DURGA

bhavAnIstuti

Durga Chandrakala Stuti: दुर्गाचन्द्रकलास्तुतिः

Durga Chandrakala Stuti: दुर्गाचन्द्रकलास्तुतिः वेधोहरीश्वरस्तुत्यां विहर्त्रीं विन्ध्यभूधरे ।हरप्राणेश्वरीं वन्दे हन्त्रीं विबुधविद्विषाम् ॥ १॥ अभ्यर्थनेन सरसीरुहसम्भवस्य त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् ।विश्वेश्वरी विपदपागमने पुरस्तात् माता ममास्तु मधुकैटभयोर्निहन्त्री ॥ २॥ प्राङ्निर्जरेषु निहितैर्निजशक्तिलेशैः एकीभवद्भिरुदिताखिललोकगुप्त्यै ।सम्पन्नशस्त्रनिकरा च तदायुधस्थैः माता ममास्तु महिषान्तकरी पुरस्तात् ॥ ३॥ प्रालेयशैलतनया तनुकान्तिसम्पत्- कोशोदिता कुवलयच्छविचारुदेहा ।नारायणी नमदभीप्सितकल्पवल्ली सुप्रीतिमावहतु शुम्भनिशुम्भहन्त्री ॥ ४॥ विश्वेश्वरीति महिषान्तकरीति यस्याः नारायणीत्यपि च नामभिरङ्कितानि ।सूक्तानि पङ्कजभुवा च सुरर्षिभिश्च दृष्टानि पावकमुखैश्च शिवां भजे ताम् ॥ ५॥ उत्पत्तिदैत्यहननस्तवनात्मकानि संरक्षकाण्यखिलभूतहिताय यस्याः ।सूक्तान्यशेषनिगमान्तविदः पठन्ति तां विश्वमातरमजस्रमभिष्टवीमि ॥ ६॥ ये वैप्रचित्तपुनरुत्थितशुम्भमुख्यैः दुर्भिक्षघोरसमयेन च कारितासु ।आविष्कृतास्त्रिजगदार्तिषु रूपभेदाः तैरम्बिका समभिरक्षतु मां विपद्भ्यः ॥ ७॥ सूक्तं यदीयमरविन्दभवादिदृष्टं आवर्त्य देव्यनुपदं सुरथः समाधिः ।द्वावप्यवापतुरभीष्टमनन्यलभ्यं तामादिदेवतरुणीं प्रणमामि देवीम् ॥ ८॥ माहिष्मतीतनुभवं च रुरुं च हन्तुं आविष्कृतैर्निजरसादवतारभेदैः ।अष्टादशाहतनवाहतकोटिसंख्यैः अम्बा सदा समभिरक्षतु मां विपद्भ्यः ॥ ९॥ एतच्चरित्रमखिलं लिखितं हि यस्याः सम्पूजितं सदन एव निवेशितं वा ।दुर्गं च तारयति दुस्तरमप्यशेषं श्रेयः प्रयच्छति च सर्वमुमां भजे ताम् ॥ १०॥ यत्पूजनस्तुतिनमस्कृतिभिर्भवन्ति प्रीताः पितामहरमेशहरास्त्रयोऽपि ।तेषामपि स्वकगुणैर्ददतीं वपूंषि तामीश्वरस्य तरुणीं शरणं प्रपद्ये ॥ ११॥ कान्तारमध्यदृढलग्नतयाऽवसन्नाः मग्नाश्च वारिधिजले रिपुभिश्च रुद्धाः ।यस्याः प्रपद्य चरणौ विपदस्तरन्ति सा मे सदाऽस्तु हृदि सर्वजगत्सवित्री ॥ १२॥ बन्धे वधे महति मृत्युभये प्रसक्ते वित्तक्षये च विविधे च महोपतापे ।यत्पादपूजनमिह प्रतिकारमाहुः सा मे समस्तजननी शरणं भवानी ॥ १३॥ बाणासुरप्रहितपन्नगबन्धमोक्षः तद्बाहुदर्पदलनादुषया च योगः ।प्राद्युम्निना द्रुतमलभ्यत यत्प्रसादात् सा मे शिवा सकलमप्यशुभं क्षिणोतु ॥ १४॥ पापः पुलस्त्यतनयः पुनरुत्थितो मां अद्यापि हर्तुमयमागत इत्युदीतम् ।यत्सेवनेन भयमिन्दिरयाऽवधूतं तामादिदेवतरुणीं शरणं गतोऽस्मि ॥ १५॥ यद्ध्यानजं सुखमवाप्यमनन्तपुण्यैः साक्षात्तमच्युतपरिग्रहमाश्ववापुः ।गोपाङ्गनाः किल यदर्चनपुण्यमात्रात् सा मे सदा भगवती भवतु प्रसन्ना ॥ १६॥ रात्रिं प्रपद्य इति मन्त्रविदः प्रपन्नान् उद्बोध्य मृत्यवधिमन्यफलैः प्रलोभ्य ।बुद्ध्वा च तद्विमुखतां प्रतनं नयन्तीं आकाशमादिजननीं जगतां भजे ताम् ॥ १७॥ देशकालेषु दुष्टेषु दुर्गाचन्द्रकलास्तुतिः ।सन्ध्ययोरनुसन्धेया सर्वापद्विनिवृत्तये ॥ १८॥ इति श्रीमदपय्यदीक्षितविरचिता दुर्गाचन्द्रकलास्तुतिः समाप्ता ।

Durga Chandrakala Stuti: दुर्गाचन्द्रकलास्तुतिः Read More »

bhavAnIstuti

Shri Navadurgasvarupanusandhana Stuti: श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः

Shri Navadurgasvarupanusandhana Stuti: श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः वक्ष्येऽहं नव दुर्गायाः स्वरूपाण्यधुना क्रमात् । प्रथमा वन दुर्गा स्यात् शूलिन्याख्या द्वितीयिका ॥ १॥ तृतीया जातवेदास्तु शान्तिदुर्गा चतुर्थिका । पञ्चमी शबरी दुर्गा ज्वलद् दुर्गा च षष्ठिका ॥ २॥ सप्तमी लवणाभिख्या दीपदुर्गा तथाऽष्टमी । नवमी ह्यासुरी दुर्गा प्रोक्ता एता नवाम्बिकाः ॥ ३॥ पुरा भण्डमहायुद्धे ललिताम्बाऽट्टहासतः । आविर्भूता इमा देव्यः मध्वाद्यसुरभीकराः ॥ ४॥ स्मरणादर्चनात्तासां जपात् दुर्गाणि मानवाः । तरन्ति तरसा नान्यो ह्युपायोऽस्ति कलौ युगे ॥ ५॥ दुःखेन शत्रुभिर्गन्तुमशक्यत्वात् यतोऽम्बिका । दुर्गेति कथिता शम्भुं समरोद्युक्तमाश्रिता ॥ ६॥ दुर्गात् सन्त्रायते यस्मात् देवी दुर्गेति कथ्यते । प्रपद्ये शरणं देवि चेत्याहाथर्वणी श्रुतिः ॥ ७॥ आक्रीडायां भवानी सा शम्भोः कोपे तु काळिका । जगतां पालने विष्णुः युद्धे दुर्गा शिवप्रिया ॥ ८॥ समष्टि व्यष्टि भेदेन द्विधा तन्मूर्तिरीरिता । समष्टिरेव सर्वत्र पूज्यते हि द्विजातिभिः ॥ ९॥ विख्याता सर्वदा दुर्गा महिषासुरमर्दिनी । समष्टिरूपिणी देवी नवदुर्गात्मिका शिवा ॥ १०॥ विन्ध्यदर्पविनाशार्थमगस्त्येन वने पुरा । या दुर्गा पूजिता तस्मात् वनदुर्गेति कीर्तिता ॥ ११॥ त्रिपुराणां महायुद्धे वहन्ती शूलमायुधम् । शम्भोः वामगता दुर्गा तस्मात् सा शूलिनी मता ॥ १२॥ जातवेदः स्वरूपा या गङ्गां नयति शाम्भवम् । वीर्यं तस्मात् जातवेदोदुर्गेति प्रथिता भुवि ॥ १३॥ ऋणरोगपिशाचादि सर्वोपद्रव नाशनात् । रुद्रकोपप्रशमनात् शान्ति दुर्गेति कीर्तिता ॥ १४॥ या पार्थस्यानुग्रहार्थं शबरात्मानमीश्वरम् । पुरा वने ह्यनुगता तस्मात्सा शबरी मता ॥ १५॥ रक्षार्थं शक्तिसेनास्ताः पुरा भण्डासुराहवे । अभिजज्वाल शिबिरं ज्वलद् दुर्गा ततो मता ॥ १६॥ लवणासुर संहृत्यै लक्ष्मणेन समर्चिता । या पुरा रामविनुता सा दुर्गा लवणाभिधा ॥ १७॥ हार्दान्धकारं या दुर्गा वारयन्त्याशु योगिनाम् । दीपवत्तिमिरं सा स्यात् दीपदुर्गा सुखप्रदा ॥ १८॥ असुरान् मोहयन्ती या पुराऽयच्छत् सुधारसम् । सुरेभ्यः साऽऽसुरी दुर्गा कीर्तिता सर्वसिद्धिदा ॥ १९॥ समष्टिदुर्गा अरिशङ्खकृपाण खेट बाणान्सधनुश्शूलक तर्जनीर्दधाना । मम सा महिषोत्तमाङ्गसंस्था नवदुर्गासदृशी श्रियेऽस्तु दुर्गा ॥ २०॥ १. वनदुर्गाध्यानम् । सौवर्णाम्बुज मध्यगां त्रिनयनां सौदामिनी सन्निभां शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् । ग्रैवेयाङ्गद हार कुण्डलधरामाखण्डलाद्यैः स्तुतां ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ २१॥ २. शूलिनीदुर्गाध्यानम् । अध्यारूढां मृगेन्द्रं सजलजलधरश्यामळां हस्त पद्मैः शूलं बाणं कृपाणीमरिजलजगदाचापपाशान्वहन्तीम् । चन्द्रोत्तंसां त्रिनेत्रां चतसृभिरसिना खेटकं बिभ्रतीभिः कन्याभिः सेव्यमानां प्रतिभटभयदां शूलिनीं भावयामि ॥ २२॥ ३. जातवेदोदुर्गाध्यानम् । विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवाळखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रधरासिखेट विशिखान् पाशाङ्कुशौ तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ २३॥ ४. शान्तिदुर्गाध्यानम् । रोगोपद्रव शत्रुभीति विविध क्रूराहि शूकोल्बणोद्- दुष्टारिष्टपिशाचजा बहुविधास्ता आपदो ह्यामयाः । यद्ध्यानात्प्रशमं प्रयान्ति सहसा सा शान्तिदुर्गाऽवतात् हस्ताश्लिष्टवरत्रिशूल कमलाभीतिर्मृगेन्द्रासना ॥ २४॥ ५. शबरीदुर्गाध्यानम् । गुञ्जाफलाकल्पित हाररम्यां श्रुत्योः शिखण्डं शिखिनो वहन्तीम् । कोदण्डबाणौ दधतीं कराभ्यां कटिस्थवल्कां शबरीं स्मरामि ॥ ६. ज्वलद्दुर्गाध्यानम् । ज्वालामालावलीढा ज्वलनशरधनुश्शङ्खचक्रासिखेटान् शूलं सन्तर्जनीं या करसरसिरुहैस्सन्दधाना त्रिनेत्रा । और्वाग्निं सङ्किरन्ती रणभुवि दितिजान्नाशयन्ती परा सा दुर्गा जाज्वल्यमाना भवतु मम सदा सिंहसंस्था पुरस्तात् ॥ २६॥ ७. लवणदुर्गाध्यानम् । करकमल विराजच्चक्रशङ्खासिशूला परिलसितकिरीटा पाटितानेकदैत्या । त्रिनयनलसिताङ्गी तिग्मरश्मिप्रकाशा पवनसखनिभाङ्गी लावणी पातु दुर्गा ॥ २७॥ ८. दीपदुर्गाध्यानम् । दीपान्तर्ज्वलितारविन्दसदृशा सिंहासनस्था शिवा शूलेष्वासशरारि शङ्ख कमलाभीतीष्ट हस्तोज्ज्वला । सम्पूज्याऽमरलोक वासिभिरसावाखेलयन्ती मुदा स्वाभादीप्तनिशा महेशरमणी दुर्गाम्बिका रक्षतात् ॥ २८॥ ९. आसुरीदुर्गाध्यानम् । शरच्चन्द्रकान्तिर्वराभीतिशूलान् सृणिं हस्तपद्मैर्दधानाऽम्बुजस्था । विभूषाम्बराढ्याऽहियज्ञोपवीता मुदोऽथर्वपुत्री करोत्वासुरी नः ॥ २९॥ समष्टिस्तुतिः । नवीकृताकारधराऽपि याऽनवीकृताऽविकारापि विकाररूपिणी । विसर्गरूपाऽप्यविसर्गरक्षणोन्मुखी सदा रक्षतु सा नवात्मिका ॥ ३०॥ दुर्गे शूलिनि जातवेदसि महाशान्त्याह्वये शाबरि ज्वालादुर्गवराभिधे लवणगे दीपाभिधे ह्यासुरि । एह्यम्बे पुरतो ममाद्य भयकृद्रोगारि पीडादिमान् विध्वस्तान् कुरु देहि सौख्यमतुलं भक्तिं तथाऽव्याहताम् ॥ ३१॥ फलाशंसनम् । नवदुर्गास्वरूपानुसन्धायकमनुत्तमम् । इदं स्तोत्रवरं नित्यं यः पठेत् सर्वसिद्धिदम् ॥ ३२॥ त्रिकालं ह्येककालं वा सङ्कान्तावयने तथा । विषौ दर्शे पौर्णमास्यामष्टम्यां भौमवासरे ॥ ३३॥ शुक्रवारे चतुर्दश्यां रोहिण्यां वा विशेषतः । कृष्णाङ्गारचतुर्दश्यां भौमाश्विन्यां पठेदिदम् ॥ ३४॥ महामृत्युं च तरति महादुर्गाणि शीघ्रतः । निशीथिन्यां जपेदेतत् वाक्सिद्धिरपि लभ्यते ॥ ३५॥ सर्वान् कामानवाप्रोति सर्वसिद्धिञ्च विन्दति । अत्युत्पातभये जाते रोगोपद्रवसम्भवे ॥ ३६॥ ऋणे बन्धे च यो धीमान् नवदुर्गां हृदि स्मरन् । पठेदाशु सुखं याति महादेव्याः प्रसादतः ॥ ३७॥ गोपनीयमिदं स्तोत्रं नात्र कार्या विचारणा । नवदुर्गा महाविद्या नवधा ह्युद्धृताश्च ताः ॥ ३८॥ जपित्वाऽन्ते पठेदेतत् स्तोत्रं तस्याणिमादयः । वशं यान्ति न सन्देहो नवदुर्गा प्रसीदति ॥ ३९॥ एवं यो हृदि भावयन् स्तुतिमिमां सङ्कीर्तयन् प्रत्यहं मन्त्राणां नवकं नवाकृतिधरां दुर्गामुपास्ते शिवाम् । संयात्याशु मनो विचिन्तितफलं सन्तानसत्सम्पदः कान्ताभूधनधान्यवर्गमतुलां पुष्टिं च निर्वैरताम् ॥ ४०॥ (अथर्वण रहस्ये श्री दक्षिणामूर्तिसंहितायां विद्याम्नाय कल्पतः) इति श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः समाप्ता ।

Shri Navadurgasvarupanusandhana Stuti: श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः Read More »

bhavAnIstuti

Shri Durgastavanam: श्रीदुर्गास्तवनम्

Shri Durgastavanam: श्रीदुर्गास्तवनम् महाकाली महालक्ष्मी महासरस्वती शिवे ।जगदम्बे महामाये शक्तिरूपे नमोऽस्तुते ॥ १॥ सुमाङ्गल्ये महेशानि सच्चिदानन्दरूपिणे ।सर्वदुःख हरे देवि मातर्दुर्गे नमोऽस्तुते ॥ २॥ सिंहस्कन्धसमारूढे सशस्त्रैर्समलङ्कृते ।अभयं कुरु मे मात तस्यैनित्यै नमो नमः ॥ ३॥ सृष्टि स्थितिलय कर्त्री परिपूर्णाच सर्वदा ।गौराङ्गीदैत्यदमनीं मातर्तस्यै नमो नमः ॥ ४॥ भक्तानां सुखदां नित्यां योगक्षेमकरीं सदा ।भयान्मे त्राहित्वन्नित्यं दुर्गेदेवि नमोऽस्तुते ॥ ५॥ शरणागतदीनानामार्तित्राण परायणे ।संसारभयनाशिन्यै देव्यैतस्यै नमो नमः ॥ ६॥ उमासती दाक्षायणी पार्वती त्वां वरानने ।सर्वत्रास हरे देवि महेशानि नमोऽस्तुते ॥ ७॥ सच्चिदानन्दरूपायै धात्र्यैशान्त्यै नमो नमः ।अनन्तभूति पूर्णायै देव्यैतस्यै नमो नमः ॥ ८॥ अनन्त कोटि ब्रह्माण्ड नायिके परमेश्वरि ।सन्मतिदान शिलायै तस्यैदेव्यै नमो नमः ॥ ९॥ अजरामरकारिण्यै भुक्तिमुक्तिञ्चसम्पदम् ।अनन्त धनधान्यादि दात्र्यैदेव्यै नमो नमः ॥ १०॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं दुर्गास्तवनं अथवा श्रीनवदुर्गास्तोत्रं सम्पूर्णम् ।

Shri Durgastavanam: श्रीदुर्गास्तवनम् Read More »

bhavAnIstuti

ShrIchaNDIdhvajastotram: श्रीचण्डीध्वजस्तोत्रम्

ShrIchaNDIdhvajastotram: श्रीचण्डीध्वजस्तोत्रम् अस्य श्री चण्डीध्वज स्त्रोत्र महामन्त्रस्य । मार्कण्डेय ऋशिः ।अनुश्तुप् छन्दः । श्रीमहालक्ष्मीर्देवता । श्रां बीजम् । श्रीं शक्तिः ।श्रूं कीलकम् । मम वाञ्छितार्थ फलसिद्ध्यर्थं विनियोगः ।अङ्गन्यसः ।श्रां श्रीं श्रुं श्रैं श्रौं श्रः इति कर हृदयादिन्यासौ । श्यानन् ।ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्यै नमो नमः ।परमानन्दरूपायै नित्यायै सततं नमः ॥ १ ॥ नमस्तेऽस्तु महादेवि परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २ ॥ रक्षमां शरण्ये देवि धन-धान्य-प्रदायिनि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ३ ॥ नमस्तेऽस्तु महाकाली परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ४ ॥ नमस्तेऽस्तु महालक्ष्मी परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ५ ॥ महासरस्वती देवी परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ६ ॥ नमो ब्राह्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ७ ॥ नमो महेश्वरी देवि परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ८ ॥ नमस्तेऽस्तु च कौमारी परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ९ ॥ नमस्ते वैष्णवी देवि परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १० ॥ नमस्तेऽस्तु च वाराही परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ११ ॥ नारसिंही नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १२ ॥ नमो नमस्ते इन्द्राणी परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १३ ॥ नमो नमस्ते चामुण्डे परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १४ ॥ नमो नमस्ते नन्दायै परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १५ ॥ रक्तदन्ते नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १६ ॥ नमस्तेऽस्तु महादुर्गे परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १७ ॥ शाकम्भरी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १८ ॥ शिवदूति नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ १९ ॥ नमस्ते भ्रामरी देवि परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २० ॥ नमो नवग्रहरूपे परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २१ ॥ नवकूट महादेवि परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २२ ॥ स्वर्णपूर्णे नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २३ ॥ श्रीसुन्दरी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २४ ॥ नमो भगवती देवि परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २५ ॥ दिव्ययोगिनी नमस्ते परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २६ ॥ नमस्तेऽस्तु महादेवि परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २७ ॥ नमो नमस्ते सावित्री परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २८ ॥ जयलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ २९ ॥ मोक्षलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ ३० ॥ चण्डीध्वजमिदं स्तोत्रं सर्वकामफलप्रदम् ।राजते सर्वजन्तूनां वशीकरण साधनम् ॥ ३२ ॥ ॥ श्रीचण्डीध्वज स्तोत्रम् ॥

ShrIchaNDIdhvajastotram: श्रीचण्डीध्वजस्तोत्रम् Read More »

bhavAnIstuti

tIvrachaNDikAstotram: तीव्रचण्डिकास्तोत्रम्

tIvrachaNDikAstotram: तीव्रचण्डिकास्तोत्रम् अथवा श्रीमार्कण्डेयपुराणोक्त चण्डिकास्तोत्रम् । ॥ ध्यानम् ॥ चामुण्डा प्रेतगा विकृता चाऽहि भूषणादंष्ट्रालि क्षीणदेहा च गर्ताक्षी कामरूपिणी ।दिग्बाहुः क्षामकुक्षि मुशलं चक्रचामरेअङ्कुशं विभ्रती खड्गं दक्श्ःइणे चाथ वामके ॥ खेटं पाशं धनुर्दण्डं कुठारं चापि बिभ्रती या देवी खड्गहस्ता सकलजनपदव्यापिनी विश्वदुर्गाश्यामाङ्गी शुक्लपाशा द्विजगणगणिता ब्रह्मदेहार्थवासा । var शुक्लनासा द्विजगणनमिताज्ञानानां साधयन्ती यतिगिरिगमनज्ञान दिव्य प्रबोधा var साधयित्रीसा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ १॥ ॐ ह्रां ह्रीं ह्रूं चर्ममुण्डे शवगमनहते भीषणे भीमवक्त्रेक्रां क्रीं क्रूं क्रोधमूर्तिर्भिः कृतस्तवमुखे रौद्रदंष्ट्राङ्कराले । var क्रोधमूर्ति विकृत कुचमुखेकं कं कं कालरात्रिः भ्रमसि जगदिदं भक्षयन्ती ग्रसन्ती var कालधारीहूङ्कारोच्चारयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ २॥ ॐ ह्रां ह्रीं ह्रूं रुद्ररूपे त्रिभुवननमिते पाशहस्ते त्रिनीत्रेरां रीं रूं रङ्गरङ्गे किलिकिलितरवे शूलहस्ते प्रचण्डे ।लां लीं लूं लम्बजिह्वे हसति कहकहाशुद्ध घोराट्टहासैःकं काली कालरात्रिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ३॥ ॐ घ्रां घ्रीं घ्रूं घोररूपे घघघघ घटितैर्घर्घुरारावघोरेनिर्मांसी शुष्कजङ्घे पिबतु नरवसा धूम्रधूम्रायमाने ।ॐ द्रां द्रीं द्रूं द्रावयन्ती सकलभुवि तथा यक्षगन्धर्वनागैः var तलेक्षां क्षीं क्षूं क्षोभयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ४॥ ॐ भ्रां भ्रीं भ्रूं चण्डवर्गे हरिहरनमिते रुद्रमूर्तिश्च कीर्तिः var ज्रां ज्रीं ज्रूंचन्द्रादित्यौ च कर्णौ जडमकुटशिरोवेष्टितां केतुमाला ।स्रक्सर्वौ चोरगेन्द्रौ शशिकिरणनिभा तारको हार कण्ठेसा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ५॥ ॐ खं खं खं गवस्ते वरकनकनिभे सूर्यकान्ति स्वतेजः var खड्गहस्तेविद्युज्ज्वालावलीनां नवनिशितमहाकृत्तिका दक्षिणेन ।वामे हस्ते कपालं वरविमलसुरापूरितं धारयन्तीसा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ६॥ ॐ हुं हुं हुं फट् कालरात्रिः उरु (रु रु) सुरमथिनी धूम्रमारी कुमारीह्रां ह्रीं ह्रूं हत्तिशोरौक्षपितिकिलिकिला शब्द अट्टाट्टहासे ।हा हा भूत प्रभूते किलिकिलितमुखा कीलयन्ती ग्रसन्ती var प्रसूतेहूङ्कारोच्चारयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ७॥ ॐ भृङ्गी कालीकपाली परिजनसहिते चण्डिचामुण्डनित्यारों रों रोङ्कारनित्ये शशिकरधवले कालकूटे दुरन्ते ।ह्रुं ह्रुं ह्रुङ्कारकारी सुरगणनमिते कालकारी विकारीत्र्यैलोक्यं वश्यकारी प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ८॥ ॐ वन्दे दण्डप्रचण्डा डमरुमणिमारणष्टोपटङ्कारघण्टैनृत्यन्ती याट्टपातैः रटपट विभवैर्निर्मला मन्त्रमाला । var हासैःशुष्के कुक्षे वहन्ती खरखरितसखा चार्चिनी प्रेतमाला var शुष्कौ कुक्षौउच्चैशैत्याट्टहासैः घरुघरितरवा त्वं चण्डमुण्डा प्रचण्डा ॥ ९॥ ॐ त्वं ब्राह्मी त्वं च रौद्री त्वं सच शिकगमना त्वं च देवी कुमारीत्वं चक्रे चक्रहस्ता घरुघरितरवा त्वं वराहस्वरूपा ।रौद्रे त्वं चर्ममुण्डा सकलभुवितले संस्थिते सर्वमार्गेपाताले शैलश‍ृङ्गे हरिहरनमिते देवी चण्डी नमस्ते ॥ १०॥ नमस्ते नमस्ते नमः ॐ रक्षत्वं मुङ्डधारी गिरिगुहविहरे निर्झरे पर्वते वासङ्ग्रामे शत्रुमध्ये विशविशभविते सङ्कटे कुत्सिते वा ।व्याघ्रे चौरे च सर्वेप्युः दधिभुवितले तथा वह्निमध्ये दुर्गेरक्षेत्वां दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ११॥ इत्येवं बीजमन्त्रैः स्तवनमति शिवं पातकं व्याधिनाशंप्रत्यक्षं दिव्यरूपं ग्रहगणमथनं मर्दनं शाकिनीनाम् ।इत्येवं वेगवेगं सकलभयहरं मन्त्रमूर्तिश्च नित्यं var मन्त्रशक्तिश्च मन्त्राणां स्तोत्रकं यः पठति स लभतौ प्रार्थितां मन्त्रसिद्धिम् ॥ १२॥ ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै ।॥ श्रीरागमालिकाकृते तीव्रचण्डिकास्तोत्रं सम्पूर्णम् ॥ ॥ श्रीमार्कण्डेयपुराणोक्त चण्डिकास्तोत्रं सम्पूर्णम् ॥

tIvrachaNDikAstotram: तीव्रचण्डिकास्तोत्रम् Read More »

bhavAnIstuti

Shri Navadurga Vandanam Prayer to Goddess Sri NavaDurga:श्रीनवदुर्गावन्दनम्

Shri Navadurga Vandanam Prayer to Goddess Sri NavaDurga:श्रीनवदुर्गावन्दनम् जगद्-वन्द्या नवदुर्गा देव्यः सुदिव्य-मातरः । आद्यं नुमः शैलपुत्रीं द्वितीयं ब्रह्मचारिणीम् ॥ १॥ चन्द्रघण्टां तृतीयं च कुष्माण्डां चतुर्थं तथा । पञ्चमं स्कन्दमातरं षष्ठं कात्यायनीं नुमः ॥ २॥ कालरात्रिं सप्तमं च महागौरीं नुमोऽष्टमम् । नवमं सिद्धिदात्रीं च सुभक्त्या प्रणता वयम् ॥ ३॥ प्रयच्छन्तु शुभं देव्यः सम्पदां चानुकम्पया । यातु दुर्भावनास्माकं भातु चाध्यात्मिकं बलम् ॥ ४॥ तमो विनश्यतु चित्ते दत्त मोदं हे मातरः ! युष्माकं चरणाम्बुजे सप्रणामं भजामहे ॥ ५॥ आदिशक्ते ! भक्तप्रिये ! देवि दुर्गे ! नमो नमः । एकमेव स्वरूपं ते नवधा परिकीर्त्तितम् ॥ ६॥ शम्भोरर्द्धाङ्गिनी त्वं वै मङ्गला सिद्धिदायिनी । प्रसादैस्ते श्रीसमृद्धिः सुखं शान्तिः प्रवर्द्धताम् ॥ ७॥ क्षमस्व नः सर्वदोषं दुष्टदैत्य-निपातिनि ! तव स्नेह-दृष्टिपातः कष्टं हरतु सर्वदा ॥ ८॥ यातु नाशं पापताप-दुःखशोक-रुजादिकम् । महायुधे ! महामाये ! स्वस्तिं देहि नमोस्स्तु ते ॥ ९॥ नवदुर्गा-वन्दनेयं महादेव्या मुदावहा । कल्याणं तनुतां लोके हरतां कलि-कल्मषम् ॥ १०॥ — रचयिता : हरेकृष्ण-मेहेरः

Shri Navadurga Vandanam Prayer to Goddess Sri NavaDurga:श्रीनवदुर्गावन्दनम् Read More »

bhavAnIstuti

Devi kavacha: देवीकवचम्

devI kavacha: देवीकवचम् ॥ अथ देव्याः कवचम् ॥ ॐ अस्य श्री चण्डीकवचस्य ॥ ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । चामुण्डा देवता । अङ्गन्यासोक्तमातरो बीजम् । दिग्बन्ध देवतास्तत्त्वम् । श्रीजगदम्बाप्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥ ॥ ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच । ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १॥ ब्रह्मोवाच । अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २॥ प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ ४॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे । विषमे दुर्गमे चैव भयार्त्ताः शरणं गताः ॥ ६॥ न तेषां जायते किंचिदशुभं रणसंकटे । नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७॥ यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते । ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८॥ प्रेतसंस्था तु चामुण्डा वाराही महिषासना । ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९॥ माहेश्वरी वृषारूढा कौमारी शिखिवाहना । लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १०॥ श्वेतरूपधरा देवी ईश्वरी वृषवाहना । ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ ११॥ इत्येता मातरः सर्वाः सर्वयोगसमन्विताः । नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ १२॥ दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः । शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३॥ खेटकं तोमरं चैव परशुं पाशमेव च । कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४॥ दैत्यानां देहनाशाय भक्तानामभयाय च । धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५॥ नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे । महाबले महोत्साहे महाभयविनाशिनि ॥ १६॥ त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्द्धिनि । प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७॥ दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी । प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ १८॥ उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी । ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद्वैष्णवी तथा ॥ १९॥ एवं दश दिशो रक्षेच्चामुण्डा शववाहना । जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ २०॥ अजिता वामपार्श्वे तु दक्षिणे चापराजिता । शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ २१॥ मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी । त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२॥ शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी । कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ॥ २३॥ नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका । अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४॥ दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका । घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५॥ कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला । ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६॥ नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी । स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ॥ २७॥ हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च । नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥ २८॥ स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी । हृदये ललिता देवी उदरे शूलधारिणी ॥ २९॥ नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा । पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ ३०॥ कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी । जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ ३१॥ गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी । पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२॥ नखान् दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी । रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ ३३॥ रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती । अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३४॥ पद्मावती पद्मकोशे कफे चूडामणिस्तथा । ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ ३५॥ शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा । अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ ३६॥ प्राणापानौ तथा व्यानमुदानं च समानकम् । वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ ३७॥ रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी । सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८॥ आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी । यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९॥ गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके । पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४०॥ पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा । राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१॥ रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु । तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२॥ पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः । कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ ४३॥ तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् । परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४॥ निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः । त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५॥ इदं तु देव्याः कवचं देवानामपि दुर्लभम् । यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ४६॥ दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः । जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥ ४७॥ नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः । स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ॥ ४८॥ अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले । भूचराः खेचराश्चैव जलजाश्चौपदेशिकाः ॥ ४९॥ सहजा कुलजा माला डाकिनी शाकिनी तथा । अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ॥ ५०॥ ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः । ब्रह्मराक्षसवेतालाः कुष्माण्डा भैरवादयः ॥ ५१॥ नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते । मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ॥ ५२॥ यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले । जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ॥ ५३॥ यावद्भूमण्डलं धत्ते सशैलवनकाननम् । तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ॥ ५४॥ देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् । प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः ॥ ५५॥ लभते परमं रूपं शिवेन सह मोदते ॥ ॐ ॥ ५६॥

Devi kavacha: देवीकवचम् Read More »

bhavAnIstuti

durgAstutiH Essence of devI mAhAtmya kathA: दुर्गास्तुती देवीमाहात्म्यकथसाररूपा

durgAstutiH Essence of devI mAhAtmya kathA: दुर्गास्तुती देवीमाहात्म्यकथसाररूपा कल्पान्ते मधुकैटभासुरपराभूतस्य धातुः स्तवैःप्रीता पङ्कजलोचनस्य नयनान्निर्गत्य निद्रामयी ।तौ युद्धे परिमोह्य घातितवती तेनैव विश्वेश्वरीरोद्धुं घोरकृतान्तसैन्यमिह मे दुर्गैव दुर्गायताम् ॥ १॥ Being pleased by the praises sung by Brahma who was troubledby the asuras Madhu and Kaitabha at the end of a kalpa, She,the supreme Devi, supporter of the worlds, emerged out ofMahaVishnu’s eyes, who was in mystic slumber. Deluded byMahamaya, the evil asuras, Madhu and Kaitabha, were then slayedby MahaVishnu. Let Goddess Durga become a fort for me to stopthe terrible army of kRitAnta, the god of death. त्रैलोक्ये महिषासुरप्रमथिते सम्भूय संचिन्ततांदेवानामपि सा विनिर्मितवपुस्तैर्दत्तभूषायुधा ।उच्चैर्नादयुतैर्महासुरबलैरारब्धयुद्धोत्सवारोद्धुं घोरकृतान्तसैन्यमिह मे दुर्गैव दुर्गायताम् ॥ २॥ When Mahishasura was creating havoc in all the three worlds,the devas got together and requested Brahma, Siva and Vishnufor help. Then Goddess Durga was created and weapons were givenby them. Let Goddess Durga, whose battle attire is accompaniedby the loud cries of the devas, become a fort for me to stopthe terrible army of kRitAnta, the god of death. निःश्वासप्रभवैश्च भूतनिवहैर्विध्वस्तदैत्योत्कराहत्वा चिक्षुरमुत्क्षपय्य समरे सिंहेन तं चामरम् ।आशूदग्रकरालबाष्कलबिडालादीनरीन् क्षिण्वतीरोद्धुं घोरकृतान्तसैन्यमिह मे दुर्गैव दुर्गायताम् ॥ ३॥ The sighs heaved by the Goddess turned into battallions andwith them she killed the army of asuras. Then She killedChikShura, the general of the asura army. Her lion jumped onChamara, another able member of the asuras and killed him in abattle. Within moments She also destroyed the enemies udagra,karAla, bAShkala, biDAla and others. Let Goddess Durga becomea fort for me to stop the terrible army of kRitAnta, the godof death. प्राप्तं क्षोभितविश्वमाशु महिषं संनाशयन्ती ततःसिंहीभूतमथो नराकृतिमिभाकारं लुलायाकृतिम् ।आक्राम्याङ्घ्रितलेन निर्गतममुं भूयोऽसिना छिन्दतीरोद्धुं घोरकृतान्तसैन्यमिह मे दुर्गैव दुर्गायताम् ॥ ४॥ When Mahisha who shook the entire world approached the Devi,She destroyed him. But, he then took the form of a lion, thencame in the form of man, elephant and back to his original form.She then attacked him with her foot and cut him up with Hersword. Let Goddess Durga become a fort for me to stop theterrible army of kRitAnta, the god of death. निःशेषामरशक्तिरूपिणि शिवे माये महाविक्रमेश्रीवागादिविभूतिरूपिणि रणे विद्युत्कृपानुग्रहे ।शूलाद्यैरपि पालयेति दिविजैर्नीतादिशन्ती वरंरोद्धुं घोरकृतान्तसैन्यमिह मे दुर्गैव दुर्गायताम् ॥ ५॥ ᳚You are the personification of the power of the entire host ofdevas, auspicious one, mAya – the consort of the parabrahman,brave one, in a battle You are the form of LakShmi, Sarasvati andother manifestations, yet, immediately like a lightning, You gracepeople due to compassion, protect us with trident and otherweapons᳚. Thus when the devas praised You, You gave them boons.Let that Goddess Durga become a fort for me to stop the terriblearmy of kRitAnta, the god of death. दृप्यच्छुम्भनिशुम्भविक्रमचिरक्लिष्टैः सुरेन्द्रैः स्तुतापार्वत्या वपुषोऽवतीर्य ललिताकारा हिमाद्रेस्तटे ।डोलाकेलिविमोहितत्रिभुवना सा चण्डमुण्डेक्षितारोद्धुं घोरकृतान्तसैन्यमिह मे दुर्गैव दुर्गायताम् ॥ ६॥ Praised by the devas who were suffering because of their defeatat the hands of the arrogant shumbha and nishumbha, a gentle formemerged out of pArvati at the slopes of Himalayas. Sportingly Sheattracted all the three worlds and was seen by chaNDa and muNDa.Let that Goddess Durga become a fort for me to stop the terriblearmy of kRitAnta, the god of death. चण्डावेदितरूपजातमदनस्तम्भेन शुम्भेन चद्राग् दूते प्रहिते नियुद्धविजयी भर्ता ममेत्यूचिषी ।युद्धेच्छुं किल धूम्रलोचनमथो सैन्यान्वितं धून्वतीरोद्धुं घोरकृतान्तसैन्यमिह मे दुर्गैव दुर्गायताम् ॥ ७॥ Being informed by chaNDa of the Devi’s beautiful form, shumbhabecame desirous of attaining her and immediately sent a messenger.She sent him back with the message that only the one who defeatsher in a battle can become her husband. Enraged by her answer,shumbha sent dhUmralochana, who wanted to fight. Devi destroyeddhUmralochana along with his army. Let that Goddess Durga becomea fort for me to stop the terrible army of kRitAnta, the god ofdeath. चण्डे मुण्डयते समेयुषि बलैः कालीमलीकान्तरात्सृष्ट्वा भक्षितसैन्यशस्त्रकुलया तौ घातयन्ती तया ।प्राप्ते शुम्भबले च केसरितुनः काली रवोद्धोषिनीरोद्धुं घोरकृतान्तसैन्यमिह मे दुर्गैव दुर्गायताम् ॥ ८॥ When chaNDa and muNDa came with their forces, She created kAlifrom her forehead. kAli then destroyed the army and its weaponsand then killed chaNDa and muNDa. Later when Shumba’s armyapproached, kAli expressed her anger by roaring aloud. Let thatGoddess Durga become a fort for me to stop the terrible army ofkRitAnta, the god of death. ब्रह्माण्डादिषु संगतासु शिवदूतीं च स्वशक्तिं तदासृष्ट्वा तत्प्रहितेन्दुमौलिवचसा दैत्यैः प्रवृत्ते रणे ।क्रुध्यन्मातृअणार्दितं रिपुबलं दृष्ट्वा प्रहृष्टाशयारोद्धुं घोरकृतान्तसैन्यमिह मे दुर्गैव दुर्गायताम् ॥ ९॥ Then shivadUtI (one who sent Siva as messenger) – her own powerwas created from combining the powers of all the devas of thebrahmANDa. Then She was called to battle by the asuras who wereincited by the words of shiva (lord with the moon on his head)who was sent by Her. She became delighted on seeing the armybeing attacked by the angry mothers – the manifestations ofthe devas’ powers. Let that Goddess Durga become a fort for meto stop the terrible army of kRitAnta, the god of death. प्राप्तं संयति रक्तबीजमसुरं मातृप्रहारोद्गल-द्रक्तोद्भूतभटौघपूर्णभुवनं भीतिप्रदं पश्यताम् ।काल्या तत्क्षणपीतनष्टरुधिरं शस्त्रोत्करौर्निघ्नतीरोद्धुं घोरकृतान्तसैन्यमिह मे दुर्गैव दुर्गायताम् ॥ १०॥ The devas next saw the asura raktabIja, who came to thebattlefield and who created fear by filling earth with warriors(of his kind) who sprung from his blood that oozed out of himwhen he was struck by the shaktis. Then as and when Devi attackedraktabIja, kAli drank his blood and ultimately he perished. Letthat Goddess Durga become a fort for me to stop the terriblearmy of kRitAnta, the god of death. घोरे शुम्भनिशुम्भयोरथ रणारम्भे निशुम्भासुरंखड्गाद्यैः कृतयुद्धमात्तपरशुं सम्मोह्य बाणोत्करैः ।शुम्भं शक्तिशरौघभीषणरणं शूलार्दितं तन्वतीरोद्धुं घोरकृतान्तसैन्यमिह मे दुर्गैव दुर्गायताम् ॥ ११॥ Next was the terrible battle with shumbha and nishumbha. nishumbawho fought with an axe and arrows was struck unconscious by Deviwith a sword. Then with the trident She struck shumbha who wasfighting ferociously with ‘shakti’ – indra’s weapon and witharrows. Let that Goddess Durga become a fort for me to stop theterrible army of kRitAnta, the god of death. भूयः प्राप्तनिशुम्भमुक्तमभितश्चक्रायुधं छिन्दतीखड्गच्छिन्नगदं सशूलमथ तं शूलेन भित्त्वोरसि ।वक्षोनिर्गतमन्यदस्य च वपुः खड्गेन निष्कृन्ततीरोद्धुं घोरकृतान्तसैन्यमिह मे दुर्गैव दुर्गायताम् ॥ १२॥ Again, nishumbha sent forth many chakras at the Devi which Shebroke. She broke his gada with Her sword and then tore his chestwith Her trident. Another form of his came from his chest andwas immediately killed by Devi with her sword. Let that

durgAstutiH Essence of devI mAhAtmya kathA: दुर्गास्तुती देवीमाहात्म्यकथसाररूपा Read More »

bhavAnIstuti

shrI ChaNDIpAThaH: श्रीचण्डीपाठः

ShrI ChaNDIpAThaH: श्रीचण्डीपाठः ॥ ॐ श्री देवैः नमः ॥ ॥ अथ चंडीपाठः ॥ या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।नमस्तस्यै १४ नमस्तस्यै १५ नमस्तस्यै नमो नमः ॥ ५-१६॥ या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।नमस्तस्यै १७ नमस्तस्यै १८ नमस्तस्यै नमो नमः ॥ ५-१९॥ या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।नमस्तस्यै २० नमस्तस्यै २१ नमस्तस्यै नमो नमः ॥ ५-२२॥ या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।नमस्तस्यै २३ नमस्तस्यै २४ नमस्तस्यै नमो नमः ॥ ५-२५॥\ या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।नमस्तस्यै २६ नमस्तस्यै २७ नमस्तस्यै नमो नमः ॥ ५-२८॥ या देवी सर्वभूतेषु च्छायारूपेण संस्थिता ।नमस्तस्यै २९ नमस्तस्यै ३० नमस्तस्यै नमो नमः ॥ ५-३१॥ या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।नमस्तस्यै ३२ नमस्तस्यै ३३ नमस्तस्यै नमो नमः ॥ ५-३४॥ या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।नमस्तस्यै ३५ नमस्तस्यै ३६ नमस्तस्यै नमो नमः ॥ ५-३७॥ या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।नमस्तस्यै ३८ नमस्तस्यै ३९ नमस्तस्यै नमो नमः ॥ ५-४०॥ या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।नमस्तस्यै ४१ नमस्तस्यै ४२ नमस्तस्यै नमो नमः ॥ ५-४३॥ या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।नमस्तस्यै ४४ नमस्तस्यै ४५ नमस्तस्यै नमो नमः ॥ ५-४६॥ या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।नमस्तस्यै ४७ नमस्तस्यै ४८ नमस्तस्यै नमो नमः ॥ ५-४९॥ या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।नमस्तस्यै ५० नमस्तस्यै ५१ नमस्तस्यै नमो नमः ॥ ५-५२॥ या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।नमस्तस्यै ५३ नमस्तस्यै ५४ नमस्तस्यै नमो नमः ॥ ५-५५॥ या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।नमस्तस्यै ५६ नमस्तस्यै ५७ नमस्तस्यै नमो नमः ॥ ५-५८॥ या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।नमस्तस्यै ५९ नमस्तस्यै ६० नमस्तस्यै नमो नमः ॥ ५-६१॥ या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।नमस्तस्यै ६२ नमस्तस्यै ६३ नमस्तस्यै नमो नमः ॥ ५-६४॥ या देवी सर्वभूतेषु दयारूपेण संस्थिता ।नमस्तस्यै ६५ नमस्तस्यै ६६ नमस्तस्यै नमो नमः ॥ ५-६७॥ या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।नमस्तस्यै ६८ नमस्तस्यै ६९ नमस्तस्यै नमो नमः ॥ ५-७०॥ या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।नमस्तस्यै ७१ नमस्तस्यै ७२ नमस्तस्यै नमो नमः ॥ ५-७३॥ या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।नमस्तस्यै ७४ नमस्तस्यै ७५ नमस्तस्यै नमो नमः ॥ ५-७६॥ इन्द्रियाणामधिष्ठात्री भुतानाञ्चाखिलेषु या ।भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥ ५-७७॥ चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।नमस्तस्यै ७८ नमस्तस्यै ७९ नमस्तस्यै नमो नमः ॥ ५-८०॥ ॥ इति चंडीपाठः ॥

shrI ChaNDIpAThaH: श्रीचण्डीपाठः Read More »

bhavAnIstuti

ChaNDikA HRidaya stotram: चण्डिकाहृदयस्तोत्रम्

ChaNDikA HRidaya stotram: चण्डिकाहृदयस्तोत्रम् अस्य श्री चण्डिका हृदय स्तोत्र महामन्त्रस्य ।मार्क्कण्डेय ऋषिः, अनुष्टुप्च्छन्दः, श्री चण्डिका देवता ।ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं,अस्य श्री चण्डिका प्रसाद सिद्ध्यर्थे जपे विनियोगः ।ह्रां इत्यादि षडंग न्यासः । ध्यानं ।सर्वमंगळ मांगल्ये शिवे सर्वार्त्थ साधिके ।शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते ॥ ब्रह्मोवाच ।अथातस्सं प्रवक्ष्यामि विस्तरेण यथातथं ।चण्डिका हृदयं गुह्यं श‍ृणुष्वैकाग्रमानसः । ।ॐ ऐं ह्रीं क्ळीं, ह्रां, ह्रीं, ह्रूं जय जय चामुण्डे,चण्डिके, त्रिदश, मणिमकुटकोटीर संघट्टित चरणारविन्दे,गायत्री, सावित्री, सरस्वति, महाहिकृताभरणे, भैरवरूपधारिणी, प्रकटित दंष्ट्रोग्रवदने,घोरे, घोराननेज्वलज्वलज्ज्वाला सहस्रपरिवृते, महाट्टहास बधरीकृत दिगन्तरे,सर्वायुध परिपूर्ण्णे, कपालहस्ते, गजाजिनोत्तरीये,भूतवेताळवृन्दपरिवृते, प्रकन्पित धराधरे, मधुकैटमहिषासुर, धूम्रलोचन चण्डमुण्डरक्तबीज शुंभनिशुंभादि दैत्यनिष्कण्ढके, काळरात्रि, महामाये, शिवे, नित्ये, इन्द्राग्नियमनिरृति वरुणवायु सोमेशान प्रधान शक्ति भूते, ब्रह्माविष्णु शिवस्तुते, त्रिभुवनाधाराधारे, वामे, ज्येष्ठे, रौद्र्यंबिके, ब्राह्मी, माहेश्वरि, कौमारि, वैष्णवी शंखिनी वाराहीन्द्राणीचामुण्डा शिवदूति महाकाळि महालक्ष्मी, महासरस्वतीतिस्थिते, नादमध्यस्थिते, महोग्रविषोरगफणामणिघटित मकुटकटकादिरत्न महाज्वालामय पादबाहुदण्डोत्तमांगे, महामहिषोपरि गन्धर्व विद्याधराराधिते,नवरत्ननिधिकोशे तत्त्वस्वरूपे वाक्पाणिपादपायूपस्थात्मिके,शब्दस्पर्शरूपरसगन्धादि स्वरूपे,त्वक्चक्षुः श्रोत्रजिह्वाघ्राणमहाबुद्धिस्थिते, ॐ ऐंकार ह्रीं कार क्ळीं कारहस्ते आं क्रों आग्नेयनयनपात्रे प्रवेशय, द्रां शोषय शोषय, द्रीं सुकुमारय सुकुमारय, श्रीं सर्वं प्रवेशय प्रवेशय, त्रैलोक्यवर वर्ण्णिनि समस्त चित्तं वशीकरु वशीकरु मम शत्रून्,शीघ्रं मारय मारय, जाग्रत् स्वप्न सुषुप्त्य वस्थासु अस्मान् राजचोराग्निजल वात विषभूत-शत्रुमृत्यु-ज्वरादि स्फोटकादि नानारोगेभ्योः नानाभिचारेभ्यो नानापवादेभ्यः परकर्म मन्त्र तन्त्र यन्त्रौषध शल्यशून्य क्षुद्रेभ्यः सम्यङ्मां रक्ष रक्ष, ॐ ऐं ह्रां ह्रीं ह्रूं ह्रैं ह्रः, स्फ्रां स्फ्रीं स्फ्रैं स्फ्रौं स्फ्रः – मम सर्व कार्याणि साधय साधय हुं फट् स्वाहा –राज द्वारे श्मशाने वा विवादे शत्रु सङ्कटे ।भूताग्नि चोर मद्ध्यस्थे मयि कार्याणि साधय ॥ स्वाहा ।चण्डिका हृदयं गुह्यं त्रिसन्ध्यं यः पठेन्नरः ।सर्व काम प्रदं पुंसां भुक्ति मुक्तिं प्रियच्चति ॥

ChaNDikA HRidaya stotram: चण्डिकाहृदयस्तोत्रम् Read More »

bhavAnIstuti

Shri Chamunda Stutih: श्रीचामुण्डा स्तुतिः

Shri Chamunda Stutih: श्रीचामुण्डा स्तुतिः जयस्व देवि चामुण्डे जय भूताऽपहारिणि ।जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥ विश्वमूर्तियुते शुद्धे विरूपाक्षी त्रिलोचने ।भीमरूपे शिवे विद्ये महामाये महोदरे ॥ २॥ मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये ।महामारि विचित्राङ्गि गीतनृत्यप्रिये शुभे ॥ ३॥ विकरालि महाकालि कालिके पापहारिणि ।पाशहस्ते दण्डहस्ते भीमहस्ते भयानके ॥ ४॥ चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले ।शिवयानप्रिये देवी प्रेतासनगते शिवे ॥ ५॥ भीमाक्षि भीषणे देवि सर्वभूतभयङ्करि ।करालि विकरालि च महाकालि करालिनि ॥ ६॥ कालि करालविक्रान्ते कालरात्रि नमोऽस्तु ते ।सर्वशस्त्रभृते देवि नमो देवनमस्कृते ॥ ७॥ ॥फलश्रुतिः ॥ एवं स्तुता शिवदूती रुद्रेण परमेष्ठिना ।तुतोष परमा देवी वाक्यं चैवमुवाच ह ॥ ८॥ वरं वृष्णीष्व देवेश यत्ते मनसि वर्तते ।श्रीरुद्र उवाचस्तोत्रेणाऽनेन ये देवि स्तोष्यन्ति त्वां वरानने ॥ ९॥ तेषां त्वं वरदा देवि भव सर्वगता सती ।इमं पर्वतमारुह्य यः पूजयति भक्तितः ॥ १०॥ स पुत्रपौत्रपशुमान् Chamunda Stutih समृद्धिमुपगच्छतु ।यश्चैवं श‍ृणुयाद्भक्त्या स्तवं देवि समुद्भवम् ॥ ११॥ सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छतु ।भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ॥ १२॥ अष्टम्यां च चतुर्दश्यां सोपवासो नरोत्तम ।संवत्सरेण लभतां राज्यं निष्कण्टकं पुनः ॥ १३॥ एषा ज्ञानान्विता शाक्तिः शिवदूतीति चोच्यते ।य एवं श‍ृणुयान्नित्यं भक्त्या परमया नृप ॥ १४॥ सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ।यश्चैनं पठते भक्त्या स्नात्वा वै पुष्करे जले ॥ १५॥ सर्वमेतत्फलं प्राप्य ब्रह्मलोके महीयते ।यत्रैतल्लिखितं गेहे सदा तिष्ठति पार्थिव ॥ १६॥ न तत्राऽग्निभयं घोरं सर्वचोरादि सम्भवम् ।यश्चेदं पूजयेद्भक्त्या पुस्तकेऽपि स्थितं बुधाः ॥ १७॥ तेन चेष्टं भवेत्सर्वं त्रैलोक्यं सचराचरम् ।जायन्ते बहवः पुत्राः धनं धान्यं वरा स्त्रियः ॥ १८॥ रत्नान्यश्वा गजा भृत्यास्तेषामाशु भवन्ति च ।यत्रेदं लिख्यते गेहे तत्राप्येवं ध्रुवं भवेत् ॥ १९॥ ॥ इति पाद्मे पुराणे सृष्टिखण्डे श्रीचामुण्डा स्तुतिः समाप्ता ॥ इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे शिवदूतीचरितं नाम ।एकत्रिंशोऽध्यायः ॥ ३१॥ पद्मपुराण । सृष्टिखण्ड । अध्याय १/३१। १५८-१६७॥

Shri Chamunda Stutih: श्रीचामुण्डा स्तुतिः Read More »

nAmAvali

Shri Durga Panjara Stotram:श्रीदुर्गा पञ्जरस्तोत्रम्

Shri Durga Panjara Stotram:श्रीदुर्गा पञ्जरस्तोत्रम् विनियोगःॐ अस्य श्रीदुर्गा पञ्जरस्तोत्रस्य सूर्य ऋषिः, त्रिष्टुप्छन्दः,छाया देवता, श्रीदुर्गा पञ्जरस्तोत्र पाठे विनियोगः ।ध्यानम् ।ॐ हेम प्रख्यामिन्दु खण्डात्तमौलिं शङ्खाभीष्टा भीति हस्तां त्रिनेत्राम् ।हेमाब्जस्थां पीन वस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ।अपराध शतं कृत्वा जगदम्बेति चोच्चरेत् ।यां गतिं समवाप्नोति नतां ब्रह्मादयः सुराः ।सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ॥ १॥ मार्कण्डेय उवाच –दुर्गे दुर्गप्रदेशेषु दुर्वाररिपुमर्दिनी ।मर्दयित्री रिपुश्रीणां रक्षां कुरु नमोऽस्तुते ॥ १॥ पथि देवालये दुर्गे अरण्ये पर्वते जले ।सर्वत्रोऽपगते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ २॥ दुःस्वप्ने दर्शने घोरे घोरे निष्पन्न बन्धने ।महोत्पाते च नरके दुर्गेरक्ष नमोऽस्तुते ॥ ३॥ व्याघ्रोरग वराहानि निर्हादिजन सङ्कटे ।ब्रह्मा विष्णु स्तुते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ४॥ खेचरा मातरः सर्वं भूचराश्चा तिरोहिताः ।ये त्वां समाश्रिता स्तांस्त्वं दुर्गे रक्ष नमोऽस्तुते ॥ ५॥ कंसासुर पुरे घोरे कृष्ण Durga Panjara रक्षणकारिणी ।रक्ष रक्ष सदा दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ६॥ अनिरुद्धस्य रुद्धस्य दुर्गे बाणपुरे पुरा ।वरदे त्वं महाघोरे दुर्गे रक्ष नमोऽस्तुते ॥ ७॥ सप्तश्लोकी दुर्गा स्तोत्रम् (Saptashloki Durga Stotra) देव द्वारे नदी तीरे Durga Panjara राजद्वारे च सङ्कटे ।पर्वता रोहणे दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ८॥ दुर्गा पञ्जर मेतत्तु दुर्गा सार समाहितम् ।पठनस्तारयेद् दुर्गा नात्र कार्या विचारण ॥ ९॥ रुद्रबाला महादेवी क्षमा च परमेश्वरी ।अनन्ता विजया नित्या मातस्त्वमपराजिता ॥ १०॥ इति श्री मार्कण्डेयपुराणे देवीमहात्म्ये रुद्रयामले देव्याः पञ्जरस्तोत्रम् ।

Shri Durga Panjara Stotram:श्रीदुर्गा पञ्जरस्तोत्रम् Read More »