KARMASU

Puratanapureshvari

Bhagavati Puratanapureshvari Stava: भगवती पुरातनपुरेश्वरीस्तवः

ॐ अन्नपूर्णेश्वर्यै नमः । पुराणपुरनायिके सुरवरेन्दुचूडप्रिये सुरासुरनमस्कृते कुरु कृपामनाथे मयि । जरामरणनाशिनीमधिगतास्सुरां वै सुराः चराचरसवित्रि ते चरणसेवयैवामराः ॥ १॥ पुरातनपुरालयप्रियविहारलोले, शिवे, पुरान्तकमनःप्रिये, पुरुषसोदरि, श्रीपुरे । सुरारिकुलमर्दिनि त्रिदिववीरसंरक्षिणि, स्फुरद्गुरुकृपानिधे कुरु कृपामनाथे मयि ॥ २॥ पुराणनिगमागमप्रकरबोधितप्राभवे, पुराणपुरुषार्चिते, शरणमम्ब तेऽङ्घ्रिद्वयम् । पुराणसुकृतव्रजप्रकटलब्धसन्दर्शने, पुराणपुरनायिके कुरु कृपामनाथे मयि ॥ ३॥ पुरा किल सुरेश्वरि, त्रिदशदुःखसम्भेदने पुरारिमुखदेवतानिचयलब्धरूपाऽभवः । पुरापि भवती सती दितिजगर्वनिर्वापिणी, पुरातनपुरेश्वरि, प्रियमयीं कृपां सन्तनु ॥ ४॥ पुरा हि भवतस्सुता किल विशुद्धधाम्ना भृता सुरेशि भवगेहिनी सुरशरण्यपादाम्बुजा । गिरां पथि न गोचरा तरुणचन्द्रचूडाम्बिका पुराणपुरनायिका जयतु चान्नपूर्णेश्वरी ॥ ५॥ कराकलितपायसा परकरोल्लसद्दर्विका सुवर्णमणिभूषणा सरसभक्तपूरप्रदा । सुचारुमुखचन्द्रधिक्कृतकलङ्किबिम्बाऽम्बिका सुरासुरनमस्कृता विजयतां पुराणेश्वरी ॥ ६॥ चिरन्तनपुरेशि ते चिरतरं विचिन्त्याद्भुतं चिरं किल मुनीश्वराश्चरितसिन्धुमग्नाः परम् । चिरादपि सुरास्पदं न खलु वाञ्छितं मन्वते चिरार्जिततपःफले जय जयान्नपूर्णेश्वरि ॥ ७॥ कलानिधिकलाधरे कलविलासवाणीगुणे कलाधरकुलार्चिते कलकलारणन्नूपुरे । कलापजिततारकावलिलसन्नितम्बोज्ज्वले कलापितपुरापुरे जय जयान्नपूर्णेश्वरि ॥ ८॥ क्षुधान्धजनजीवने जननि साधुसञ्जीवने मुधाकृतसुधारसे बुधजनैस्सदा सेविते । बुधावलिनुतेऽम्बिके, विविधवैभवानर्गले, विधातृमुखपूजिते, जय जयान्नपूर्णेश्वरि ॥ ९॥ महीसुरकुलायने, कृतमहीसुराराधने, महीकृतयुगार्णवे, महितभक्तदानव्रते । महीपतिसमर्चिते हिममहीध्रपुण्याङ्कुरे महीमुखरवैभवे जय जयान्नपूर्णेश्वरि ॥ १०॥ सुचारुरदनोज्ज्वलत्स्मितलसच्छरच्छर्वरी करायुतसदृङ्मुखी त्वमसि जीवनं प्राणिनाम् । निजोरुचरितामृतादृतजनार्पितेष्टव्रजे, पुराणपुरनायिके जय जयान्नपूर्णेश्वरि ॥ ११॥ कृपां कुरु कृपार्णवे विकलमाशु कल्यं कुरु कले कलुषसन्ततिं कलुषयाम्ब कल्याणिनि । कुलाचलनिकेतने कलितकुक्कुटालिप्रिये, पुराणपुरनायिके, जय जयान्नपूर्णेश्वरि ॥ १२॥ विभञ्जय विपत्ततिं विदारयान्तरायावलिं विभीषय भयव्रजं गदगणं विनिर्घातय । विनिर्दह विमूढतां विकलभावमुच्चाटय विपोथय दरिद्रतां जय जयान्नपूर्णेश्वरि ॥ १३॥ सावित्रि सदुपासिते सकलनिष्कलाऽऽकारिणि, त्वमत्रिनयनोद्भवद्युतिविहासिवक्त्रोज्ज्वले । भवित्रि भवमोचिनि, प्रमदकुक्कुटामोदिनि, धरित्रि, परदेवते, कुरु कृपां पुराणेश्वरि ॥ १४॥ त्वमन्नममितं ददास्यखिलदुर्गतेभ्यः प्रिया त्वमम्ब जगतामतस्त्वमसि जीवनं देहिनाम् । त्वदन्तिकमुपेत्य ये त्वयि वितन्वते मानसं त्वमाशु वितनोषि तानखिलदुर्लभप्राभवान् ॥ १५॥ रमे परमहं रमे तवपदाब्जयो रम्ययोः रमेत कतमोऽपि वा भवसुखे विरामार्तिदे । रमारमणपूजिते रमितरामनाथान्तरे, रमाऽऽदृतगुणाकरे जय जयान्नपूर्णेश्वरि ॥ १६॥ उदञ्चितकृपाभरे सुकृतसञ्चितालोकने, कराञ्चितविपञ्चिकाललितगानलोलेऽम्बिके । पराञ्चितसुकाञ्चनज्वलितकाञ्चिकारञ्जिते पुराञ्चितपुरीप्रिये जय जयान्नपूर्णेश्वरि ॥ १७॥ चराचरविधायिनि त्वदखिलं जगज्जायते, त्वदन्नपरिवर्धितास्त्वयि वसन्ति हि प्राणिनः । त्वमेव विलयास्पदं निखिलदेहिनां चण्डिके, पुराणपुरनायिके जय जयान्नपूर्णेश्वरि ॥ १८॥ त्वदम्बुरुहडम्बरप्रमथनाङ्घ्रियुग्मं विना जनस्य जगदम्बिके शरणदं किमन्यद्भुवि । अतस्तव पदाब्जयोः प्रदिश मे च भक्तिं परां पुराणपुरनायिके जय जयान्नपूर्णेश्वरि ॥ १९॥ त्वमम्ब भवभीषणप्रबलभोगिवक्त्रादिमं विमोचय कृपाकरि प्रतिपदं तवाङ्घ्रिश्रितम् । कुमारि कुलपालिनि प्रमथयाशु पीडाभरं पराणुद परं भयं जय जयान्नपूर्णेश्वरि ॥ २०॥ शिरःकलितचन्द्रया कलितदिव्यभूषाढ्यया समस्तमुनिवन्द्यया युधि निरस्तदैत्यौघया । अनस्तमितबोधया करवरात्तदिव्यान्नया कयापि करुणार्द्रया सशरणा वयं सन्ततम् ॥ २१॥ अमन्दमयि सम्पदं परिददासि पद्मालये सुमन्दमपि वाक्पतिं वितनुषे गिरां नायिके । मुकुन्दसहजे मुहुः कलितकालिकारूपिणि विहंसि दितिजावलिं जय जयान्नपूर्णेश्वरि ॥ २२॥ प्रसीद जगदम्बिके श‍ृणु मदीयदीनं वचः विपत्सु शरणं भव प्रणुद दुर्गमां दुर्गतिम् । पुरो मम दृशोश्शिवे कनकभूषणाभूषिता भवानि भव भासुरा जय जयान्नपूर्णेश्वरि ॥ २३॥ कदा तव पदार्चकं हिममहीध्रपुण्याङ्कुरे किमर्भक तवेप्सितं कथय साधयाम्याशु ते । इति प्रियवचो मधुप्रकरवर्षमातन्वती पुराणपुरनायिके मम पुरस्समायास्यसि ॥ २४॥ कलक्वणितनूपुरा कटिनिबद्धकाञ्चीगुणा रणन्मणिविभूषणा चरणकिङ्किणीराविणी । शरच्छशिमुखोद्गलन्मधुरवादमोदप्रदा पुराणपुरनायिके जय जयान्नपूर्णेश्वरि ॥ २५॥ अनन्तदुरितक्रियाऽऽचरणचुञ्चुमप्यम्बिके न मुञ्च तव किङ्करं परमदीनदीनं शिवे विपत्सु हृदि संस्मृता सकलपातकध्वंसिनी प्रसीद परिपालय प्रणतमन्नपूर्णेश्वरि ॥ २६॥ मुनीन्द्रगणसेविते मनुजपालसम्पूजिते मतङ्गकुलनायिके मधुमदोज्ज्वले मोहिनि । मरालगमनाञ्चिते मरकतप्रभाश्यामले मनोहरि मनो मम प्रमदयान्नपूर्णेश्वरि ॥ २७॥ इदं किल कृतं मया प्रणतकामदे मोददे समर्पितमहर्पतेरणुकदीपिकादानवत् । पुराणपुरनायिके तव पदाब्जयोर्दीप्रयो- रपाङ्गय च मां सदा जय जयान्नपूर्णेश्वरि ॥ २८॥ इमां नक्षत्रमालां – भारद्वाजकुलोत्पन्नः सुब्बरामाभिधो द्विजः । पराशक्तेः पादमूले भूषणं कल्पयाम्यहम् ॥ इति श्रीसुब्बरामशर्मणाविरचितं पुरातनपुरेश्वरी भगवतीस्तवं सम्पूर्णम् ॥

Puratanapureshvari

Leave a Reply

Your email address will not be published. Required fields are marked *