Annapurnakavacham: अन्नपूर्णाकवचम्
Annapurnakavacham: अन्नपूर्णाकवचम् द्वात्रिंशद्वर्णमन्त्रोऽयं शङ्करप्रतिभाषितः ।अन्नपूर्णा महाविद्या सर्वमन्त्रोत्तमोत्तमा ॥ १॥ पूर्वमुत्तरमुच्चार्य सम्पुटीकरणमुत्तमम् ।स्तोत्रमन्त्रस्य ऋषिर्ब्रह्मा छन्दो त्रिष्टुबुदाहृतः ॥ २॥ देवता अन्नपूर्णा च ह्रीं बीजमम्बिका स्मृता ।स्वाहा शक्तिरिति ज्ञेयं भगवति कीलकं मतम् ॥ ३॥ धर्माऽर्थ-काम-मोक्षेषु विनियोग उदाहृतः ।ॐ ह्रीं भगवति माहेश्वरि अन्नपूर्णायै स्वाहा ।सप्तार्णवमनुष्याणां जपमन्त्रः समाहितः ॥ ४॥ अन्नपूर्णे इमं मन्त्रं मनुसप्तदशाक्षरम् ।सर्व सम्पत्प्रदो नित्यं सर्वविश्वकरी तथा ॥


KARMASU