Bhairavi Stotra

Tripura Bhairavi Stotra : त्रिपुर भैरवी स्तोत्र…..

ब्रह्मादयस्स्तुति शतैरपि सूक्ष्मरूपं
जानन्तिनैव जगदादिमनादिमूर्तिम् 

तस्मादमूं कुचनतां Bhairavi Stotra नवकुङ्कुमास्यां स्थूलां
स्तुवे सकलवाङ्मयमातृभूताम् ॥ १ ॥

सद्यस्समुद्यत सहस्र दिवाकराभां
विद्याक्षसूत्रवरदाभयचिह्नहस्तां ।

नेत्रोत्पलैस्त्रिभिरलङ्कृतवक्त्रपद्मां त्वां
तारहाररुचिरां त्रिपुरां भजामः ॥ २ ॥

सिन्दूरपूररुचिरां कुचभारनम्रां
जन्मान्तरेषु कृतपुण्य फलैकगम्यां ।

अन्योन्य भेदकलहाकुलमानभेदै
र्जानन्तिकिञ्जडधिय स्तवरूपमन्ये ॥ ३ ॥

स्थूलां वदन्ति मुनयः श्रुतयो गृणन्ति
सूक्ष्मां वदन्ति Bhairavi Stotra
वचसामधिवासमन्ये ।
त्वांमूलमाहुरपरे जगताम्भवानि
मन्यामहे वयमपारकृपाम्बुराशिम् ॥ ४ ॥

चन्द्रावतंस कलितां शरदिन्दुशुभ्रां
पञ्चाशदक्षरमयीं Bhairavi Stotra
हृदिभावयन्ती ।
त्वां पुस्तकञ्जपपटीममृताढ्य कुम्भां
व्याख्याञ्च हस्तकमलैर्दधतीं त्रिनेत्राम् ॥ ५ ॥

शम्भुस्त्वमद्रितनया कलितार्धभागो
विष्णुस्त्वमम्ब कमलापरिणद्धदेहः ।

पद्मोद्भवस्त्वमसि Bhairavi Stotra वागधिवासभूमि
रेषां क्रियाश्च जगति त्रिपुरेत्वमेव ॥ ६ ॥

आश्रित्यवाग्भव भवाम्श्चतुरः परादीन्
भावान्पदात्तु विहितान्समुदारयन्तीं ।

कालादिभिश्च करणैः परदेवतां त्वां
संविन्मयींहृदिकदापि नविस्मरामि ॥ ७ ॥

आकुञ्च्य वायुमभिजित्यच वैरिषट्कं
आलोक्यनिश्चलधिया
निजनासिकाग्रां ।
ध्यायन्ति मूर्ध्नि कलितेन्दुकलावतंसं
त्वद्रूपमम्ब कृतिनस्तरुणार्कमित्रम् ॥ ८ ॥

त्वं प्राप्यमन्मथरिपोर्वपुरर्धभागं
सृष्टिङ्करोषि जगतामिति वेदवादः ।

सत्यन्तदद्रितनये जगदेकमातः
नोचेद शेषजगतः स्थितिरेवनस्यात् ॥ ९ ॥

पूजांविधायकुसुमैः सुरपादपानां
पीठेतवाम्ब
कनकाचल कन्दरेषु ।
गायन्तिसिद्धवनितास्सहकिन्नरीभि
रास्वादितामृतरसारुणपद्मनेत्राः ॥ १० ॥

विद्युद्विलास वपुषः श्रियमावहन्तीं
यान्तीमुमांस्वभवनाच्छिवराजधानीं ।

सौन्दर्यमार्गकमलानिचका सयन्तीं
देवीम्भजेत परमामृत सिक्तगात्राम् ॥ ११ ॥

आनन्दजन्मभवनं भवनं श्रुतीनां
चैतन्यमात्र तनुमम्बतवाश्रयामि ।

ब्रह्मेशविष्णुभिरुपासितपादपद्मं
सौभाग्यजन्मवसतिं त्रिपुरेयथावत् ॥ १२ ॥

सर्वार्थभाविभुवनं सृजतीन्दुरूपा
यातद्बिभर्ति पुनरर्क तनुस्स्वशक्त्या ।

ब्रह्मात्मिकाहरतितं सकलम्युगान्ते तां
शारदां मनसि जातु न विस्मरामि ॥ १३ ॥

नारायणीति नरकार्णवतारिणीति
गौरीति खेदशमनीति सरस्वतीति ।

ज्ञानप्रदेति नयनत्रयभूषितेति
त्वामद्रिराजतनये विबुधा पदन्ति ॥ १४ ॥

येस्तुवन्तिजगन्मातः
श्लोकैर्द्वादशभिःक्रमात् ।

त्वामनु पाप्र्यवाक्सिद्धिं
प्राप्नुयुस्ते पराम्श्रियम् ॥ १५ ॥

इतिते कथितं देवि पञ्चाङ्गं भैरवीमयं ।
गुह्याद्गोप्यतमङ्गोप्यं गोपनीयं……

Vibhishan Krit Hanuman Stotra : विभीषणकृत हनुमान स्तोत्र… Hanuman Stotra

Vibhishan Krit Hanuman Stotra : विभीषणकृत हनुमान स्तोत्र…

Vibhishan Krit Hanuman Stotra : विभीषणकृत हनुमान स्तोत्र: श्री सुदर्शन संहिता में, भक्त विभीषण ने भगवान हनुमान की महिमा का…

Leave a Comment

Your email address will not be published. Required fields are marked *