
ShrIkRiShNakarNAmRitam:श्रीकृष्णकर्णामृतम्
॥ प्रथमाश्वासः ॥
चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे
शिक्षागुरुश्च भगवान् शिखिपिञ्छमौलिः ।
यत्पादकल्पतरुपल्लवशेखरेषु
लीलास्वयंवररसं लभते जयश्रीः ॥ १.१॥
अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं
वस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥ १.२॥
चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरं
लावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् ।
कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरं
बालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ॥ १.३॥
बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननं
प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।
आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं
ज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम् ॥ १.४॥
मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहं
मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।
विषयविषामिषग्रसनगृध्नुषि चेतसि मे
विपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥ १.५॥
मुकुलायमाननयनाम्बुजं विभोर्मुरलीनिनादमकरन्दनिर्भरम् ।
मुकुरायमाणमृदुगण्डमण्डलं मुखपङ्कजं मनसि मे विजृम्भताम् ॥ १.६॥
कमनीयकिशोरमुग्धमूर्तेः कलवेणुक्वणितादृताननेन्दोः ।
मम वाचि विजृम्भतां मुरारेर्मधुरिम्णः कणिकापि कापि कापि ॥ १.७॥
मदशिखण्डिशिखण्डविभूषणं मदनमन्थरमुग्धमुखांबुजम् ।
व्रजवधूनयनाञ्जनरञ्जितं विजयतां मम वाङ्मयजीवितम् ॥ १.८॥
पल्लवारुणपाणिपङ्कजसङ्गिवेणुरवाकुलं
फुल्लपाटलपाटलीपरिवादिपादसरोरुहम् ।
उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननं
वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥ १.९॥
अपाङ्गरेखाभिरभङ्गुराभिरनङ्गलीलारसरञ्जिताभिः ।
अनुक्षणं वल्लवसुन्दरीभिरभ्यर्चमानं विभुमाश्रयामः ॥ १.१०॥
हृदये मम हृद्यविभ्रमाणां हृदयं हर्षविशाललोलनेत्रम् ।
तरुणं व्रजबालसुन्दरीणां तरलं किञ्चन धाम सन्निधत्ताम् ॥ १.११॥
निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां
कमलविपिनवीथीगर्वसर्वङ्कषाभ्याम् ।
प्रणमदभयदानप्रौढगाढोद्धताभ्यां
किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥ १.१२॥
प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां
प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।
प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां
प्रभवतु हृदये नः प्राणनाथः किशोरः ॥ १.१३॥
माधुर्यवारिधिमदान्धतरङ्गभङ्गीशृङ्गारसंकलितशीतकिशोरवेषम् ।
आमन्दहासललिताननचन्द्रबिम्बमानन्दसम्प्लवमनुप्लवतां मनो मे ॥ १.१४॥
अव्याजमञ्जुलमुखाम्बुजमुग्धभावैरास्वाद्यमाननिजवेणुविनोदनादम् ।
आक्रीडतामरुणपादसरोरुहाभ्यामार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥ १.१५॥
ShrIkRiShNakarNAmRitam मणिनूपुरवाचालं वन्दे तच्चरणं विभोः ।
ललितानि यदीयानि लक्ष्माणि व्रजवीथिषु ॥ १.१६॥
मम चेतसि स्फुरतु वल्लवीविभोर्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् ।
कमलावनेचरकलिन्दकन्यकाकलहंसकण्ठकलकूजितादृतम् ॥ १. १७॥
तरुणारुणकरुणामयविपुलायतनयनं
कमलाकुचकलशीभरपुलकीकृतहृदयम् ।
मुरलीरवतरलीकृतमुनिमानसनलिनं
मम खेलति मदचेतसि मधुराधरममृतम् ॥ १.१८॥
आमुग्धमर्धनयनाम्बुजचुम्ब्यमान-
हर्षाकुलव्रजवधूमधुराननेन्दोः ।
आरब्धवेणुरवमादिकिशोरमूर्ते-
राविर्भवन्ति मम चेतसि केऽपि भावाः ॥ १.१९॥
कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं
क्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः ।
पुनः प्रसृतिचापलं प्रणयिनीभुजायन्त्रितं
मम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥ १.२०॥
स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।
श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथो जल्पितं
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥ १.२१॥
विचित्रपत्राङ्कुरशालिबालास्तनान्तरं मौनिमनोऽन्तरं वा ।
अपास्य वृन्दावनपादपास्यमुपास्यमन्यन्न विलोकयामः ॥ १.२२॥
सार्धं समृद्धैरमृतायमानैराध्यायमानैर्मुरलीनिनादैः ।
मूर्धाभिषिक्तं मधुराकृतीनां बालं कदा नाम विलोकयिष्ये ॥ १.२३॥
शिशिरीकुरुते कदा नु नः शिखिपिञ्छाभरणश्शिशुर्दृशोः ।
युगलं विगलन्मधुद्रवस्मितमुद्रामृदुना मुखेन्दुना ॥ १.२४॥
कारुण्यकर्बुरकटाक्षनिरीक्षणेन तारुण्यसंवलितशैशववैभवेन ।
आपुष्णता भुवनमद्भुतविभ्रमेण श्रीकृष्णचन्द्र शिशिरीकुरु लोचनं मे ॥ १.२५॥
कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।
कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराः
किमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥ १.२६॥
अधीरमालोकितमार्द्रजल्पितं गतं च गंभीरविलासमन्थरम् ।
अमन्दमालिङ्गितमाकुलोन्मदस्मितं च ते नाथ वदन्ति गोपिकाः ॥ १.२७॥
अस्तोकस्मितभरमायतायताक्षं निःशेषस्तनमृदितं व्रजाङ्गनाभिः ।
निस्सीमस्तबकितनीलकान्तिधारं दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ १.२८॥
मयि प्रसादं मधुरैः कटाक्षैर्वंशीनिनादानुचरैर्विधेहि ।
त्वयि प्रसन्ने किमिहापरैर्नस्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ १.२९॥
ShrIkRiShNakarNAmRitam निबद्धमुग्धाञ्जलिरेष याचे नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् ।
दयाम्बुधे देव भवत्कटाक्षदाक्षिण्यलेशेन सकृन्निषिञ्च ॥ १.३०॥
पिञ्छावतंसरचनोचितकेशपाशे पीनस्तनीनयनपङ्कजपूजनीये ।
चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे चापल्यमेति नयनं तव शैशवे नः ॥ १.३१॥
त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि यच्चापलं च मम वागविवादगम्यम् ।
तत् किं करोमि विरणन्मुरलीविलासमुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम् ॥ १.३२॥
पर्याचितामृतरसानि पदार्थभङ्गीफल्गूनि वल्गितविशालविलोचननानि ।
बाल्याधिकानि मदवल्लवभावितानि भावे लुठन्ति सुदृशां तव जल्पितानि ॥ १.३३॥
पुनः प्रसन्नेन मुखेन्दुतेजसा पुरोऽवतीर्णस्य कृपामहाम्बुधेः ।
तदेव लीलामुरलीरवामृतं समाधिविघ्नाय कदा नु मे भवेत् ॥ १.३४॥
भावेन मुग्धचपलेन विलोकनेन मन्मानसे किमपि चापलमुद्वहन्तम् ।
लोलेन लोचनरसायनमीक्षणेन लीलाकिशोरमुपगूहितुमुत्सुकोऽस्मि ॥ १.३५॥
अधीरबिम्बाधरविभ्रमेण हर्षार्द्रवेणुस्वरसम्पदा च ।
अनेन केनापि मनोहरेण हा हन्त हा हन्त मनो धुनोति ॥ १.३६॥
यावन्न मे निखिलमर्मदृढाभिघातनिस्सन्धिबन्धनमुदेत्यसवोपतापः ।
तावद्विभो भवतु तावकवक्त्रचन्द्रचन्द्रातपद्विगुणिता मम चित्तधारा ॥ १.३७॥
यावन्न मे नरदशा दशमी दृशोऽपि रन्ध्रादुदेति तिमिरीकृतसर्वभावा ।
लावण्यकेलिभवनं तव तावदेतु लक्ष्म्याः समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥ १.३८॥
आलोललोचनविलोकितकेलिधारानीराजिताग्रसरणेः करुणाम्बुराशेः ।
आर्द्राणि वेणुनिनदैः प्रतिनादपूरैराकर्णयामि मणिनूपुरशिञ्जितानि ॥ १.३९॥
हे देव हे दयित हे जगदेकबन्धो के कृष्ण हे चपल हे करुणैकसिन्धो ।
हे नाथ हे रमण हे नयनाभिराम हा हा कदा नु भवितासि पदं दृशोर्मे ॥ १.४०॥
अमून्यधन्यानि दिनान्तराणि हरे त्वदालोकनमन्तरेण ।
अनाथबन्धो करुणैकसिन्धो हा हन्त हा हन्त कथं नयामि ॥ १.४१॥
किमिव शृणुमः कस्य ब्रूमः कथं कृतमाशया
कथयत कथां धन्यामन्यामहो हृदयेशयः ।
मधुरमधुरस्मेराकारे मनोनयनोत्सवे
कृपणकृपणा कृष्णे तृष्णा चिरं बत लम्बते ॥ १.४२॥
आभ्यां विलोचनाभ्यामम्बुजदलललितलोचनं बालम् ।
द्वाभ्यामपि परिरब्धुं दूरे मम हन्त दैवसमाग्री ॥ १.४३॥
अश्रान्तस्मितमरुणारुणाधरोष्ठं हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।
विभ्राम्यद्विपुलविलोचनार्धमुग्धं वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥ १.४४॥
लीलायताभ्यां रसशीतलाभ्यां नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।
आलोकयेदद्भुतविभ्रमाभ्यां बालः कदा कारुणिकः किशोरः ॥ १.४५॥
बहुलचिकुरभारं बद्धपिञ्छावतंसं चपलचपलनेत्रं चारुबिम्बाधरोष्ठम् ।
मधुरमृदुलहासं मन्थरोदारलीलं मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ १.४६॥
बहुलजलदच्छायाचोरं विलासभरालसं
मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् ।
कमपि कमलापाङ्कोदग्रप्रपन्नजगज्जितं
मधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥ १.४७॥
परामृश्यं दूरे परिषदि मुनीनां व्रजवधू-
दृशां दृश्यं शश्वत् त्रिभुवनमनोहारिवपुषम् ।
अनामृश्यं वाचामनिदमुदयानामपि कदा
दरीदृश्ये देव दरदलितनीलोत्पलनिभम् ॥ १.४८॥
लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
देवं कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९॥
लग्नं मुहुर्मनसि लम्पटसम्प्रदायि-
लेखाविलेखनरसज्ञमनोज्ञवेषम् ।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु-
राकेन्दुलालितमुखेन्दुमुकुन्दबाल्यम् ॥ १.५०॥
ShrIkRiShNakarNAmRitam अहिमकरकरनिकरमृदुमृदितलक्ष्मी-
सरसतरसरसिरुहसदृशदृशि देवे ।
व्रजयुवतिरतिकलहविजयिनिजलीला-
मदमुदितवदनशशिमधुरिमणि लीये ॥ १.५१॥
करकमलदलदलितललिततरवंशी
कलनिनदगलदमृतघनसरसि देवे ।
सहजरसभरभरितदरहसितवीथी-
सततवहदधरमणिमधुरिमणि लीये ॥ १.५२॥
कुसुमशरशरसमरकुपितमदगोपी-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३॥
आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे-
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।
आताम्रामधरामृते मदकलामम्लानवंशीरवे-
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ १.५४॥
तत्कैशोरं तच्च वक्त्रारविन्दं तत्कारुण्यं ते च लीलाकटाक्षाः ।
तत्सौन्दर्यं सा च मन्दस्मितश्रीः सत्यं सत्यं दुर्लभं दैवतेषु ॥ १.५५॥
विश्वोपप्लवशमनैकबद्धदीक्षं विश्वासस्तवकितचेतसां जनानाम् ।
पश्यामः प्रतिनवकान्तिकन्दलार्द्रं पश्यामः पथि पथि शैशवं मुरारेः ॥ १.५६॥
मौलिश्चन्द्रकभूषणा मरकतस्तम्भाभिरामं वपु-
र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ ।
वाचश्शैशवशीतलामदगजश्लाघ्या विलासस्थिति-
र्मन्दं मन्दमये क एष मथुरावीथीमितो गाहते ॥ १.५७॥
पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौ
पाणी वेणुविनोदनप्रणयिनौ पर्यन्तशिल्पश्रियौ ।
बाहू दोहदभाजनं मृगदृशां माधुर्यधारा गिरो
वक्त्रं वाग्विभवातिलङ्घितमहो बालं किमेतन्महः ॥ १.५८॥
बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलं
वक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम् ।
शीलैरल्पधियामगम्यविभवैः शृङ्गारभङ्गीमयं
चित्रं चित्रमहो विचित्रमहहो चित्रं विचित्रं महः ॥ ११.५९॥
अग्रे समग्रयति कामपि केलिलक्ष्मी-
मन्यासु दिक्ष्वपि विलोचनमेव साक्षी ।
हा हन्त हस्तपथदूरमहो किमेत-
दासीत् किशोरमयमम्ब जगत्त्रयं मे ॥ १.६०॥
चिकुरं बहुलं विरलं भ्रमरं मृदुलं वचनं विपुलं नयनम् ।
अधरं मधुरं वदनं ललितं चपलं चरितन्तु कदाऽनुभवे ॥ १.६१॥
परिपालय नः कृपालयेत्यसकृज्जल्पितमात्मबान्धवः ।
मुरलीमृदुलस्वनान्तरे विभुराकर्णयिता कदा नु नः ॥ १.६२॥
कदा नु कस्यां नु विपद्दशायां कैशोरगन्धिः करुणाम्बुधिर्नः ।
विलोचनाभ्यां विपुलायताभ्यां व्यालोकयिष्यन् विषयीकरोति ॥ १.६३॥
मधुरमधरबिम्बे मञ्जुलं मन्दहासे शिशिरममृतवाक्ये शीतलं दृष्टिपाते ।
विपुलमरुणनेत्रे विश्रुतं वेणुनादे मरकतमणिनीलं बालमालोकये नु ॥ १.६४॥
माधुर्यादपि मधुरं मन्मथतातस्य किमपि कैशोरम् ।
चापल्यादपि चपलं चेतो मम हरति हन्त किं कुर्मः ॥ १.६५॥
वक्षःस्थले च विपुलं नयनोत्पले च मन्दस्मिते च मृदुलं मदजल्पिते च ।
बिम्बाधरे च मधुरं मुरलीरवे च बालं विलासनिधिमाकलये कदा नु ॥ १.६६॥
ShrIkRiShNakarNAmRitam आर्द्रावलोकितदयापरिणद्धनेत्रमाविष्कृतस्मितसुधामधुराधरोष्ठम् ।
आद्यं पुमांसमवतंसितबर्हिबर्हमालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥ १.६७॥
मारः स्वयं नु मधुरद्युतिमण्डलं नु माधुर्यमेव नु मनोनयनामृतं नु ।
वाणीमृजा नु मम जीवितवल्लभो नु बालोऽयमभ्युदयते मम लोचनाय ॥ १.६८॥
बालोऽयमालोलविलोचनेन वक्त्रेण चित्रीकृतदिङ्मुखेन ।
वेषेण घोषोचितभूषणेन मुग्धेन दुग्धे नयनोत्सुकं नः ॥ १.६९॥
आन्दोलिताग्रभुजमाकुलनेत्रलीलमार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।
शिञ्जानभूषणशतं शिखिपिञ्छमौलिं शीतं विलोचनरसायनमभ्युपैति ॥ १.७०॥
पशुपालपालपरिषद्विभूषणं शिशुरेष शीतलविलोललोचनः ।
मृदुलस्मितार्द्रवदनेन्दुसम्पदा मदयन्मदीयहृदयं विगाहते ॥ १.७१॥
var De’s version has additional verse. Numbers are not changed wi De’s.
किमिदमधरवीथीकॢप्तवंशीनिनादं किरति नयनयोर्नः कामपि प्रेमधाराम् ।
तदिदममरवीथीदुर्लभं वल्लभं नः त्रिभुवनकमनीयं दैवतं जीवितं
च ॥ १.७२॥
var
तदिदमुपनतं तमालनीलं तरलविलोचनतारकाभिरामम् ।
मुदितमुदितवक्त्रचन्द्रबिम्बं मुखरितवेणुविलासजीवितं मे ॥ १.७२॥
चापल्यसीम चपलानुभवैकसीम चातुर्यसीम चतुराननशिल्पसीम ।
सौरभ्यसीम सकलाद्भुतकेलिसीम सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥ १.७३॥
माधुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्ती
वंशीवीथीविगलदमृतस्रोतसा सेचयन्ती ।
मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजां
मत्पुण्यानां परिणतिरहो नेत्रयोस्सन्निधत्ते ॥ १.७४॥
तेजसेऽस्तु नमो धेनुपालिने लोकपालिने ।
राधापयोधरोत्सङ्गशायिने शेषशायिने ॥ १.७५॥
धेनुपालदयितास्तनस्थलीधन्यकुङ्कुमसनाथकान्तये ।
वेणुगीतगतिमूलवेधसे तेजसे तदिदमों नमो नमः ॥ १.७६॥
मृदुक्वणन्नूपुरमन्थरेण बालेन पादाम्बुजपल्लवेन ।
अनुक्वणन्मञ्जुलवेणुगीतमायाति मे जीवितमात्तकेलि ॥ १.७७॥
सोऽयं विलासमुरलीनिनदामृतेन सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम् ।
आयाति मे नयनबन्धुरनन्यबन्धुरानन्दकन्दलितकेलिकटाक्षलक्ष्यः ॥ १.७८॥
दूराद्विलोकयति वारणखेलगामी धाराकटाक्षभरितेन विलोचनेन ।
आरादुपैति हृदयङ्गमवेणुनादवेणीदुघेन दशनावरणेन देवः ॥ १.७९॥
त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यां
दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् ।
अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-
मयमयमनुकूजद्वेणुरायाति देवः ॥ १.८०॥
सोऽयं मुनीन्द्रजनमानसतापहारी सोऽयं मदव्रजवधूवसनापहारी ।
सोऽयं तृतीयभुवनेश्वरदर्पहारी सोऽयं मदीयहृदयाम्बुरुहापहारी ॥ १.८१॥
सर्वज्ञत्वे च मौग्ध्ये च सार्वभौममिदं मम ।
निर्विशन्नयनं तेजो निर्वाणपदमश्नुते ॥ १.८२॥
पुष्णानमेतत्पुनरुक्तशोभमुष्णेतरांशोरुदयान्मुखेन्दोः ।
तृष्णाम्बुराशिं द्विगुणीकरोति कृष्णाह्वयं किञ्चन जीवितं मे ॥ १.८३॥
तदेतदाताम्रविलोचनश्रीसम्भाविताशेषविनम्रवर्गम् ।
मुहुर्मुरारेर्मधुराधरोष्ठं मुखाम्बुजं चुम्बति मानसं मे ॥ १.८४॥
करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरू
पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ ।
दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ
विलोक्य सुविलोचनामृतमहो महच्छैशवम् ॥ १.८५॥
आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमा-
नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया ।
आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा-
मानन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमाज्जृम्भते ॥ १.८६॥
समुच्छ्वसितयौवनं तरलशैशवालङ्कृतं
मदच्छुरितलोचनं मदनमुग्धहासामृतम् ।
प्रतिक्षणविलोकनं प्रणयपीतवंशीमुखं
जगत्त्रयविमोहनं जयति मामकं जीवितम् ॥ १.८७॥
चित्रं तदेतच्चरणारविन्दं चित्रं तदेतन्नयनारविन्दम् ।
चित्रं तदेतद्वदनारविन्दं चित्रं तदेतत्पुनरम्ब चित्रम् ॥ १.८८॥
अखिलभुवनैकभूषमधिभूषितजलधिदुहितृकुचकुम्भम् ।
व्रजयुवतीहारवल्लीमरकतनायकमहामणिं वन्दे ॥ १.८९॥
कान्ताकचग्रहणविग्रहबद्धलक्ष्मीखण्डाङ्गरागरसरञ्जितमञ्जुलश्रीः ।
गण्डस्थलीमुकुरमण्डलखेलमानघर्माङ्कुरं किमपि खेलति कृष्णतेजः ॥ १.९०॥
मधुरं मधुरं वपुरस्य विभोर्मधुरं मधुरं वदनं मधुरम् ।
मधुगन्धि मृदुस्मितमेतदहो मधुरं मधुरं मधुरं मधुरम् ॥ १.९१॥
शृङ्गाररससर्वस्वं शिखिपिञ्छविभूषणम् ।
अङ्गीकृतनराकारमाश्रये भुवनाश्रयम् ॥ १.९२॥
नाद्यापि पश्यति कदाचन दर्शनेन चित्तेन चोपनिषदा सुदृशां सहस्रम् ।
स त्वं चिरं नयनयोरनयोः पदव्यां स्वामिन् कया नु कृपया मम सन्निधत्से ॥ १.९३॥
केयं कान्तिः केशव त्वन्मुखेन्दोः कोऽयं वेषः कोऽपि वाचामभूमिः ।
सेयं सोऽयं स्वादुता मञ्जुलश्रीः भूयो भूयो भूयशस्तां नमामि ॥ १.९४॥
वदनेन्दुविनिर्जितश्शशी दशधा देव पदं प्रपद्यते ।
अधिकां श्रियमश्नुतेतरां तव कारुण्यविजृम्भितं कियत् ॥ १.९५॥
तत्त्वन्मुखं कथमिवाब्जसमानकक्षं वाङ्माधुरीबहुलपर्वकलासमृद्धम् ।
तत् किं ब्रुवे किमपरं भुवनैककान्तं यस्य त्वदाननसमा सुषमा सदा स्यात् ॥ १.९६॥
शुश्रूषसे यदि वचः शृणु मामकीनं पूर्वैरपूर्वकविभिर्न कटाक्षितं यत् ।
नीराजनक्रमधुरं भवदाननेन्दोः निर्व्याजमर्हति चिराया शशिप्रदीपः ॥ १.९७॥
अखण्डनिर्वाणरसप्रवाहैर्विखण्डिताशेषरसान्तराणि ।
अयन्त्रितोद्वान्तसुधार्णवानि जयन्ति शीतानि तव स्मितानि ॥ १.९८॥
कामं सन्तु सहस्रशः कतिपये स्वारस्यधौरेयकाः
कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः ।
तैर्नैवं विवदामहे न च वयं देव प्रियं ब्रूमहे
यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारंगता ॥ १.९९॥
मन्दारमूले मदनाभिरामं बिम्बाधरापूरितवेणुनादम् ।
गोगोपगोपीजनमध्यसंस्थं गोपं भजे गोकुलपूर्णचन्द्रम् ॥ १.१००॥
गलद्व्रीडा लोला मदनवनिता गोपवनिता
मधुस्फीतं गीतं किमपि मधुरा चापलधुरा ।
समुज्जृम्भा गुम्फा मधुरिमगिरां मादृशगिरां
त्वयि स्थाने जाते दधति चपलं जन्म च फलम् ॥ १.१०१॥
भुवनं भवनं विलासिनी श्रीस्तनयस्तामरसासनः स्मरश्च ।
परिचारपरम्पराः सुरेन्द्रास्तदपि त्वच्चरितं विभो विचित्रम् ॥ १.१०२॥
देवस्त्रिलोकसौभाग्यकस्तूरीतिलकाङ्कुरः ।
जीयाद् व्रजाङ्गनानङ्गकेलीललितविभ्रमः ॥ १.१०३॥
प्रेमदं च मे कामदं च मे वेदनं च मे वैभवं च मे ।
जीवनं च मे जीवितं च मे दैवतं च मे देव नापरम् ॥ १.१०४॥
माधुर्येण विजृम्भन्तां वाचो नस्तव वैभवे ।
चापल्येन विवर्धन्तां चिन्ता नस्तव शैशवे ॥ १.१०५॥
यानि त्वच्चरितामृतानि रसनालेह्यानि धन्यात्मनां
ये वा चापलशैशवव्यतिकरा राधापराधोन्मुखाः ।
या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे
धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे ॥ १.१०६॥
भक्तिस्त्वयि स्थिरतरा भगवन् यदि स्या-
द्दैवेन नः फलितदिव्यकिशोरवेषे ।
मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मान्
धर्मार्थकामगतयः समयप्रतीक्षाः ॥ १.१०७॥
जय जय जय देव देव देव त्रिभुवनमङ्गलदिव्यनामधेय ।
जय जय जय बालकृष्णदेव श्रवणमनोनयनामृतावतार ॥ १.१०८॥
तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भवद्-
भूयश्चापलभूषितेषु सुकृतां भावेषु निर्भासते ।
श्रीमद्गोकुलमण्डनाय महते वाचां विदूरस्फुटन्-
माधुर्यैकरसार्णवाय महसे कस्मै चिदस्मै नमः ॥ १.१०९॥
ईशानदेवचरणाभरणेन नीवीदामोदरस्थिरयशः स्तबकोद्गमेन ।
लीलाशुकेन रचितं तव देव कृष्णकर्णामृतं वहतु कल्पशतान्तरेऽपि ॥ १.११०॥
var De’s book has additional two verses
धन्यानां सरसानुलापसरणीसौरभ्यमभ्यस्यतां
कर्णानां विवरेषु कामपि सुधावृष्टिं दुहानं मुहुः ।
वन्यानां सुदृशां मनोनयनयोर्मग्नस्य देवस्य नः
कर्णानां वचसां विजृम्भितमहो कृष्णस्य कर्णामृतम् ॥ १.१११॥
अनुग्रहद्विगुणविशाललोचनैरनुस्मरन् मृदुमुरलीरवामृतैः ।
यतो यतः प्रसरति मे विलोचनं ततस्ततः स्फुरतु तवैव वैभवम् ॥ १.११२॥
var
॥ इति श्रीकृष्णकर्णामृते प्रथमाश्वासः समाप्तः ॥
॥ द्वितीयाश्वासः ॥
अभिनवनवनीतस्निग्धमापीतदुग्धं
दधिकणपरिदिग्धं मुग्धमङ्कं मुरारेः ।
दिशतु भुवनकृच्छ्रच्छेदि तापिञ्छगुच्छ-
च्छवि नवशिखिपिञ्छा लाञ्छितं वाञ्छितं नः ॥ २.१॥
यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवां गाहते
विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते ।
उत्तंसाय तमालपल्लवमिति छिन्दन्ति यां गोपिकाः
कन्तिः कालियशासनस्य वपुषः सा पावनी पातु नः ॥ २.२॥
देवः पायात्पयसि विमले यामुने मज्जतीनां
याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि ।
लज्जालोलैरलसविलसैरुन्मिषत्पञ्चबाणै-
र्गोपस्त्रीणां नयनकुसुमैरर्चितः केशवो नः ॥ २.३॥
मातर्नातःपरमनुचितं यत्खलानां पुरस्ता-
दस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि ।
तत्क्षन्तव्यं सहजसरले वत्सले वाणि कुर्यां
प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः ॥ २.४॥
अङ्गुल्यग्रैररुणकिरणैर्मुक्तसंरुद्धरन्ध्रं
वारं वारं वदनमरुता वेणुमापूरयन्तम् ।
व्यत्यस्ताङ्घ्रिं विकचकमलच्छायविस्तारनेत्रं
वन्दे वृन्दावनसुचरितं नन्दगोपालसूनुम् ॥ २.५॥
मन्दं मन्दं मधुरनिनदैर्वेणुमापूरयन्तं
वृन्दं वृन्दावनभुवि गवां चारयन्तं चरन्तम् ।
छन्दोभागे शतमखमुखध्वंसिनां दानवानां
हन्तारं तं कथय रसने गोपकन्याभुजङ्गम् ॥ २.६॥
वेणीमूले विरचितघनश्यामपिञ्छावचूडो
विद्युल्लेखावलयित इव स्निग्धपीताम्बरेण ।
मामालिङ्गन्मरकतमणिस्तम्भगंभीरबाहुः
स्वप्ने दृष्टस्तरुणतुलसीभूषणो नीलमेघः ॥ २.७॥
कृष्णे हृत्वा वसननिचयं कूलकुञ्जाधिरूढे
मुग्धा काचिन्मुहुरनुनयैः किं न्विति व्याहरन्ती ।
सभ्रूभङ्गं सदरहसितं सत्रपं सानुरागं
छायाशौरेः करतलगतान्यम्बराण्याचकर्ष ॥ २.८॥
अपि जनुषि परस्मिन्नात्तपुण्यो भवेयं
तटभुवि यमुनायास्तादृशो वंशनालः ।
अनुभवति य एषः श्रीमदाभीरसूनो-
रधरमणिसमीपन्यासधन्यामवस्थाम् ॥ २.९॥
अयि परिचिनु चेतः प्रातरम्भोजनेत्रं
कबरकलितचञ्चत्पिञ्छदामाभिरामम् ।
वलभिदुपलनीलं वल्लवीभागधेयं
निखिलनिगमवल्लीमूलकन्दं मुकुन्दम् ॥ २.१०।
अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द-
श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे ।
अधरमणिसमीपं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥ २.११।
सजलजलदनीलं वल्लवीकेलिलोलं
श्रितसुरतरुमूलं विद्युदुल्लासिचेलम् ।
सुररिपुकुलकालं सन्मनोबिम्बलीलं
नतसुरमुनिजालं नौमि गोपालबालम् ॥ २.१२॥
अधरबिम्बविडम्बितविद्रुमं मधुरवेणुनिनादविनोदिनम् ।
कमलकोमलकम्रमुखाम्बुजं कमपि गोपकुमारमुपास्महे ॥ २.१३॥
अधरे विनिवेश्य वंशनालं विवराण्यस्य सलीलमङ्गुलीभिः ।
मुहुरन्तरयन्मुहुर्विवर्णन् मधुरं गायति माधवो वनान्ते ॥ २.१४॥
वदने नवनीतगन्धवाहं वचने तस्करचातुरीधुरीणम् ।
नयने कुहनाश्रुमाश्रयेथाश्चरणे कोमलताण्डवं कुमारम् ॥ २.१५॥
अमुनाखिलगोपगोपनार्थं यमुनारोधसि नन्दनन्दनेन ।
दमुना वनसम्भवः पपे नः किमु नासौ शरणार्थिनां शरण्यः ॥ २.१६॥
जगदादरणीयजारभावं जलजापत्यवचोविचारगम्यम् ।
तनुतां तनुतां शिवेतराणां सुरनाथोपलसुन्दरं महो नः ॥ २.१७॥
या शेखरे श्रुतिगिरां हृदि योगभाजां पादाम्बुजे च सुलभा व्रजसुन्दरीणाम् ।
सा काऽपि सर्वजगतामभिरामसीमा कामाय नो भवतु गोपकिशोरमूर्तिः ॥ २.१८॥
अत्यन्तबालमतसीकुसुमप्रकाशं दिग्वाससं कनकभूषणभूषिताङ्गम् ।
विस्रस्तकेशमरुणाधरमायताक्षं कृष्णं नमामि मनसा वसुदेवसूनुम् ॥ २.१९॥
हस्ताङ्घ्रिनिक्वणितकङ्कणकिङ्किणीकं मध्ये नितम्बमवलम्बितहेमसूत्रम् ।
मुक्ताकलापमुकुलीकृतकाकपक्षं वन्दामहे व्रजवरं वसुदेवभाग्यम् ॥ २.२०॥
वृन्दावनद्रुमतलेषु गवां गणेषु वेदावसानसमयेषु च दृश्यते यत् ।
तद्वेणुनादनपरं शिखिपिञ्छचूडं ब्रह्म स्मरामि कमलेक्षणमभ्रनीलम् ॥ २.२१॥
व्यत्यस्तपादमवतंसितबर्हिबर्हं साचीकृतानननिवेशितवेणुरन्ध्रम् ।
तेजः परं परमकारुणिकं पुरस्तात् प्राणप्रयाणसमये मम सन्निधत्ताम् ॥ २.२२॥
घोषप्रघोषशमनाय मथोगुणेन मध्ये बबन्ध जननी नवनीतचोरम् ।
तद्बन्धनं त्रिजगतामुदराश्रयाणामाक्रोशकारणमहो नितरां बभूव ॥ २.२३॥
शैवा वयं न खलु तत्र विचारणीयं पञ्चाक्षरीजपपरा नितरां तथापि ।
चेतो मदीयमतसीकुसुमावभासं स्मेराननं स्मरति गोपवधूकिशोरम् ॥ २.२४॥
राधा पुनातु जगदच्युतदत्तचित्ता मन्थानमाकलयती दधिरिक्तपात्रे ।
तस्याः स्तनस्तबकचञ्चललोलदृष्टिर्देवोऽपि दोहनधिया वृषभं निरुन्धन् ॥ २.२५॥
गोधूलिधूसरितकोमलकुन्तलाग्रं गोवर्धनोद्धरणकेलिकृतप्रयासम् ।
गोपीजनस्य कुचकुङ्कुममुद्रिताङ्गं गोविन्दमिन्दुवदनं शरणं भजामः ॥ २.२६॥
यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा वाराहजन्मनि बभूवुरमी समुद्राः ।
तं नाम नाथमरविन्ददृशं यशोदा पाणिद्वयान्तरजलैः स्नपयां बभूव ॥ २.२७॥
वरमिममुपदेशमाद्रियध्वं निगमवनेषु नितान्तचारखिन्नः ।
विचिनुत भवनेषु वल्लवीनामुपनिषदर्थमुलूखले निबद्धम् ॥ २.२८॥
देवकीतनयपूजनपूतः पूतनारिचरणोदकधौतः ।
यद्यहं स्मृतधनञ्जयसूतः किं करिष्यति स मे यमदूतः ॥ २.२९॥
भासतां भवभयैकभेषजं मानसे मम मुहुर्मुहुर्मुहुः ।
गोपवेषमुपसेदुषस्स्वयं यापि कापि रमणीयता विभोः ॥ २.३०॥
कर्णलम्बितकदम्बमञ्जरी केसरारुणकपोलमण्डलम् ।
निर्मलं निगमवागगोचरं नीलिमानमवलोकयामहे ॥ २.३१॥
साचि सञ्चलितलोचनोत्पलं सामिकुड्मलितकोमलाधरम् ।
वेगवल्गितकराङ्गुलीमुखं वेणुनादरसिकं भजामहे ॥ २.३२॥
स्यन्दने गरुडमण्डितध्वजे कुण्डिनेशतनयाधिरोपिता ।
केनचिन्नवतमालपल्लवश्यामलेन पुरुषेण नीयते ॥ २.३३॥
मा यात पान्थाः पथि भीमरथ्या दिगंबरः कोऽपि तमालनीलः ।
विन्यस्तहस्तोऽपि नितम्बबिम्बे धूर्तस्समाकर्षति चित्तवित्तम् ॥ २.३४॥
रासक्रीडा
अङ्गनामङ्गनामन्तरे माधवो माधवं माधवं चान्तरेणाङ्गना ।
इत्थमाकल्पिते मण्डले मध्यगः सञ्जगौ वेणुना देवकीनन्दनः ॥ २.३५॥
केकिकेकादृतानेकपङ्केरुहालीनहंसावलीहृद्यता हृद्यता ।
कंसवंशाटवीदाहदावानलः सञ्जगौ वेणुना देवकीनन्दनः । २.३६॥
क्वापि वीणाभिराराविणा कम्पितः क्वापि वीणाभिराकिङ्किणीनर्तितः ।
क्वापि वीणाभिरामन्तरं गापितः सञ्जगौ वेणुना देवकीनन्दनः । २.३७॥
चारुचन्द्रावलीलोचनैश्चुम्बितो गोपगोवृन्दगोपालिकावल्लभः ।
वल्लवीवृन्दवृन्दारकः कामुकः सञ्जगौ वेणुना देवकीनन्दनः । २.३८॥
मौलिमालामिलन्मत्तभृङ्गीलताभीतभीतप्रियाविभ्रमालिङ्गितः ।
स्रस्तगोपीकुचाभोगसम्मेलितः सञ्जगौ वेणुना देवकीनन्दनः । २.३९॥
चारुचामीकराभासभामाविभुर्वैजयन्तीलतावासितोरःस्थलः ।
नन्दवृन्दावने वासितामध्यगः सञ्जगौ वेणुना देवकीनन्दनः । २.४०॥
बालिकातालिकाताललीलालयासङ्गसन्दर्शितभ्रूलताविभ्रमः ।
गोपिकागीतदत्तावधानस्स्वयं सञ्जगौ वेणुना देवकीनन्दनः । २.४१॥
पारिजातं समुद्धृत्य राधावरो रोपयामास भामागृहस्याङ्कणे ।
शीतशीते वटे यामुनीये तटे सञ्जगौ वेणुना देवकीनन्दनः । २.४२॥
अग्रे दीर्घतरोऽयमर्जुनतरुस्तस्याग्रतो वर्तनिः
सा घोषं समुपैति तत्परिसरे देशे कलिन्दात्मजा ।
तस्यास्तीरतमालकाननतले चक्रं गवां चारयन्
गोपः क्रीडति दर्शयिष्यति सखे पन्थानमव्याहतम् ॥ २.४३॥
गोधूलिधूसरितकोमलगोपवेषं गोपालबालकशतैरनुगम्यमानम् ।
सायन्तने प्रतिगृहं पशुबन्धनार्थं गच्छन्तमच्युतशिशुं प्रणतोऽस्मि नित्यम् ॥ २.४४॥
निधिं लावण्यानां निखिलजगदाश्चर्यनिलयं
निजावासं भासां निरवधिकनिःश्रेयसरसम् ।
सुधाधारासारं सुकृतपरिपाकं मृगदृशां
प्रपद्ये माङ्गल्यं प्रथममधिदैवं कृतधियाम् ॥ २.४५॥
आताम्रपाणिकमलप्रणयप्रतोदमालोलहारमणिकुण्डलहेमसूत्रम् ।
आविश्रमाम्बुकणमम्बुदनीलमव्यादाद्यं धनञ्जयरथाभरणं महो नः ॥ २.४६॥
नखनियमितकण्डून् पाण्डवस्यन्दनाश्वाननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः ।
अवतु विततगात्रस्तोत्रनिष्ठ्यूतमौलिर्दशनविधृतरश्मिर्देवकीपुण्यराशिः ॥ २.४७॥
व्रजयुवतिसहाये यौवनोल्लासिकाये सकलशुभविलासे कुन्दमन्दारहासे ।
निवसतु मम चित्तं तत्पदायत्तवृत्तं मुनिसरसिजभानौ नन्दगोपालसूनौ ॥ २.४८॥
अरण्यानीमार्द्रस्मितमधुरबिम्बाधरसुधा
सरण्या संक्रान्तैस्सपदि मदयन् वेणुनिनदैः ।
धरण्या सानन्दोत्पुलकमुपगूढाङ्घ्रिकमलः
शरण्यानामाद्यस्स जयतु शरीरी मधुरिमा ॥ २.४९॥
विदग्धगोपालविलासिनीनां संभोगचिह्नाङ्कितसर्वगात्रम् ।
पवित्रमाम्नायगिरामगम्यं ब्रह्म प्रपद्ये नवनीतचोरम् ॥ २.५०॥
var De’s book. Numbers retained.
मुग्धां स्निग्धां मधुरमुरलीमाधुरीधीरनादैः
कारं कारं करणविवशं गोकुलव्याकुलत्वम् ।
श्यामं कामं युवजनमनोमोहनं मोहनत्वं
चित्ते नित्यं निवसतु महो वल्लवीवल्लभं नः ॥ २.५०॥
var
अन्तर्गृहे कृष्णमवेक्ष्य चोरं बद्ध्वा कवाटं जननीं गतैका ।
उलूखले दामनिबद्धमेनं तत्रापि दृष्ट्वा स्तिमिता बभूव ॥ २.५१॥
रत्नस्थले जानुचरः कुमारः सङ्क्रान्तमात्मीयमुखारविन्दम् ।
आदातुकामस्तदलाभखेदाद्विलोक्य धात्रीवदनं रुरोद ॥ २.५२॥
आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं
साशङ्कं बलविद्विषा सकुसुमैः सिद्धैः पथि व्याकुलम् ।
सेर्ष्यं गोपकुमारकैस्सकरुणं पौरैर्जनैः सस्मितं
यो दृष्टः स पुनातु नो मुररिपुः प्रोत्क्षिप्तगोवर्धनः ॥ २.५३॥
उपासतामात्मविदः पुराणाः परं पुमांसं निहितं गुहायाम् ।
वयं यशोदाशिशुबाललीलाकथासुधासिन्धुषु लीलयामः ॥ २.५४॥
विक्रेतुकामा किल गोपकन्या मुरारिपादार्पितचित्तवृत्तिः ।
दध्यादिकं मोहवशादवोचद्गोविन्द दामोदर माधवेति ॥ २.५५॥
उलूखलं वा यमिनां मनो वा गोपाङ्गनानां कुचकुड्मलं वा ।
मुरारिनाम्नः कलभस्य नूनमालानमासीत् त्रयमेव भूमौ ॥ २.५६॥
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ २.५७॥
शम्भो स्वागतमास्यतामित इतो वामेन पद्मासन
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यसे ।
इत्थं स्वप्नगतस्य कैटभजितश्श्रुत्वा यशोदा गिरः
किं किं बालक जल्पसीति रचितं धूधूकृतं पातु नः ॥ २.५८॥
मातः किं यदुनाथ देहि चषकं किं तेन पातुं पय-
स्तन्नास्त्यद्य कदास्ति वा निशि निशा का वाऽन्धकारोदये ।
आमील्याक्षियुगं निशाप्युपगता देहीति मातुर्मुहु-
र्वक्षोजांशुककर्षणोद्यतकरः कृष्णस्य पुष्णातु नः ॥ २.५९॥
कालिन्दीपुलिनोदरेषु मुसली यावद्गतः खेलितुं
तावत्कार्परिकं पयः पिब हरे वर्धिष्यते ते शिखा ।
इत्थं बालतया प्रतारणपराः शृत्वा यशोदागिरः
पायान्नस्स्वशिखां स्पृशन् प्रमुदितः क्षीरेऽर्धपीते हरिः ॥ २.६०॥
कैलासे नवनीतति क्षितिरियं प्राग्जग्धमृल्लोष्टति
क्षीरोदोऽपि निपीतदुग्धति लसत् स्मेरे प्रफुल्ले मुखे ।
मात्राऽजीर्णधिया दृढं चकितया नष्टाऽस्मि दृष्टाः कया
धूधू वत्सक जीव जीव चिरमित्युक्तोऽवतान्नो हरिः ॥ २.६१॥
किञ्चित्कुञ्चितलोचनस्य पिबतः पर्यायपीतस्तनं
सद्यः प्रस्नुतदुग्धबिन्दुमपरं हस्तेन सम्मार्जतः ।
मात्रैकाङ्गुलिलालितस्य चुबुके स्मेराननस्याधरे
शौरेः क्षीणकणान्विता निपतिता दन्तद्युतिः पातु नः ॥ २.६२॥
उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे-
रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युतेः ।
लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः
पश्यन्ती मुदिता मुदोऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥ २.६३॥
कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
तथ्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगत्
माता यस्य जगाम विस्मयपदं पायात् स नः केशवः ॥ २.६४॥
स्वाती सपत्नी किल तारकाणां मुक्ताफलानां जननीति रोषात् ।
सा रोहिणी नीलमसूत रत्नं कृतास्पदं गोपवधूकुचेषु ॥ २.६५॥
नृत्यन्तमत्यन्तविलोकनीयं कृष्णं मणिस्थम्भगतं मृगाक्षी ।
निरीक्ष्य साक्षादिव कृष्णमग्रे द्विधा वितेने नवनीतमेकम् ॥ २.६६॥
वत्स जागृहि विभातमागतं जीव कृष्ण शरदां शतं शतम् ।
इत्युदीर्य सुचिरं यशोदया दृश्यमनवदनं भजामहे ॥ २.६७॥
ओष्ठं जिघ्रन् शिशुरिति धिया चुम्बितो वल्लवीभिः
कण्ठं गृह्णन्नरुणितपदं गाढमालिङ्गिताङ्गः ।
दोष्णा लज्जापदमभिमृशन्नङ्कमारोपितात्मा
धूर्तस्वामी हरतु दुरितं दूरतो बालकृष्णः ॥ २.६८॥
एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा
मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः ।
इत्थं व्यहृतपूर्वजन्मचरितं यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स नस्सुखयतु स्वप्नायमानो हरिः ॥ २.६९॥
ओष्ठं मुञ्च हरे बिभेमि भवता पानैर्हता पूतना
कण्ठाश्लेषममुं जहीहि दलितावालिङ्गनेनार्जुनौ ।
मा देहि छुरितं हिरण्यकशिपुर्नीतो नखैः पञ्चता-
मित्थं वारितरात्रिकेलिरवताल्लक्ष्म्यापहासाद्धरिः ॥ २.७०॥
रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु-
र्वाचा पञ्चवटीतटे विहरतस्तामाहरद्रावणः ।
निद्रार्थं जननी कथामिति हरेर्हुङ्कारतः शृण्वतः
सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पातु नः ॥ २.७१॥
बालोऽपि शैलोद्धरणाग्रपाणिर्नीलोऽपि नीरन्ध्रतमः प्रदीपः ।
धीरोऽपि राधानयनावबद्धो जारोऽपि संसारहरः कुतस्त्वम् ॥ २.७२॥
बालाय नीलवपुषे नवकिङ्किणीकजालाभिरामजघनाय दिगम्बराय ।
शार्दूलदिव्यनखभूषणभूषिताय नन्दात्मजाय नवनीतमुषे नमस्ते ॥ २.७३॥
पाणौ पायसभक्तमाहितरसं बिभ्रन्मुदा दक्षिणे
सव्ये शारदचन्द्रमण्डलनिभं हय्यंगवीनं दधत् ।
कण्ठे कल्पितपुण्डरीकनखमप्युद्दामदीप्तिं वहन्
देवो दिव्यदिगम्बरो दिशतु नस्सौख्यं यशोदाशिशुः ॥ २.७४॥
किङ्किणिकिणिकिणिरभसैरङ्गणभुवि रिङ्गणैः सदाऽटन्तम् ।
कुङ्कुणुकुणुपदयुगलं कङ्कणकरभूषणं हरिं वन्दे ॥ २.७५॥
सम्बाधे सुरभीणामम्बामायासयन्तमनुयान्तीम् ।
लम्बालकमवलम्बे तं बालं तनुविलग्नजम्बालम् ॥ २.७६॥
अञ्चितपिञ्छाचूडं सञ्चितसौजन्यवल्लवीवलयम् ।
अधरमणिनिहितवेणुं बालं गोपालमनिशमवलम्बे ॥ २.७७॥
प्रह्लादभागधेयं निगममहाद्रेर्गुहान्तराधेयम् ।
नरहरिपदाभिधेयं विबुधविधेयं ममानुसंधेयम् ॥ २.७८॥
संसारे किं सारं कंसारेश्चरणकमलपरिवसनम् ।
ज्योतिः किमन्धकारे यदन्धकारेरनुस्मरणम् ॥ २.७९॥
कलशनवनीतचोरे कमलादृक्कुमुदचन्द्रिकापूरे ।
विहरतु नन्दकुमारे चेतो मम गोपसुन्दरीजारे ॥ २.८०॥
कस्त्वं बाल बलानुजः किमिह ते मन्मन्दिराशङ्कया
युक्तं तन्नवनीतपात्रविवरे हस्तं किमर्थं न्यसेः ।
मातः कञ्चन वत्सकं मृगयितुं मा गा विषादं क्षणा-
दित्येवं वरवल्लवीप्रतिवचः कृष्णस्य पुष्णातु नः ॥ २.८१॥
गोपालाजिरकर्दमे विहरसे विप्राध्वरे लज्जसे
ब्रूषे गोकुलहुङ्कृतैः स्तुतिशतैर्मौनं विधत्से विदाम् ।
दास्यं गोकुलपुंश्चलीषु कुरुषे स्वाम्यं न दान्तात्मसु
ज्ञातं कृष्ण तवाङ्घ्रिपङ्कजयुगं प्रेम्णाचलं मञ्जुलम् ॥ २.८२॥
नमस्तस्मै यशोदाया दायादायास्तु तेजसे ।
यद्धि राधामुखाम्भोजं भोजं भोजं व्यवर्धत ॥ २.८३॥
अवताराः सन्त्वन्ये सरसिजनयनस्य सर्वतोभद्राः ।
कृष्णादन्यः को वा प्रभवति गोगोपगोपिकामुक्त्यै ॥ २.८४॥
मध्ये गोकुलमण्डलं प्रतिदिशं चाम्बारवोज्जृम्भिते
प्रातर्दोहमहोत्सवे नवघनश्यामं रणन्नूपुरम् ।
फाले बालविभूषणं कटिरणत्सत्किङ्किणीमेखलं
कण्ठे व्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे ॥ २.८५॥
सजलजलदनीलं दर्शितोदारलीलं
करतलधृतशैलं वेणुनादै रसालम् ।
व्रजजनकुलपालं कामिनीकेलिलोलं
कलितललितमालं नौमि गोपालबालम् ॥ २.८६॥
स्मितललितकपोलं स्निग्धसङ्गीतलोलं
ललितचिकुरजालं चौर्यचातुर्यलीलम् ।
शतमखरिपुकालं शातकुम्भाभचेलं
कुवलयदलनीलं नौमि गोपालबालम् ॥ २.८७॥
मुरलिनिनदलोलं मुग्धमायूरचूडं
दलितदनुजजालं धन्यसौजन्यलीलम् ।
परहितनवहेलं पद्मसद्मानुकूलं
नवजलधरनीलं नौमि गोपालबालम् ॥ २.८८॥
सरसगुणनिकायं सच्चिदानन्दकायं
शमितसकलमायं सत्यलक्ष्मीसहायम् ।
शमदमसमुदायं शान्तसर्वान्तरायं
सुहृदयजनदायं नौमि गोपालबालम् ॥ २.८९॥
लक्ष्मीकलत्रं ललिताब्जनेत्रं पूर्णेन्दुवक्त्रं पुरुहूतमित्रम् ।
कारुण्यपात्रं कमनीयगात्रं वन्दे पवित्रं वसुदेवपुत्रम् ॥ २.९०॥
मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः ।
मम रतिममरतिरस्कृतिशमनपरस्स क्रियात् कृष्णः ॥ २.९१॥
मौलौ मायूरबर्हं मृगमदतिलकं चारु लालाटपट्टे
कर्णद्वन्द्वे च तालीदलमतिमृदुलं मौक्तिकं नासिकायाम् ।
हारो मन्दारमालापरिमलभरिते कौस्तुभस्योपकण्ठे
पाणौ वेणुश्च यस्य व्रजयुवतियुतः पातु पीताम्बरो नः ॥ २.९२॥
मुरारिणा वारिविहारकाले मृगेक्षणानां मुषितांशुकानाम् ।
करद्वयं वा कचसंहतिर्वा प्रमीलनं वा परिधानमासीत् ॥ २.९३॥
यासां गोपाङ्गनानां लसदसिततरालोललीलाकटाक्षा
यन्नासा चारु मुक्तामणिरुचिनिकरव्योमगङ्गाप्रवाहे ।
मीनायन्तेऽपि तासामतिरभसचलच्चारुनीलालकान्ता
भृङ्गायन्ते यदङ्घ्रिद्वयसरसिरुहे पातु पीताम्बरो नः ॥ २.९४॥
यद्वेणुश्रेणिरूपस्थितसुषिरमुखोद्गीर्णनादप्रभिन्ना
एणाक्ष्यस्तत्क्षणेन त्रुटितनिजपतिप्रेमबन्धा बभूवुः ॥
अस्तव्यस्तालकान्ताः स्फुरदधरकुचद्वन्द्वनाभिप्रदेशाः
कामावेशप्रकर्षप्रकटितपुलकाः पातु पीतम्बरो नः ॥ २.९५॥
देवक्या जठराकरे समुदितः क्रीतो गवां पालिना
नन्देनानकदुन्दुभेर्निजसुतापण्येन पुण्यात्मना ।
गोपालावलिमुग्धहारतरलो गोपीजनालङ्कृतिः
स्थेयान्नो हृदि सन्ततं सुमधुरः कोऽपीन्द्रनीलो मणिः ॥ २.९६॥
पीठे पीठनिषण्णबालकगले तिष्ठन् स गोपालको
यन्त्रान्तःस्थितदुग्धभाण्डमपकृष्याच्छाद्य घण्टारवम् ।
वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन् यः पयः
पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ २.९७॥
यज्ञैरीजिमहे धनं ददिमहे पात्रेषु नूनं वयं
वृद्धान् भेजिमहे तपश्चकृमहे जन्मान्तरे दुश्चरम् ।
येनास्माकमभूदनन्यसुलभा भक्तिर्भवद्वेषिणी
चाणूरद्विषि भक्तकल्मषमुषि श्रेयःपुषि श्रीजुषि ॥ २.९८॥
त्वयि प्रसन्ने मम किं गुणेन त्वय्यप्रसन्ने मम किं गुणेन ।
रक्ते विरक्ते च वरे वधूनां निरर्थकः कुङ्कुमपत्रभङ्गः ॥ २.९९॥
गायन्ति क्षणदावसानसमये सानन्दमिन्दुप्रभा
रुन्धन्त्यो निजदन्तकान्तिनिवहैर्गोपाङ्गना गोकुले ।
मथ्नन्त्यो दधि पाणिकङ्कणझणत्कारानुकारं जवाद्
व्यावल्गद्वसनाञ्जला यमनिशं पीताम्बरोऽव्यात्स नः ॥ २.१००॥
अंसालम्बितवामकुण्डलभरं मन्दोन्नतभ्रूलतं
किञ्चित्कुञ्चितकोमलाधरपुटं साचि प्रसारेक्षणम् ।
आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा
मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम् ॥ २.१०१॥
मल्लैश्शैलेन्द्रकल्पः शिशुरितजनैः पुष्पचापोऽङ्गनाभि-
र्गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्रमेयः ।
क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिः
दृष्टो रङ्गावतारे हरिरमरगणानन्दकृत् पातु युष्मान् ॥ २.१०२॥
संविष्टो मणिविष्टरेऽङ्कतलमध्यासीनलक्ष्मीमुखे
कस्तूरीतिलकं मुदा विरचयन् हर्षात्कुचौ संस्पृशन् ।
अन्योन्यस्मितचन्द्रिकाकिसलयैराराधयन्मन्मथं
गोपीगोपपरीवृतो यदुपतिः पायाज्जगन्मोहनः ॥ २.१०३॥
आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता
दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति ।
बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं
श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णस्स पुष्णातु नः ॥ २.१०४॥
उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया
तेन त्वं दिवि भूतले च सततं गोवर्धनोद्धारकः ।
त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते
किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥ २.१०५॥
सन्ध्यावन्दन भद्रमस्तु भवतो भोः स्नान तुभ्यं नमो
भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम् ।
यत्र क्वापि निषीद्य यादवकुलोत्तंसस्य कंसद्विषः
स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥ २.१०६॥
हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ २.१०७॥
कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ २.१०८॥
लोकानुन्मदयन् श्रुतीर्मुखरयन् श्रोणीरुहान्हर्षयन्
शैलान्विद्रवयन् मृगान्विवशयन् गोवृन्दमानन्दयन् ।
गोपान् संभ्रमयन् मुनीन्मुकुलयन् सप्तस्वरान् जृम्भयन्
ओंकारार्थमुदीरयन् विजयते वंशीनिनादश्शिशोः ॥ २.१०९॥
॥ इति श्रीकृष्णकर्णामृते द्वितीयाश्वासः समाप्तः ॥
॥ तृतीयाश्वासः ॥
अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं
वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव ।
हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारित-
स्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्तावि राधास्तुतम् ॥ ३.१॥
राधाराधितविभ्रमाद्भुतरसं लावण्यरत्नाकरं
साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहम् ।
आलम्बे हरिनीलगर्वगुरुतासर्वस्वनिर्वापणं
बालं वैणविकं विमुग्धमधुरं मूर्धाभिषिक्तं महः ॥ ३.२॥
करिणामलभ्यगतिवैभवं भजे करुणावलम्बितकिशोरविग्रहम् ।
यमिनामनारतविहारि मानसे यमुनावनान्तरसिकं परं महः ॥ ३.३॥
अतन्त्रितत्रिजगदपि व्रजाङ्गनानियन्त्रितं विपुलविलोचनाज्ञया ।
निरन्तरं मम हृदये विज्जृम्भतां समन्ततः सरसतरं परं महः ॥ ३.४॥
कन्दर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं
वृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम् ।
मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं
वन्दे कन्दलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः ॥ ३.५॥
आमुक्तमानुषममुक्तनिजानुभाव-
मारूढयौवनमगूढविदग्धलीलम् ।
आमृष्टयौवनमनष्टकिशोरभाव-
माद्यं महः किमपि माद्यति मानसे मे ShrIkRiShNakarNAmRitam ॥ ३.६॥
ते ते भावास्सकलजगदीलोभनीयप्रभावाः
नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु ।
वीणावेणुक्वणितलसितस्मेरवक्त्रारविन्दा-
न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुराशेः ॥ ३.७॥
सुकृतिभिरादृते सरसवेणुनिनादसुधा-
रसलहरीविहारनिरवग्रहकर्णपुटे ।
व्रजवरसुन्दरीमुखसरोरुहसारसिके
महसि कदा नु मज्जति मदीयमिदं हृदयम् ॥ ३.८॥
तृष्णातुरे चेतसि जृम्भमाणं मुष्णन्मुहुर्मोहमहान्धकारम् ।
पुष्णातु नः पुण्यदयैकसिन्धोः कृष्णस्य कारुण्यकटाक्षकेलिः ॥ ३.९॥
निखिलागममौलिलालितं पदकमलं परमस्य तेजसः ।
व्रजभुवि बहुमन्महेतरां सरसकरीषविशेषरूषितम् ॥ ३.१०॥
उदारमृदुलस्मितव्यतिकराभिरामाननं
मुदा मुहुरुदीर्णया मुनिमनोऽम्बुजाम्रेडितम् ।
मदालसविलोचनव्रजवधूमुखास्वादितं
कदा नु कमलेक्षणं कमपि बालमालोकये ॥ ३.११॥
व्रजजनमदयोषिल्लोचनोच्छिष्टशेषी-
कृतमतिचपलाभ्यां लोचनाभ्यामुभाभ्याम् ।
सकृदपि परिपातुं ते वयं पारयामः
कुवलयदलनीलं कान्तिपूरं कदा नु ॥ ३.१२॥
घोषयोषिदनुगीतयौवनं कोमलस्तनितवेणुनिस्स्वनम् ।
सारभूतमभिरामसम्पदां धाम तामरसलोचनं भजे ॥ ३.१३॥
लीलया ललितयावलम्बितं मूलगेहमिव मूर्तिसम्पदाम् ।
नीलनीरदविकासविभ्रमं बालमेव वयमाद्रियामहे ॥ ३.१४॥
वन्दे मुरारेश्चरणारविन्दद्वन्द्वं दयादर्शितशैशवस्य ।
वन्दारुवृन्दारकवृन्दमौलिमन्दारमालाविनिमर्दभीरु ॥ ३.१५॥
यस्मिन् नृत्यति यस्य शेखरभरैः क्रौञ्चद्विषश्चन्द्रकी
यस्मिन् दृप्यति यस्य घोषसुरभिं जिघ्रन् वृषो धूर्जटेः ।
यस्मिन् सज्जति यस्य विभ्रमगतिं वाञ्छन् हरेस्सिन्धुर-
स्तद्वृन्दावनकल्पकद्रुमवनं तं वा किशोरं भजे ॥ ३.१६॥
अरुणाधरामृतविशेषितस्मितं वरुणालयानुगतवर्णवैभवम् ।
तरुणारविन्ददलदीर्घलोचनं करुणामयं कमपि बालमाश्रये ॥ ३.१७॥
लावण्यवीचीरचिताङ्गभूषां भूषापदारोपितपुण्यबर्हाम् ।
कारुण्यधारालकटाक्षमालां बालां भजे वल्लववंशलक्ष्मीम् ॥ ३.१८।
मधुरैकरसं वपुर्विभोर्मथुरावीथिचरं भजामहे ।
नगरीमृगशाबलोचनानां नयनेन्दीवरवर्षवर्षितम् ॥ ३.१९॥
पर्याकुलेन नयनान्तविजृम्भितेन वक्त्रेण कोमलदरस्मितविभ्रमेण ।
मन्द्रेण मञ्जुलतरेण च जल्पितेन नन्दस्य हन्त तनयो हृदयं धुनोति ॥ ३.२०॥
कन्दर्पकण्डूलकटाक्षवन्दीरिन्दीवराक्षीरभिलाषमाणान् ।
मन्दस्मिताधारमुखारविन्दान् वन्दामहे वल्लवधूर्तपादान् ॥ ३.२१।
लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिक-
प्रीते गीतिविभङ्गसङ्गरलसद्वेणुप्रणादामृते ।
राधालोचनलालितस्य ललितस्मेरे मुरारेर्मुदा
माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः ॥ ३.२२॥
शरणागतव्रजपञ्जरे शरणे शार्ङ्गधरस्य वैभवे ।
कृपया धृतगोपविग्रहे कियदन्यन्मृगयामहे वयम् ॥ ३.२३॥
जगत्त्रयैकान्तमनोज्ञभूमिचेतस्यजस्रं मम सन्निधत्ताम् ।
रामासमास्वादितसौकुमार्यं राधास्तनाभोगरसज्ञमोजः ॥ ३.२४॥
वयमेते विश्वसिमः करुणाकर कृष्ण किंवदन्तीम् ।
अपि च विभो तव ललिते चपलतरा मतिरियं बाल्ये ॥ ३.२५॥
वत्सपालचरः कोऽपि वत्सः श्रीवत्सलाञ्छनः ।
उत्सवाय कदा भावीत्युत्सुके मम लोचने ॥ ३.२६॥
मधुरिमभरिते मनोभिरामे मृदुलतरस्मितमुद्रिताननेन्दौ ।
त्रिभुवननयनैकलोभनीये महसि वयं व्रजभाजि लालसाः स्मः ॥ ३.२७॥
मुखारविन्दे मकरन्दबिन्दुनिष्यन्दलीलामुरलीनिनादे ।
व्रजाङ्गनापाङ्गतरङ्गभृङ्गसंग्रामभूमौ तव लालसाः स्मः ॥ ३.२८॥
आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितैः
गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः ।
स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना
पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ॥ ३.२९॥
पाणौ वेणुः प्रकृतिसुकुमाराकृतौ बाल्यलक्ष्मीः
पार्श्वे बालाः प्रणयसरसालोकितापाङ्गलीलाः ।
मौलौ बर्हं मधुरवदनाम्भोरुहे मौग्ध्यमुद्रे-
त्यार्द्राकारं किमपि कितवं ज्योतिरन्वेषयामः ॥ ३.३०॥
आरूढवेणुतरुणाधरविभ्रमेण माधुर्यशालिवदनाम्बुजमुद्वहन्ती ।
आलोक्यतां किमनया वनदेवता वः कैशोरके वयसि कापि च कान्तियष्टिः ॥ ३.३१॥
अनन्यसाधारणकान्तिकान्तमाक्रान्तगोपीनयनारविन्दम् ।
पुंसः पुराणस्य नवं विलासं पुण्येन पूर्णेन विलोकयिष्ये ॥ ३.३२॥
साष्टाङ्गपातमभिवन्द्य समस्तभावैः सर्वान् सुरेन्द्रनिकरानिदमेव याचे ।
मन्दस्मितार्द्रमधुराननचन्द्रबिम्बे नन्दस्य पुण्यनिचये मम भक्तिरस्तु ॥ ३.३३॥
एषु प्रवाहेषु स एव मन्ये क्षणोऽपि गण्यः पुरुषायुषेषु ।
आस्वाद्यते यत्र कयापि भक्त्या नीलस्य बालस्य निजं चरित्रम् ॥ ३.३४॥
निसर्गसरसाधरं निजदयार्द्रदिव्येक्षणं
मनोज्ञमुखपङ्कजं मधुरसार्द्रमन्दस्मितम् ।
रसज्ञहृदयास्पदं रमितवल्लवीलोचनं
पुनःपुनरुपास्महे भुवनलोभनीयं महः ॥ ३.३५॥
स कोऽपि बालस्सरसीरुहाक्षः सा च व्रजस्त्रीजनपादधूलिः ।
मुहुस्तदेतद्युगलं मदीये मोमुह्यमानोऽपि मनस्युदेतु ॥ ३.३६॥
मयि प्रयाणाभिमुखे च वल्लवीस्तनद्वयीदुर्ललितस्स बालकः ।
शनैश्शनैः श्रावितवेणुनिस्वनो विलासवेषेण पुरः प्रतीयताम् ॥ ३.३७॥
अतिभूमिमभूमिमेव वा वचसां वासितवल्लवीस्तनम् ।
मनसामपरं रसायनं मधुराद्वैतमुपास्महे महः ॥ ३.३८॥
जननान्तरेऽपि जगदेकमण्डने कमनीयधाम्नि कमलायतेक्षणे ।
व्रजसुन्दरीजनविलोचनामृते चपलानि सन्तु सकलेन्द्रियाणि मे ॥ ३.३९॥
मुनिश्रेणीवन्द्यं मदभरलसद्वल्लववधू-
स्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगम् ।
पुनः श्लाघाभूमिं पुलकितगिरां नैगमगिरां
घनश्यामं वन्दे किमपि कमनीयाकृति महः ॥ ३.४०॥
अनुचुम्बतामविचलेन चेतसा मनुजाकृतेर्मधुरिमश्रियं विभोः ।
अयि देव कृष्ण दयितेति जल्पतामपि नो भवेयुरपि नाम तादृशः ॥ ३.४१॥
किशोरवेषेण कृशोदरीदृशां विशेषदृश्येन विशाललोचनम् ।
यशोदया लब्धयशोनवाम्बुधेर्निशामये नीलनिशाकरं कदा ॥ ३.४२॥
प्रकृतिरवतु नो विलासलक्ष्म्याः प्रकृतिजडं प्रणतापराधवीथ्याम् ।
सुकृतिकृतपदं किशोरभावे सुकृतिमनः प्रणिधानपात्रमोजः ॥ ३.४३॥
अपहसितसुधामदावलेपैरतिसुमनोहरमार्द्रमन्दहासैः ।
व्रजयुवतिविलोचनावलेह्यं रमयतु धाम रमावरोधनं नः ॥ ३.४४॥
अङ्कुरितस्मेरदशाविशेषैरश्रान्तहर्षामृतवर्षमक्ष्णाम् ।
संक्रीडतां चेतसि गोपकन्याघनस्तनस्वस्त्ययनं महो नः ॥ ३.४५॥
मृगमदपङ्कसङ्करविशेषितवन्यमहा-
गिरितटगण्डगैरिकघनद्रवविद्रुमितम् ।
अजितभुजान्तरं भजत हे व्रजगोपवधू-
स्तनकलशस्थलीघुसृणमर्दनकर्दमितम् ॥ ३.४६॥
आमूलपल्लवितलीलमपाङ्गजालैरासिञ्चती भुवनमादृतगोपवेषा ।
बालाकृतिर्मृदुलमुग्धमुखेन्दुबिम्बा माधुर्यसिद्धिरवतान्मधुविद्विषो नः ॥ ३.४७॥
विरणन् मणिनूपुरं व्रजे चरणाम्भोजमुपास्स्व शार्ङ्गिणः ।
सरसे सरसि श्रियाश्रितं कमलं वा कलहंसनादितम् ॥ ३.४८॥
शरणमशरणानां शारदाम्भोजनेत्रं
निरवधिमधुरिम्णा नीलवेषेण रम्यम् ।
स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभि-
र्व्रजयुवतिभिरव्याद् ब्रह्म संवेष्टितं नः ॥ ३.४९॥
सुव्यक्तकान्तिभरसौरभदिव्यगात्र-
मव्यक्तयौवनपरीतकिशोरभावम् ।
गव्यानुपालनविधावनुशिष्टमव्या-
दव्याजरम्यमखिलेश्वरवैभवं नः ॥ ३.५०॥
अनुगतममरीणामम्बरालम्बिनीनां
नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम् ।
व्रजयुवतिविलासव्यापृतापाङ्गमव्यात्
त्रिभुवनसुकुमारं देवकैशोरकं नः ॥ ३.५१॥
आपादमाचूडमतिप्रसक्तैरापीयमाना यमिनां मनोभिः ।
गोपीजनज्ञातरसाऽवतान्नो गोपलभूपालकुमारमूर्तिः ॥ ३.५२॥
दिष्ट्या वृन्दावनमृगदृशां विप्रयोगाकुलानां
प्रत्यासन्नं प्रणयचपलापाङ्गवीचीतरङ्गैः ।
लक्ष्मीलीलाकुवलयदलश्यामलं धाम कामान्
पुष्णीयान्नः पुलकमुकुलाभोगभूषाविशेषम् ॥ ३.५३॥
जयति गुहशिखीन्द्रपिञ्छमौलिः ShrIkRiShNakarNAmRitam सुरगिरिगैरिककल्पिताङ्गरागः ।
सुरयुवतिविकीर्णसूनवर्षस्नपितविभूषितकुन्तलः कुमारः ॥ ३.५४॥
मधुरमन्दशुचिस्मितमञ्जुलं वदनपङ्कजमङ्गजवेल्लितम् ।
विजयतां व्रजबालवधूजनस्तनतटीविलुठन्नयनं विभोः ॥ ३.५५॥
अलसविलसन्मुग्धस्निग्धस्मितं व्रजसुन्दरी-
मदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम् ।
तरुणमरुणज्योत्स्नाकार्त्स्न्या स्मितस्नपिताधरं
जयति विजयश्रेणीमेणीदृशां मदयन्महः ॥ ३.५६॥
राधाकेलिकटाक्षवीक्षितमहावक्षःस्थलीमण्डना
जीयासुः पुलकाङ्कुरास्त्रिभुवनास्वादीयसस्तेजसः ।
क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षण-
त्रासारूढदृढोपगूहनमहासाम्राज्यसान्द्रश्रियः ॥ ३.५७॥
स्मितस्नुतसुधाधरा मदशिखण्डिबर्हाङ्किता
विशालनयनाम्बुजा व्रजविलासिनीवासिताः ।
मनोज्ञमुखपङ्कजा मधुरवेणुनादद्रवा
जयन्ति मम चेतसश्चिरमुपासिता वासनाः ॥ ३.५८॥
जीयादसौ शिखिशिखण्डकृतावतंसा
सांसिद्धिकी सरसकान्तिसुधासमृद्धिः ।
यद्बिन्दुलेशकणीकापरिणामभाग्यात्
सौभाग्यसीमपदमञ्चति पञ्चबाणः ॥ ३.५९॥
आयामेन दृशोर्विशालतरयोरक्षय्यमार्द्रस्मित-
च्छायाधर्षितशारदेन्दुललितं चापल्यमात्रं शिशोः ।
आयासानपरान्विधूय रसिकैरास्वाद्यमानं मुहु-
र्जीयादुन्मदवल्लवीकुचभराधारं किशोरं महः ॥ ३.६०॥
स्कन्धावारसदो व्रजः कतिपये गोपास्सहायादयः
स्कन्धालम्बिनि वत्सदाम्नि धनदा गोपाङ्गनाः स्वाङ्गनाः ।
शृङ्गारा गिरिगैरिकं शिव शिव श्रीमन्ति बर्हाणि च
शृङ्गग्राहिकया तथापि तदिदं प्राहुस्त्रिलोकेश्वरम् ॥ ३.६१॥
श्रीमद्बर्हिशिखण्डमण्डनजुषे श्यामाभिरामत्विषे
लावण्यैकरसावसिक्तवपुषे लक्ष्मीसरःप्रावृषे ।
लीलाकृष्टरसज्ञधर्ममनसे लीलामृतस्रोतसे
के वा न स्पृहयन्ति हन्त महसे गोपीजनप्रेयसे ॥ ३.६२॥
आपाटलाधरमधीरविलोलनेत्र-
मामोदनिर्भरितमद्भुतकान्तिपूरम् ।
आविस्मितामृतमनुस्मृतिलोभनीय-
मामुद्रिताननमहो मधुरं मुरारेः ॥ ३.६३॥
जागृहि जागृहि चेतश्चिराय चरितार्थाय भवतः ।
अनुभूयतामिदमिदं पुरः स्थितं पूर्णनिर्वाणम् ॥ ३.६४॥
चरणयोररुणं करुणार्द्रयोः कचभरे बहुलं विपुलं दृशोः ।
वपुषि मञ्जुलमञ्जनमेचके वयसि बालमहो मधुरं महः ॥ ३.६५॥
मालाबर्हमनोज्ञकुन्तलभरां वन्यप्रसूनोक्षितां
शैलेयद्रवकॢप्तचित्रतिलकां शश्वन्मनोहारिणीम्
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
बालां बालतमालनीलवपुषं वन्दे परां देवताम् ॥ ३.६६॥
ShrIkRiShNakarNAmRitam गुरु मृदुपदे गूढं गुल्फे घनं जघनस्तले
नलिनमुदरे दीर्घं बाह्वोर्विशालमुरस्थले ।
मधुरमधरे मुग्धं वक्त्रे विलासि विलोचने
बहु कचभरे वन्यं वेषे मनोज्ञमहो महः ॥ ३.६७॥
जिहानं जिहानं सुजानेन मौग्ध्यं दुहानं दुहानं सुधां वेणुनादैः ।
लिहानं लिहानं सुधीर्घैरपाङ्गैर्महानन्दसर्वस्वमेतन्नमस्तात् ॥ ३.६८॥
लसद्बर्हापीडं ललितललितस्मेरवदनं
भ्रमत्क्रीडापाङ्गं प्रणतजनतानिर्वृतिपदम् ।
नवाम्भोदश्यामं निजमधुरिमाभोगभरितं
परं देवं वन्दे परिमिलितकैशोरकरसम् ॥ ३.६९॥
सारस्यसामग्र्यमिवाननेन माधुर्यचातुर्यमिव स्मितेन ।
कारुण्यतारुण्यमिवेक्षितेन चापल्यसाफल्यमिदं दृशोर्मे ॥ ३.७०॥
यत्र वा तत्र वा देव यदि विश्वसिमस्त्वयि ।
निर्वाणमपि दुर्वारमर्वाचीनानि किं पुनः ॥ ३.७१॥
रागान्धगोपीजनवन्दिताभ्यां योगीन्द्रभृङ्गेन्द्रनिषेविताभ्याम् ।
आताम्रपङ्केरुहविभ्रमाभ्यां स्वामिन् पदाभ्यामयमञ्जलिस्ते ॥ ३.७२॥
अर्धानुलापान्व्रजसुन्दरीणामकृत्रिमाणाञ्च सरस्वतीनाम् ।
आर्द्राशयेन श्रवणाञ्चलेन संभावयन्तं तरुणं गृणीमः ॥ ३.७३॥
ShrIkRiShNakarNAmRitam मनसि मम सन्निधत्तां मधुरमुखा मन्थरापाङ्गा ।
करकलितललितवंशा कापि किशोरी कृपा लहरी ॥ ३.७४॥
रक्षन्तु नः शिक्षितपाशुपाल्या बाल्यावृता बर्हिशिखावतंसाः ।
प्राणप्रियाः प्रस्तुतवेणुगीताः शीता दृशोः शीतलगोपकन्याः ॥ ३.७५॥
स्मितस्तबकिताधरं शिशिरवेणुनादामृतं
मुहुस्तरललोचनं मदकटाक्षमालाकुलम् ।
उरस्थलविलीनया कमलया समालिङ्गितं
भुवस्तलमुपागतं भुवनदैवतं पातु नः ॥ ३.७६॥
नयनाम्बुजे भजत कामदुघं हृदयाम्बुजे किमपि कारुणिकम् ।
चरणाम्बुजे मुनिकुलैकधनं वदनाम्बुजे व्रजवधूविभवम् ॥ ३.७७॥
निर्वासनं हन्त रसान्तराणां निर्वाणसाम्राज्यमिवावतीर्णम् ।
अव्याजमाधुर्यमहानिधानमव्याद्व्रजानामधिदैवतं नः ॥ ३.७८॥
गोपीनामभिमतगीतवेषहर्षादापीनस्तनभरनिर्भरोपगूढम् ।
केलीनामवतु रसैरुपास्यमानं कालिन्दीपुलिनचरं परं महो नः ॥ ३.७९॥
खेलतां मनसि खेचराङ्गनामाननीयमृदुवेणुनिस्वनैः ।
कानने किमपि नः कृपास्पदं कालमेघकलहोद्वहं महः ॥ ३.८०॥
एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढिभि-
र्वेणीभूतरसक्रमाभिरभितश्श्रेणीकृताभिर्वृतः ।
पाणी द्वौ च विनोदयन् रतिपतेस्तूणीशयैस्सायकै-
र्वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः ॥ ३.८१।
ShrIkRiShNakarNAmRitam कालिन्दीपुलिने तमालनिबिडच्छाये पुरःसंचरत्
तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्नाति यः ।
वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि-
प्रान्ते गाश्च विलोकयन् प्रतिकलं तं बालमालोकये ॥ ३.८२॥
यद्गोपीवदनेन्दुमण्डनमभूत् कस्तूरिकापत्रकं
यल्लक्ष्मीकुचशातकुंभकलशव्याकोशमिन्दीवरम् ।
यन्निर्वाणनिधानसाधनविधौ सिद्धाञ्जनं योगिनां
तन्नः श्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥ ३.८३।
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुनादनिरतं दिव्याङ्गभूषं भजे ॥ ३.८४॥
यन्नाभीसरसीरुहान्तरपुटे भृङ्गायमानो विधि-
र्यद्वक्षः कमलाविलाससदनं यच्चक्षुषी चेन्द्विनौ ।
यत्पादाब्जविनिःसृता सुरनदी शंभोः शिरोभूषणं
यन्नामस्मरणं धुनोति दुरितं पायात् स नः केशवः ॥ ३.८५॥
रक्षन्तु त्वामसितजलजैरञ्जलिः पादमूले
मीना नाभीसरसि हृदये मारबाणाः मुरारेः ।
हाराः कण्ठे हरिमणिमया वक्त्रपद्मे द्विरेफाः
पिञ्छाचूडाश्चिकुरनिचये घोषयोषित्कटाक्षाः ॥ ३.८६॥
ShrIkRiShNakarNAmRitam दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते
निभृतपदमगारं वल्लवीनां प्रविष्टः ।
मुखकमलसमीरैराशु निर्वाप्य दीपान्
कबलितनवनीतः पातु गोपालबालः ॥ ३.८७॥
प्रातः स्मरामि दधिघोषविनीतनिद्रं
निद्रावसानरमणीयमुखारविन्दम् ।
हृद्यानवद्यवपुषं नयनाभिराम-
मुन्निद्रपद्मनयनं नवनीतचोरम् ॥ ३.८८॥
फुल्लहल्लकवतंसकोल्लसद्गल्लमागमगवीगवेषितम् ।
वल्लवीचिकुरवासिताङ्गुलीपल्लवं कमपि वल्लवं भजे ॥ ३.८९॥
स्तेयं हरेर्हरति यन्नवनीतचौर्यं जारत्वमस्य गुरुतल्पकृतापराधम् ।
हत्यां दशाननहतिर्मधुपानदोषं यत्पूतनास्तनपयः स पुनातु कृष्णः ॥ ३.९०॥
मार मा वस मदीयमानसे माधवैकनिलये यदृच्छया ।
श्रीरमापतिरिहागमेदसौ कः सहेत निजवेश्मलङ्घनम् ॥ ३.९१॥
आकुञ्चितं जानु करं च वामं न्यस्य क्षितौ दक्षिणहस्तपद्मे ।
आलोकयन्तं नवनीतखण्डं बालं मुकुन्दं मनसा स्मरामि ॥ ३.९२॥
जानुभ्यामभिधावन्तं पाणिभ्यामतिसुन्दरम् ।
सुकुन्तलालकं बालं गोपालं चिन्तयेदुषः ॥ ३.९३॥
विहाय कोदण्डशरौ मुहूर्तं गृहाण पाणौ मणिचारुवेणुम् ।
मायूरबर्हं च निजोत्तमाङ्गे सीतापते त्वां प्रणमामि पश्चात् ॥ ३.९४॥
ShrIkRiShNakarNAmRitam अयं क्षीराम्भोधेः पतिरिति गवां पालक इति
श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः ।
अनेन प्रत्यूहो व्यरचि सततं येन जननी-
स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत् ॥ ३.९५॥
हस्तमाक्षिप्य यातोऽसि बलात्कृष्ण किमद्भुतम् ।
हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥ ३.९६॥
तमसि रविरिवोद्यन्मज्जतामम्बुराशौ
प्लव इव तृषितानां स्वादुवर्षीव मेघः ।
निधिरिव विधनानां दीर्घतीव्रामयानां
भिषगिव कुशलं नो दातुमायातु शौरिः ॥ ३.९७॥
कोदण्डं मसृणं सुगन्धि विशिखं चक्राब्जपाशाङ्कुशं
हैमीं वेणुलतां करैश्च दधतं सिन्दूरपुञ्जारुणम् ।
कन्दर्पाधिकसुन्दरं स्मितमुखं गोपाङ्गनावेष्टितं
गोपालं सततं भजामि वरदं त्रैलोक्यरक्षामणिम् ॥ ३.९८॥
सायङ्काले वनान्ते कुसुमितसमये सैकते चन्द्रिकायां
त्रैलोक्याकर्षणाङ्गं सुरनरगणिकामोहनापाङ्गमूर्तिम् ।
सेव्यं शृङ्गारभावैर्नवरसभरितैर्गोपकन्यासहस्रै-
र्वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥ ३.९९॥
कदम्बमूले क्रीडन्तं वृन्दावननिवेशितम् ।
पद्मासनस्थितं वन्दे वेणुं गायन्तमच्युतम् ॥ ३.१००॥
ShrIkRiShNakarNAmRitam बालं नीलाम्बुदाभं नवमणिविलसत् किङ्किणीजालबद्ध-
श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् ।
फुल्लाम्भोजाभवक्त्रं हतशकटमरुत् पूतनाद्यं प्रसन्नं
गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥ ३.१०१॥
वन्द्यं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं
गोगोपीवृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् ।
नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं
देवं पीताम्बराढ्यं जप जप दिनशो मध्यमाह्ने रमायै ॥ ३.१०२॥
चक्रान्तध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै-
रावीतं नारदाद्यैर्मुनिभिरभिनुतं तत्त्वनिर्णीतिहेतोः ।
सायाह्ने निर्मलाङ्गं निरुपमरुचिरं चिन्तयेन्नीलभासं
रात्रौ विश्वोदयस्थित्यपहरणपदं मुक्तिदं वासुदेवम् ॥ ३. १०३॥
कोदण्डमैक्षवमखण्डमिषुं च पौष्पं
चक्राब्जपाशसृणिकाञ्चनवंशनालम् ।
विभ्राणमष्टविधबाहुभिरर्कवर्णं
ध्यायेद्धरिं मदनगोपविलासवेषम् ॥ ३.१०४॥
अङ्गुल्याः कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो
नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः ।
नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीन्द्रः
इत्येवं गोपकन्याप्रतिवचनजितः पातु वश्चक्रपाणिः ॥ ३.१०५॥
ShrIkRiShNakarNAmRitam राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान्
राधे क्षेममयेऽस्ति तस्य वचनं श्रुत्वाऽऽह चन्द्रावली ।
कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया
राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः ॥ ३.१०६॥
या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी
या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते ।
भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां
या प्रीतिर्मुनिपत्निभक्तिरचितेऽप्यत्रापि तां तां कुरु ॥ ३.१०७॥
कृष्णानुस्मरणादेव पापसङ्घातपञ्चरः ।
शतधा मोघमायाति गिरिर्वज्रहतो यथा ॥ ३.१०८॥
यस्यात्मभूतस्य गुरोः प्रसादादहं विमुक्तोऽस्मि शरीरबन्धात् ।
सर्वोपदेष्टुः पुरुषोत्तमस्य तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥ ३.१०९॥
॥ इति श्रीकृष्णकर्णामृते तृतीयाश्वासः समाप्तः ॥
॥ इति श्रीकृष्णकर्णामृतं समाप्तम् ॥
