श्रीलक्ष्मीस्तुतिःShri Lakshmistutih
श्रीलक्ष्मीस्तुतिःShri Lakshmistutih जयन्ति जगतां मातुः स्तनकुङ्कुमबिन्दवः ।मुकुन्दाश्लेषसङ्क्रान्तकौस्तुभश्रीविडम्बनः ॥ १॥ पायात्पयोधिदुहितुः कपोलामलचन्द्रमाः ।यत्र सङ्क्रान्तबिम्बेन हरिणा हरिणायितम् ॥ २॥ देवेऽर्पितवरणस्रजि बहुमाये वहति कैटभीरूपम् ।जयति सुरासुरहसिता लज्जाजिह्मेक्षणा लक्ष्मीः ॥ ३॥ तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति ।फणशतपीतश्वासो रागान्धायाः श्रियः केलिः ॥ ४॥ स्मेराननेन हरिणा सस्पृहमाकारवेदिनाऽऽकलितम् ।जयति पुरुषायितायाः कमलायाः कैटभीध्यानम् ॥ ५॥ कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः ।नुतपदकमला कमला करधृतकमला करोतु मे कमलम् ॥ ६॥ किञ्जल्कराजिरिव नीलसरोजलग्नालेखेव काञ्चनमयी निकषोपलस्था ।सौदामिनी जलदमण्डलगामिनीवपायादुरःस्थलगता कमला मुरारेः ॥ ७॥ दन्तैः कोरकिता स्मितैर्विकसिता भ्रूविभ्रमैः पत्रितादोर्भ्यां पल्लविता नखैः कुसुमिता लीलाभिरुद्वेलिता ।उत्तुङ्गस्तनमण्डलेन फलिता भक्ताभिलाषे हिताकाचित्कल्पलता सुरासुरनुता पायात्सुधाब्धेः सुता ॥ ८॥ उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणेःअन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति ।लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुःपश्यन्ती मुदिता मुदेऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥ ९॥ आख्याते हसितं पितामह इति त्रस्तं कपालीति चव्यावृत्तं गुरुरित्ययं दहन इत्याविष्कृता भीरुता ।पौलोमीपतिरत्यसूयितमथ व्रीडाविनम्रश्रियापायाद्वः पुरुषोत्तमोऽयमिति यो न्यस्तः स पुष्पाञ्जलिः ॥ १०॥ क्रीडाभिन्नहिरण्यशुक्तिकुहरे रक्तात्मनावस्थितान्हारं हारमुदारकुङ्कुमरसानव्याजभव्यान्नखैः ।वीरश्रीकुचकुम्भसीम्नि लिखतो वीरस्य पत्रावलीःतत्कालोचित भावबन्धमधुरं मन्दस्मितं पातु वः ॥ ११॥ पद्मायाः स्तनहेमसद्मनि मणिश्रेणीसमाकर्षकेकिञ्चित्कञ्चुकसन्धिसन्निधिगते शौरेः करे तस्करे ।सद्यो जागृहि जागृहीति वलयध्वानैर्ध्रुवं गर्जताकामेन प्रतिबोधिताः प्रहरिका रोमाङ्कुराः पान्तु वः ॥ १२॥ यादृग्जानासि जाम्बूनदगिरिशिखरे कान्तिरिन्दोः कलानांइत्यौत्सुक्येन पत्यौ स्मितमधुरमुखाम्भोरुहं भाषमाणे ।लीलादोलायमानश्रुतिकमलमिलद्भृङ्गसङ्गीतसाक्षीपायादम्भोधिजायाः कुसुमशरकलानाट्यनान्दीनकारः ॥ १३॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वाधृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः ।भूयस्तत्कालकान्तद्विगुणितसुरतप्रीतिना शौरिणा वःशय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ १४॥ इति श्रीलक्ष्मीस्तुतिः समाप्ता ।
श्रीलक्ष्मीस्तुतिःShri Lakshmistutih Read More »



KARMASU