श्री वेङ्कटेश स्तोत्रम् हिन्दी पाठ : Shri Venkatesa Stotram in Hindi
वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः ।
सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १ ॥
जनार्दनः पद्मनाभो वेङ्कटाचलवासनः ।
सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २ ॥
गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः ।
वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३ ॥
श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः ।
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४ ॥
रमानाथो महीभर्ता Venkatesa Stotram भूधरः पुरुषोत्तमः ।
चोळपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५ ॥
श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः ।
श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६ ॥
भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः ।
अच्युतानन्तगोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७ ॥
सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।
समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८ ॥
इतीदं कीर्तितं यस्य Venkatesa Stotram विष्णोरमिततेजसः ।
त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥ ९ ॥
राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसङ्कटे ।
भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १० ॥
अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् ।
रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ॥ ११ ॥
यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः ।
ऐश्वर्यं राजसम्मानं भक्तिमुक्तिफलप्रदम् ॥ १२ ॥
विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् ।
सर्वैश्वर्यप्रदं नॄणां सर्वमङ्गलकारकम् ॥ १३ ॥
मायावी परमानन्दं त्यक्त्वा वैङ्कुण्ठमुत्तमम् ।
स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ १४ ॥
कल्याणाद्भुतगात्राय कामितार्थप्रदायिने ।
श्रीमद्वेङ्कटनाथाय श्रीनिवासाय ते नमः ॥ १५ ॥
वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन ।
वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥ १६ ॥
॥ इति श्री वेङ्कटेश स्तोत्रम् सम्पूर्णम् ॥
Sri Venkateswara Vajra-Kavacha Stotram : श्रीवेंकटेश्वर वज्र कवच स्तोत्र…
श्रीवेंकटेश्वर वज्र कवच स्तोत्र हिंदी पाठ : Sri Venkateswara Vajra-Kavacha Stotram in Hindi।। मार्कण्डेय उवाच ।।नारायणं परब्रह्म सर्वकारणकारणम् ।प्रपद्ये वेङ्कटेशाख्यं…
Sri Venkateswara Mangala Stotram: श्री वेंकटेश मंगल स्तोत्र….
श्री वेंकटेश मंगल स्तोत्र हिंदी पाठ : Sri Venkateswara Mangala Stotram in Hindiश्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १…
Srivenkatesa Dwadasa Nama Stotram: श्रीवेंकटेश द्वादश नाम स्तोत्रम्…
श्रीवेंकटेश द्वादश नाम स्तोत्रम् हिंदी पाठ : Srivenkatesa Dwadasa Nama Stotram in Hindiवेङ्कटेशो वासुदेवः वारिजासनवन्दितः,स्वामिपुष्करणीवासः शङ्खचक्रगदाधरः ॥ १ ॥पीतांबरधरो देवः…




KARMASU