श्री कृष्णलीला वर्णन स्तोत्रम् हिंदी पाठ: Shri Krishna-Leela Varnana Stotram in Hindi
भूपालच्छदि दुष्टदैत्यनिवहैर्भारातुरां दुःखितां,
भूमिं दृष्टवता सरोरुहभुवा संप्रार्थितः सादरं ।
देवो भक्त-दयानिधिर्यदुकुलं शेषेण साकं मुदा,
देवक्या: सुकृताङ्कुरः सुरभयन् कृष्णोऽनिशं पातु वः ॥ १ ॥
जातः कंसभयाद् व्रजं गमितवान् Krishna-Leela पित्रा शिशु: शौरिणा,
साकं पूतनया तथैव शकटं वात्यासुरं चार्दयन् ।
मात्रे विश्वमिदं प्रदर्श्य वदने निर्मूलयन्नर्जुनौ,
निघ्नन् वत्सबकाघनामदितिजान् कृष्णोऽनिशम् पातु वः ॥ २ ॥
ब्रह्माणं भ्रमयंश्च धेनुकरिपुर्निर्मर्दयन् काळियं,
पीत्वाग्निं स्वजनौघघस्मरशिखम् निघ्नन् प्रलम्बासुरम् ।
गोपीनां वसनं हरन्द्विजकुलस्त्रीणां च मुक्तिप्रदो,
देवेन्द्रं दमयन्करेण गिरिधृक् कृष्णोऽनिशं पातु वः ॥ ३ ॥
इन्द्रेणाशुकृताभिषेक उदधेर्नन्दं तथा पालयन्,
क्रीडन् गोपनितम्बिनीभिरहितो नन्दस्य मुक्तिं दिशन् ।
गोपी-हारक–शङ्खचूड Krishna-Leela मदहृन्निघ्नन्नरिष्टासुरं,
केशिव्योमनिशाचरौ च बलिनौ कृष्णोऽनिशम् पातु वः ॥ ४ ॥
अक्रूराय निदर्शयन्निजवपुर्निर्णेजकं चूर्णयन्,
कुब्जां सुन्दर-रूपिणीं विरचयन् कोदण्डमाखण्डयन् ।
मत्तेभम् विनिपात्य दन्तयुगलीं उत्पाटयन्मुष्टिभिः,
चाणूरं सहमुष्टिकं विदलयन्कृष्णोऽनिशं पातु वः ॥ ५ ॥
नीत्वा मल्लमहासुरान् यमपुरीं निर्वर्ण्य दुर्वादिनं,
कंसं मञ्चगतं निपात्य तरसा पञ्चत्वमापादयन् ।
तातं मातरमुग्रसेनमचिरान्निर्मोचयन्बन्धनात्,
राज्यं तस्य दिशन्नुपासितगुरुः कृष्णोऽनिशं पातु वः ॥ ६ ॥
हत्वा पञ्चजनं मृतं च गुरवे दत्वा सुतं मागधं,
जित्वा तौ च सृगालकालयवनौ हत्वा च निर्मोक्षयन् ।
पातालं मुचुकुन्दमाशु महिषीरष्टौ स्पृशन् पाणिना,
तं हंसं डिभकं निपात्य मुदितः कृष्णोऽनिशं पातु वः ॥ ७ ॥
घण्टाकर्णगतिं वितीर्य Krishna-Leela कलधौताद्रौ गिरीशाद्वरं,
विन्दन्नङ्गजमात्मजं च जनयन्निष्प्राणयन्पौण्ड्रकम् ।
दग्द्ध्वा काशिपुरीं स्यमन्तकमणिं कीर्त्या स्वयं भूषयन्,
कुर्वाणः शतधन्वनोऽपि निधनं कृष्णोऽनिशं पातु वः ॥ ८ ॥
भिन्दानश्च मुरासुरं च नरकं धात्रीं नयन्स्वस्तरुं,
षट्साहस्रयुतायुतं परिणयन्नुत्पादयन्नात्मजान् ।
पार्थेनैव च खण्डवाख्यविपिनं निर्द्दाहयन्मोचयन्,
भूपान्बन्धनतश्च चेदिपरिपुः कृष्णोऽनिशं पातु वः ॥ ९ ॥
कौन्तेयेन च कारयन्क्रतुवरं सौभं च निघ्नन्नृगं,
खातादाशु विमोचयंश्च द्विविदं निष्पीडयन्वानरम् ।
छित्वा बाणभुजान् मृधे च गिरिशं जित्वा गणैरन्वितं,
दत्वा वत्कलमन्तकाय मुदितः कृष्णोऽनिशं पातु वः ॥ १० ॥
कौन्तेयैरुपसंहरन्वसुमतीभारं कुचेलोदयं,
कुर्वाणोपि च रुग्मिणं विदलयन्संतोषयन्नारदम् ।
विप्रायाशु समर्पयन्मृतसुतान्कालिङ्गकं कालयन्,
मातुः षट्तनयान्प्रदर्श्य सुखयन् कृष्णोऽनिशं पातु वः ॥ ११ ॥
अद्धा बुद्धिमदुद्धवाय Krishna-Leela विमलज्ञानं मुदैवादिशन्,
नानानाकिनिकायचारणगणैरुद्बोधितात्मा स्वयम् ।
मायां मोहमयीं विधाय विततां उन्मूलयन्स्वं कुलं,
देहं चापि पयस्समुद्रवसतिः कृष्णोऽनिशं पातु वः ॥ १२ ॥
कृष्णाङ्घ्रिद्वयभक्तिमात्रविगळत्सारस्वतश्लाघकैः,
श्लोकैर्द्वादशभिः समस्तचरितं संक्षिप्य सम्पादितम् ।
स्तोत्रं कृष्णकृतावतारविषयं सम्यक्पठन् मानुषो,
विन्दन्कीर्तिमरोगतां च कवितां विष्णोः पदं यास्यति ॥ १२ ॥
॥ इति श्री कृष्णलीला वर्णन स्तोत्रम् सम्पूर्णम् ॥

KARMASU