३॥ नीलाय विलसद्भूषाजालायोज्ज्वलमालिने । लोलालकोद्यत्फालाय कालिन्दीपतये नमः ॥ ४॥…