Ganga Mahimna Stotram

Shri Ganga Mahimna Stotram: श्री गंगा महिमा स्तोत्र….

महिम्नस्तेऽपारं सकलसुखसारं त्रिपथगे
प्रतर्त्तुं कूपारं जगति मतिमान् पारयति कः ।

तथापि त्वत्पादाम्बुजतरणिरज्ञोऽपि भवितुं
समीहे तद्विप्रुट्क्षपितभवपङ्कः सुरधुनि ॥ १ ॥

समुद्भूता भूम्नश्चरणवनजातान्मधुरिपो-स्ततो
धातुः पात्रे गदितगुणगात्रे समुषिता ।

पुनः शम्भोश्चूडासितकुसुममालायिततनुः
सुरान्त्रीन्सत्कर्त्तुं किल जगति जागर्षि जननि ॥ २ ॥

तवैश्वर्यं स्वर्योषिदमलशिरोगुच्छविगल
त्प्रसूनव्यालोलन्मधुकरसमुद्गीतचरिते ।

न चेशो भूतेशः पुनरथ न शेषो न च गुरुः
परिज्ञातुं वक्तुं जननि मम धृष्टा मुखरता ॥ ३ ॥

अनङ्गारेरङ्गे कृतरमणरङ्गे शुचितया
समाभग्नासङ्गे विहितभवभङ्गे तु भजताम् ।

विनश्यद्व्यासङ्गे प्रणतजनतायाः स्वपयसा
तरङ्गप्रोत्तुङ्गे ननु जगति गङ्गे विजयसे ॥ ४ ॥

हरन्ती सन्तापं त्रिविधमथ पापं जलजुषां
दिशन्ती सन्देशं क्षपितभवलेशं सुकृतिनाम् ।

तुदन्ती नैराश्यं कलुषमथ दास्यं प्रददती
विलोलत्कल्लोले विबुधवरवीथिर्विजयसे ॥ ५ ॥

ददाना वात्सल्यं शमितशमशल्यं स्वपयसा
दधाना तारुण्यं तरुणकरुणापूर्णहृदया ।

वसाना कौशेयं शशिनिभममेयं भगवति पुनाना
त्रैलोक्यं जयसि ननु भागीरथि शुभे ॥ ६ ॥

निराकारं केचित्प्रणिदधत आवर्जितधियो
नराकारं चान्ये प्रणतिरतिधन्ये स्वमनसि ।

त्रिभिस्तापैस्तप्ताः पुनरथ परं केचन वयं
सदा नीराकारं सुरनदि भजामस्तव पदम् ॥ ७ ॥

न जाने वागीशं नहि किल शचीशं न च गुहम्
न जाने गौरीशं नहि Ganga Mahimna Stotram
किल गणेशं नहि गुरुम् ।
न चैवान्यान्देवान् प्रियविविधसेवान् त्रिपथगे
सदा रामाभिन्नं ननु जननि जाने तव जलम् ॥ ८ ॥

पचत्कायक्लेशं विविधविधकर्मभ्रममलं
हरन्मायालेशं रविसुतनिदेशं विफलयन् ।

द्रुतं विघ्नद्विघ्नान् कुटिलकलिनिघ्नान् विकलय
न्महामोहं गङ्गे जयति भुवि ते जाह्नवि जलम् ॥ ९ ॥

उदन्वन्नैराश्यं दमयितुमथाविष्कृततनो
र्मनोर्वंशं हंसार्पितविमलकीर्तिं प्रथयितुम् ।

सुधासारं सारस्वतहतविकारं श्रुतमयं तवापूर्वं
पूर्वं प्रणिगदति गङ्गे जलमलम् ॥ १० ॥

किमेतत्सौन्दर्यं धृतवपुरथो बालशशिनः
किमाहो माधुर्यं जनकतनयाप्रेममहितम् ।

द्रुतब्रह्मीभूतं परममथ पूतं वसुमती
विराजत्पीयूषं शुचि वहति गाङ्गं जलमहो ॥ ११ ॥

मुनीन्द्रा योगीन्द्रा यमनियमनिष्ठाः श्रुतिपरा
विरक्ताः संन्यस्ताः सततमनुरक्ता दृढधियः ।

वसन्तस्त्वत्तीरे मलयजसमीरे सुमनसो
लभन्ते तत्तत्त्वं सुविमलपरब्रह्ममहितम् ॥ १२ ॥

विरक्ता वैराग्यं परममथ भाग्यं सुकृतिनः
सुसन्तस्सन्तोषं विमलगुणपोषं मुनिगणा ।

नृपा राज्यं प्राज्यं गृहिण इतरे भूरिविभवं लभन्ते
वै त्वत्तस्त्वमसि सुरधेनुस्तनुभृताम् ॥ १३ ॥

गतैश्वर्यान् दीनान् कपिलमुनिकोपाग्निशलभान्
निमग्नाञ्छोकाब्धौ Ganga Mahimna Stotram
सगरनृपतेर्वीक्ष्य तनयान् ।
कृपासिन्धुर्भागीरथविनतभावोग्रतपसा
द्रुतायाता गङ्गा ननु सकरुणं मातृहृदयम् ॥ १४ ॥

मुरारेः पादाब्जस्स्रुतपरममारन्दममलं द्रुतं
व्योम्नो वेगान्मधुमथनपादोदकमिति ।

दधौ मूर्ध्ना शर्वो विलुलितजटाजूटचषके ततो
लोके ख्यातस्त्रिदशनदि गङ्गाधर इति ॥ १५ ॥

पतन्ती पातित्यं क्षपयितुमहो गाञ्च गगना
द्गता गङ्गेत्येवं जननि भुवने ख्यातिमगमः ।

ततः पीत्वोन्मुक्ता परमयमिना जह्नुमुनिना अतस्त्वां
वै प्राहुर्विबुधनिकरा जह्नुतनयाम् ॥ १६ ॥

सुधाधारा धाराहतभवविकारा प्रतिपृष
द्वहन्ती राजन्ती रजतसुममालेव धरणेः ।

सुवत्से श्रीवत्साम्बुजचरणसौन्दर्यसुषमा
जयत्येषा गङ्गा तरलिततरङ्गा त्रिपथगा ॥ १७ ॥

क्वचिद्विष्णोः पार्श्वे कृतकमनकन्यावपुरहो
क्वचिद्धातुः पात्रे गुणगरिमसर्वस्वममलम् ।

क्वचित्कान्ता शान्ता पुरहरजटाजूटलसिता
विधत्से सौभाग्यं त्रिषु त्रिविधरूपा त्रिपथगे ॥ १८ ॥

द्रवन्ती त्वं वेगादभिजलनिधिं गोमुखतला
त्सहस्रैर्धाराणां निहतशतशैलेन्द्रशिखरा ।

समुद्धर्तुं मातर्निरयपतितान् राजतनयान् स्ववत्सान्
वात्सल्यात् किल गवसि गौरीसहचरी ॥ १९ ॥

प्रयाता शैलेन्द्राद्विमलितहरिद्वारधरणी
प्रयागे सद्रागे समगतमुदा सूर्यसुतया ।

ततोऽकार्षीः काशीं सुकृतसुखराशिं स्वपयसा
महीयांसं मातस्तव च महिमा कं न कुरुते ॥ २० ॥

महापापास्तापापहतमनसो मन्दमतयः
क्षपाटा वाचाटाः पतितपतिता मोहमलिनाः ।

त्वयि स्नात्वा शुद्धा विमलवपुषो विष्णुसदनं
व्रजन्त्येतेऽगम्योऽमरनदि तव स्नानमहिमा ॥ २१ ॥

रटन्तः साम्रेडं हरहरहरेतिध्वनिमहो कटन्तः
कारुण्यं क्षपितनिजभक्ताघनिकराः ।

वटन्तो वात्सल्यं तुलितरघुनाथैकयशसो जयन्त्येते
गाङ्गा दिशि दिशि तरङ्गास्तरलिताः ॥ २२ ॥

वसन्गङ्गातीरे कृततृणकुटीरे प्रतिदिनं
निमज्जंस्त्वत्तीरे शिशिरितसमीरेऽमृतजलम् ।

मुदाचामन्सीतापतिपदसरोजार्चनपरो
यमाद्रामानन्दः कथमुपरि भीतो भुवि भवेत् ॥ २३ ॥

तवाद्भिः स्यां विष्णुर्नहि नहि तदा स्यान्मम पदे
अथो शम्भुश्चेन्नो शिवसमतया स्यामहमघी ।

अतो याचे भागीरथि पुनरहं देवि भवतीं वसन्
त्वत्तीरेषु स्वमनसि भजेयं रघुपतिम् ॥ २४ ॥

कदा गङ्गातीरे मलयजसमीरे किल वसन्
स्मरन्सीतारामौ पुलकिततनुः साश्रुनयनः ।

अये मातर्गङ्गे रघुपतिपदाम्भोरुहरतिं प्रदेहीत्यायाचे
ननु निमिषमेष्यामि ससुखम् ॥ २५ ॥

विशेष्यं सोद्देश्यं यदनघमनन्तं चिदचिदो
विशिष्टं यत्ताभ्यां श्रुतिगणगिरा गीतचरितम् ।

यदद्वैतं ब्रह्म प्रथितमथ यद्व्यापकमिदं
सदेतत्तत्तत्त्वं त्वमसि किल गङ्गे भगवति ॥ २६ ॥

त्वमग्निस्त्वं वायुस्त्वमसि रविचन्द्रौ त्वमसि
भू-स्त्वमापस्त्वं व्योम त्वमसि शुचिबुद्धिस्त्वमु मनः ।

त्वमात्मा त्वं चित्तं त्वमसि मम गौस्त्वं किल
पर-स्त्वमेतत्सर्वं मे भगवति सतत्त्वं जगदहो ॥ २७ ॥

विलोलत्कल्लोलां हृतकुमतिदोलां शुचिपयः
पवित्रत्पातालां क्षपितजनकालां कलजलाम् ।

द्रवब्रह्मीभूतां सगरसुतसंसारतरणीं नमामि
त्वां गङ्गां तरलिततरङ्गां स्वजननीम् ॥ २८ ॥

नमो धर्मिष्ठायै निरुपममहिम्नेऽस्तु च नमो
नमो नर्मिष्ठायै नरपतिनरिम्णेऽस्तु च नमः ।

नमो नेदिष्ठायै लघुमतिलघिम्नेऽस्तु च
नमो नमस्ते गङ्गायै गिरिगतिगरिम्णेऽस्तु च नमः ॥ २९ ॥

विबुधसरिते नित्यख्यात्यै नमोऽस्तु नमोऽस्तु
ते विमलरजसे वेदस्तुत्यै नमोऽस्तु नमोऽस्तु ते ।

धवलमहसे विद्याभूत्यै नमोऽस्तु नमोऽस्तु
ते अमृतपयसे गङ्गादेव्यै नमोऽस्तु नमोऽस्तु ते ॥ ३० ॥

क्व च कलिमललीना पापपीना मतिर्मे
क्व च परमपवित्रं जाह्नवीसच्चरित्रम् ।

त्वदनु चरितभक्तिः प्रैरयन्मां हि रातुं
जननि तव पदाब्जे पद्यपुष्पोपहारम् ॥ ३१ ॥

हरिचरणसरोजस्यन्दभूताञ्च भूयः
श्रितविधिजलपात्रां चन्द्रचूडार्यमौलिम् ।

नृपरतिरथ भूमौ दर्शमायास गङ्गा
मनुयुगमिह यत्नो भाति भागीरथोऽयम् ॥ ३२ ॥

वन्दे भगीरथं भूपं भग्नसंसारकूपकम् ।
यश्चानिनाय गङ्गाख्यं वसुधायां सुधारसम् ॥ ३३ ॥

गङ्गास्नानात्परं स्नानं नास्ति नास्तीह भूतले ।
नास्ति कापि स्तुतिर्गङ्गामहिम्नस्तोत्रतः परा ॥ ३४ ॥

यः पठेच्छृणुयाद्वापि गङ्गाग्रे श्रद्धयान्वितः ।
सर्वपापैर्विनिर्मुक्तो व्रजेद्विष्णोः परं पदम् ॥ ३५ ॥

षडर्णान्न परो मन्त्रो महिम्नो न परा स्तुतिः ।
श्रीरामान्न परो देवो गङ्गाया न परा नदी ॥ ३६ ॥

श्रीरामचन्द्रगुणगायकरामभद्रा
चार्येण देवगिरि गीतमनुस्मरेद्यः ।

स्तोत्रं सुभक्तिकलितस्तनुतां प्रसन्ना
गङ्गामहिम्नमिति तस्य सुखानि गङ्गा ॥ ३७ ॥

॥ इति श्री गंगा महिमा स्तोत्र सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *