Shree Kanakdhara Stotram:श्री कनकधारा स्तोत्रम्By KARMASU / January 21, 2026 Home2026January21Shree Kanakdhara Stotram:श्री कनकधारा स्तोत्रम्श्री कनकधारा स्तोत्रम् हिंदी पाठ:Shree Kanakdhara Stotram in HindiShree Kanakdhara Stotram: अङ्गं हरे: पुलकभूषणमाश्रयन्तीभृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।अङ्गीकृताखिलविभूतिरपाङ्गलीलामाङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥मुग्धा मुहुर्विदधती वदने मुरारे:प्रेमत्रपाप्रणिहितानि गतागतानि ।माला दृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥विश्वामरेन्द्रपदविभ्रमदानदक्ष-मानन्दहेतुरधिकं मुरविद्विषोऽपि ।ईषन्निषीदतु मयि क्षणमीक्षणार्ध-मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३ ॥आमीलिताक्षमधिगम्य मुदा मुकुन्द-मानन्दकन्दमनिमेषमनङ्गतन्त्रम् ।आकेकरस्थितकनीनिकपक्ष्मनेत्रंभूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥बाह्वन्तरे मधुजितः श्रितकौस्तुभे याहारावलीव हरिनीलमयी विभाति ।कामप्रदा भगवतोऽपि कटाक्षमालाकल्याणमावहतु मे कमलालयायाः ॥ ५ ॥कालाम्बुदालिललितोरसि कैटभारे-र्धाराधरे स्फुरति या तडिदङ्गनेव ।मातुः समस्तजगतां महनीयमूर्ति-र्भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ६ ॥प्राप्तं पदं प्रथमतः किल यत्प्रभावान्माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।मय्यापतेत्तदिह मन्थरमीक्षणार्धंमन्दालसं च मकरालयकन्यकायाः ॥ ७ ॥दद्याद् दयानुपवनो द्रविणाम्बुधारामस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।दुष्कर्मघर्ममपनीय चिराय दूरंनारायणप्रणयिनीनयनाम्बुवाहः ॥ ८ ॥इष्टा विशिष्टमतयोऽपि यया दयार्द्र-दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टांपुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ९ ॥गीर्देवतेति गरुडध्वजसुन्दरीतिशाकम्भरीति शशिशेखरवल्लभेति ।सृष्टिस्थितिप्रलयकेलिषु संस्थितायैतस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यैरत्यै नमोऽस्तु रमणीयगुणार्णवायै ।शक्त्यै नमोऽस्तु शतपत्रनिकेतनायैपुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥नमोऽस्तु नालीकनिभाननायैनमोऽस्तु दुग्धोदधिजन्मभूत्यै ।नमोऽस्तु सोमामृतसोदरायैनमोऽस्तु नारायणवल्लभायै ॥ १२ ॥सम्पत्कराणि सकलेन्द्रियनन्दनानिसाम्राज्यदानविभवानि सरोरुहाक्षि ।त्वद्वन्दनानि दुरिताहरणोद्यतानिमामेव मातरनिशं कलयन्तु मान्ये ॥ १३ ॥यत्कटाक्षसमुपासनाविधिःसेवकस्य सकलार्थसम्पदः ।संतनोति Shree Kanakdhara Stotram वचनाङ्गमानसैस्त्वां मुरारिहृदयेश्वरीं भजे ॥ १४ ॥सरसिजनिलये सरोजहस्तेधवलतमांशुकगन्धमाल्यशोभेभगवति हरिवल्लभे मनोज्ञेत्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १५ ॥दिग्घस्तिभिः कनककुम्भमुखावसृष्ट-स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।प्रातर्नमामि जगतां जननीमशेषलोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १६ ॥कमले कमलाक्षवल्लभेत्वं करुणापूरतरङ्गितैरपाङ्गैः ।अवलोकय मामकिञ्चनानांप्रथमं पात्रमकृत्रिमं दयायाः ॥ १७ ॥स्तुवन्ति ये स्तुतिभिरमूभिरन्वहंत्रयीमयीं त्रिभुवनमातरं रमाम् ।गुणाधिका गुरुतरभाग्यभागिनोभवन्ति ते भुवि बुधभाविताशयाः ॥ १८ ॥सुवर्णधारास्तोत्रं यच्छङ्कराचार्य-निर्मितम् ।त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ॥ १९ ॥॥ श्री कनकधारा स्तोत्रम् सम्पूर्णम् ॥