श्री लक्ष्मी नारायण स्तोत्रम् हिंदी पाठ : Sri Lakshmi Narayana Stotram in Hindi
ध्यानम् –
चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मं
दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् ।
गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्यो
रेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १ ॥
शंखचक्रगदापद्मकुंभाऽऽदर्शाब्जपुस्तकम् ।
बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥ २ ॥
विद्युत्प्रभाश्लिष्टघनोपमानौ
शुद्धाशयेबिंबितसुप्रकाशौ ।
चित्ते चिदाभौ कलयामि लक्ष्मी-
नारायणौ सत्त्वगुणप्रधानौ ॥ ३ ॥
लोकोद्भवस्थेमलयेश्वराभ्यां
शोकोरुदीनस्थितिनाशकाभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ४ ॥
सम्पत्सुखानन्दविधायकाभ्यां
भक्तावनाऽनारतदीक्षिताभ्याम् ।
नित्यं युवाभ्यां Narayana Stotram नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ५ ॥
दृष्ट्वोपकारे गुरुतां च पञ्च-
विंशावतारान् सरसं दधत्भ्याम् ।
नित्यं युवाभ्यां Narayana Stotram नतिरस्तु लक्ष्मी
नारायणाभ्यां जगतः पितृभ्याम् ॥ ६ ॥
क्षीरांबुराश्यादिविराट्भवाभ्यां
नारं सदा पालयितुं पराभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ७ ॥
दारिद्र्यदुःखस्थितिदारकाभ्यां
दयैवदूरीकृतदुर्गतिभ्याम्
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ८ ॥
भक्तव्रजाघौघविदारकाभ्यां
स्वीयाशयोद्धूतरजस्तमोभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ९ ॥
रक्तोत्पलाभ्राभवपुर्धराभ्यां
पद्मारिशंखाब्जगदाधराभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ १० ॥
अङ्घ्रिद्वयाभ्यर्चककल्पकाभ्यां
मोक्षप्रदप्राक्तनदंपतीभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥ ११ ॥
इदं तु यः पठेत् स्तोत्रं लक्ष्मीनारयणाष्टकम् ।
ऐहिकामुष्मिकसुखं भुक्त्वा स लभतेऽमृतम् ॥ १२ ॥
।। इति श्री लक्ष्मी नारायण स्तोत्रम् संपूर्णम् ।।
Sri Lakshmi Narayana Stotram : श्री लक्ष्मी नारायण स्तोत्रम्….
श्री लक्ष्मी नारायण स्तोत्रम् हिंदी पाठ : Sri Lakshmi Narayana Stotram in Hindiध्यानम् –चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मंदोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम्…
Shri Rama Stotram : श्री राम स्तोत्र….
श्री राम स्तोत्र हिंदी पाठ : Shri Rama Stotram in Hindiआपदामपहर्तारं दातारं सर्वसंपदाम् ।लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ १…
Sri Rama Bhujanga-prayata Stotram : श्रीराम भुजङ्ग प्रयात स्तोत्रम्………
श्रीराम भुजङ्ग प्रयात स्तोत्रम् हिंदी पाठ: Sri Rama Bhujanga-prayata Stotram in Hindiविशुद्धं परं सच्चिदानंदरूपंगुणाधारमाधारहीनं वरेण्यम् ।महांतं विभांतं गुहांतं गुणांतंसुखांतं स्वयं धाम…




KARMASU