अर्धनारीश्वरस्तुतिः | ardhanArIshvarastutih
अर्धनारीश्वरस्तुतिः ॥ श्रीः ॥वन्देमह्यमलमयूखमौलिरत्नंदेवस्य प्रकटितसर्वमङ्गलाख्यम् ।अन्योन्यं सदृशमहीनकङ्कणाङ्कंदेहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ १॥तद्वन्द्वे गिरिपतिपुत्रिकार्धमिश्रंश्रैकण्ठं वपुरपुनर्भवाय यत्र ।वक्त्रेन्दोर्घटयति खण्डितस्य देव्यासाधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ २॥एकत्र स्फटिकशिलामलं यदर्धेप्रत्यग्रद्रुतकनकोज्ज्वलं परत्र ।बालार्कद्युतिभरपिञ्जरैकभाग-प्रालेयक्षितिधरशृङ्गभङ्गिमेति ॥ ३॥यत्रैकं चकितकुरङ्गभङ्गि चक्षुःप्रोन्मीलत्कुचकलशोपशोभि वक्षः ।मध्यं च ऋशिमसमेतमुत्तमाङ्गंभृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥ ४॥स्राभोगं घननिबिडं नितम्बबिम्बंपादोऽपि स्फुटमणिनूपुराभिरामः ।आलोक्य क्षणमिति नन्दिनोऽप्यकस्मा-दाश्चर्यं परमुदभूदभूतपूर्वम् ॥ ५॥यत्रार्धं घटयति भूरिभूतिशुभ्रंचन्द्रांशुच्छुरितकुबेरशैलशोभाम् ।अर्धं च प्रणिहितकुङ्कुमाङ्गरागंपर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥ ६॥यत्कान्तिं दधदपि काञ्चनाभिरामांप्रोन्मीलद्भुजगशुभाङ्गदोपगूढम् ।बिभ्राणं मुकुटमुपोढचारुचन्द्रंसन्धत्ते सपदि




KARMASU