KARMASU

ShrIKrishna Kavacham

Karana Shatka Gitam: कारणषट्कगीतम्

Karana Shatka Gitam: मम जीवनस्य जीवनं
उद्भाषितं नित्यशोभनं
त्वमेव देवं त्वमेव सर्वं
हृदि स्थिते सदा धारणं
हे कृष्ण हे माधव हे देव त्वं
सर्व कारणस्य कारणम् ॥ १॥

मम हृदयस्य हृदयं
सद्भाषितं नित्य सदयं
त्वमेव पूर्णं त्वमेव स्वर्णं
प्रेमं आनन्दं अद्भुदयं
हे कृष्ण हे माधव हे देव त्वं
सर्व कारणस्य कारणम् ॥ २॥

मम विचारस्य विचारं
सद्भाव-हॄद्भाव-सञ्चारं
त्वमेव सत्यं त्वमेव नित्यं
स्मृति-ज्ञानं सर्वाधारं
हे कृष्ण हे माधव हे देव त्वं
सर्व कारणस्य कारणम् ॥ ३॥

मम शरीरस्य आधारं
त्वमेक नित्य निराधारं
त्वमेव धर्मं त्वमेव कर्मं
सर्वसूत्रस्य सूत्रधारं
हे कृष्ण हे माधव हे देव त्वं
सर्व कारणस्य कारणम् ॥ ४॥

खण्डिता (रूपगोस्वामिविरचिता) Khandita (Rupagoswamivirchita)

मम सर्व सुखदायकं
नित्यसुधा वेणु गायकं
त्वमेव कर्ता त्वमेव धर्ता

माता पिता आत्मनायकं
हे कृष्ण हे माधव हे देव त्वं
सर्व कारणस्य कारणम् ॥ ५॥

मम दिव्य नन्दनन्दनं
आनन्दकन्द सुचन्दनं
त्वमेव स्वामी हे अन्तर्यामी

सर्व हॄदयस्य स्पन्दनं
हे कृष्ण हे माधव हे देव त्वं
सर्व कारणस्य कारणम् ॥ ६॥

रचयिता — श्रीकृष्णदासः

Leave a Reply

Your email address will not be published. Required fields are marked *