श्री सरस्वती रहस्य स्तोत्रम् हिंदी पाठ : Saraswati Rahasya Stotra in Hindi
नीहारहारघनसारसुधाकराभां
कल्याणदां कनकचम्पकदामभूषाम् ।
उत्तुङ्गपीनकुचकुंभमनोहराङ्गीं वाणीं
नमामि मनसा वचसा विभूत्यै ॥ १ ॥
या वेदान्तार्थतत्त्वैकस्वरूपा परमेश्वरी ।
नामरूपात्मना व्यक्ता सा मां पातु सरस्वती ॥ २ ॥
या साङ्गोपाङ्गवेदेषु Rahasya Stotra चतुर्ष्वेकैव गीयते ।
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ ३ ॥
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।
अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ ४ ॥
अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।
प्रत्यगास्ते वदन्ती या सा मां Rahasya Stotra पातु सरस्वती ॥ ५ ॥
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं Rahasya Stotra या नियच्छति ।
रुद्रादित्यादिरूपस्था सा मां पातु सरस्वती ॥ ६ ॥
या प्रत्यग्दृष्टिभिर्जीवैर्व्यजमानानुभूयते ।
व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ ७ ॥
नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता ।
निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ॥ ८ ॥
व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।
सर्वकामदुघा धेनुः सा मां पातु सरस्वती ॥ ९ ॥
यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना ।
योगी याति परं स्थानं सा मां पातु सरस्वती ॥ १० ॥
नामरूपात्मकं सर्वं यस्यामावेश्य तां पुनः ।
ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥ ११ ॥
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ १२ ॥
नमस्ते शारदे देवि काश्मीरपुरवासिनि ।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ १३ ॥
अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी ।
मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥ १४ ॥
कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता ।
महासरस्वती देवी जिह्वाग्रे सन्निवेश्यताम् ॥ १५ ॥
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा ।
भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥ १६ ॥
नमामि यामिनीनाथलेखालंकृतकुन्तलां ।
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ १७ ॥
यः कवित्वं निरातन्कं भुक्तिमुक्ती च वाञ्छति ।
सोऽभ्यर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥ १८ ॥
तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीं ।
भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् ॥ १९ ॥
ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।
गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः ॥
अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ॥ २० ॥
॥ इति श्री सरस्वती रहस्य……..
Sarpa Suktam Stotra : सर्प सूक्त स्तोत्र…..
सर्प सूक्त स्तोत्र हिंदी पाठ : Sarpa Suktam Stotra in Hindiब्रह्मलोकुषु ये सर्पा: शेषनाग पुरोगमा: ।नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा…
Saraswati Rahasya Stotra : श्री सरस्वती रहस्य स्तोत्रम्…….
श्री सरस्वती रहस्य स्तोत्रम् हिंदी पाठ : Saraswati Rahasya Stotra in Hindiनीहारहारघनसारसुधाकराभांकल्याणदां कनकचम्पकदामभूषाम् ।उत्तुङ्गपीनकुचकुंभमनोहराङ्गीं वाणींनमामि मनसा वचसा विभूत्यै ॥ १…
Saptashloki Gita Stotra : सप्तश्लोकी गीता स्तोत्र…..
Saptashloki Gita Stotra : संकटनाशन गणेश स्तोत्र: संकटनाशन गणेश स्तोत्र बहुत ही मददगार और फायदेमंद है। इसके पाठ से आप…




KARMASU