SHIV MANTRA

OMkAreshvaramAhAtmyam

अर्धनारीश्वरस्तुतिः | ardhanArIshvarastutih

अर्धनारीश्वरस्तुतिः ॥ श्रीः ॥वन्देमह्यमलमयूखमौलिरत्नंदेवस्य प्रकटितसर्वमङ्गलाख्यम् ।अन्योन्यं सदृशमहीनकङ्कणाङ्कंदेहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ १॥तद्वन्द्वे गिरिपतिपुत्रिकार्धमिश्रंश्रैकण्ठं वपुरपुनर्भवाय यत्र ।वक्त्रेन्दोर्घटयति खण्डितस्य देव्यासाधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ २॥एकत्र स्फटिकशिलामलं यदर्धेप्रत्यग्रद्रुतकनकोज्ज्वलं परत्र ।बालार्कद्युतिभरपिञ्जरैकभाग-प्रालेयक्षितिधरश‍ृङ्गभङ्गिमेति ॥ ३॥यत्रैकं चकितकुरङ्गभङ्गि चक्षुःप्रोन्मीलत्कुचकलशोपशोभि वक्षः ।मध्यं च ऋशिमसमेतमुत्तमाङ्गंभृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥ ४॥स्राभोगं घननिबिडं नितम्बबिम्बंपादोऽपि स्फुटमणिनूपुराभिरामः ।आलोक्य क्षणमिति नन्दिनोऽप्यकस्मा-दाश्चर्यं परमुदभूदभूतपूर्वम् ॥ ५॥यत्रार्धं घटयति भूरिभूतिशुभ्रंचन्द्रांशुच्छुरितकुबेरशैलशोभाम् ।अर्धं च प्रणिहितकुङ्कुमाङ्गरागंपर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥ ६॥यत्कान्तिं दधदपि काञ्चनाभिरामांप्रोन्मीलद्भुजगशुभाङ्गदोपगूढम् ।बिभ्राणं मुकुटमुपोढचारुचन्द्रंसन्धत्ते सपदि परस्परोपमानम् ॥ ७॥आश्चर्यं तव दयिते हितं विधातुंप्रागल्भ्यं किमपि भवोपतापभाजाम् ।अन्योन्यं गतमिति वाक्यमेकवक्त्र-प्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥ ८॥प्रत्यङ्गं घनपरिरम्भतः प्रकम्पंवामार्धं भुजगभयादिवैति यत्र ।यत्रापि स्फुटपुलकं चकास्ति शीत-स्वःसिन्धुस्नपिततयेव दक्षिणार्धम् ॥ ९॥एकत्र स्फुरति भुजङ्गभोगभङ्गि-र्नीलेन्दीवरदलमालिका परत्र ।एकत्र प्रथयति भास्मनोऽङ्गरागःशुभ्रत्वं मलयजरञ्जनं परत्र ॥ १०॥एकत्रार्पयति विषं गलस्य कार्ष्ण्यंकस्तूरीकृतमपि पुण्ड्रकं परत्र ।एकत्र द्युतिरमलास्थिमालिकाना-मन्यत्र प्रसरति मौक्तिकावलीनाम् ॥ ११॥एकत्र स्रुतरुधिरा करीन्द्रकृत्तिःकौसुम्भं वसनमनश्वरं परत्र ।इत्यादीन्यपि हि परस्परं विरुद्धा-न्येकत्वं दधति विचित्रधाम्नि यत्र ॥ १२॥दन्तानां सितिमनि कज्जलप्रयुक्तेमालिन्येऽप्यलिकविलोचनस्य यत्र ।रक्तत्वे करचरणाधरस्य चान्योनान्योन्यं समजनि नूतनो विशेषः ॥ १३॥कण्ठस्य भ्रमरनिभा विभार्धभागंमुक्त्वा किं स्थितिमकरोच्छिरोरुहार्धे ।अर्धं वा कनकसदृग्रुचिः कचानांसन्त्यज्य न्यविशत किं गलैकदेशे ॥ १४॥सौवर्णः करकमले यथैव वामेसव्येऽपि ध्रुवमभवत्तथैव कुम्भः ।क्रीडैकप्रसृतमतिर्विभुर्बिभर्तिस्वाच्छन्द्यादुरसि तमेव नूनमेनम् ॥ १५॥यत्रासीज्जगदखिलं युगावसानेपूर्णत्वं यदुचितमत्र मध्यभागे ।संरम्भाद्गलितमदस्तदेव नूनंविश्रान्तं घनकठिने नितम्बबिम्बे ॥ १६॥इत्यादीन्प्रविदधुरेव यत्र ताव-त्सङ्कल्पान्प्रथमसमागमे गणेन्द्राः ।यावत्स प्रणतिविधौ पदारविन्दंभृङ्गीशः परिहरति स्म नाम्बिकायाः ॥ १७॥किमयं शिवः किमु शिवाथ शिवा-विति यत्र वन्दनविधौ भवति ।अविभाव्यमेव वचनं विदुषा-मविभाव्यमेव वचनं विदुषाम् ॥ १८॥एकः स्तनः समुचितोन्नतिरेकमक्षिलक्ष्याञ्जनं तनुरपि क्रशिमान्वितेति ।लिङ्गैस्त्रिभिर्व्यवसिते सविभक्तिकेऽपियत्राव्ययत्वमविखण्डितमेव भाति ॥ १९॥यत्र ध्रुवं हृदय एव यदैक्यमासी-द्वाक्काययोरपि पुनः पतितं तदेव ।यस्मात्सतां हृदि यदेव तदेव वाचियच्चैव वाचि करणेऽप्युचितं तदेव ॥ २०॥कान्ते शिवे त्वयि विरूढमिदं मनश्चमूर्तिश्च मे हृदयसम्मददायिनीति ।अन्योन्यमभ्यभिहितं वितनोति यत्रसाधारणस्मितमनोरमतां मुखस्य ॥ २१॥उद्यन्निरुत्तरपरस्परसामरस्य-सम्भावनव्यसनिनोरनवद्यहृद्यम् ।अद्वैतमुत्तमचमत्कृतिसाधनं त-द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥ २२॥लक्ष्याण्यलक्ष्याण्यपरत्र यत्रविलक्षणान्येव हि लक्षणानिसाहित्यमत्यद्भुतमीशयोस्त-न्न कस्य रोमाञ्चमुदञ्चयेत ॥ २३॥जूटाहेर्मुकुटेन्द्रनीलरुचिभिः श्यामं दधत्यूर्ध्वगंभागं वह्निशिखापिशङ्गमधरं मध्ये सुधाच्छच्छविः ।धत्ते शक्रधनुःश्रियं प्रतिमिता यत्रेन्दुलेखानृजु-र्युष्माकं स पयोधरो भगवतो हर्षामृतं वर्षतु ॥ २४॥इत्यर्धनारीश्वरस्तुतिः सम्पूर्णा ॥

अर्धनारीश्वरस्तुतिः | ardhanArIshvarastutih Read More »

OMkAreshvaramAhAtmyam

शिव अपराधस्तवः | aparAdhastavaH | SHIV MANTRA FOR LIFE

शिव अपराधस्तवः शम्भो शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापते भूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक । शर्वोग्राभय भर्ग भीम जगतां नाथाक्षय श्रीनिधे रुद्रेशान महेश्वरेश्वर महायोगीशतुभ्यं नमः ॥ १॥ स्वामिन् सर्वजगद्गुरो हर महालीलाक्षमाक्षेत्रस- च्चिद्रूपाखिलभूतभाव्यजगतां नाथ प्रपन्नार्तिहन् । पापघ्नाशुभपाशदुःखभयहृद्भक्तेष्टद ज्ञानद श्रीदातर्क्य षडङ्ग मोक्षण महायोगीश तुभ्यं नमः ॥ २॥ क्रूरं कष्टतरं विनष्टहृदयं भ्रष्टं शठं निष्ठुरं निर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशिनं हिंसकम् । आशापाशशतप्रबद्धमनसं दुष्कीर्तिभाजं जडं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३॥ मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं कामान्धं क्षणिकं कदर्थनपरं दौश्शील्यजन्मस्थलम् । अज्ञं लुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ४॥ क्षुद्रं दुर्भगमल्पसत्त्वमलसं भग्नव्रतं रागिणं भीरुं डाम्भिकमीर्ष्यकं व्यसनिनं पापात्मकं सूतकम् । आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ५॥ आकाङ्क्षाश्रयमार्यवर्तिविमुखं क्षीणं गुणद्वेषिणं धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम् । दीनं पापरतं समस्त विषयेष्वासक्तमन्यायिनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ६॥ अश्रद्धं गतपौरुषं कुपथगं जाज्वल्यमानं हृषा संसारार्णवमग्नमूर्मितरलं नीचप्रियं निर्दयम् । वैराग्यानतिदानयोगनियमद्वेष्टारमुन्मादिनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ७॥ द्वन्द्वग्रस्तसमस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं दुःसङ्गप्रियमप्रतिष्ठवचनं कामातुरं तस्करम् । शैवज्ञानपराङ्मुखं खलजनव्यापारपारङ्गतं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ८॥ दुर्मत्यावमतिप्रवृद्धरजसं सद्वृद्धसेवारिपुं सद्धर्मेष्वसमुत्सुकं गुरुजने मान्येषु चात्युद्धतम् । शिष्टाशिष्टकरप्रियं च सततं दुष्टस्य तुष्टिप्रदं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ९॥ स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं ध्यानाध्यानविचारणागुणरिपुं तुच्छं मदोच्छृङ्खलम् । दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्याश्रयं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १०॥ आत्मातिस्तुतिकारिणं परमहानिन्दाकरं निन्दितं लुण्टाकं पतितं विपर्ययगतस्वान्तं सदा याचकम् । व्याक्रोशाद्विहतस्वकार्यनिचयं सर्वापदां सञ्चयं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ११॥ कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महावञ्चकं दुर्बुद्धिं मदमानमत्सरनिधिं दुर्वृत्तवृत्त्याश्रयम् । मिथ्याज्ञानिनमार्यकण्टकमलं लोकत्रये दूषितं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १२॥ दुष्कर्मप्रचये प्रहृष्टहृदयं क्लेशैश्च सम्पीडितं चार्वाकं कुमतिं कुचेलमलसं कार्पण्यजन्मस्थलम् । भार्यापुत्रगृहादिसक्तमनसं गाम्भीर्यधैर्यच्युतं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १३॥ चित्तक्षोभकरं कलङ्कहृदयं शोकास्पदं लोलुपं सारासारविचारहीनमनसं नीचप्रियं नीरसम् । मत्तोन्मत्तनिकृष्टनष्टचकितं शून्यं हृदालापिनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १४॥ आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं सङ्कल्पैर्बहुभिर्विभिन्नहृदयं दैत्यप्रसक्तं सदा । मर्माविद्वचनं कठोरहृदयं मित्रद्रुहं चुम्बकं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १५॥ वेदोक्ताचरणाशिवात्मचरितं स्वेच्छाप्रवृत्तिं सदा सच्छास्नेष्वपरागिणं प्रियतमालक्ष्मीगुणावेष्टितम् । दाक्षिण्यप्रतिपन्नताविरहितं स्वार्थैकदृष्टिं सदा कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १६॥ सत्यत्यागदयाक्षमाशमदमाद्यर्थानभिज्ञात्मकं देवब्राह्मणगोव्रजातिथिपितृज्ञानात्मकापूजकम् । विश्वस्तेष्वपकारवञ्चनपरं मैत्रीरिपुं दुर्जनं कारुण्याकरवारिधे भव पितर्दोषकरं पाहि माम् ॥ १७॥ कृत्वाधर्ममतिं कथञ्चिदपरः को मत्समोऽस्मिन्भवे- दित्येवं बहुजल्पिनं कुपुरुषं भ्रान्त्याश्रयं राक्षसम् । दृष्टादृष्टसुखैषिणं बत मुदा मुक्त्वा शिवाराधनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १८॥ मार्जालाखुबकाश्वकुक्कुटकपिक्रोडाहिवृत्तिं सदा तीर्थध्वाङ्क्षमनर्थकं परसुखे सन्तापिनं दुःसहम् । त्यक्तोपायममेयकाङ्क्षिणमहो शुण्ठं च चोरोपमं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १९॥ अस्पृश्यं विकलं कुधैर्यमखिले दोषे स्वकीये गुणं पश्यन्तं चलमात्मकार्यनिरतं पूज्यं विषादात्मकम् । चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २०॥ दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं दासीमेषखरस्वभावमपटुं सम्मानने भाजने । रिक्तं बालकदीर्घसूत्रिणमलं हृच्छल्यशीलं सदा कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि भाम् ॥ २१॥ अत्यादेशिनमुत्तमस्थितिमतां सन्त्यागिनं नास्तिकं रन्ध्रान्वेषिणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः । माहात्म्य श्रवणस्तुतीक्षणविधौ माहेश्वरा वत्सलं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २२॥ दुष्कार्यालघुभारवाहनपशुं तृष्णातृणग्राहिणं संसारार्णवदुःखपङ्कपतितं यान्तं सदाधो भृशम् । स्वत्वाहन्त्वममत्वमोहमकरैराकृष्यमाणं सदा कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २३॥ भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं सम्भ्रान्तं चपलं विधानविहितव्यापारविद्वेषिणम् । शम्भो त्वत्पदभक्तिहीनमदृढं सम्मूढमात्मद्विषं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २४॥ ज्येष्ठावासमतिप्रमादितमतिं क्षुत्तृड्जराद्यर्दितं स्वप्नेऽप्यन्यपरोपकाररहितं सर्वाहितं दुर्लभम् । लोके सत्परिहार्यनिन्दितमहो दुःखप्रदेशक्रियं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २५॥ त्वक्चुक्लान्त्रसिरातनूरुहमयं काराख्यरन्ध्रस्थितं नानापायपतिष्णु कालशिखिना पापच्यमानं भृशम् । दृष्ट्वापि स्वकलेवरं कृशतरं तत्रापि रक्तं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २६॥ किं वाचा बहुविस्तरेण भगवन् मत्सन्निभो भूतले नाभून्नास्ति च नो भविष्यति पुमान् निर्भाग्यचूडामणिः । तस्मादीदृशमात्मवञ्चकमहो त्रैलोक्यचूडामणे कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २७॥ सर्वश्रेष्ठ गुणैकभाजन विभो सत्त्वोत्तमेषूत्तमा- सङ्ख्येयावगुणैकभाजनमलं कष्टातिकष्टक्रियम् । श्रीशाश्रीशमतीन्द्रियेन्द्रियवशं निस्सङ्गिनं सङ्गिनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २८॥ विण्मूत्रकृमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं निर्गन्धैकनिधिं जरापरिगतं वातादिदोषात्मकम् । दृष्ट्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २९॥ विष्ठामूत्रकुजन्त्वनिष्टमशुभं स्वाभाव्यतो नश्वरं कृष्णक्षेण्यविषूचिकाज्वरशिरश्शूलादिरोगास्पदम् । ज्ञात्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३०॥ पङ्गुत्वान्ध्यजरित्वमौर्ख्यखलताबाधिर्यजन्मस्थलं क्लेद्यच्छेद्यविशोष्यदाह्यकृशतास्थौल्यस्वभावात्मकम् । सम्पश्यन्नपि दोषमत्र तु सदा सम्प्रीतियुक्तं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३१॥ देहक्षालनलेपनादिविधिना संस्पर्शयोग्यं त्वचा छन्नं क्लिन्नमहार्णवं व्रणमुखैर्नित्यं स्रवन्तं मलम् । तं दृष्ट्वाप्यविरागिणं च नरके शूनं सरागं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३२॥ ॥ इति अपराधस्तवः सम्पूर्णः ॥

शिव अपराधस्तवः | aparAdhastavaH | SHIV MANTRA FOR LIFE Read More »

OMkAreshvaramAhAtmyam

अघोराष्टकम् | aghorAShTakam | SHIV MANTRA FOR LIFE

श्रीअघोराष्टकम् कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलं दंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्वालोग्रनेत्रत्रयम् ।रक्ताकोरकरक्तमाल्यरचितं(रुचिरं)रक्तानुलेपप्रियं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ १॥जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितं (दक्षान्त्रं)डमरुं पिशाचमनिशं शूलं च मूलं करैः ।घण्टाखेटकपालशूलकयुतं वामस्थिते बिभ्रतं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ २॥नागेन्द्रावृतमूर्ध्निज(र्धज) स्थित(श्रुति)गलश्रीहस्तपादाम्बुजं श्रीमद्दोःकटिकुक्षिपार्श्वमभितो नागोपवीतावृतम् ।लूतावृश्चिकराजराजितमहाहाराङ्कितोरस्स्थलं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ३॥धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि(यत्कृन्तति)प्राणिनां पाशान्ये क्षुरिकास्त्रपाशदलितग्रन्थिं शिवास्त्राह्वयं (?) ।विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ४॥घोराघोरतराननं स्फुटदृशं सम्प्रस्फुरच्छूलकं प्राज्यां(ज्यं)नृत्तसुरूपकं चटचटज्वालाग्नितेजःकचम् ।(जानुभ्यां)प्रचटत्कृता(रिनिकरं)स्त्रग्रुण्डमालान्वितं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ५॥भक्तानिष्टकदुष्टसर्पदुरितप्रध्वंसनोद्योगयुक् हस्ताग्रं फणिबद्धहस्तचरणं प्रारब्धयात्रापरम् ।स्वावृत्त्यास्थितभीषणाङ्कनिकरप्रारब्धसौभाग्यकं ? वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ६॥यन्मन्त्राक्षरलाञ्छितापघनवन्मर्त्याश्च(च्च) वज्रार्चिषो भूतप्रेतपिशाचराक्षसकलानिर्घातपाता इव(दिव) ।उत्सन्नाश्च भवन्ति सर्वदुरितप्रोच्चाटनोत्पादकं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ७॥यद्ध्यानो ध्रुवपूरुषो(ध्यानोद्यतपूरुषो)षितगृहग्रामस्थिरास्थायिनो भूतप्रेतपिशाचराक्षसप्रतिहता निर्घातपाता इव ।यद्रूपं विधिना स्मरन् हि विजयी शत्रुक्षयं प्राप्नुते वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ८॥॥ इति श्रीअघोराष्टकं सम्पूर्णम् ॥

अघोराष्टकम् | aghorAShTakam | SHIV MANTRA FOR LIFE Read More »

OMkAreshvaramAhAtmyam

अघोरस्तवः | aghorastavaH  | SHIV MANTRA FOR LIFE

श्रीअघोरस्तवः सकलभुवननाथं सर्वदं सर्ववन्द्यं सहमनु मनुनाथं पूजयित्वा सशक्तिम् ।परमशिवमघोरास्त्राख्यमन्त्राधिराजं परिमितविषयाभिर्वाग्भिरभ्यर्चयामः ॥ १॥यत्पाशसंहृतिषु पाशुपतं महास्त्रं ग्रन्थिप्रभेदनविधौ क्षुरिकास्त्रमाहुः ।विघ्नस्तुतौ च शकलीकरणे शिवास्त्रं वन्दे तदस्त्रमहमैशमघोरसंज्ञम् ॥ २॥यस्ते बिभर्ति निजमूर्धनि मन्त्रचक्रं यो वा बिभर्त्यवयवेषु तदक्षराणि ।सोऽयं निरस्य निखिलग्रहभूतरोगान् (हेयं) जित्वास्त्रनायकरिपूनतिवृद्धिमेति ॥ ३॥वज्रं शक्तिर्दण्डखड्गाहिपाशान् वायोरस्त्रं सा गदा(शङ्खं?) च त्रिशूलम् ।पद्मं चक्रं साधयन्ति स्वकृत्यं लब्ध्वाज्ञां ते दिग्भृतामायुधानि ॥ ४॥न भवति विषपीडा नारिपीडा न चाधिः न खलु निखिलरोगा नापि भूतग्रहार्तिः ।न धनहरणभीतिर्नाभिचारस्य तेषां सकृदपि भुवने त्वां येऽस्त्रराजं स्मरन्ति ॥ ५॥मन्त्री जपाकुसुमसन्निभभीममूर्तिं त्वां घोरमूर्धपरिपिङ्गलकेशपङ्क्तिम् ।दंष्ट्राकरालवदनं तटिदाभजिह्वं व्यात्ताननं रविशशिज्वलनोग्रनेत्रम् ॥ ६॥नागेन्द्रभूषणकपालकृताङ्कमाला- शोभान्वितं भ्रुकुटिभङ्गकरालवक्त्रम् ।धूम्राम्बरं मुखरनूपुरमष्टबाहुं ध्यायन् प्रसिध्यति झणत्क्वणकिङ्किणीकम् ॥ ७॥त्वां दक्षिणैः करतलैरसिशूलमूल- शक्तिं(क्तीः) डमड्डमरुकं चषकं दधानं (?) ।खेटं त्रिशूलनृकपालसुरेन्द्रशस्त्रा- ण्यारब्धयात्रमरिमर्दनमाश्रितोऽस्मि ॥ ८॥कर्णद्वये करयुगे भुजयोश्च युग्मे पार्श्वद्वये पदयुगे कटिमण्डले च ।कुक्षौ गले शिरसि नाथ चतुर्दशाहीन् तत्तद्विभूषणकृतात्मतनूर्बिभर्षि ॥ ९॥वामे शूलदले स्थितस्तव हरिः श्रीनीलरुद्रः पुन- र्मध्ये दक्षिणतो विधिः सुफलके गौरी गुहः कुम्भके ।दण्डाग्रे गणनायको दिनकरो दण्डेऽस्य मूले स्मरः तेनाघाहिगलग्रहोन्मदरिपूनस्त्रेश निर्नाशय ॥ १०॥त्वां सात्त्विकं धवलरूपमुपास्य मोक्षं सम्प्राप्नुवन्ति मनुजाः सुखसन्निविष्टम् ।आरक्तवर्णमद(थ) राजसमुद्धताङ्ग- मा(साद)यन्ति सकलाभिमतार्थसिद्धिम् ॥ ११॥शत्रुक्षयाय सकलामयनाशनाय सर्वोपसर्गहतये च तवातिरौद्रम् ।कृष्णं कृपानिलयतामसमेव शस्तं यानोद्यतं यतिवराः कथयन्ति रूपम् ॥ १२॥यद्वा दमद्दमरुकासिपिशाचशूल- मूलानि दक्षिणकरैरवरैः कपालम् ।त्वां खेटकेन वरघण्टिकया च शूल- मध्यं दधानमहमष्टभुजं नमामि ॥ १३॥आकर्षणे निखिलरोगहतौ रिपूणां स्तम्भे वशीकरणमोहनदीपनेषु ।युद्धोद्यतं तव पुर(वपु)स्तटिदंशुभीमं स्मृत्वोग्रदंष्ट्रमचिरेण फलं लभन्ते ॥ १४॥कृष्णप्रभं त्रिनयनं त्रिभुजं त्रिपादं भीमं महाशनिरवं विकटाट्टहासम् ।त्वां सूचिमुष्टिहननैरहिभूषिताङ्गं ध्यायन्ति धावनपरं रिपुमारणादौ ॥ १५॥त्वां षड्भुजं त्रिनयनं शशिकान्तरूपं पद्माननं विधृतभूषणमूर्धकेशम् ।वामे कपालधनुषी दधतं सखेटं शूलं शरं च परतः प्रणतोऽस्मि सासिम् ॥ १६॥व्याधादरि(वरि)प्रमथने सति भूमिकम्पे दाहे दिशां प्रचुरवृष्टिषु चण्डवाते ।पापक्षये सकलवृद्धिषु शान्तिकादौ भीतौ च देव तव रूपमिदं स्मरन्ति ॥ १७॥सजलघनघनाभं भीमदंष्ट्रं त्रिनेत्रं भुजगधरमघोरं रक्तवस्त्राङ्गरागम् ।परशुडमरुखड्गान् खेटकं बाणचापौ त्रिशिखनरकपाले बिभ्रतं भावयामि ॥ १८॥शूलं मूलं पिशाचं शरमसिसृणियुक्टङ्कयुग्भिण्डिपालं वज्रं तत्स्थूलमध्यं डमरुकमपरैर्घण्टिकां चापखेटौ ।पाशं चक्रं च दण्डं भुजगमनलकं दक्षिणैर्बाहुदण्डै- र्मध्ये त्वां विद्युदाभं विजयिनमनिशं घोरनाथं भजामः ॥ १९॥केऽप्यष्टकाधिकसहस्रकरं विदुस्त्वा- मन्येऽपि चाष्टशतहस्तमतर्क्यवेषम् ।केचिद्द्विपञ्चकरमष्टभुजं परेऽपि केचिच्चतुर्भुजयुतं कतिचिद्द्विबाहुम् ॥ २०॥केचिद्वदन्ति धृतषोडशबाहुदण्ड- मन्ये पुनर्द्विनवसङ्ख्यकरारविन्दम् ।त्वां सर्वतः प्रसृतपाणिपदं तु शैवं तेजः सुदुस्सहतरं वयमामनामः ॥ २१॥त्वां बाहुमूलवलयीकृततक्षकाहिं तन्मध्यवेष्टितमहादृढपूर्वपद्मम् ।पादाब्जसंस्थकुलिकं करपद्मशोभं दण्डे कटीघटितवासुकिमेखलाङ्कम् ॥ २२॥त्वां शङ्खपालभुजगेन्द्रकृतोपवीतं जानुद्वयस्फुरदनन्तमहोरगेन्द्रम् ।लूतादिवृश्चिकविराजिविराजिताङ्गं कर्कोटकाहिपरिभूषितकण्ठभागम् ॥ २३॥त्वां प्रस्फुरच्छिखिनिभोर्ध्वकचं स्फुरन्तं घोराननं विकृतघोरतराहिभूषम् ।वन्दामहे वरतनुं वररूपशोभं वक्षोल्लसच्चटचटारवरुण्डमालम् ॥ २४॥आम्रेडितप्रयुतसङ्ख्यतटित्कृतास्थि- मालाधरं कहकहारवभोगिभूषम् ।भूयो वमज्ज्वलनदीप्तललाटनेत्रं त्वां हुङ्कृतेन मम घातय घातयारीन् ॥ २५॥चक्रोद्धृतप्रणवफट्कृतसम्पुटं ते मन्त्रोत्तमं जपति यः सममङ्गमन्त्रैः ।अस्मात्परं मनुशतैः किमिहाल्पसारै- रायातमिष्टमनिशं त्वयि सिद्धिमेति ॥ २६॥यः पञ्चषड्भिर्द्विदशाष्टयुग्मैर्वर्णैर्मनोज्ञैः परिकल्पिताङ्गः ।ऋष्यादिकं बीजसशक्तिकीलयुक्त्यातिसञ्चिन्त्य जपेत्स धन्यः ॥ २७॥यो मस्तकेऽलिकतले नयनद्वये च मध्ये भ्रुवोस्तव मनोरिह नासिकायाम् ।कर्णद्वये हनुयुगे द्विजपङ्क्तियुग्मे कण्ठेऽसयोश्च जठरे स्तनयोः क्रमेण ॥ २८॥वर्णान्निवेशयति वक्षसि नाभिदेशे बाहुप्रकोष्ठतलपाणिषु वामतश्च ।स्फिज्यूरुजानुतलतश्चरणेषु तद्व- त्पायौ सलिङ्गवृषणे चरमाङ्गदेशे ॥ २९॥पार्श्वद्वये हृदि च तालुनि साधकेन्द्रः पूजाविधौ जपविधौ च सुसम्प्रदायः ।(सोऽयं निरस्य) निखिलार्तिमनेकसौख्या- न्यासादयत्यनिमिषैरपि पूज्यमानः ॥ ३०॥त्वां शेषकलृप्तवलयाङ्कितपाणिपद्मं कर्कोटकाहिपरिभूषितदामशोभम् ।वक्षःस्थलाभरणतक्षकनागशोभं पद्माख्यनागपरिकल्पितहारभूषम् ॥ ३१॥सुश्वेतपद्मपरिक्लृप्तललाटशोभं मध्याङ्गलग्नकुलिकोदरबन्धनागम् ।केचित्कटीघटितभूषितशङ्खपालं कर्णावतंसवरवासुकिमामनन्ति ॥ ३२॥चर्मासिचापशरवज्रपरश्वथाङ्ग- शूलादिमध्यसृणिदण्डधरैश्च हस्तैः ।पञ्चाननं धवलदंष्ट्रमगाधनेत्रं त्वामञ्जनाभमरिभीषणमाश्रयामः ॥ ३३॥हस्तैरभीवरपरश्वथकृष्णसार- युक्तैश्चतुर्भिरभिशोभितमाननैश्च ।त्वां पूजयन्निह सहस्रदलाब्जसंस्थं वाञ्छां व्रजेद्दशभिरावरणैरुपेतम् ॥ ३४॥काल्याद्याभिः परिवृततनुं शक्तिभिर्दिग्गताभि- स्तन्मध्यस्थैः परिचिततनुं भीषणाद्यैश्च रन्ध्रैः ।ब्राह्म्याद्याभिर्दिशि दिशि तनुं(वृतं) मातृभिर्लोकपालैः साङ्गं ध्यायन् जपति सुमतिर्भूतले यः स धन्यः ॥ ३५॥कृत्वा चक्रं रजोभिस्तव तदनुगुणैः कर्णिकाकेसराढ्यं मध्ये च द्वादशारं कृतनियमविधिः षोडशारं च बाह्ये ।मध्ये त्वां पूजयित्वा दिशि दिशि परितः केसरेष्वष्टशक्ती- रिच्छादिद्वादशारेष्वथ यजति महास्त्राणि चत्वारि दिक्षु ॥ ३६॥शेषारेष्वष्टरुन्द्रान्विदिगुदिततनून् भीषणाभीषणादीन् बाह्येऽस्त्रैरात्मदिक्स्थैः सह कुलिशमुखैर्भौतिकादीनि चाष्टौ ।तस्याधिव्याधिनाशः सकलमभिमतं शत्रुनाशश्च सद्यः शान्तिः पुष्टिश्च विद्या धनमपरिमितं क्षेत्रसम्पत्तिरन्ते ॥ ३७॥यस्त्वां युद्धोद्यताङ्गं यजति कृतमतिर्भास्कराद्यैर्गणेशैः क्षेत्रेशैः कोणसंस्थैः त्रिदशपतिमुखैरष्टरुद्रैः परीतम् ।आद्ये तज्ज्ञानरूपप्रभृतिभिरपरे वीरघोषादिरुद्रै- स्तद्बाह्यस्थैश्चतुर्थद्रविणपतिमुखैः पञ्चमे कालमुख्यैः ॥ ३८॥षष्ठे चोच्छुष्ममुख्यैरनिशमभिमुखैः सप्तमे विष्णुमुख्यै- रन्यस्मिन् तीक्ष्णदंष्ट्रप्रभृतिभिरमरेशादिभिश्चापरस्मिन् ।आधारे लोकपालैर्दिशिदिशि दशमे सायुधैः सेव्यमानं भोगानास्वाद्य सर्वान् भुवि तनुविरमे मोक्षमाप्नोति सोऽयम् ॥ ३९॥चक्रं स्रग्वज्रशक्तीर्डमरुपरशुघण्टाहिखड्गप्रखेटान् बिभ्राणं दण्डपाशौ ध्वजनरशिरसी चापबाणौ भुजैश्च ।दोर्भ्यां द्वाभ्यां महास्त्रं नियुतरविनिभं लूतमुण्डाहिभूषं चार्काभं कुण्डलाढ्यं कुमतविहतये घोरनाथं भजामः ॥ ४०॥विद्युन्मालानलाभं भुजगपरिवृतं भीषणं निम्ननेत्रं शूलं पाशं च घण्टामनलमसिमहाखेटकौ प्रज्वलन्तौ ।सव्येऽभीशक्तिचापान शरपरशुरुजा दक्षिणे घोरवक्त्रं पार्श्वे घोरास्त्रमेवं नियमितमनसा संयजे सर्वसिद्ध्यै ॥ ४१॥जप्त्वायुतं (तव मनूत्तम)मिष्ट(मङ्ग)युक्तं हुत्वा सहस्र(मपकृत्य)मपाकरोति ।सन्ध्यासु चाष्टसहितं शतमत्र जप्त्वा ध्यायन् कुबेरसदृशं श्रियमेति मर्त्यः ॥ ४२॥आधारनाभिहृदये च गले च तालु- भ्रूमध्यमूर्ध्न्यखिलशक्तिपदेषु देवम् ।तेजोमयं सरति यः क्रमशश्च मोक्षं यो व्युत्क्रमेण स नरः पुनरेति भोगम् ॥ ४३॥यद्वैभवं तव महास्त्रमहानुभावं स्तोतुं न मन्त्रपतयस्तदशेषमीशाः ।का शक्तिरत्र वद तादृशमीदृशानां कश्चैकदेशगणको गणकीर्तिमेति ॥ ४४॥एतामघोरास्त्रपदानुविद्धां यः स्त्रोत्रमालां पठति त्रिसन्ध्यम् ।विजित्य(निर्जित्य)शत्रून् विगतामयोऽसौ प्राप्नोत्यशेषानपि वाञ्छितार्थान् ॥ ४५॥॥ इति श्रीअघोरस्तवः सम्पूर्णः ॥

अघोरस्तवः | aghorastavaH  | SHIV MANTRA FOR LIFE Read More »

OMkAreshvaramAhAtmyam

अघोरकवचम् अथवा अघोरमूर्तिकवचम् | aghoramUrtikavacham

ॐ श्रीगणेशाय नमः । अथ अघोरकवचं लिख्यते । श्री अघोरभैरवाय नमः । भैरवी उवाच – भगवन्करुणाम्भोधे शास्त्राम्भोनिधिपारग । पुराऽस्माकं वरो दत्तः तं दातुं मे क्षमो भव ॥ १॥ भैरव उवाच – सत्यं पुरा वरो दत्तो वरं वरय पार्वति । यत्किञ्चिन्मनसीष्टं स्यात्तद्दातुं ते क्षमोऽस्म्यहम् ॥ २॥ देवी उवाच – अघोरस्य महादेव कवचं देवदुर्लभम् । शीघ्रं मे दयया ब्रूहि यद्यहं प्रेयसी तव ॥ ३॥ भैरव उवाच – अघोरकवचं वक्ष्ये महामन्त्रमयं परम् । रहस्यं परमं तत्त्वं न चाख्येयं दुरात्मने ॥ ४॥ अस्य श्री अघोरकवचस्य महाकालभैरव ऋषिः अनुष्टुप् छन्दः श्रीकालाग्निरुद्रो देवता । क्ष्मीं बीजं क्ष्मां शक्तिः क्ष्मः कीलकं श्री अघोर विद्यासिद्ध्यर्थं कवचपाठे विनियोगः ॥ अथ मन्त्रः अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः सर्वसर्वेभ्यो नमस्तेभ्यो रुद्ररूपेभ्यः ॥ ॐ अघोरो मे शिवः पातु श्री मेऽघोरो ललाटकम् । ह्रीं घोरो मेऽवतां नेत्रे क्लीं घोरो मेऽवताच्छती ॥ ५॥ सौःतरेभ्योऽवताङ्गडौक्षी नासां पातु सर्वतः क्षं । मुखं पातु मे शर्वोऽघोरः सर्वोऽवताङ्गलम् ॥ ६॥ घोरश्च मेऽवतात्स्कन्धौ हस्तौ ज्वलन्नमोऽवतु । ज्वलनः पातु मे वक्षः कुक्षिं प्रज्वलरुद्रकः ॥ ७॥ पार्श्वौ प्रज्वलरूपेभ्यो नाभिं मेऽघोररूपभृत् । शिश्नं मे शूलपाणिश्च गुह्यं रुद्रः सदावतु ॥ ८॥ कटिं मेऽमृतमूर्तिश्च मेढ्रेऽव्यान्नीलकण्ठकः । ऊरू चन्द्रजटः पातु पातु मे त्रिपुरान्तकः ॥ ६॥ जङ्घे त्रिलोचनः पातु गुल्फौ याज्ञियरूपवान् । अघोरोऽङ्घ्री च मे पातु पादौ मेऽघोरभैरवः ॥ १०॥ पादादिमूर्धपर्यन्तमघोरात्मा शिवोऽवतु । शिरसः पादपर्यन्तं पायान्मेऽघोरभैरवः ॥ ११॥ प्रभाते भैरवः पातु मध्याहे वटुकोऽवतु । सन्ध्यायां च महाकालो निशायां कालभैरवः ॥ १२॥ अर्द्धरात्रे स्वयं घोरो निशान्तेऽमृतरूपधृत् । पूर्वे मां पातु ऋग्वेदो यजुर्वेदस्तु दक्षिणे ॥ १३॥ पश्चिमे सामवेदोऽव्यादुत्तरेऽथर्ववेदकः । आग्नेय्यामग्निरव्यान्मां नैरृत्यां नित्यचेतनः ॥ १४॥ वायव्यां रौद्ररूपोऽव्यादैशान्यां कालशासनः । ऊर्ध्वोऽव्यादूर्ध्वरेताश्च पाताले परमेश्वरः ॥ १५॥ दशदिक्षु सदा पायाद्देवः कालाग्निरुद्रकः । अग्नेर्मां पातु कालाग्निर्वायोर्मां वायुभक्षकः ॥ १६॥ जलादौर्वामुखः पातु पथि मां शङ्करोऽवतु । निषण्णं योगध्येयोऽव्याद्गच्छन्तं वायुरूपभृत् ॥ १७॥ गृहे शर्वः सदा पातु बहिः पायाद्वृषध्वजः । सर्वत्र सर्वदा पातु मामघोरोऽथ घोरकः ॥ १८॥ रणे राजकुले दुर्गे दुर्भिक्षे शत्रुसंसदि । द्यूते मारीभये राष्ट्रे प्रलये वादिना कुले ॥ १६॥ अघोरेभ्योऽथ घोरेभ्योऽवतान्मां घोरभैरवः । घोरघोरतरेभ्यो मां पायान्मन्मथसङ्गरे ॥ २०॥ सर्वतः सर्वसर्वेभ्यो भोजनावसरेऽवतु । नमस्ते रुद्ररूपेभ्योऽवतु मां घोरभैरवः ॥ २१॥ सर्वत्र सर्वदाकालं सर्वाङ्गं सर्वभीतिषु । हं यं रं लं वं शं षं सं हं लं क्षः अघोरकः ॥ २२॥ अघोरास्त्राय फट् पातु अघोरो मां सभैरवः । विस्मारितं च यत्स्थानं स्थलं यन्नामवर्जितम् ॥ २३॥ तत्सर्वं मामघोरोऽव्यान्मामथाघोरः सभैरवः । भार्यान्पुत्रान्सुहृद्वर्गान्कन्यां यद्वस्तु मामकम् ॥ २४॥ तत्सर्वं पातु मे नित्यं अघोरो माथ घोरकः । स्नाने स्तवे जपे पाठे होमेऽव्यात्क्षः अघोरकः ॥ २५॥ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः सर्वसर्वेभ्यो नमस्तेभ्यो रुद्ररूपेभ्यः ॥ २६॥ ॐ श्रीं ह्रीं क्लीं सौः क्ष्मं पातु नित्यं मां श्री अघोरकः । इतीदं कवचं गुह्यं त्रिषु लोकेषु दुर्लभम् ॥ २७॥ मूलमन्त्रमयं दिव्यं त्रैलोक्ये सारमुत्तमम् । अदातव्यमवाच्यं च कवचं गुह्यमीश्वरि ॥ २८॥ अप्रष्टव्यमस्तोतव्यं दीक्षाहीनेन मन्त्रिणा । अदीक्षिताय शिष्याय पुत्राय शरजन्मने ॥ २६॥ न दातव्यं न श्रोतव्यमित्याज्ञां मामकां श‍ृणु । परं श्रीमहिमानं च श‍ृणु चास्य सुवर्मणः ॥ ३०॥ अदीक्षितो यदा मन्त्री विद्यागृध्नुः पठेदिदम् । सदीक्षित इति ज्ञेयो मान्त्रिकः साधकोत्तमः ॥ ३१॥ यः पठेन्मनसा तस्य रात्रौ ब्राह्मे मुहूर्त्तके । पूजाकाले निशीथे च तस्य हस्तेऽष्टसिद्धयः ॥ ३२॥ दुःस्वप्ने बन्धने धीरे कान्तारे सागरे भये । पठेत् कवचराजेन्द्रं मन्त्री विद्यानिधिं प्रिये ॥ ३३॥ सर्वं तत्प्रशमं याति भयं कवचपाठनात् । रजः-सत्त्व-तमोरूपमघोरकवचं पठेत् ॥ ३४॥ वाञ्छितं मनसा यद्यत्तत्तत्प्राप्नोति साधकः । कुङ्कुमेन लिखित्वा च भूर्जत्वचि रवौ शिवे ॥ ३५॥ केवलेन सुभक्ष्ये च धारयेन्मूर्ध्नि वा भुजे । यद्यदिष्टं भवेत् तत्तत्साधको लभतेऽचिरात् ॥ ३६॥ यद्गृहे अघोरकवचं वर्तते तस्य मन्दिरे । विद्या कीर्तिर्धनारोग्यलक्ष्मीवृद्धिर्न संशयः ॥ ३७॥ जपेच्चाघोरविद्यां यो विनानेनैव वर्मणा । तस्य विद्या जपं हीनं तस्माद्धर्मं सदा पठेत् ॥ ३८॥ अघोरमन्त्रविद्यापि जपन् स्तोत्रं तथा मनुम् । सद्यः सिद्धिं समायाति अघोरस्य प्रसादतः ॥ ३९॥ इति श्रीदेवदेवेशि अघोरकवचं स्मरेत् । गोप्यं कवचराजेन्द्रं गोपनीयं स्वयोनिवत् ॥ ४०॥ ॥ इति श्रीरुद्रयामले तन्त्रेविश्वसारोद्धारे तन्त्रेऽघोरसहस्रनामाख्ये कल्पे अघोरकवचं समाप्तम् ॥

अघोरकवचम् अथवा अघोरमूर्तिकवचम् | aghoramUrtikavacham Read More »

OMkAreshvaramAhAtmyam

ॐकारेश्वरमाहात्म्यम् (शिवरहस्यान्तर्गता)| OMkAreshvaramAhAtmyam

OMkAreshvaramAhAtmyam: ॐकारेश्वरमाहात्म्यम् (शिवरहस्यान्तर्गता)| पार्वती -महादेवमहानन्दकरुणामृतसागर ।श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥ २॥किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर ।क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि ॥ ३॥ईश्वरः -क्षेत्रमस्त्येकमुत्कृष्टमुत्फुल्लकमलानने ।ओङ्कारं नाम विमलं कलिकल्मषनाशनम् ॥ ४॥तत्र शैववरा नित्यं निवसन्ति सहस्रशः ।ते सर्वे मम लिङ्गार्चां कुर्वन्त्येव प्रतिक्षणम् ॥ ५॥भासिताभासितैर्नित्यं शान्ता दान्ता जितेन्द्रियाः ।रुद्राक्षवरभूषाढ्या भालाक्षान्यस्तमानसाः ॥ ६॥तत्रास्ति सरितां श्रेष्ठा लिङ्गसङ्गतरङ्गिता ।नर्मदा शर्मदा नित्यं स्नानात्पानावगाहनात् ॥ ७॥पापौघसङ्घभङ्गाढ्या वातपोतसुशीतला ।तत्रास्ति कुण्डमुत्कृष्टमोङ्काराख्यं शुचिस्मिते ॥ ८॥तत्कुण्डदर्शनादेव मल्लोके निवसेच्चिरम् ।तत्कुण्डोदकपानेन हृदि लिङ्गं प्रजायते ॥ ९॥भावाः पिबन्ति तत्कुण्डजलं शीतं विमुक्तये ।तृप्तिं प्रयान्ति पितरः तत्कुण्डजलतर्पिताः ॥ १०॥सदा तत्कुण्डरक्षार्थं गणाः संस्थापिता मया ।कुण्डधारप्रभृतयः शूलमुद्गरपाणयः ॥ ११॥गजेन्द्रचर्मवसना मृगेन्द्रसमविक्रमाः ।हरीन्द्रानपि ते हन्युर्गिरीन्द्रसमविग्रहाह ॥ १२॥धनुःशरकराः सर्वे जटाशोभितमस्तकाः ।अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्रहा ॥ १३॥सङ्ग्राममुखराः सर्वे गणा मेदुरविग्रहाः ।कदाचिदननुज्ञाप्त तान् गणान् मददर्पितः ॥ १४॥अप्सरोभिः परिवृतो मरुतां पतिरुद्धतः ।आरुह्याभ्रमुनाथं तं क्रीडितुं नर्मदाजले ॥ १५॥समाजगाम त्वरितः शच्या साकं शिवे तदा ।तदा तं गणपाः क्रुद्धाः सर्वे ते ह्यतिमन्यवः ॥ १६॥सगजं पातयन्नब्धौ शच्या साकं सुरेश्वरम् ।सुरांस्तदा सवरुणान् बिभिदुः पवनानलान् ॥ १७॥निस्त्रिंशवरधाराभिः सुतीक्ष्णाग्रैः शिलीमुखैः ।मुद्गरैर्बिभिदुश्चान्ये सवाहायुधभूषणान् ॥ १८॥विवाहनांस्तदा देवान् स्रवद्रक्तान् स्खलत्पदान् ।कान्दिशीकान् मुक्तकेशान् क्षणाच्चक्रुर्गणेश्वराः ॥ १९॥अप्सरास्ता विकन्नराः रुदन्त्यो मुक्तमूर्धजाः ।हाहा बतेति क्रन्दन्त्यः स्रवद्रक्तार्द्रवाससः ॥ २०॥तथा देवगणाः सर्वे शक्राद्या भयकम्पिताः ।ओङ्कारं तत्र तल्लिङ्गं शरणं जग्मुरीश्वरम् ॥ २१॥॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवादे ओङ्कारेश्वरमहात्म्यम् ॥- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ७। २-२१॥

ॐकारेश्वरमाहात्म्यम् (शिवरहस्यान्तर्गता)| OMkAreshvaramAhAtmyam Read More »