Shodashi Ashtottar Shatnam Stotram: षोडशी अष्टोत्तर शतनाम स्तोत्रम् Leave a Comment / STOTRAM / By KARMASU षोडशी अष्टोत्तर शतनाम स्तोत्रम् हिंदी पाठShodashi Ashtottar Shatnam Stotram in Hindi॥ भृगुरुवाच ॥चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो ।यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ १ ॥॥ ब्रह्मोवाच ॥सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।गुह्याद्गुह्यतरं गुह्यं सुन्दर्याः परिकीर्तितम् ॥ २ ॥॥ विनियोगः ॥अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुरृषिः अनुष्टुप् छन्दःश्रीषोडशी देवता धर्मार्थकाममोक्षसिद्ध्यर्थे जपे विनियोगः ।॥ षोडशी अष्टोत्तरशतनाम स्तोत्रम् ॥त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।सुन्दरी सुमुखी सेव्या सामवेदपरायणा ॥ ३ ॥शारदा शब्दनिलया सागरा सरिदम्बरा ।शुद्धा शुद्धतनुः साध्वी शिवध्यानपरायणा ॥ ४ ॥स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती ।समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ ५ ॥साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा ।खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ॥ ६ ॥षड्वर्गभावरहिता षड्वर्गपरिचारिका ।षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी ॥ ७ ॥क्रतुरूपा क्रतुमती ऋभुक्षक्रतुमण्डिता ।कवर्गादिपवर्गान्ता अन्तस्थाऽनन्तरूपिणी ॥ ८ ॥अकाराकाररहिता कालमृत्युजरापहा ।तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ ९ ॥काली कराली कामेशी छाया सञ्ज्ञाप्यरुन्धती ।निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ १० ॥मेघा बलाका विमला विमलज्ञानदायिनी ।गौरी वसुन्धरा गोप्त्री गवां पतिनिषेविता ॥ ११ ॥भगाङ्गा भगरूपा च भक्तिभावपरायणा ।छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ १२ ॥धर्मकर्मादिरहिता धर्मकर्मपरायणा ।सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी ॥ १३ ॥भैरवी भुवना माताऽभयदा भवसुन्दरी ।भावुका बगला कृत्या बाला त्रिपुरसुन्दरी ॥ १४ ॥रोहिणी रेवती रम्या रम्भा रावणवन्दिता ।शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ १५ ॥शतचन्द्रानना देवी सहस्रादित्यसन्निभा ।सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता ॥ १६ ॥अर्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा ।इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ १७ ॥सुन्दर्याः सर्वदं सेव्यं महापातकनाशनम् ।गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ १८ ॥सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ १९ ॥पठेत्सदा भक्तियुतो नरो योनिशीथकालेऽप्यरुणोदये वा ।प्रदोषकाले नवमीदिनेऽथवालभेत भोगान्परमाद्भुतान्प्रियान् ॥ २० ॥॥ इति षोडशी अष्टोत्तर शतनाम स्तोत्रम् सम्पूर्णम् ॥