त्रिपुर भैरवी सहस्रनाम स्तोत्रम् हिंदी पाठ : Tripura Bhairavi Sahasranama Stotram in Hindi
ब्रह्महत्या सुरापानं स्तेयङ्गुर्वङ्गनागमः ॥
महापातककोट्यस्तु तथा चैवोपपातकाः ।
स्तोत्रेण भैरवोक्तेन सर्वन्नश्यति तत्क्षणात् ॥
सर्वव्वा श्लोकमेकव्वा पठनात्स्मरणादपि ।
पठेद्वा पाठयेद्वापि सद्यो मुच्येत बन्धनात् ॥
राजद्वारे रणे दुर्गे सङ्कटे गिरिदुर्ग्गमे ।
प्रान्तरे पर्वते वापि नौकायाव्वा महेश्वरि ॥
वह्निदुर्गभये प्राप्ते सिंहव्याघ्रभ्याकुले ।
पठनात्स्मरणान्मर्त्त्यो मुच्यते सर्वसङ्कटात् ॥
अपुत्रो लभते पुत्रन्दरिद्रो धनवान्भवेत् ।
सर्वशास्त्रपरो विप्रः सर्वयज्ञफलल्लभेत् ॥
अग्निवायुजलस्तम्भङ्गतिस्तम्भविवस्वतः ।
मारणे द्वेषणे चैव तथोच्चाटे महेश्वरि ॥
गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः ।
गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत् ॥
वशीकरणमत्रैव जायन्ते सर्वसिद्धयः ।
प्रातःकाले शुचिर्ब्भूत्वा मध्याह्ने च निशामुखे ॥
पठेद्वा पाठयेद्वापि सर्वयज्ञफलल्लभेत् ।
वादी मूको भवेद्दुष्टो राजा च सेवको यथा ॥
आदित्यमङ्गलदिने गुरौ वापि महेश्वरि ।
गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः ॥
गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत् ।
धृत्वा सुवर्णमध्यस्थं सर्वान्कामानवाप्नुयात् ॥
स्त्रीणाव्वामकरे धार्यम्पुमान्दक्षकरे तथा ।
आदित्यमङ्गलदिने गुरौ वापि महेश्वरि ॥
शनैश्चरे लिखेद्वापि सर्वसिद्धिं लभेद्ध्रुवम् ।
प्रान्तरे वा श्मशाने वा निशायामर्द्धरात्रके ॥
शून्यागारे च देवेशि लिखेद्यत्नेन साधकः ।
सिंहराशौ गुरुगते कर्क्कटस्थे दिवाकरे ॥
मीनराशौ गुरुगते लिखेद्यत्नेन साधकः ।
रजस्वलाभगन्दृष्ट्वा तत्रस्थो विलिखेत्सदा ॥
सुगंधिकुसुमैः शुक्रैः सुगंधिगंधचन्दनैः ।
मृगनाभिमृगमदैर्विलिखेद्यत्नपूर्वकम् ॥
लिखित्वा च पठित्वा च धारयेच्चाप्यनन्यधीः ।
कुमारीम्पूजयित्वा च नारीश्चापि प्रपूजयेत् ॥
पूजयित्वा च कुसुमैर्ग्गन्धचन्दनवस्त्रकैः ।
सिन्दूररक्तकुसुमैः पूजयेद्भक्तियोगतः ॥
अथवा पूजयेद्देवि कुमारीर्द्दशमावधीः ।
सर्वाभीष्टफलन्तत्र लभते तत्क्षणादपि ॥
नात्र सिद्धाद्यपेक्षास्ति न वा मित्रारिदूषणम् ।
न विचार्यञ्च देवेशि जपमात्रेण सिद्धिदम् ॥
सर्वदा सर्वकार्येषु Sahasranama Stotram षट्साहस्रप्रमाणतः ।
बलिन्दत्त्वा विधानेन प्रत्यहम्पूजयेच्छिवाम् ॥
स्वयंभूकुसुमैः पुष्पैर्ब्बलिदानन्दिवानिशम् ।
पूजयेत्पार्वतीन्देवीम्भैरवीन्त्रिपुरात्मिकाम् ॥
ब्राह्मणान्भोजयेन्नित्यन्दशकन्द्वादशन्तथा ।
अनेन विधिना देवि बालान्नित्यम्प्रपूजयेत् ॥
मासमेकम्पठेद्यस्तु त्रिसन्ध्यव्विधिनामुना ।
अपुत्रो लभते पुत्रन्निर्द्धनो धनवान्भवेत् ॥
सदा चानेन विधिना Sahasranama Stotram तथा मासत्रयेण च ।
कृतकार्यं भवेद्देवि तथा मासचतुष्टये ॥
दीर्ग्घरोगात्प्रमुच्येत पञ्चमे कविराड्भवेत् ।
सर्वैश्वर्यं लभेद्देवि मासषट्के तथैव च ॥
सप्तमे खेचरत्वञ्च Sahasranama Stotram अष्टमे च वृहद्द्युतिः ।
नवमे सर्वसिद्धिः स्याद्दशमे लोकपूजितः ॥
एकादशे राजवश्यो Sahasranama Stotram द्वादशे तु पुरन्दरः ।
वारमेकम्पठेद्यस्तु प्राप्नोति पूजने फलम् ॥
समग्रं श्लोकमेकव्वा यः पठेत्प्रयतः शुचिः ।
स पूजाफलमाप्नोति भैरवेण च भाषितम् ॥
आयुष्मत्प्रीतियोगे च ब्राह्मैन्द्रे च विशेषतः ।
पञ्चम्याञ्च तथा षष्ठ्याय्यत्र कुत्रापि तिष्ठति ॥
शङ्का न विद्यते तत्र न च मायादिदूषणम् ।
वारमेकं पठेन्मर्त्त्यो मुच्यते सर्वसङ्कटात् ।
किमन्यद्बहुना देवि सर्वाभीष्टफलल्लभेत् ॥
॥ इति श्रीविश्वसारे महाभैरवविरचितं त्रिपुर भैरवी सहस्रनाम स्तोत्रम्………
Bandi Mochan Hanuman Stotra : बंदी मोचन हनुमान स्तोत्र….
Bandi Mochan Hanuman Stotra बंदी मोचन हनुमान स्तोत्र : बंदी मोचन हनुमान स्तोत्र भगवान हनुमान जी को समर्पित है। जो…
Bajrang Baan : बजरंग बाण….
Bajrang Baan (बजरंग बाण) : भौतिक मनोकामनाओं की पूर्ति के लिये बजरंग बाण Bajrang Baan का अमोघ विलक्षण प्रयोग करे, अपने इष्ट कार्य की…
Vibhishan Krit Hanuman Stotra : विभीषणकृत हनुमान स्तोत्र…
Vibhishan Krit Hanuman Stotra : विभीषणकृत हनुमान स्तोत्र: श्री सुदर्शन संहिता में, भक्त विभीषण ने भगवान हनुमान की महिमा का…




KARMASU